।। श्रीः ।।
महाकविश्रीकालिदासविरचितं
रघुवंशम्
मल्लिनाथकृतसंजीविनीसमेतम् ।
प्रथमः सर्गः।
मातापितृभ्यां जगतो नमो वामार्धजानये ।
सद्यो दक्षिणदृक्पातसंकुचद्वामदृष्टये ।।
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ।।
शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् ।
करुणामसृणैः कटाक्षपातैः कुरु मामम्ब! कृतार्थसार्थवाहम् ।।
वाणीं काणभुजीमजीगणदवाशासीञ्च वैयासिकी-
मन्तस्तन्त्रमरंस्त पन्नगगवीगुम्फेषु चाजागरीत् ।
वाचामाकलयद्रहस्यमखिलं यश्चाक्षिपादस्फुरां
लोकेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः ।।
मल्लिनाथकविः सोऽयं मन्दात्मानुजिघृक्षया ।
व्याचष्टे कालिदासीयं काव्यत्रयमनाकुलम् ।।
कालिदासगिरां सारं कालिदासः सरस्वती ।
चतुर्मुखोऽथवा साक्षाद्विदुर्नान्ये तु मादृशाः ।।
तथापि दक्षिणावर्त-नाथाद्यैः क्षुण्णवर्त्मसु ।
वयं च कालिदासोक्तिष्ववकाशं लभेमहि ।।
भारती कालिदासस्य दुर्व्याख्याविषमूर्च्छिता ।
एषा संजीविनी टीका तामद्योज्जीवयिष्यति ।।
इहान्वयमुखेनैव सर्वं व्याख्यायते मया ।
नामूलं लिखअयते किंचिन्नानपेक्षितमुच्यते ।।
इह खलु सकलकविशिरोमणिः कालिदासः-
`काव्यं यशसेऽर्थकृते व्यवहारविशिवेतरक्षतये ।
सद्यः परनिर्वृत्तये कान्तासंमिततयोपदेशयुजे ।।'(का.प्र. 2 इत्याद्यालंकारिकवचनप्रामाण्यात् काव्यस्यानेकश्रेयःसाधनतां `काव्यालापांश्च वर्जये इत्यस्य निषेधशास्त्रस्यासत्काव्यविषयतां च पश्यन् रघुवंशाख्यं महाकाव्यं चिकीर्षुश्चिकीर्षितार्थाविघ्नपरिसमाप्तिसंप्रदायाविच्छेदलक्षणफलसाधनभूतविशिष्टदेवतानमस्कारस्य शिष्टाचारपरिप्राप्तत्वात् `आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्'(काव्या.) इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षमत्वात्काव्यनिर्माणस्य विशिष्टशब्दार्थप्रतिपत्तिमूलकत्वेन विशिष्टशब्दार्थयोश्च `शब्दजातमशेषं तु धत्ते शर्वस्य वल्लभा। अर्थरूपं यदखिलं धत्ते मुग्धेन्दुशेखरः।।’ इति वायुपुराणसंहितावचनबलेन पार्वतीपरमेश्वरायत्तत्वदर्शनात्तत्प्रतिपित्सया तावेवभिवादयते-
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।। 1.1 ।।
वागर्थाविति।। `वागर्थाविव’ इत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यम्,एवमन्यत्रापि द्रष्टव्यम्। वागर्थाविव शब्दार्थाविव,संपृक्तौ । नित्यसंबद्धावित्यर्थथः। नित्यसंबद्धयोरुपमानत्वेनोपादानात `नित्यः शब्दार्थसंबन्धः’ इति मीमांसकाः। जगतो लोकस्य पितरौ। माता च पिता च पितरौ,`पिता मात्रा'(पा.1।2।70) इति द्वन्द्वैकशेषः। `मातापितरौ पितरौ मातरपितरौ प्रसू जनयितारौ’ इत्यमरः। एतेन शर्वशिवयोः सर्वजगज्जनकतया वैशिष्ट्यमिष्टार्छप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते। पर्वतस्यापत्यं स्त्री पार्वती। `तस्यापत्यम्'(पा.4।1।92) इच्यण्,`टिङ्ढाणञ्-‘(पा.4।1।15)इत्यादिना ङीप्। पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरौ। `परम’ शब्दः सर्वोत्तमत्वद्योतनार्थः। मातुरभ्यर्हितत्वादल्पाक्षरत्वाञ्च `पार्वती’शब्दस्य पूर्वनिपातः। वागर्थप्रतिपत्तये शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये। अत्रोपमालंकारः स्फुट एव। तथोक्तम्- `स्वतः सिद्धेन भिन्नेन संपन्नेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा ।।’ इति। प्रायिकश्चोपमालंकारः कालिदासोक्तकाव्यादौ भूदेवताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते। तदुक्तम्-`शुभदो मो भूमिमयः’ इति। वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिः ।। 1.1 ।।
संप्रति कविः स्वाहंकारं परिहरति `क्व सूर्य-‘ इत्यादि श्लोकद्वयेन-
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ।। 1.2 ।।
क्व सूर्येति।। प्रभवत्यस्मादिति प्रभवः कारणम्। `ॠदोरप्’ (पा.3।3।57)। `अकर्तरि च कारके संज्ञायाम्’ (पा.3।3।19) इति साधुः। सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः क्व? अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क्व? द्वौ `क्व’शब्दौ महदन्तरं सूचयतः। सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः। तथा च तद्विषयप्रबन्धनिरूपणं तु दूरापास्तमिति भावः। तथा हि-दुस्तरं तरितुमशक्यम्। `ईषद्दुःसुषु-‘ (पा.3।3।126) इत्यादिना खल्प्रत्ययः। सागरं मोहादज्ञानात् उडुपेन प्लवेन। `उडुपं तु प्लवः कोलः’ इत्यमरः। अथवा,-चर्मावनद्धेन पानपात्रेण। `चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्’ इति सज्जनः। तितीर्षुस्तरितुमिच्छुः। अस्मि भवामि। तरतेः सन्नन्तादुप्रत्ययः। अल्पसाधनैरधिकारम्भोन सुकर इति भावः। इदं च वंशोत्कर्षकथं स्वप्रबन्धमहत्त्वार्थमेव। तदुक्तम्-`प्रतिपाद्यमहिम्ना च प्रबन्धो हि महत्तरः’ इति ।। 1.2 ।।
मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ।। 1.3 ।।
मन्द इति।। किं च मन्दो मूढः। `मूढाल्पापटुनिर्भाग्या मन्दाः स्युः’ इत्यमरः। तथापि कवियशःप्रार्थी। कवीनां यशः काव्यनिर्माणेन जातं तत्प्रार्थनाशीलोऽहं प्रांशुनोन्नतपुरुषेण लभ्ये प्राप्ये फले फलविषये लोभादुद्बाहुः फलग्रहणायोच्छ्रितहस्तो वामनः ह्रस्व इव। `खर्वो ह्रस्वश्च वामनः’ इत्यमरः। उपहास्यता-मुपहासविषयताम्। `ऋहलोर्ण्यत्’ (पा.3।1।124) इति ण्यत्प्रत्ययः। गमिष्यामि प्राप्स्यामि ।। 1.3 ।।
अथ मन्दश्चेत्तर्हि त्यज्यतामयमुद्योग इत्यत आह-
अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ।। 1.4 ।।
अथ वेति।। अथ वा पक्षान्तरे। पूर्वैः सूरिभिः कविभिर्वाल्मीक्यादिभिः कृतवाग्द्वारे कृतं रामायणादिप्रबन्धरूपा या वाक् सैव द्वारं प्रवेशो यस्य तस्मिन्। अस्मिन् सूर्यप्रभवे वंशे कुले। जन्मनैकलक्षणः संतानो वंशः। वज्रेण मणिवेधकसूचीविशेषण। `वज्रं त्वस्त्त्री कुलिशशस्त्त्रयोः। मणिवेधे रत्नभेदे’ इति केशवः। समुत्कीर्णे विद्धे मणौ रत्ने सूत्रस्येव मे मम गतिः संचारोऽस्ति। वर्णनीये रघुवंशे मम वाक्प्रसरोऽस्तीत्यर्थः ।। 1.4 ।।
एवं रघुवंशे लब्धप्रवेशस्तद्वर्णनं प्रतिजानानः `सोऽहम्’ इत्यादिभिः पञ्चभिः श्लोकैः कुलकेनाह-
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।
आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ।। 1.5 ।।
सोऽहमिति।। सोऽहम्। `रघूणामन्वयं वक्ष्ये’ (1।9) इत्युत्तरेण संबन्धः। किंविधानां रघूणामित्यत्रोत्तराणि विशेषणानि योज्यानि। आ जन्मनः। जन्माभ्येत्यर्थथः। `आङ् मर्यादाभिविध्योः’ (पा.2।1।13) इत्यव्ययीभावः,तस्य शुद्धानामित्यनेन सुप्सुपेति समासः। एवमुत्तरत्रापि द्रष्टव्यम्। आजन्मशुद्धानाम्। निषेकादिसर्वसंस्कारसंपन्नानामित्यर्थथः। आफलोदयम्। आफलसिद्धेः कर्म येषां ते तथोक्तास्तेषाम्। प्रारब्धान्तगामिनामित्यर्थः। आसमुद्रं क्षितेरीशानाम्। सार्वभौमाणामित्यर्थः। आनाकं रथवर्त्म येषां तेषाम्। इन्द्रसहचारिणामित्यर्थः। अत्र सर्वत्राऽऽङोऽभिविध्यर्थत्वं द्रष्टव्यम्। अन्यथा मर्यादार्थत्वे जन्मादिषु शुध्द्यभावप्रसङ्गात् ।। 1.5 ।।
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।
यथापराधदण्डानां यथाकालप्रबोधिनाम् ।। 1.6 ।।
यथाविधीति।। विधिमनतिक्रम्य यथाविधि। `यथासादृश्ये'(पा.2।1।7) इत्यव्ययीभावः। तथा `हुत’शब्देन सुप्सुपेति समासः। एवं `यथाकामार्जित-‘ इत्यादीनामपि द्रष्टव्यम्। यथाविधि हुता अग्नयो यैस्तेषाम्। यथाकाममभिलाषमनतिक्रम्यार्चितार्थिनाम्। यथापराधमपराधमनतिक्रम्य दण्ढो येषां तेषाम्। यथाकालं कालमनतिक्रम्य प्रबोधिनां प्रबोधनशीनलानाम्। चतुर्भिर्विशेषणैर्देवतायजनातिथिसत्कारदण्डधरत्वप्रजापालनसमयजागरूकत्वादीनि विवक्षितानि ।। 1.6 ।।
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ।। 1.7 ।।
त्यागायेति।। त्यागाय सत्पात्रे विनियोगस्त्यागः,तस्मै। `त्यागो विहापितं दानम्’ इत्यमरः। संभृतार्थानां संचितधनानाम् । न तु दुर्व्यापाराय। सत्यायमितभाषिणां मितभाषणशीलानाम्, न तु पराभवाय। यशसे कीर्तये। `यशः कीर्तिः समज्ञा च’ इत्यामरः। विजिगीषूणां विजेतुमिच्छूनाम्। न त्वर्थसंग्रहाय। प्रजायै संतानाय गृहमेधिनां दारपरिग्रहाणाम्, न तु कामोपभोगाय। अत्र `त्यागाय’ इत्यादिषु `चतुर्थी तदर्थ-‘ (पा.2।1।36) इत्यादिना तादर्थ्ये चतुर्थी। गृहैर्दारैर्मेधन्ते संगच्छन्त इति गृहमेधिनः। `दारेष्वपि गृहाः’ इत्यमरः। `जाया च गृहिणी गृहम्’ इति हलायुधः। `मेधृ संगमे’ इति धातोर्णिनिः। एभिर्विशेषणैः परोपकारित्वं सत्यवचनत्वं यसः परत्वं पितॄणां शुद्धत्वं च विवक्षितानि ।। 1.7 ।।
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ।। 1.8 ।।
शैशव इति।। शिशोर्भावः शैशवं बाल्यम्। `प्राणभृज्जातिवयोवचनोद्गात्र-‘ (पा.5।1।129) इत्यञ्प्रत्ययः। `शिशुत्वं शैशवं बाल्यम्’ इत्यमरः। तस्मिन्वयसि,अभ्यस्तविद्यानाम्। एतेन ब्रह्मचर्याश्रमो विवक्षितः। यूनो भावो यौवनं तारुण्यम्। युवादित्वादण्प्रत्ययः । `तारुण्यं यौवनं समे’इत्यमरः। तंस्मिन्वयसि विषयैषिणां भोगाभिलाषिणाम्। एतेन गृहस्थाश्रमो विवक्षितः। वृद्धस्य भावो वार्धकं वृद्धत्वम्। `द्वन्द्वमनोज्ञादिभ्यश्च’ (पा.5।1।133) इति वुञ्प्रत्ययः। वृद्धस्य भावो वार्धकं वृद्धत्वम्। `वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि’ इति विश्वः। संघातार्थेऽत्र `वृद्धाञ्च’ इति वक्तव्यात्सामूहिको वुञ्। तस्मिन् वार्धके वयसि मुनिनां वृत्तिरिव वृत्तिर्येषां तेषाम्। एतेन वानप्रस्थाश्रमो विवक्षितः। अन्ते शरीरत्यागकाले योगेन परमात्मध्यानेन। `योगः संनहनोपायध्यानसंगतियुक्तिषु’ इत्यमरः। तनुं देहं त्यजन्तीति तनुत्यजः, `कायो देहः क्लीबपुंसोः स्त्त्रियां मूर्तिस्तनुस्तनूः’ इत्यमरः। तनुत्यजां देहत्यागिनाम्। `अन्येभ्योऽपि दृश्यते’ (पा.3।2।178) इति क्विप्। एतेन मोक्षभावो विवक्षितः ।। 1.8 ।।
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ।। 1.9 ।।
रघूणामिति।। सोऽहं लब्धप्रवेशः। तनुवाग्विभवोऽपि स्वल्पवाणीप्रसारोऽपि सन्। तेषां रघूणां गुणैस्तद्गुणैः। आजन्मशुद्ध्यादिभिः कर्तृभिः कर्णं मम श्रोत्रमागत्य चापलाय चापलं चपलकर्माविमृश्यकरणरूपं कर्तुम्। युवादित्वात्कर्मण्यण । `क्रियार्थोपपदस्य-‘ (पा. 2।3।14) इत्यादिना चतुर्थीं। प्रचोदितः प्रेरितः सन्। रघूणामन्वयं तद्विषयप्रबन्धं वक्ष्ये। कुलकम् ।। 1.9 ।।
संप्रति स्वप्रबन्धपरीक्षार्थं सतः प्रार्थयते-
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ।। 1.10 ।।
तमिति।। तं रघुवंशाख्यं प्रबन्धं सदसतोर्गुणदोषयोर्व्यव्यक्तेर्हेतवः कर्तारः सन्तः श्रोतुमर्हन्ति। तथा हि-हेम्नो विशुद्धिर्निर्दोषस्वरूपं श्यामिकापि लोहान्तरसंगर्गात्मको दोषोऽपि वाऽग्नौ संलक्ष्यते,नान्यत्र। तद्वदत्रापि सन्त एव गुणदोषविवेकाधिकारिणः,नान्य इति भावः ।। 1.10 ।।
वर्ण्यं वस्तूपक्षिपति-
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ।। 1.11 ।।
वैवस्वत इति।। मनस ईषिणो मनीषिणो धीराः,विद्वांस इति त्यावत्। पृषोदरादित्वात्साधुः। तेषां माननीयः पूज्यः। छन्दसां वेदानाम्। `छन्दः पद्मे च वेदे च’इति विश्वः। प्रणव ओंकार इव। महीं क्षियन्तीशत इति महीक्षितः क्षितीश्वराः। क्षिधातोरैश्वर्यार्थात्क्विप्,तुगागमश्च। तेषाम्,आद्य आदिभूतः। विवस्वतः सूर्यस्यापत्यं पुमान् वैवस्वतो नाम वैवस्वत इति प्रसिद्धो मनुरासीत् ।। 1.11 ।।
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ।। 1.12 ।।
तदन्वय इति।। शुद्धिरस्यास्तीति शुद्धिमान्। तस्मिन् शुद्धिरस्यास्तीति शुद्धिमान्। तस्मिन् शुद्धिमति तदन्वये तस्य मनोरन्वये कुले । `अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनं कुलम्’ इति हलायुधः। अतिशयेन शुद्धिमान् शुद्धिमत्तरः। `द्विवचनविभज्योप-‘(पा.5।3।57) इत्यादिना तरप्प्रत्ययः। दिलीप इति प्रसिद्धो राजा इन्दुरिव राजेन्दू राजश्रेष्ठः। उपमितं व्याघ्रादिना समासः। क्षीरनिधाविन्दुरिव प्रसूतो जातः।। 1.12 ।।
`व्यूढ-‘ इत्यादित्रिभिः श्लोकैर्दिलीपं विशिनष्टि-
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ।। 1.13 ।।
व्यूढेति।। व्यूढं विपुलमुरो यस्य स व्यूढोरस्कः। `उरःप्रभृतिभ्यः कप्‌’ (पा.5।4।151)। `व्यूढं विपुलं भद्रं स्फारं समं वरिष्ठं च’ इचि यादवः। वृषस्य स्कन्ध इव स्कन्धो यस्य स तथा। `सप्तम्युपमान-‘इत्यादिनोत्तरपदलोपी बहुव्रीहिः। शालो वृक्ष इव प्रांशुरुन्नतः शालप्रांशुः। `प्राकारवृक्षयोः शालः शालः सर्जतरुः स्मृतः।’ इति यादवः। `उञ्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे’ इत्यमरः। महाभुजो महाबाहुः। आत्मकर्मक्षमं स्वव्यापारानुरूपं देहमाश्रितः प्राप्तः,क्षात्रः क्षत्रसंबन्धी धर्म इव स्थितः,मूर्तिमान् पराक्रम इव स्थित इत्युत्प्रेक्षा ।। 1.13 ।।
सर्वातिरिक्तसारेण सर्वतेजोभिभाविना ।
स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ।। 1.14 ।।
सर्वातिरिक्तेति।। सर्वातिरिक्तसरेण सर्वेभ्यो भूतेभ्योऽधिकबलेन। `सारोबले स्थिरांशे च’ इत्यमरः। सर्वाणि भूगतानि तेजसाऽभिभवतीति सर्वतेजोभिभावी तेन। सर्वेभ्य उन्नतेनात्मना शरीरेण। `आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि’ इति विश्वः। मेरुरिव। उर्वीं क्रान्त्वाऽऽक्रम्य स्थितः। मेरावपि विशेषणानि तुल्यानि। `अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः। तस्मादभिभवत्येष सर्वभूतानि तेजसा ।।’ (मनु.7।5)इति मनुवचनाद्राज्ञः सर्वतेजोभिभावित्वं ज्ञेयम् ।। 1.14 ।।
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ आरम्भसदृशोदयः ।। 1.15 ।।
आकारेति।। आकारेण मूर्त्या सदृशी प्रज्ञा यस्य सः। प्रज्ञया सदृशागमः प्रज्ञानुरूपशास्त्त्रपरिश्रमः। आगमैः सदृश आरम्भः कर्म यस्य स तथोक्तः। आरभ्यत इत्यारम्भः कर्म। तत्सदृश उदयः फलसिद्धिर्यस्य स तथोक्तः ।। 1.15 ।।
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्य यादोरत्नैरिवार्णवः ।। 1.16 ।।
भीमेति।। भीमैश्च कान्तैश्च नृपगुणै राजगुणैस्तेजः प्रतापादिभिः कुलशीलदाक्षिण्यादिभिश्च स दिलीप उपजीविनामाश्रितानाम्। यादोभिर्जलजीवैः। `यादांसि जलजन्तवः’ इत्यमरः। रत्नैश्चार्णव इव। अधृष्योऽनभिभवनीयश्चाभिगम्य आश्रयणीयश्च बभूव ।। 1.16 ।।
रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम् ।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ।। 1.17 ।।
रेखामात्रमिति।। नियन्तुः शिक्षकस्य सारथेश्च तस्य दिलीपस्य संबन्धिन्यो नेमीनां चक्रधाराणां वृत्तिरिव वृत्तिर्व्यापारो यासां ताः। `चक्रधारा प्रधिर्नेमिः’ इति यादवः। `चक्रं रथाङअगं तस्यान्ते नेमिः स्त्त्री स्यात्प्रधिः पुमान्’ इत्यमरः। प्रजाः। आ मनोः,मनुमारभ्येत्यभिविधिः। पदद्वयं चैतत्। समासस्य विभाषितत्वात्। क्षुण्णादभ्यस्तात् प्रहताञ्च वर्त्मन आचारपद्धतेरध्वनश्च परमधिकम्। इतस्तत इत्यर्थः। रेखा प्रमाणमस्येति रेखामात्रं रेखाप्रमाणम्। ईषदपीत्यर्थः। `प्रमाणे द्वयसच्-‘(पा.5।2।37) इत्यादिना मात्रच्प्रत्ययः। परशब्दविशेषणं चैतत्। न व्यतीयुर्नातिक्रान्तवत्यः। कुशलसारथिप्रेरिता रथनेमय इव तस्य प्रजाः पूर्वक्षुण्णमार्गं न जहुरिति भावः।। 1.18 ।।
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ।। 1.18 ।।
प्रजानामिति।। स राजा प्रजानां भूत्या अर्थाय भूत्यर्थं वृध्द्यर्थमेव। अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या। ग्रहणक्रियाविशेषणं चैतत्। ताभ्यः प्रजाभ्यो बलिं षष्ठांशरूपं करमग्रहीत्। `भागधेयः करो बलिः’ इत्यमरः। तथा हि-रविः सहस्रं गुणा यस्मिन्कर्मणि तद्यथा तथा सहस्रगुणं सहस्रधा। उत्स्रष्टुं दातुम्। उत्सर्जनक्रियाविशेषणं चैतत्। रसमम्बु। आदत्ते गृह्णाति। `रसो गन्धे रसे स्वादेतिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे।।’ इति विश्वः ।। 1.18 ।।
संप्रति बुद्धिशौर्यसंपन्नस्य तस्यार्थसाधनेषु परानपेक्षत्बमाह-
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ।। 1.19 ।।
सेनेति।। तस्य राज्ञः सेना चतुरङ्गबलम्। परिच्छाद्यतेऽनेनेति परिच्छद उपकरणं बभूव। छत्रचामरादितुल्यमभूदित्यर्थः। `पुंसि संज्ञायां घः प्रायेण’ (पा.3।3।118) इति घप्रत्ययः। `छादेर्घोऽव्द्युपसर्गस्य’ (पा.6।4।96) इत्युपधाह्रस्वः। अर्थस्य प्रयोजनस्य तु साधनं द्वयमेव। शास्त्त्रेष्वकुण्ठिताऽव्याहता बुद्धिः। `व्यापृता’इत्यपि पाठः। धनुष्यातताऽऽरोपिता। मौर्वी ज्या च। `मौर्वी ज्याशिञ्जिनी गुणः’ इत्यमरः। नीतिपुरः सरमेव तस्य शौर्यमभूदित्यर्थः।। 1.19 ।।
राज्यमूलं मन्त्रसंरक्षणं तस्यासीदित्याह-
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ।। 1.20 ।।
तस्येति।। संवृतमन्त्रस्य गुप्तविचारस्य। `वेदभेदे गुप्तवादे मन्त्रः’ इत्यमरः। शोकहर्षादिसूचको भ्रुकुटीमुखरागादिराकारः। इङ्गितं चेष्टितं हृदयगतविकारो वा। `इङ्गितं हृद्गतो भावो बहिराकार आकृतिः’ इति सज्जनः। गूढे आकारेङ्गिते यस्य। स्वभावचापलाद्भ्रमपरम्परया मुखरागादिलिङ्गैर्वाऽतृतीयगामिमन्त्रस्य तस्य। प्रारभ्यन्त इति प्रारम्भाः सामाद्युपायप्रयोगाः। `प्राक्’इत्यव्ययेन पूर्वजन्मोच्यते। तत्र भवाः प्राक्तनाः। `सायंचिरं-‘(पा.4।3।23)इत्यादिना ट्युल्प्रत्ययः। संस्काराः पूर्वकर्मवासना इव फलेन कार्येण अनुमेया अनुमातुं योग्या आसन्। अत्र याज्ञवल्क्यः(आचार.13।344)-`मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथा तन्न विदुः कर्मणामा फलोदयात् ।।’ इति ।। 1.20 ।।
संप्रति सामाद्युपायान् विनैवात्मरक्षादिकं कृतवानित्याह-
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ।। 1.21 ।।
जुगोपेति।। अत्रस्तोऽभीतः सन्। `त्रस्नौ भीरुभीरुकभीलुकाः’ इत्यमरः। त्रासोपाधिमन्तरेणैव त्रिवर्गसिद्धेः प्रथमसाधनत्वादेवाऽऽत्मानं शरीरं जुगोप रक्षितवान्। अनातुरोऽरुग्ण एव धर्मं सुकृतं भेजे। अर्जितवानित्यर्थः। अगृध्नुरगर्धनशील एवार्थमाददे स्वीकृतवान्। `गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समौलोलुपलोल्लभौ।’ इत्यमरः। `त्रसिगृधिधृषिक्षिपेः क्नुः'(पा.3।2।140) इति क्नुप्रत्ययः। असक्त आसक्तिरहित एव सुखमन्वभूत् ।। 1.21 ।।
परस्परविरुद्धानामपि गुणानां तत्र साहचर्यमासीदित्याह-
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ।। 1.22 ।।
ज्ञान इति।। ज्ञाने परावृत्तान्तज्ञाने सत्यपि मौनं वाङ्नियमनम्। यथाह कामन्दकः-`नान्योपतापि वचनं मौनं व्रतचरिष्णुता’ इति। शक्तौ प्रतीकारसामर्ध्येऽपि क्षमाऽपकारसहनम्। अत्र चाणक्यः-`शक्तानां भूषणं क्षमा’ इति। त्यागे वितरणे सत्यपि श्लाघाया विकत्थनस्य विपर्ययोऽभावः। अत्राह मनुः (4।236)-`न दत्त्वा परिकीर्तयेत्’ इति। इत्थं तस्य गुणा ज्ञानादयो गुणैर्विरुद्धैर्मौनादिभिः अनुबन्धित्वात्सहचारित्वात्। सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा इवाभूवन्। विरुद्धा अपि गुणास्तस्मिन्नविरोधेनैव स्थिता इत्यर्थः ।। 1.22 ।।
द्विविधं वृद्धत्वं-ज्ञानतो वयसा च;तत्र तस्य ज्ञानेन वृद्धत्वमाह-
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ।। 1.23 ।।
अनाकृष्टस्येति।। विषयैः शब्दादिभिः। `रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी’ इत्यमरः। अनाकृष्टस्यावशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदृश्वनः पारमन्तं दृष्टवतः। दृशेः क्वनिप्। धर्मे रतिर्यस्य तस्य राज्ञो जरसा जरया विना। `विस्रसा जरा’ इत्यमरः। `षिद्भिदादिभ्योऽङ्’ (पा. 3।3।104) इत्यङ्प्रत्ययः। `जराया जरसन्यतरस्याम्’ (पा.7।2।101) इति जरसादेशः। वृद्धत्वं वार्धकमासीत्। तस्य यूनोऽपि विषयवैराग्यादिज्ञानगुणसंपत्त्या ज्ञानतो वृद्धत्वमासीदित्यर्थः। नाथस्तु-चतुर्विधं वृद्धत्वमिति कृत्वा `अनाकृष्टस्य’ इत्यादिना विशेषणत्रयेण वैराग्यज्ञानशीलवृद्धत्वान्युक्तानीत्यवोचत् ।। 1.23 ।।
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरत्त्तसां केवलं जन्महेतवः ।। 1.24 ।।
प्रजानामिति।। प्रजायन्त इति प्रजा जनाः। `उपसर्गे च संज्ञायाम्’ (पा.3।2।99)इति डप्रत्ययः। `प्रजा स्यात्संततौ जने’ इत्यमरः। तासां विनयस्य शिक्षाया आधानात् करणात्। सन्मार्गप्रवर्तनादिति यावत्। रक्षणाद्भयहेतुभ्यस्त्त्राणात्। आपन्निवारणादिति यावत्। भरणादन्नपादादिभिः पोषणादपि। अपिः समुञ्चये। स राजा पिताऽभूत्। तासां पितरस्तु जन्महेतवो जन्म मात्रकर्तारः केवलमुत्पादका एवाभूवन्। जननमात्र एव पितॄणां व्यापारः। सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन्पितृत्वव्यपदेशः। आहुश्च -`स पिता यस्तु पोषकः’ इति ।। 1.24 ।।
स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ।। 1.25 ।।
स्थित्या इति।। दण्डमर्हन्तीति दण्ड्याः। `दण्डादिभ्यो यत्’ (पा. 5।1।36) इति यप्रत्ययः। `अदण्ड्यान्दण्डयन्राजा दण्ड्यन्। अयशो महदाप्नोति नरकं चैव गच्छति।।'(मनु.8।128) इति शास्त्त्रवचनात्। तान् दण्ड्यानेव स्थित्यै लोकप्रतिष्ठायै दण्डयतः शिक्षयतः। प्रसूतये संतानायैव परिणेतुर्दारान्परिगृह्णतः। मनीषिणो विदुषः। दोषज्ञस्येति यावत्। `विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषो’ इत्यमरः। तस्य दिलीपस्यार्थकामावपि धर्म एवाऽऽस्तां जातौ। अस्तेर्लङ्। अर्थकामसाधनयोर्दण्डविवाहयोर्लोकस्थापनप्रजोत्पादनरूपधर्मार्थत्वेनानुष्ठानादर्थकामावपि धर्मशेषतामापादयन्स राजा धर्मोत्तरोऽभूदित्यर्थः। आह च गौतमः(9।10)-`न पूर्वाह्णमध्यंदिनापराह्णानफलान्कुर्यात्। यथाशक्ति धर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात् ।।’ इति ।। 1.25 ।।
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।
संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ।। 1.26 ।।
दुदोहेति।। स राजा यज्ञाय यज्ञं कर्तुं गां भुवं दुदोह। करग्रहणेन रिक्तां चकारेत्यर्थः। मघवा देवेन्द्रः सस्याय सस्यं वर्धयितुं दिवं स्वर्गं दुदोह। द्युलोकान्महीलोके वृष्टिमुत्पादयामासेत्यर्थः। `क्रियार्थोपपदस्य-‘ (पा. 2।3।14) इत्यादेना यज्ञसस्याभ्यां चतुर्थीं। एवमुभौ संपदो विनिमयेन परस्परमादानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुषतुः। राजा यज्ञैरिन्द्रलोकमिन्द्रश्चोदकेन भूलोकं पुपोषेत्यर्थः। उक्तं च दण्डनीतौ-`राजा त्वर्थान्समाहृत्य कुर्यादिन्द्रमहोत्सवम्। प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहेत् ।।’ इति ।। 1.26 ।।
न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ।। 1.27 ।।
न किलेति।। राजानोऽन्ये नृपा रक्षितुर्भयेभ्यस्त्त्रातुः। तस्य राज्ञो यशो नानुययुः किल नानुचक्रुः खलु। कुतः? यद्यस्मात्कारणात् तस्करता चौर्यं परस्वेभ्यः परधनेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता। अपहार्यान्तराभावात् `तस्कर’ शब्द एवापहृत इत्यर्थः। अथवा,-`अत्यन्तासत्यपि ह्यृर्थे ज्ञानं शब्दः करोति हि’ इति न्यायेन शब्दे स्थिता स्फुरिता,न तु स्वरूपतोऽस्तीत्यर्थः ।। 1.27 ।।
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ।। 1.28 ।।
द्वेष्य इति।। शिष्टो जनो द्वेष्यः शत्रुरपि। आर्तस्य रोगिण औषधं यथौषधमिव। तस्य संमतोऽनुमत आसीत्। दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि उरगक्षता सर्पदष्टाऽङ्गुलीव। `छिन्द्याद्बाहुमपि दुष्टमात्मः’ इति न्यायात्। त्याज्य आसीत्। तस्य शिष्ट एव बन्धुर्दुष्ट एव शत्रुरित्यर्थः ।। 1.28 ।।
तस्य परोपकारित्वमाह-
तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथा हि सर्वे तस्यासन्परार्थैकफला गुणा ।। 1.29 ।।
तमिति।। वेधाः स्रष्टा। `स्रष्टा प्रजापतिर्वेधाः’ इत्यमरः। तं दिलीपम्। स्माधीयतेऽनेनेति समाधिः कारणसामग्री। महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज। नूनं ध्रुवम्। इत्युत्प्रेक्षा। तथा हि-तस्य राज्ञः सर्वे गुणा रूपरसादिमहाभूतगुणवदेव परार्थः परप्रयोजनमेवैकं मुख्यं फलं येषां ते तथोक्ता आसन्। महाभूतगुणोपमानेन कारणगुणाः कार्यं संक्रामन्तीति न्यायः सूचितः ।। 1.29 ।।
स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्वीं शशासैकपुरीमिव ।। 1.30 ।।
स इति।। स दिलीपः। वेलाः समुद्रकूलानि। `वेला कूलेऽपि वारिधेः’ इति विश्वः। ता एव वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम्। `स्याञ्चयो वप्रमस्त्त्रियाम्। प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृत्तिः ।।’ इत्यमरः। परितः खातं परिखा दुर्गवेष्टनम्। `खातं खेयं तु परिखा’ इत्यमरः । `अन्येष्वपि दृश्यते’ (पा.3।2।101)इत्यत्र `अपि’ शब्दात् खनेर्डप्रत्ययः। अपरिखाः परिखाः संपद्यमानाः कृताः परिखीकृताः सागरा यस्यास्ताम्। अभूततद्भावे च्विः। अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशाननामुर्वीमेकपुरीमिव शशास। अनायासेन शासितवानित्यर्थः।। 1.30 ।।
तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।
पत्नी सुदक्षिणेत्यादीदध्वरस्येव दक्षिणा ।। 1.31 ।।
तस्येति।। तस्य राज्ञो मगधवंशे जाता मगधवंशजा। `सप्तम्यां जनेर्डः’ (पा.3।2।97) इति डप्रत्ययः। एतेनाभिजात्यमुक्तम्। दाक्षिण्यं परच्छन्दानुवर्तनम्। `दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु’ इति शाश्वतः। तेन रूढं प्रसिद्धम्। तेन नाम्ना। अध्वरस्य यज्ञस्य दक्षिणा दक्षिणाख्या पत्नीव। सुदक्षिणेति प्रसिद्धा पत्न्यासीत्। अत्र श्रुतिः-`यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः’ इति। `दक्षिणाया दाक्षिण्यं नामर्त्विजो दक्षिणत्वप्रापकत्वम्।’ `ते दक्षन्ते दक्षिणां प्रतिगृह्य’ इति च ।। 1.31 ।।
कलत्रवन्तमात्मानमवरोधे महत्यपि ।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ।। 1.32 ।।
कलत्रवन्तमिति।। वसुधाधिपः। अवरोधेऽन्तः पुरवर्गे महति सत्यपि। मनस्विन्या दृढचित्तया। पतिचित्तानुवृत्त्यादिनिर्बन्धक्षमयेत्यर्थथः। तया सुदक्षिणया लक्ष्म्या चात्मानं कलत्रवन्तं भार्यावन्तं मेने। `कलत्रं श्रोणिभार्ययोः’ इत्यमरः। `वसुधाधिप’ इत्यनेन वसुधया चेचि गम्यते ।। 1.32 ।।
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः ।
विलम्बितफलैः कालं स निनाय मनोरथैः ।। 1.33 ।।
तस्यामिति।। स राजा। आत्मानुरूपायां तस्याम्। आत्मनो जन्म यस्यासावात्मजन्मा पुत्रः,तस्मिन् समुत्सुकः। यद्वा,-आत्मनो जन्मनि पुत्ररूपेणोत्पत्तौ समुत्सुकः सन्। `आत्मा वै पुत्रनामासि’ (आ.गृ.1।15) इति श्रुतेः। विलम्बितं फलं पुत्रप्राप्तिरूपं येषां तैर्मनोरथैः कदा मे पुत्रो भवेदित्याशाभिः कालं निनाय यापयामास ।। 1.33 ।।
संतानार्थाय विधये स्वभुजादवतारिता ।
तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ।। 1.34 ।।
संतानेति।। तेन दिलीपेन। संतानोऽर्थः प्रयोजनं यस्य तस्मै संतानार्थाय विधयेऽनुष्ठानाय। स्वभुजादवतारिताऽवरोपिता जगतो लोकस्य गुर्वी धूर्भारः सचिवेषु निचिक्षिपे निहिता ।। 1.34 ।।
अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया ।
तौ दंपती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ।। 1.35 ।।
अथएति।। अथ धुरोऽवतारानन्तरं पुत्रकाम्ययाऽऽत्मनः पुत्रोच्छया। `काम्यञ्च’ (पा.3।1।9) इति `पुत्र’ शब्दात् काम्यच्प्रत्ययः। `अ प्रत्ययात्’ (पा.3।3।102) इति पुत्रकाम्यधातोरकारप्रत्ययः। ततष्टाप्,तया। तौ दंपती जायापती। राजदन्तादिषु जायाशब्दस्य दमिति निपातनात्साधुः। प्रतयौ पूतौ विधातारं ब्रह्माणमभ्यर्च। `स खलु पुत्रार्थिभिरुपास्यते’ इति मान्त्रिकाः। गुरोः कुलगुरोः। वसिष्ठस्याश्रमं जग्मतुः। पुत्रप्राप्त्युपायापेक्षयेति शेषः।। 1.35 ।।
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ।। 1.36 ।।
स्निग्धेति।। स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम्। प्रावृषि भवः प्रावृषेण्यः। `प्रावृष एण्यः’ (पा.4।3।17) इत्येण्यप्रत्ययः। तं प्रावृषेण्यं पयोवाहं मेघं विद्युदैरावताविव। आस्थितावारूढौ। जग्मतुरिति पूर्वेण संबन्धः। इरा आपः। `इरा भूवाक्सुराप्सु स्यात्’ इत्यमरः। इरावान् समुद्रः। तत्र भव ऐरावतोऽभ्रमातङ्गः। `ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः’ इत्ममरः। `अभ्रमातङ्गत्वाञ्चाभ्रस्थत्वादभ्ररूपत्वात्’ इति क्षीरस्वामी। अत एव मेघारोहणं विद्युत्साहचर्यं च घटये। किंच विद्युत ऐरावतसाहचर्यादेवैरावतीसंज्ञा। ऐरावतस्य स्त्रयैरावतीति क्षीरस्वामी। तस्मात्सुष्ठूक्तं विद्युदैरावताविवेति। एकरथारोहणोक्त्या कार्यसिद्धिबीजं दंपत्योरत्यन्तसौमनस्यं सूचयति ।। 1.36 ।।
मा भूदाश्रमपीडेति परिमेयपुरः सरौ ।
अनुभावविशेषात्तु सेनापरिवृताविव ।। 1.37 ।।
मा भूदिति।। पुनः कथंभूतौ दंपती? आश्रमपीडा मा भून्माऽस्त्विति हेतोः। `माङि लुङ्’ (पा.3।3।175) इत्याशीरर्थे लुङ्। `न माङ्योगे’ (पा.6।4।74) इत्यडागमनिषेधः। परिमेयपुरःसरौ परिमितपरिचरौ। अनुभावविशेषात्तु तेजोविशेषात् सेनापरिवृताविव स्थोरौ ।। 1.37 ।।
सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः ।
पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ।। 1.38 ।।
सेव्यमानाविति।। पुनः कथंभूतौ? सुखः शीतलत्वात्प्रियः स्पर्शो येषां तैः। शालनिर्यासगन्धिभिः सर्जतरुनिस्यन्दगन्धवद्भिः। `शालः सर्जतरुः स्मृतः’ इति शाश्वतः। उत्किरन्ति विक्षिपन्तीत्युत्किराः। `इगुपध-‘ (पा.3।1।135) इत्यादिना किरतेः कप्रत्ययः। पुष्परेणूनामुत्किरास्तैराधूता मान्द्यादीषत्कम्पिता वनराजयो यैस्तैर्वातैः सेव्यमानौ ।। 1.38 ।।
मनोभिरामाः श्रृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ।। 1.39 ।।
मनोभिरामा इति।। रथनेमिस्वनोन्मुखैः। मेघध्वनिशङ्कयोन्नमितमुखैरित्यर्थः। शिखण्डिभिर्मयूरैर्द्विधा भिन्नाः। शुद्धविकृतभेदेनाविष्कृतावस्थायांच्युताच्युतभेदेन वा षड्जो द्विविधः। तत्सादृश्यात्केका अपि द्विधा भिन्ना इत्युच्यते। अत एवाह-षड्जसंवादिनीरिति। षड्भ्यः स्थानेभ्यो जातः षड्जः। तदुक्तम्-`नासाकण्ठमुरस्तालुजिह्वादन्तांश्च संस्पृशन् । षड्भ्यः संजायते यस्मात्तस्मात्षङ्ज्र इति स्मृतः ।।’ स च तन्त्रीकण्ठजन्मा स्वरविशेषः। `निषादर्पभागान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः।।’ इत्यमरः। षड्जेनसंवादिनीः सदृशीः। तदुक्तं मातङ्गेन-`षड्जं मयूरो वदति’ इति। मनोभिरामा मनसः प्रियाः। के मूर्ध्नि कायन्ति ध्वनन्तीति केका मयूरवाण्यः। `केका वाणी मयूरस्य’ इत्यमरः। ताः केकाः शृण्वन्तौ। इति श्लोकार्थः।। 1.39 ।।
परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु ।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ।। 1.40 ।।
परस्परेति।। विश्रम्भाददूरं समीपं यथा भवति तथोज्झितं वर्त्म यैस्तेषु । स्यन्दनाबद्धदृष्टिषु स्यन्दने रथ आबद्धाऽऽसञ्जिता दृष्टिर्नेत्रं यैस्तेषु। `दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि’ इति हलायुधः। कौतुकवशाद्रथासक्तदृष्टिष्वित्यर्थः। मृग्यश्च मृगाश्च मृगाः। `पुमान्स्त्रिया’ (पा.1।2।67) इत्येकशेषः। ते।ां द्वन्द्वेषु मिथुनेषु। `स्त्रीपुंसौ मिथुनं द्वन्द्वम्’ इत्यमरः। परस्पराक्ष्णां सादृश्यं पश्यन्तौ। `द्वन्द्व’शब्दसामर्थ्यान्मृगीषु सुदक्षिणाक्षिसादृश्यं दिलीपो दिलीपाक्षिसादृश्यं च मृगेषु सुदक्षिणेत्येवं विवेक्तव्यम् ।। 1.40 ।।
श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् ।
सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ ।। 1.41 ।।
श्रेणीति।। श्रेणीबन्धात् पङ्क्तिबन्धनाद्धेतोः अस्तम्भामाधारस्तम्भरहिताम्। तोरणं बहिर्द्वारम्। `तोरणोऽस्त्री बहिर्द्वारम्’ इत्यमरः। तत्र या स्रग्विरच्यते तां तोरणस्रजं वितन्वद्भिः। कुर्वद्भिरिवेत्यर्थः। उत्प्रेक्षाव्यञ्जकेवशब्दप्रयोगाभावेऽपि गम्योत्प्रेक्षेयम्। कलनिर्ह्लादैरव्यक्तमधुरध्वनिभिः सारसैः पक्षिविशेषैः करणैः क्वचिदुन्नमिताननौ। `सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः’ इति यादवः ।। 1.41 ।।
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः ।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ।। 1.42 ।।
पवनस्येति।। प्रार्थनासिद्धिशंसिनोऽनुकूलत्वादेव मनोरथसिद्धिसूचकस्य पवनस्यानुकूलत्वाद्गन्तव्यदिगभिमुखत्वात्। तुरगोत्कीर्णै रजोभिरस्पृष्टा अलका देव्या वेष्टनमुष्णीषं च राज्ञो ययोस्तौ तथोक्तौ। `शिरसा वेष्टनशोभिना सुतः’ (8। 12)इति वक्ष्यति।। 1.42 ।।
सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् ।
आमोदमुपजिघ्रन्तौ स्वनिःश्वासानकारिणम् ।। 1.43 ।।
सरसीष्विति।। सरसीषु वीचिविक्षोभशीतलमूर्मिसंघटनेन शीतलं स्वनिःश्वासमनुकर्तुं शीलमस्येति स्वनिःश्वासानुकारिणम्। एतेन तयोरुत्कृष्टस्त्रीपुंसजातीयत्वमुक्तम्। अरविन्दानामामोदमुपजिघ्रन्तौ घ्राणेन गृह्णन्तौो ।। 1.43 ।।
ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् ।
अमोघाः प्रतिगृह्णन्तावर्ध्यानुपदमाशिषः ।। 1.44 ।।
ग्रामेष्विति।। आत्मविसृष्टेषु स्वदत्तेषु। यूपो नाम संस्कृतः पशुबन्धाय दारुविशेषः। यूपा एव चिह्नानि येषां तेषु ग्रामेष्वमोघाः सफला यज्वनां विधिनेष्टवताम्। `यज्वा तु विधिनेष्टवान्’ इत्यमरः। `सुयजोर्ड्वनिप्’ (पा.3।2।103) इति ङ्वनिप्र्रत्ययः। आशिष आशीर्वादान्। अर्घः पूजाविधिः,तदर्थं द्रव्यमर्ध्यम्। `पादार्धाभ्यां च’ (पा.5।4।25) इति यत्प्रत्ययः। `षट् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि’ इत्यमरः। अर्ध्यस्यानुपदन्वक्। अर्ध्यस्वीकारानन्तरमित्यर्थथः। प्रतिगृह्णन्तौ स्वीकुर्वन्तौ पदस्य पश्चादनुपदम्। पश्चादर्थेऽव्ययीभावः। `अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्’ इत्यमरः ।। 1.44 ।।
हैयंगवीनमादाय घोषवृद्धानुपस्थितान् ।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ।। 1.45 ।।
हैयंगवीनमिति।। ह्यस्तनगोदोहोद्भवं घृतं हैयंगवीनम्। ह्यः पूर्वेद्युर्भवम्। `तत्तु हैयंगवीनं यद्ध्योगोदोहोद्भवं घृतम्’ इत्यमरः। `हैयंगवीनं संज्ञायाम्’ (पा.2।2।23) इति निपातः। तत्सद्योघृतम्। आदायोपस्थितान्घोषवृद्धान्। `घोष आभीरपल्ली स्यात्’ इत्यमरः। वन्यानां मार्गशाखिनां नामधेयानि पृच्छन्तौ। `दुह्याच्-‘(वा.1090,1100) इत्यादिना पृच्छतेर्द्विकर्मकत्वम्। कुलकम्।। 1.45 ।।
काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः ।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ।। 1.46 ।।
कापीति। व्रजतोर्गच्छतोः शुद्धवेषयोरुज्ज्वलनेपथ्ययोः तयोः सुदक्षिणादिलीपयोः। हिमनिर्मुक्तयोश्चित्राचन्द्रमसोरिव। योगे सति काप्यनिर्वाच्याऽभिख्या शोभाऽ।ञसीत्। `अभिख्या नामशोभयोः’ इत्यमरः। `आतश्चोपसर्गे’ (पा.3।3।106) इत्यङ्प्रत्ययः। चित्रा नक्षत्रविशेषः। शिशिरापगमे चैत्र्यां चित्रापूर्णचन्द्रमसोरिवेत्यर्थः ।। 1.46 ।।
तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः ।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ।। 1.47 ।।
तत्तदिति।। प्रियं दर्शनं स्वकर्मकं यस्यासौ प्रियदर्शनः। दर्शनीय इत्यर्थः। भूमिपतिः पत्न्यै तत्तदद्भुतं वस्तु दर्शयन्,लङ्घितमतिवाहितमप्यध्वानं न बुबुधे न ज्ञातवान्। बुधः सौम्य उपमोपमानं यस्येति विग्रहः । इदं विशेषणं तत्तद्दर्शयन्नित्युपयोगितयैतस्य ज्ञातृत्वसूचनार्थम् ।। 1.47 ।।
स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः ।
सायं संयमिनस्तस्य महर्षेर्महिषीसखः ।। 1.48 ।।
स इति।। दुष्प्रापयशा दुष्प्रापमन्यदुर्लभं यशो यस्य स तथोक्तः। श्रान्तवाहनो दूरोपगमनात्क्लान्तयुग्यः। महिष्याः सखा महिषीसखः। `राजाहःसखिभ्यष्टच’ (पा.5।4।91)इति टच्प्रत्ययः। सहायान्तरनिरपेक्ष इति भावः। स राजा सायं सायंकाले संयमिनो नियमवतस्तस्य महर्षेर्वसिष्ठस्याश्रमं प्रापत् प्राप। पुषादित्वादङ् ।। 1.48 ।।
तमाश्रमं विशिनष्टि-
वनान्तरादुपावृत्तैः समित्कुशफलाहरैः ।
पूर्यमाणमदृश्याग्रिप्रत्युद्यातैस्तपस्विभिः ।। 1.49 ।।
वनान्तरादिति।। वनान्तरादन्यस्माद्वनात् उपावृत्तैः प्रत्यागतैः। समिधश्च कुशांश्च फलानि चाहर्तुं शीलं येषामिति समित्कुशफलाहराः,तैः। `आङिताच्छील्ये'(पा.3।2।11) इति हरतेराङ्पूर्वादच्प्रत्ययः। अदृश्यैर्दर्शनायोग्यैरग्निभिर्वैतानिकैः प्रत्युद्याताः प्रत्युद्गताः। तैस्तपस्विभिः पूर्यमाणम्। `प्रोष्यागच्छतामाहिताग्नीनामग्नयः प्रत्युद्यान्ति’ इति श्रुतेः। यथाह-`कामं पितरं प्रोषितवन्तं पुत्राः प्रत्याधावन्ति,एव ह वा एवमेतग्नयः प्रत्याधावन्ति सशकलान्दारूनिवाहरन्’ इति।। 1.49 ।।
आकीर्णऋषिपत्नीनामुटजद्वाररोधिभिः ।
अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ।। 1.50 ।।
आकीर्णमिति।। नीवाराणां भाग एव भागधेयोंऽशः। `रूपनामभागेभ्यो धेयप्रत्ययो वक्तव्यः'(वा.3330) इति वक्तव्यसूत्रात्स्वाभिधेये धेयप्रत्ययः,तस्योचितैः। अत एव,घटजानां पर्णशालानां द्वाररोधिभिर्द्वाररोधकैर्मृगैः। ऋषिपत्नीनामपत्यैरिव आकीर्णं व्याप्तम् ।। 1.50 ।।
सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् ।
विश्वासाय विहंगानामालवालाम्बुपायिनाम् ।। 1.51 ।।
सेकान्ते इति।। सेकान्ते वृक्षमूलसेचनावसाने मुनिकन्याभिः सेक्त्रीभिः। आलवालेषु जलावापप्रदेशेषु यदम्बु तत्पायिनाम्। `स्यादालवालमावालमावापः’ इत्यमरः। विहंगानां पक्षिणां विश्वासाय विश्रम्भाय। `समौ विश्रम्भविश्वासौ’ इत्यमरः। तत्क्षणे सेकक्षण उज्झिता वृक्षका ह्रस्ववृक्षा यस्मिंस्तम्। ह्रस्वार्थे कप्रत्ययः ।। 1.51 ।।
आतपात्ययसंक्षिप्तनीवारासु निषादिभिः ।
मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ।। 1.52 ।।
आतपात्ययेति।। आतपस्यात्ययेऽपगमे सति संक्षिप्ता राशीकृता नीवारास्तृणधान्यानि यासु तासु। `नीवारास्तृणधान्यानि’ इत्यमरः। उटजानां पर्णशालानामङ्गनभूमिषु चत्वरस्थानेषु। `पर्णशालोटजोऽस्त्रियाम्’ इति। `अङ्गनं चत्वराजिरे’ इति चामरः। निषादिभिरुपविष्टैर्मृगैर्वर्तितो निष्पादितो रोमन्थश्चर्वितचर्वणं यस्मिन्नाश्रमे तम् ।। 1.52 ।।
अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।
पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः ।। 1.53 ।।
अभ्युत्थितेति।। अभ्युत्थिताः प्रज्वलिताः। होमयोग्या इत्यर्थः। `समिद्धेऽग्नावाहुतीर्जुहोति’ इति वचनात्। तेषामग्नीनां पिशुनैः सूचकैः पवनोद्धूतैः। आहुतिगन्धो येषामस्तीत्याहुतिगन्धिनः। तैर्धूमैराश्रमोन्मुखानतिथीन् पुनानं पवित्रीकुर्वाणम्। कुलकम्।। 1.53 ।।
अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः ।
तामवारोहत्पत्नीं रथादवततार च ।। 1.54 ।।
अथेति।। अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिम्। धुरं वहन्तीति धुर्या युग्याः। `धुरो यड्ढकौ’ (पा.4।4।77) इति यत्प्रत्ययः। `धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः’ इत्यमरः। धुर्यान् रथाश्वान् विश्रामय विनीतश्रमान्कुर्नित्यादिश्याज्ञाप्य तां पत्नीं रथादवारोहयदवतारितवान्स्वयं चावततार। `विश्रमय’ इति ह्रस्वपाठे `जनीजॄष्-‘,इति मित्वे 1`मितां ह्रस्वः’ इति ह्रस्वः। दीर्घपाठे `मितां ह्रस्वः'(पा.6।4।92) इति सूत्रे वा `चित्तविरागे’ इत्यतो `वा’इत्यनुवर्त्य व्यवस्थितविभाषाश्रयणत्वाद्ध्रस्वाभाव इति वृत्तकारः ।। 1.54 ।।
तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः ।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ।। 1.55 ।।
तस्मा इति।। सभायां साधवः सभ्याः। `सभाया यः’ (पा.4।4।104) इति यप्रत्ययः। गुप्ततमेन्द्रियाः अत्यन्तनियमितेन्द्रियाः। मुनयः सभार्याय गोप्त्रे रक्षकाय। नयः शास्त्रमेव चक्षुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे। अत एवार्हते प्रशस्ताय। पूज्यायेत्यर्थः। `अर्हः प्रशंसायाम्'(पा.3।2।133) इति शतृप्रत्ययः। तस्मै राज्ञेऽर्हणां पूजां चक्रुः। `पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः’ इत्यमरः ।। 1.55 ।।
विधेः सायंतनस्यान्ते स ददर्श तपोनिधिम् ।
अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ।। 1.56 ।।
विधेरिति।। स राजा सांयंतनस्य सायंभवस्य। `सायंचिरम्-‘ (पा.4।3।23) इत्यादिना ट्युल्प्रत्ययः। विधेर्जपहोमाद्यनुष्ठानस्य। अन्तेऽवसानेऽरुन्धत्यान्वासितं पश्चादुपवेशनेनोपसेवितम्। कर्मणि क्तः। उपसर्गवशात्सकर्मकत्वम्। `अन्वास्यैनाम्’ इत्यादिवदुपपद्यते। तपोनिधिं वसिष्टम्। स्वाहया स्वाहादेव्या। `अथाग्नायी स्वाहा च हुतभुक्प्रिया’ इत्यमरः। अन्वासितं हविर्भुजमिव। ददर्श। `समित्पुष्पकुशागन्यम्बुमृदन्नाक्षतपाणिकः। जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेत् ।।’ इत्यनुष्टानस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददर्शेत्युक्तम्। अन्वासितं चात्र पतिव्रताधर्मत्वेनोक्तं न तु कर्माङ्गत्वेन। `विधेरन्ते’ इति कर्मणः समाप्त्यभिधानात् ।। 1.56 ।।
तयोर्जगृहतुः पादान्राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ।। 1.57 ।।
तयोरिति।। मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररुन्धतीवसिष्ठयोः पादाञ्जगृहतुः। `पादः पदङ्गिश्चरणो।ञस्त्रियाम’ इत्यमरः। पादग्रहणमभिवादनम्। गुरुपत्नी गुरुश्च कर्तारौ सा च स च तौ सुदक्षिणादिलीपौ कर्मभूतौ प्रीत्या हर्षेण प्रतिननन्दतुः। आशीर्वदादिभिः संभावयांचक्रतुरित्यर्थः ।। 1.57 ।।
तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ।। 1.58 ।।
तमिति।। मुनिः। अतिथ्यर्थमातिथ्यम्। `अतिथेर्ञ्यः’ (पा.5।4।26) इति ञ्यप्रत्ययः। आतिथ्यस्य क्रिया तया शान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम्। राज्यमेवाश्रमस्तत्र मुनिम्। मुनितुल्यमित्यर्थः। तं दिलीपं राज्ये कुशलं पप्रच्छ। पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम्। यद्यपि `राज्य’ शब्दः पुरोहितादिष्वन्तर्गतत्वाद्राजकर्मवचनः,तथाप्यत्र सप्ताङ्गवचनः,`उपपन्नं ननु शिवं सप्तस्वङ्गेषु'(1।60)इत्युत्तरविरोधात्। तथाह मनुः(9।194)- `स्वाम्यमात्यपुरं राष्ट्रं कोशदण्डौ तथा सुह्रृत्। सप्तैतानि समस्तानि लोकेऽस्मिन्राज्यमुच्यते।।’ इति। तत्र `ब्रह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्। वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ।।’ (2।127) इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाह्ब्राह्मणोचितः कुशलप्रश्न एव कृत इत्यनुसंधेयम्। अत एवोक्तम्-`राज्याश्रममुनिम्’इति ।। 1.58 ।।
अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः ।
अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ।। 1.59 ।।
अथेति।। अथ प्रश्नानन्तरं विजितारिपुरो विजितशत्रुनगरो वदतां वक्तॄणां वरः श्रेष्ठः। `यतश्चनिर्धारणम्'(पा.2।3।41) इति षष्टी। अर्थपती राजाथर्वणोऽथर्ववेदस्य निधेस्तस्य मुनेः पुरोऽग्रेऽर्थ्यामर्थामर्थादनपेताम्। `धर्मपथ्यर्थन्यायादनपेते'(पा.4।4।92) इति यप्रत्ययः। वाचमादहे वक्तुमुपक्रान्तवानित्यर्थथः। `अथर्वनिधेः’ इत्यनेन पुरोहितकृत्याभिज्ञत्वात्तत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते। यथाह कामन्दकः-`त्रय्यां च दण्डनीत्यां च कुशलः स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम् ।। ‘ इति ।। 1.59 ।।
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ।। 1.60 ।।
उपपन्नमिति।। हे गुरो! सप्तस्वङ्गेषु स्वाम्यमात्यादिषु । `स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च । सप्ताङ्गानि’ इत्यमरः। शिवं कुशलमुपपन्नं ननु युक्तमेव। नन्ववधारणे। `प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु’ इत्यमरः। कथमित्यत्राह-यस्य मे दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम्, मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम्। उभयत्रापि `तत आगतः'(पा.4।3।74)इत्यण्। `टिड्ढाणञ्-‘ (पा.4।1।15) इत्यादिना ङीप्। आपदां व्यसनानां त्वं प्रतिहर्ता वारयिताऽसि। अत्राह कामन्दकः-`हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा। इति पञ्चविधं दैवं मानुषं व्यसनं ततः ।। आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजवल्लभात्। पृथिवीपतिलोभाञ्च नराणां पञ्चधा मतम् ।।’इति ।। 1.60 ।।
तत्र मानुषापत्प्रतीकारमाह-
तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ।। 1.61 ।।
तवेति।। दूरात् परोक्ष एव प्रशमितारिभिः। मन्त्रान्कृतवान् मन्त्रकृत्। `सुकर्मपापमन्त्रपुण्येषु कृञः’ (पा.3।2।89)इति क्विप्। तस्य मन्त्रकृतो मन्त्राणां स्रष्टुः प्रयोक्तुर्वा तव मन्त्रैः कर्तृभिः दृष्टं प्रत्यक्षं यल्लक्ष्यं तन्मात्रं भिन्दन्तीति दृष्टपेषकैरिति निराक्रियन्त इव इत्युत्प्रेक्षा। `प्रत्यादेशो निराकृतिः’इत्यमरः। त्वन्मन्त्रसामर्थ्यादेव नः पौरुषं फलतीति भावः ।। 1.61 ।।
संप्रति दैविकापत्प्रतीकारमाह-
हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ।। 1.62 ।।
हविरिति।। हे होतः। त्वया विधिवदग्निष्वावर्जितं प्रक्षिप्तं हविराज्यादिकं कर्तृ अवग्रहो वर्षप्रतिबन्धः। `अवे ग्रहो वर्षप्रतिबन्धे'(पा.3।3।51)इत्यञ्प्रत्ययः। `वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ’ इत्यमरः। तेन विशोषिणां विशुष्यतां सस्यानां वृष्टिर्भवति । वृष्टिरूपेण सस्यान्युपजीवयतीति भावः। अत्र मनुः(3।76)-`अग्मौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ।।’ इति ।। 1.62 ।।
पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्बह्मवर्चसम् ।। 1.63 ।।
पुरुषेति।। आयुर्जीवितकालः। पुरुषस्यायुः पुरुपषायुषम्। वर्षशतमित्यर्थः। `शतायुर्वै पुरुषः’ इति श्रुतेः। `अचतुर-‘ (पा.5।4।77)आदिसूत्रेणाच्प्रत्ययान्तो निपातः। मदीयाः प्रजाः। पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः। निरातङ्का निर्भयाः,`आतङ्को भयमाशङ्का’ इति हलायुधः। निरीतयोऽतिवृष्ट्यादिरहिता इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव व्रताध्ययनसंपत्तिरेव हेतुः। `व्रताध्ययनसंपत्तिरित्येतद्ब्रह्मवर्चसम्’ इति हलायुधः। ब्रह्मणो वर्चो ब्रह्मवर्चसम् । `ब्रह्महस्तिभ्यां वर्चसः'(पा.5।4।78)इत्यच्प्रत्ययः। `अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ।।’ इति कामन्दकः ।। 1.63 ।।
त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः संपदो मे निरापदः ।। 1.64 ।।
त्वयेति।। ब्रह्मा योनिः कारणं यस्य तेन ब्रह्मपुत्रेण गुरुणा त्वया। एवमुक्तप्रकारेण चिन्त्यमानस्यानुध्यायमानस्य। अत एव निरापदो व्यसनहीनस्य मे संपदः सानुबन्धाः सानुस्यूतयः। अविच्छिन्ना इति यावत्। कथं न स्युः? स्युरेवेत्यर्थः। 1.64 ।
संप्रत्यागमनप्रयोजनमाह-
किंतु वध्वां तवैतस्यामदृष्टसदृशप्रजम् ।
न मामवति सद्वीपा रत्नसूरपि मेदिनी ।। 1.65 ।।
किंत्विति।। किंतु तवैतस्यां वध्यां स्नुषायाम्। `वधूर्जाया स्नुषा चैव’इत्यमरः। अदृष्टा सदृश्यनुरूपा प्रजा येन तं मां सद्वीपापि। रत्नानि सूयत इति रत्नसूरपि। `सत्सूद्विष-‘(पा.3।2।61) इत्यादिना क्विप्। मेदिनी नावति न प्रीणाति। `अव’धातू रक्षणगति प्रीत्याद्यर्थेषूपदेशादत्र प्रीणने। `रत्नसूरपि’ इत्यनेन सर्वरत्नेभ्यः पुत्ररत्नमेव श्लाघ्यमिति सूचितम्।। 1.65 ।।
तदेव प्रतिपादयति-
नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ।। 1.66 ।।
नूनमिति।। मत्तः परं मदनन्तरम्। `पञ्चम्यास्तसिल्’ (पा.5।3।7)। पिण्डविच्छेददर्शिनः पिण्डदानविच्छेदमुत्प्रेक्षमाणाः। वंशे भवा वंश्याः पितरः। स्वधेत्यव्ययं पितृभोज्ये वर्तते। तस्याः संग्रहे तत्परा आसक्ताः सन्तः श्राद्धे पितृकर्मणि। `पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः’ इत्यमरः। प्रकामभुजः पर्याप्तभोजिनो न भवन्ति नूनं सत्यम्। `कामं प्रकामं पर्याप्तम्’ इत्यमरः। निर्धना ह्यापद्धनं कियदपि संगृह्णन्तीति भावः ।। 1.66 ।।
मत्परं दुर्लभं मत्वा नूनमावर्जितं मया ।
पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते ।। 1.67 ।।
मत्परमिति।। मत्परं मदनन्तरम्। `अन्यारात्-‘ (पा.2।3।29) इत्यादिना पञ्चमी। दुर्लभं दुर्लभ्यं मत्वा मयावर्जितं दत्तं पयः पूर्वैः पितृभिः स्वनिःश्वासैर्दुःखजैः कवोष्णमीषदुष्णं यथा तथोपभुज्यते। नूनमिति वितर्के। कवेष्णमिति कुशब्दस्य कवादेशः,`कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति’ इत्यमरः।। 1.67 ।।
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ।। 68 ।।
सोऽहमिति।। इज्या यागः। `व्रजयजोर्भावे क्यप्’ (पा.3।3।98) इति क्यप्प्रत्ययः। तया विशुद्धात्मा विशुद्धचेतनः प्रजालोपेन संतत्यभावेन निमीलितः कृतनिमीलनः सोऽहम्। लोक्यत इति लोकः। न लोक्यत इत्यलोकः। लोकश्चालोकश्चात्र स्त इति लोकश्चासावलोकश्चेति वा लोकालोकश्चक्रैवालोऽचल इव। `लोकालोकश्चक्रवालः’ इत्यमरः। प्रकाशत इति प्रकाशश्च देवर्णविमोचनात्। न प्रकाशत इत्यप्रकाशश्च पितॄणाविमोचनात्। पचाद्यच्। अस्मीति शेषः। लोकालोकोऽप्यन्तः सूर्यसंपर्काद्बहिस्तमोव्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम्।।
ननु तपोदानादिसंपन्नस्य किमपत्यैरित्यत्राह-
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
संततिः शुद्धवंश्या हि परत्रेह च शर्मणे ।। 69 ।।
लोकान्तरेति।। समुद्भवत्यस्मादिति समुद्भवः कारणम्। तपोदाने समुद्भवो यस्य तत् तपोदानसमुद्भवं यत्पुण्यं तल्लोकान्तरे परलोके सुखं सुखकरम्। शुद्धवंशे भवा शुद्धवंश्या संततिर्हि परत्र परलोक इह च लोके शर्मणे सुखाय। `शर्मशातसुखानि च’ इत्यमरः। भवतीति शेषः।। 1.69 ।।
तया हीनं विधातर्मां कथं पश्यन्न दूयसे? ।
सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ।। 1.70 ।।
तयेति।। हे विधातः स्रष्टः! तया संतत्या हीनमनपत्यं माम्। स्नेहात् प्रेम्णा स्वयमेव सिक्तं जलसेकेन वर्धितं वन्ध्यमफलम्। `वन्ध्योऽफलोऽवकेशी च’ इत्यमरः। आश्रमस्य वृक्षकं वृक्षपोतमिव। पश्यन् कथं न दूयसे न परितप्यसे? `विधातः’ इत्यनेन समर्थोऽप्युपेक्षस इति गम्यते।। 1.70 ।।
असह्यपीडं भगवन्नृणमन्त्यमवेहि मे ।
अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ।। 1.71 ।।
असह्येति।। हे भगवन्! मे ममान्त्यमृणं पैतृकमृणम्। अनिर्वाणस्य मज्जनरहितस्य। `निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने’ इति यादवः। दन्तिनो गजस्य। अरुर्मर्म तुदतीत्यरुंतुदं मर्मस्पृक्। `व्रणोऽस्त्रियामीर्ममरुः’ इति। `अरुंतुदं तु मर्मस्पृक्’ इति चामरः। `विध्वरुषोस्तुदः’ (पा.3।2।35) इति खश्प्रत्ययः। `अरुर्द्विषत्-‘(पा.6।3।67) इत्यादिना मुमागमः। आलानं गजबन्धनस्तम्भमिव। `आलानं बन्धनस्तम्भे’ इत्यमरः। असह्या सोढुमशक्या पीडा दुःखं यस्मिंस्तदवेहि। दुःसहदुःखजनकं विद्धीत्यर्थः। `निर्वाणोत्थानशयनानि त्रीणि गजकर्माणि’इति पालकाप्ये। `ऋणं देवस्य यागेन ऋषीणां दानकर्मणा। संतत्या पितृलोकानां शोधयित्वा परिव्रजेत्’ ।। 1.71 ।।
तस्मान्मुच्ये यथा तात! संविधातुं तथार्हसि ।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ।। 1.72 ।।
तस्मादिति।। हे तात! तस्मात्पैतृकादृणाद्यथा मुच्ये मुक्तो भवामि। कर्मणि लट्। तथा संविधातुं कर्तुमर्हसि। हि यस्मात्कारणात्,इक्ष्वाकूणामिक्ष्वाकुवंश्यानाम्। तद्राजत्वाद्बहुष्वणो लुक्। दुरापे दुष्प्राप्येऽर्थे। सिद्धयस्त्वदधीनास्त्वदायत्ताः। इक्ष्वाकूणामिति शेषे षष्ठी। `न लोक-‘ (पा. 2।3।69) इत्यादिना कृद्योगे षष्ठीनिषेधात् ।। 1.72 ।।
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।
क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः ।। 1.73 ।।
इतीति।। इति राज्ञा विज्ञापित ऋषिर्ध्यानेन स्तिमिते लोचने यस्य ध्यानस्तिमितलोचनो निश्चलाक्षः सन् क्षणमात्रम्। सुप्तमीनो ह्रद इव। तस्थौ।।
सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम् ।
भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ।। 1.74 ।।
स इति।। स मुनिः प्रणिधानेन चित्तैकाग्र्येण भावितात्मा शुद्धान्तःकरणो भुवो भर्तुर्नृपस्य संततेः स्तम्भकारणं संतानप्रतिबिन्धकारणमपश्यत्। अथानन्तरमेनं नृपं प्रत्यबोधयत्। स्वदृष्टं ज्ञापितवानित्यर्थः। एनमिति `गतिबुद्धि-‘ (पा.1।4।52) इत्यादिनाणि कर्तुः कर्मत्वम् ।। 1.74 ।।
पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यतः ।
आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ।। 1.75 ।।
पुरेति।। पुरा पूर्वं शक्रमिन्द्रमुपस्थाय संसेव्य,उर्वीं प्रति भुवमुद्दिश्य यास्यतो गमिष्यतस्तव पथि कल्पतरुच्छायामाश्रिता सुरभिः कामधेनुरासीत्। तत्र स्थितेत्यर्थः।। 1.75 ।।
ततः किमित्यत्राह-
धर्मलोपभयाद्राज्ञीमृतुस्नातामिमां स्मरन् ।
प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः ।। 1.76 ।।
धर्मलोपेति।। ऋतुः पुष्पम्। रज इति यावत्। `ऋतुः स्त्रीकुसुमेऽपि च’ इत्यमरः। ऋतुना निमित्तेन स्नातामिमां राज्ञीं सुदक्षिणां धर्मस्यर्त्वभिगमनलक्षणस्य लोपाद्भ्रंशाद्यद्भयं तस्मात् स्मरन्ध्यायन्। `मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम्। प्रदक्षिणानि कुर्वीत विज्ञातांश्च वनस्पतीन्।।’ इति शास्त्रात् प्रदक्षिणक्रियार्हायां प्रदक्षिणकरणयोग्यायां तस्यां धेन्वां त्वं साधु प्रदक्षिणादिसत्कारं नाचरोनाचरितवानसि। व्यासक्ता हि विस्मरन्तीति भावः। ऋतुकालाभिगमने मनुः(3।45)- `ऋतुकालामिगामी स्यात्स्वदारनिरतः सदा’ इति। अकरणे दोषमाहपराशरः-(4।15)`ऋतुस्नातां तु यो भार्यां स्वस्थः सन्नोपगच्छति। बालगोघ्नापराधेन विध्यते नात्र संशयः।।’ इति ।। 1.76 ।।
अवजानासि मां यस्मादतस्ते न भविष्यति।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ।। 1.77 ।।
अवजानासीति।। यस्मात्कारणान्मामवजानासि तिरस्करोषि। अतः कारणान्मत्प्रसूतिं मम संततिमनाराध्यासेवयित्वा ते तव प्रजा न भविष्यतीति सा सुरभिस्त्वां शशाप। `शप आक्रोशे’ ।। 1.77 ।।
कथं तदस्माभिर्न श्रुतमित्यह-
स शापो न त्वया राजन्न च सारथिना श्रुतः ।
नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ।। 1.78 ।।
स इति।। हे राजन्! स शापस्त्वया न श्रुतः। सारथिना च न श्रुतः। अथवणे हेतुमाह-क्रीडार्थमागता उद्दामानो दाम्न उद्गता दिग्गजा यस्मिंस्तथोक्त आकाशगङ्गाया मन्दाकिन्याः स्रोतसि प्रवाहे नदति सति ।। 1.77 ।।
अस्तु; प्रस्तुते किमायातमित्यत्राह-
ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मनः ।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ।। 1.79 ।।
ईप्सितमिति।। तदवज्ञानात्तस्या धेनोरवज्ञानादपमानादात्मनः स्वस्याप्तुमिष्टमीप्सितं मनोरथम्। आप्ने तेः सन्नन्तात् क्तः,ईकारश्च। सार्गलं सप्रतिबन्धं विद्धि जानीहि। तथा हि-पूज्यपूजाया व्यतिक्रमोऽतिक्रमणं श्रेयः प्रतिबध्नाति ।। 1.79 ।।
तर्हि गत्वा तामाराधयामि; सा वा कथंचिदागमिष्यतीत्याशा न कर्तव्येत्याह-
हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः ।
भुजङ्गपिहितद्वारं पातालमधितिष्टति ।। 1.80 ।।
हविष इति।। सा च सुरभिरिदानीं दीर्घं सत्रं चिरकालसाध्यो यागविशेषो यस्य तस्य प्रचेतसो हविषे दध्याज्यादिहविरर्थं भुजङ्गपिहितद्वारं भुजंगावरुद्धद्वारं ततो दुष्प्रवेशं पातालमधितिष्टति। पाताले तिष्ठतीत्यर्थः। `अधिशीङ्स्थासां कर्म’ (पा.1।4।46) इति कर्मत्वम् ।। 1.80 ।।
तर्हि का गतिरित्यत आह-
सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः ।
आराधय सपत्नीकः प्रीता कामदुघा हि सा ।। 81 ।।
सुतामिति।। तस्याः सुरभेरियं तदीया। तां सुतां सुरभेः प्रतिनिधिं कृत्वा शुचिः शुद्धः। सह पत्न्या वर्तत इति सपत्नीकः सन्। `नद्यृतश्च’ (पा.5।4।153) इति कप्प्रत्ययः। आराधय। हि यस्मात्कारणात्,सा प्रीतातुष्टा सती। कामान् दोग्धीति कामदुघा भवति। `दुहः कब्धश्च’ (पा.3।2।70)इति कप्प्रत्ययः। घादेशश्च ।। 1.81 ।।
इति वादिन एवास्य होतुराहुतिसाधनम् ।
अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ।। 1.82 ।।
इतीति।। इति वादिनो वदत एव होतुर्हवनशीलस्य । `तृन्'(पा.3।3।135) इति तृन्प्रत्ययः। अस्य मुनेराहुतीनां साधनं कारणम्। नन्दयतीति व्युत्पत्त्या नन्दिनी नामानिन्द्यागर्ह्या प्रशस्ता धेनुर्वनादाववृते प्रत्यागता। `अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्’ इति भावः ।। 1.82 ।।
संप्रति धेनुं विशिनष्टि-
ललाटोदयमाभुग्नं पल्लवस्निग्धापाटला ।
बिभ्रती श्वेतरोमाङ्कं संध्येव शशिनं नवम् ।। 1.83 ।।
ललाटेति।। पल्लववत् स्निग्धा चासौ पाटला च। संध्यायामप्येतद्विशेषणं योज्यम्। ललाट उदयो यस्य स ललाटोदयः,तम्। आभुग्नमीषद्वक्रम्। `आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि’ इत्यमरः। `ओदितश्च'(पा.8।2।45) इति निष्ठातस्य नत्वम्। श्वेतरोमाण्येवाङ्कस्तं बिभ्रती। नवं शशिनं बिभ्रती संध्येव। स्थिता ।। 1.83 ।।
भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि ।
प्रस्रवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ।। 1.84 ।।
भुवमिति।। कोष्णेन किंचिदुष्णेन। `कवं चोष्णे’ (पा.6।3।107) इति चकारात्कादेशः। अवभृथादप्यवभृथस्नानादपि मेध्येन पवित्रेण `पूतं पवित्रं मेध्यं च’ इत्यमरः। वत्सस्यालोकेन प्रदर्शनेन प्रवर्तिना प्रवहता प्रस्रवेन क्षीराभिस्यन्दनेन भुवमभिवर्षन्ती सिञ्चन्ती। कुण्डमिवोध आपीनं यस्याः सा कुण्डोध्नी। `बहुर्वीहेरूधसो ङीष्'(पा.2।3।35) इति ङीष्।। 1.84 ।।
रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् ।
तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ।। 1.85 ।।
रज इति।। खुरोद्धूतैरन्तिकात्समीपे गात्रं स्पृशद्भिः। `दूरान्तिकार्थेभ्यो द्वितीया च'(पा.2।3।35)इति चकारात्पञ्चमी। रजसां कणैः। महीं क्षियत ईष्ट इति महीक्षित्। तस्य। तीर्थाभिषेकेण जातां तीर्थाभिषेकजाम्। शुद्धिमादधाना कुर्वाणा। एतेन वायव्यं स्नानमुक्तम्। उक्तं च मनुना`आग्रेयं भस्मना स्नानमवगाह्यं तु वारुणम्। आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम्।।’ इति।। 1.85 ।।
तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः ।
याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत् ।। 1.86 ।।
तामिति।। निमित्तज्ञः शकुनज्ञस्तपोनिधिर्वसिष्ठः। पुण्यं दर्शनं यस्यास्तां तां धेनुं दृष्ट्वा आशंसितं मनोरथः। नपुंसके भावे क्तः। तत्रावन्ध्यं सफलं प्रार्थनं यस्य स तमाशंसितावन्ध्यप्रार्थनम्। अवन्ध्यमनोरथमित्यर्थः। याजयितुं योग्यं याज्यं पार्थिवं पुनरब्रवीत् ।। 1.86 ।।
अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ।। 1.87 ।।
अदूरेति।। हे राजन्! आत्मनः कार्यस्य सिद्धिमदूरवर्तिनीं शीघ्रभाविनीं विगणय विद्धि। यद्यस्मात्कारणात् कल्याणी मङ्गलमूर्तिः। `बह्वादिभ्यः'(पा.4।1।45)इति ङीप्। इयं धेनुर्नाम्नि कीर्तिते कथिते सत्येवोपस्थिता ।। 1.87 ।।
वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।
विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ।। 1.88 ।।
वन्येति।। वने भवं वन्यं कन्दमूलादिकं वृत्तिराहारो यस्य तथाभूतः सन्। इमां गां शश्वत् सदा। आ प्रसादादविच्छेदेनेत्यर्थः। आत्मनस्तव कर्तुः अनुगमनेनानुसरणेन। अभ्यसनेनानुष्ठातुरभ्यासेन विद्यामिव। प्रसादयितुं प्रसन्नां कर्तुमर्हसि ।। 1.88 ।।
गवानुसरणप्रकारमाह-
प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः ।
निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः ।। 1.89 ।।
प्रस्थितेति।। अस्यां नन्दिन्यां प्रस्थितायां प्रतिष्ठेथाः प्रयाहि। `समवप्रविभ्यः स्थः'(पा.1।3।22) इत्यात्मनेपदम्। स्थितायां निवृत्तगतिकायां स्थितिमाचरेः स्थितिं कुरु। तिष्ठेत्यर्थः। निषण्णायामुपविष्टायां निषीदोपविश। विध्यर्थे लोट्। पीतमम्भो यया तस्यां पीताम्भसि सत्यामपः पिबेः पिब। 1.89 ।।
वधूर्भक्तिमती चैनामर्चितामा तपोवनात् ।
प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि ।। 1.90 ।।
वधूरिति।। वधूर्जाया च भक्तिमती प्रयता सती गन्धादिभिरर्चितामेनां गां प्रातरा तपोवनात्। आङ् मर्यादायाम्। पदद्वयं चैतत्। अन्वेत्वनुगच्छतु। सायमपि प्रत्युद्व्रजेत् प्रत्युद्गच्छेत्। विध्यर्थे लिङ् ।। 1.90 ।।
इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव ।
अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ।। 1.91 ।।
इतीति।। इत्यनेन प्रकारेण त्वमा प्रसादात् प्रसादपर्यन्तम्। `आङ् मर्यादाभिविध्योः’ (पा.2।1।13) इत्यस्य वैभाषिकत्वादसमासत्वम्। अस्या धेनोः परिचर्यापरः शुश्रूषापरो भवः; ते तवाविघ्नं विघ्नस्याभावोऽस्तु। `अव्ययं विभक्ति-‘(पा.2।1।6)इत्यादिनार्थाभावेऽव्ययीभावः। पितेव पुत्रीणां सत्पुत्रवताम्। प्रशंसायामिनिप्रत्ययः। धुर्यग्रे स्थेयास्तिष्ठेः। आशीरर्थे लिङ्। `एर्लिङि'(पा.6।4।67) इत्याकारस्यैकारादेशः। त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः।। 1.91 ।।
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः ।
आदेशं देशकालज्ञः शिष्यः शासितुरानतः ।। 1.92 ।।
तथेति।। देशकालज्ञः देशोऽग्निसंनिधिः। कालोऽग्निहोत्रावसानसमयः,विशिष्टदेशकालोत्पन्नमार्षं ज्ञानमव्याहतमिति जानन्। अत एव प्रीतिमान् शिष्योऽन्तेवासी राजा सपरिग्रहः सपत्नीकः। `पत्नीपरिजनादानमूलशापाः परिग्रहाः’ इत्यमरः। आनतो विनयनम्रः सन्। शासितुर्गुरोरादेशमाज्ञां तथेति प्रतिजग्राह स्वीचकार।। 1.92 ।।
अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ।
सूनुः सूनृतवाक्स्रष्टुर्विससर्जोदितश्रियम् ।। 1.93 ।।
अथेति।। अथ प्रदोषे रात्रौ दोषज्ञो विद्वान्। `विद्वान्विपश्चिपश्चिद्दोषज्ञः’ इत्यमरः। सूनृतवाक् सत्यप्रियवाक्। `प्रियं सत्यं च सूनृतम्’ इति हलायुधः। स्रष्टुः सूनुर्ब्रह्मपुत्रो मुनिः। अनेन प्रकृतकार्यनिर्वाहकत्वं सूचयति। उदितश्रियं विशांपतिं मनुजेश्वरम्। `द्वौ विशौ वैश्यमनुजौ’इत्यमरः। संवेशाय निद्रायै। `स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि’ इत्यमरः। विससर्जाज्ञापयामास ।। 1.93 ।।
सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः ।
कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ।। 1.94 ।।
सत्यामिति।। कल्पविद्व्रतप्रयोगाभिज्ञो मुनिः तपःसिद्धौ सत्यामपि। तपसैव राजयोग्याहारसंपादनसामर्थ्ये सत्यपीत्यर्थः। नियमापेक्षया तदाप्रभृत्येव व्रतचर्यापेक्षया। अस्य राज्ञो वन्यामेव। संविधीयतेऽनयेति संविधाम्। कुशादिशयनसामग्रीम्। `आतश्चोपसर्गे’ (पा.3।1।136) इति कप्रत्ययः, `अकर्तरि च कारके संज्ञायाम्'(पा.3।3।19) इति कर्माद्यर्थत्वम्। कल्पयामास संपादयामास ।। 1.94 ।।
निर्दिष्टां कुलपतिना स पर्णशाला-
मध्यास्य प्रयतपरिग्रहद्वितीयः ।
तच्छिष्याध्ययननिवेदितावसानां
संविष्टः कुशशयने निशां निनाय ।। 1.95 ।।
निर्दिष्टामिति।। स राजा कुलपतिना मुनिकुलेश्वरेण वसिष्ठेन निर्दिष्टां पर्णशालामध्यास्याधिष्टाय। तस्यामधिष्ठानं कृत्वेत्यर्थः। `अधिशीङ्-‘ (पा.1।4।46) इत्यादिनाधारस्य कर्मत्वम्। कर्मणि द्वितीया। प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स तथोक्तः। कुशानां शयने संविष्टः सुप्तः सन्। तस्य वसिष्टस्य शिष्याणामध्ययनेनापररात्रवेदपाठेन निवेदितमवसानं यस्यास्तां निशां निनाय गमयामास। अपररात्राध्ययने मनुः-(4।99)
`निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्’। `न चापररात्रमधीत्य पुनः स्वपेत्’ इति गौतमश्च। प्रहर्षिणीवृत्तमेतत्। तदुक्तम्-`म्नौ ज्रौ गस्त्त्रिदशयतिः प्रहर्षिणीयम्’।।
इति महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवननीसमाख्यया व्याख्याया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये वसिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः।
द्वितीयः सर्गः।
आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि! त्वाम् ।।
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ।। 2.1 ।।
अथेति।। अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रभाते प्रातःकाले जायया सुदक्षिणया प्रतिग्राहयित्र्या। प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या। तां तथोक्तम्। पीतं पानमस्यास्तीति पीतः। पीतवानित्यर्थः। `अर्शआदिभ्योऽच्'(पा.5।2।127) इत्यच्प्रत्ययः। `पीता गावो भुक्ता ब्राह्मणाः’ इति महाभाष्ये दर्शनात्। पीतः प्रतिबद्धो वत्सो यस्यास्तामृषेर्धेनुं वनाय वनं गन्तुम्। `क्रियार्थोपपद-‘(पा.2।3।14) इत्यादिना चतुर्थी। मुमोच मुक्तवान्। `जायां’ पदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसंधेयम्। तथा हि श्रुतिः-`पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम्। तस्यां पुनर्नवो भूत्वा दशमे मासि जायते। तज्जाया जाया भवति यदस्यां जायते पुनः।’ इति। `यशोधन’ इत्यनेन पुत्रवत्ताकीर्तिलोभाद्राजानर्हे गोरक्षणे प्रवृत्त इति गम्यते। अस्मिन्सर्गे वृत्तमुपजातिः-`अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः’इति ।। 2.1 ।।
तस्याः खुरन्यासपवित्रपुंसुमपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ।। 2.2 ।।
तस्या इति।। पांसवो दोषा आसां सन्तीति पांसुलाः स्वैरिण्यः। `स्वैरिणी पांसुला’ इत्यमरः। ` सिध्मादिभ्यश्च'(पा.5।2।97) इति लच्प्रत्ययः। अपांसुलानां पतिव्रतानां धुर्यग्रे कीर्तनीया परिगणनीया मनुष्येश्वरधर्मपत्नी। खुरन्यासैः पवित्राः पांसवो यस्य तम्। `रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः’ इत्यमरः। तस्या धेनोर्मार्गम्। स्मृतिर्मन्वादिवाक्यं श्रुतेर्वेदवाक्यस्यार्थमभिधेयमिव। अन्वगच्छदनुसृतवती च। यथा स्मृतिः श्रुतिक्षुण्णमेवार्थमनुसरति तथा सापि गोखुरक्षुण्णमेव मार्गमनुससारेत्यर्थः। धर्मपत्नीत्यत्राश्वघासादिवत्तादर्थ्ये षष्ठीसमासः,प्रकृतिविकाराभावात्। पांसुलपथप्रवृत्तावप्यपांसुलानामिति विरोधालंकारो ध्वन्यते।। 2.2 ।।
निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ।। 2.3 ।।
निवर्त्येति।। दयालुः कारुणिकः। `स्याद्दयालुः कारुणिकः’ इत्यमरः। `स्पृहिगृहि-‘(पा.3।2।158)इत्यादिनालुच्प्रत्ययः। यशोभिः सुरभिर्मनोज्ञः। `सुरभिः स्यान्मनोज्ञेऽपि’ इति विश्वः। स राजा तां दयितां निवर्त्य सौरभेयीं कामधेनुसुतां नन्दिनीम्। धरन्तीति धराः। पचाद्यच्। पयसां धराः पयोधराः स्तनाः। `स्त्रीस्तनाब्दौ पयोधरौ’ इत्यमरः। अपयोधराः पयोधराः संपद्यमानाः पयोधरीभूताः। अभूततद्भावे च्विः। `कुगतिप्रादयः'(पा.2।2।18) इति समासः। पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम्। `अनेकमन्यपदार्थे'(पा.2।2।24) इत्यनेकपदार्थग्रहणसामर्थ्यात्त्रिपदो बहुव्रीहिः। गोरूपधरामुर्वीमिव। जुगोप ररक्ष। भूरक्षणप्रयत्नेनेव ररक्षेति भावः। धेनुपक्षे,-पयसा दुग्धेनाधरीभूताश्चत्वारः समुद्रा यस्याः सा तथोक्ता ताम्। दुग्धतिरस्कृतसागरामित्यर्थः।। 2.3 ।।
व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः ।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ।। 2.4 ।।
व्रतायेति।। व्रताय धेरोरनुचरेण। न तु जीवनायेति भावः। तेन दिलीपेन शेषोऽवशिष्टोऽप्यनुयायिवर्गोऽनुचरवर्गो न्यषेधि निवर्तितः। शेषत्वं सुदक्षिणापेक्षया। कथं तर्ह्यात्मरक्षणमत आह-न चेति। तस्य दिलीपस्य शरीररक्षा चान्यतः पुरुषान्तरान्न। कुतः? हि यस्मात्कारणान्मनोः। प्रसूयत इति प्रसूतिः संततिः स्ववीर्यगुप्ता स्ववीर्येणैव रक्षिता। न हि स्वनिर्वाहकस्य परापेक्षेति भावः ।। 2.4 ।।
आस्वादवद्भिः कवलस्तृणानां कण्डूयनैर्दंशनिवारणैश्च ।
अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ।। 2.5 ।।
आस्वादवद्भिरिति।। सम्राट् मण्डलेश्वरः। `येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाज्ञया राज्ञः स सम्राट्’ इत्यमरः। स राजा। आस्वादवद्भी रसवद्भिः। स्वादयुक्तैरित्यर्थः। तृणानां कवलैर्ग्रासैः `ग्रासस्तु कवलार्थकः’ इत्यमरः। कण्डूयनैः खर्जनैः। दंशानां वनमक्षिकाणां निवारणैः। `दंशस्तु वनमक्षिका’ इत्यमरः। अव्याहतैरप्रतिहतैः स्वैरगतैः स्वच्छन्दगमनैश्च तस्या धेन्वाः समाराधनतत्परः शुश्रूषासक्तोऽभूत्। तदेव परं प्रधानं यस्येति तत्परः। `तत्परे प्रसितासक्तौ’ इत्यमरः।। 2.5 ।।
स्थितः स्थितामुञ्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ।। 2.6 ।।
स्थित इति।। भूपतिस्तां गां स्तितां सतीं स्थितः सन्। स्थितिरूर्ध्वावस्थानम्। प्रयातां प्रस्थितामुञ्चलितः प्रस्थितः। निषेदुषीं निषण्णाम्। उपविष्टामित्यर्थः। `भाषायां सदवसश्रुवः’ (पा.3।2।108) इति क्वसुप्रत्ययः। `उगितश्च’ (पा.4।1।6) इति ङीप्। आसनबन्ध उपवेशने धीरः स्थितः। उपविष्टः सन्नित्यर्थः। जलमाददानां पिबन्तीं जलाभिलाषी। पिबन्नित्यर्थः। इत्थं छायेवान्वगच्छदनुसृतवान् ।। 2.6 ।।
स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां तधानः ।
आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ।। 2.7 ।।
स इति।। न्यस्तानि परिहृतानि चिह्नानि छत्रचामरादीनि यस्यास्तां तथाभूतामपि तेजोविशेषेण प्रभावातिशयेन। अनुमितां सर्वथा राजैवायं भवेदित्यूहितां राजलक्ष्मीं दधानः स राजा। अनाविष्कृतदानराजिर्वहिरप्रकटितमदरेखः। अन्तर्गता मदावस्था यस्य सोऽन्तर्मदावस्थः। तथाभूतो द्विपेन्द्र इव। आसीत्।। 2.7 ।।
लताप्रतानोद्ग्रथितैः स कैशैरधिज्यधन्वा विचचार दावम् ।
रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ।। 2.8 ।।
लतेति।। लतानां वल्लीनां प्रतानैः कुटिलतन्तुभिरुद्ग्रथिता उन्नमय्य ग्रथिता ये केशास्तैरुपलक्षितः। `इत्थंभूतलक्षणे'(पा.2।3।21) इति तृतीया। स राजा। अधिज्यमारोपितमौर्वीकं धनुर्यस्य सोऽधिज्यधन्वा सन्। `धनुषश्च'(पा.5।4।132) इत्यनङादेशः। मुनिहोमधेनो रक्षापदेशाद्रक्षणव्याजात्। वन्यान् वने भवान् दुष्टसत्त्वान् दुष्टजन्तून्। `द्रव्यासुव्यवसायेषु सत्त्वमस्त्त्री तु जन्तुषु’ इत्यमरः। विनेष्यञ्छिक्षयिष्यन्निव। दावं वनम्। `वने च वनवह्नौ च दवो दाव इहेष्यते’ इति यादवः। विचचार। वने चचारेत्यर्थः। `देशकालाघ्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्’इति दावस्य कर्मत्वम्।। 2.8 ।।
`विसृष्ट-‘इत्यादिभिः षड्भिः श्लोकैस्तस्य महामहिमतया द्रुमादयोऽपि राजोपचारं चक्रुरित्याह-
विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ।
उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ।। 2.9 ।।
विसृष्टेति।। विसृष्टाः पार्श्वानुचराः पार्श्ववर्तिनो जना येन तस्य। पाशभृता वरुणेन समस्य तुल्यस्य। `प्रचेता वरुणः पाशी’ इत्यमरः। अनुभावोऽनेन सूचितः। तस्य राज्ञः पार्श्वयोर्द्रुमाः। उन्मदानामुत्कटमदानां वयसां खगानाम्। `खगबाल्यादिनोर्वयः’ इत्यमरः। विरावैः शब्दैः। आलोकस्य शब्दं वाचकमालोकयेति शब्दम्। जयशब्दमित्यर्थः। `आलोको जयशब्दः स्यात्’इति विश्वः। उदीरयामासुरिवावदन्निव। इत्युत्प्रेक्षा।। 2.9 ।।
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् ।
अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ।। 2.10 ।।
मरुदिति।। मरुत्प्रयुक्ता वायुना प्रेरिता बाललता आरात् समीपेऽभिवर्तमानम्। `आराद्दूरसमीपयोः’ इत्यमरः। मरुतो वायोः सखा मरुत्सखोऽग्निः। स इवाभातीति मरुत्सखाभः। `आतश्चोपसर्गे'(पा.3।1।136) इति कप्रत्ययः। तम्,अर्च्यं पूज्यं तं दिलीपं प्रसूनैः पुष्पैः। पौरकन्याः पौराश्च ताः कन्या आचारार्थैर्लाजैराचारलाजैरिव। अवाकिरन्। तस्योपरि निक्षिप्तवत्य इत्यर्थः। सखा हि सखायमागतमुपचरतीति भावः ।। 2.10 ।।
धनुर्भृतोऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः ।
विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ।। 2.11 ।।
धनुर्भृत इति।। धनुर्भृतोऽप्यस्य राज्ञः। एतेन भयसंभावना दर्शिता। तथापि विशङ्कैर्निर्भीकैरन्तः करणैः कर्तृभिः। दयया कृपारसेनार्द्रो भावोऽभिप्रायो यस्य तद्दयार्द्रभावं तदाख्यातम्। दयार्द्रभावमेतदित्याख्यातमित्यर्थः। `भावः सत्त्वस्वभावाभिप्रायचेष्टात्मजन्मसु’ इत्यमरः। तथाविधं वपुर्विलोकयन्त्यो हरिण्योऽक्ष्णां प्रकामविस्तारस्यात्यन्तविशालतायाः फलमापुः। `विमलं कलुषीभवञ्च चेतः कथयत्येव हितैषिणं रिपुं च’ इति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धं ददृशुरित्यर्थः।। 2.11 ।।
स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् ।
शुश्राव कुञ्जेषु यशः स्वमुञ्चैरुद्गीयमानं वनदेवताभिः ।। 2.12 ।।
स इति।। स दिलीपो मारुतपूर्णरन्ध्रैः। अत एव कूजद्भिः स्वनद्भिः कीचकैर्वेणुविशेषैः। `वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः’ इत्यमरः। वंशः सुषिरवाद्यावशेषः। `वंशादिकं तु सुषिरम्’ इत्यमरः। आपादितं संपादितं वंशस्य कृत्यं कार्यं यस्मिन्कर्मणि तत्तथा। कुञ्जेषु लतागृहेषु। `निकुञ्जकुञ्जौ वा क्लिबे लतादिपिहितोदरे’
इत्यमरः। वनदेवताभिरुद्गीयमानमुञ्चैर्गीयमानं स्वं यशः शुश्राव श्रुतवान्।। 2.12 ।।
पृक्तस्तुषारैर्गिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी ।
तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ।। 2.13 ।।
पृक्त इति।। गिरिषु निर्झराणां वारिप्रवाहाणाम्। `वारिप्रवाहो निर्झरो झरः’इत्यमरः। तुषारः सीकरैः। `तुषारौ ह्रिमसीकरौ’ इति शाश्वतः। पृक्तः संपृक्तोऽनोकहानां वृक्षाणामाकम्पितानीषत्कम्पितानि पुष्पाणि तेषां यो गन्धः सोऽस्यास्तीत्याकम्पितपुष्पगन्धी ईषत्कम्पितपुष्पगन्धवान्। एवं शीतो मन्दः सुरभिः पवनो वायुरनातपत्रं व्रतार्थं परिहृतच्छत्रम्। अत एव,आतपक्लान्तमाचारेण पूतं शुद्धं तं नृपं सिषेवे। आचारपूतत्वात्स राजा जगत्पावनस्यापि सेव्य आसीदिति भावः ।। 2.13 ।।
शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषो फलपुष्पवृद्धिः ।
ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने ।। 2.14 ।।
शशामेति।। गोप्तरि तस्मिन् राज्ञि वनं गाहमाने प्रविशति सति वृष्ट्या विनापि। दवाग्निर्वनाग्निः। `दवदावौ वनानले’इति हैमः। शशाम। फलानां पुष्पाणां च वृद्धिः। विशेष्यत इति विशेषा। अतिशयिताऽऽसीत्। कर्मार्थे धञ्प्रत्ययः। सत्त्वेषु जन्तुषु मध्ये। `यतश्च निर्धारणम्'(पा.2।3।41) इति सप्तमी। अधिकः प्रबलो व्याघ्रादिरूनं दुर्बलं हरिणादिकं न बबाधे ।। 2.14 ।।
संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ।। 2.15 ।।
संचारपूतानीति।। पल्लवस्य रागो वर्णः पल्लवरागः। `रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु’ इति शाश्वतः। स इव ताम्रा पल्लवरागताम्रा पतङ्गस्य सूर्यस्य प्रभा कान्तिः। `पतङ्गः पक्षिसूर्ययोः’ इति शाश्वतः। मुनेर्धेनुश्च। दिगन्तराणि दिशामवकाशान्। `अन्तरमवकाशावधिपरिधानान्तर्धिभादतादर्थ्ये’ इत्यमरः। संचारेण पूतानि शुद्धानि कृत्वा दिनान्ते सायंकाले निलयायास्तमयाय;धेनुपक्षे,-आलयाय च। गन्तुं प्रचक्रमे।। 2.15 ।।
तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः ।
बभौ च सा मतेन सतां तेन श्रद्धेव साक्षाद्विधिनोपपन्ना ।। 2.16 ।।
तामिति।। मध्यमलोकपालो भूपालः। देवतापित्रतिथीनां क्रिया यागश्राद्धदानानि ता एवार्थः प्रयोजनं यस्यास्तां तां धेनुमन्वगनुपदं ययौ। `अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्’ इत्यमरः। सतां मतेन सिद्धिर्मान्येन। `गतिबुद्धि-‘(पा.1।4।52)इत्यादिना वर्तमाने क्तः। `क्तस्य च वर्तमाने'(पा.2।3।67)इति षष्ठी। तेन राज्ञोपपन्ना युक्ता सा धेनुः। सतां मतेन विधिनाऽनुष्ठानेनोपपन्ना युक्ता साक्षात् प्रत्यक्षा श्रद्धाऽऽस्तिक्यबुद्धिरिव। बभौ च ।। 2.16 ।।
स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि ।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ।। 2.17 ।।
स इति।। स राजा। पल्वलेभ्योऽल्पजलाशयभ्य उत्तीर्णानि निर्गतानि वराहाणां यूथानि कुलानि येषु तानि। बर्हाण्येषां सन्तीति बर्हिणा मयूराः। `मयूरो बर्हिणो बर्ही’इत्यमरः। फलबर्हाभ्यामिनच्प्रत्ययो वक्तव्यः। आवासवृक्षा णामुन्मुखा बर्हिणा येषु तानि श्यामायमानानि वराहबर्हिणादिमलिनिम्ना श्यामानि। श्यामानि भवन्तीति श्यामायमानानि। `लोहितादिडाज्भ्यः क्यष्'(पा.3।1।13) इति क्यष्प्रत्ययः। `वा क्यषः'(पा.1।3।90) इत्यात्मनेपदे शानच्। मृगैरध्यासिता अधिष्ठिताः शाद्वला येषु तानि। शादाः शष्पाण्येषु देशेषु सन्तीति शाद्वलाः शष्पश्यामदेशाः। `शाद्वलः शादहरिते’इत्यमरः। `शादः कर्दमशष्पयोः’ इति विश्वः। `नडशादादूङ्वलच्'(पा.4।2।88)इति ड्वलच्प्रत्ययः। वनानि पश्यन्ययौ ।। 2.17 ।।
आपीनभारोद्वहनप्रयत्नाद्धृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः ।
उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ।। 2.18 ।।
आपीनेति।। गृष्टिः सकृत्प्रसूता गौः। `गृष्टिः सकृत्प्रसूता गौः’ इति हलायुधः। नरेन्द्रश्च। उभौ यथाक्रमम्। आपीनमूधः। `ऊधस्तु क्लीबमापीनम्’ इत्यमरः। आपीनस्य भारोद्वहने प्रयत्नात् प्रयासात् वपुषो गुरुत्वादाधिक्याञ्च। अञ्चिताभ्यां चारुभ्यां गताभ्यां गमनाभ्यां तपोवनादावृत्तेः पन्थास्तं तपोवनावृत्तिपथम्। `ऋक्पूः-‘(पा.5।4।74)इत्यादिना समासान्तोऽप्रत्ययः। अलंचक्रतुर्भूषितवन्तौ ।। 2.18 ।।
वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ।। 2.19 ।।
वसिष्ठेति।। वसिष्ठधेनुयायिनमनुचरं वनान्तादावर्तमानं प्रत्यागतं तं दिलीपं वनिता सुदक्षिणा निमेषेष्वलसा मन्दा पक्ष्मणां पङ्क्तिर्यस्याः सा। अनिमेषा सतीत्यर्थः,लोचनाभ्यां करणाभ्याम्। उपोषिताभ्यामिव। उपवासो भोजननिवृत्तिः। तद्विद्भ्यामिव। वसतेः कर्तरि क्तः। पपौ। यथोपोषितोऽतितृष्णया जलमधिकं पिबति तद्वदतितृष्णयाधिकं व्यलोकयदित्यर्थः ।। 2.19 ।।
पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव संध्या ।। 2.20 ।।
पुरस्कृतेति।। वर्त्मनि पार्थिवेन पृथिव्या ईश्वरेण। `तस्येश्वरः'(पा.5।1।42)इत्यञ्प्रत्ययः। पुरस्कृताऽग्रतः कृता। धर्मस्य पत्नी धर्मपत्नी। धर्मार्थपत्नीत्यर्थः। अश्वघासादिवत्तादर्थ्ये षष्ठीसमासः। पार्थिवस्य धर्मपत्न्या सा धेनुस्तदन्तरे तयोर्दंपत्योर्मध्ये। दिनक्षपयोर्दिनरात्र्योर्मध्यगता संध्येव। रराज।। 2.20 ।।
प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।
प्रणम्य चानर्च विशालमस्याः श्रृङ्गान्तरं द्वारमिवार्थसिद्धेः ।। 2.21 ।।
प्रदक्षिणीकृत्येति।। अक्षतानां पात्रेण सह वर्तेते इति साक्षतपात्रौ ह्रस्तौ यस्याः सा सुदक्षिणा पयस्विनीं प्रशस्तक्षीरां तां धेनुं प्रदक्षिणीकृत्य प्रणम्य च। अस्याः धेन्वा विशालं शृङ्गमध्यम्। अर्थसिद्धेः कार्यसिद्धेर्द्वारं प्रवेशमार्गमिव। आनर्चार्चयामास,अर्चतेर्भौवादिकाल्लिट्।। 2.21 ।।
वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ ।
भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ।। 2.22 ।।
वत्सोत्सुकेति।। सा धेनुर्वत्सोत्सुकापि वत्स उत्कण्ठितापि स्तिमिता निश्चला सती सपर्यां पूजां प्रत्यग्रहीदिति होतः,तौ दंपती ननन्दतुः। पूजास्वाकारस्यानन्दहेतुत्वमाह-भक्त्येति। पूज्येष्वनुरागो भक्तिः। तयोपपन्नेषु युक्त्वेषु विषये तद्विधानाम्। तस्या धेन्वा विधेव विधा प्रकारो येषां तेषाम्। महतामित्यर्थः। प्रसादस्य चिह्नानि लिङ्गानि पूजास्वीकारादीनि पुरःफलानि। पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि हि। अविलम्बितफलसूचकलिङ्गदशनादानन्दो युज्यत इत्यर्थः।। 2.22 ।।
गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्वं च विधिं दिलीपः ।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ।। 2.23 ।।
गुरोरिति।। भुजोच्छिन्नरिपुर्दिलीपः सदारस्य दारैररुन्धत्या सह वर्तमानस्य गुरोः,उभयोरपीत्यर्थः। `भार्या जायाथ पुं भूम्नि दाराः’इत्यमरः। पादौ निपीड्याभिवन्द्य। सांध्यं संध्यायां विहितं विधिननुष्ठानं च समाप्य। दोहावसाने निषण्णामासीनां दोग्ध्रीं दोहनशीलम्। `तृन्'(पा.3।2।135)इति तृन्प्रत्ययः। धेनुमेव पुनर्भेजे सेवितवान्। `दोग्ध्रीम्’इति निरुपपदप्रयोगात्कामधेनुत्वं गम्यते ।। 2.23 ।।
तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहीणीसहायः ।
क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ।। 2.24 ।।
तामिति।। गोप्ता रक्षको गृहिणीसहायः पत्नीद्वितीयः सन्। उभावपीत्यर्थः। अन्तिके न्यस्ता बलयः प्रदीपाश्च यस्यास्तां तथोक्तां तां पूर्वोक्तां निषण्णां धेनुमन्वास्यानूपविश्य क्रमेण सुप्तामन्वनन्तरं संविवेश सुष्वाप प्रातः सुप्तोत्थितामनूदष्ठिदुत्थितवान्। अत्र `अनु शब्देन धेनुगजव्यापारयोः पौर्वापर्यमुच्यते।’ `क्रम’शब्देन धेनुव्यापाराणामेवेत्यपौनरुक्त्यम्। `कर्मप्रवचनीययुक्ते-‘(पा.2।3।8)इति द्वितीया ।। 2.24 ।।
इत्थं व्रतं धारयतः प्रजार्थं समं महिण्या महनीयकीर्तेः ।
सप्त व्यतीयुस्त्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ।। 2.24 ।।
इत्थमिति।। इत्थमनेन प्रकारेण प्रजार्थं संतानाय महिष्या सममभिषिक्तपत्न्या सह। `कृताभिषेका महिषी’इत्यमरः। व्रतं धारयतः। महनीया पूज्या कीर्तिर्यस्य तस्य दीनानामुद्धरणं दैन्दविमोचनम्। तत्रोचितस्य परिचितस्य तस्य नृपस्य। त्रयो गुणा आवृत्तयो येषां तानि त्रिगुणानि त्रिरावृत्तानि सप्त दिनान्येकविंशतिदिनानि व्यतीयुः ।। 2.25 ।।
अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः ।
गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ।। 2.26 ।।
अन्येद्युरिति।। अन्येद्युरन्यस्मिन्दिने द्वाविंशे दिने। `सद्यः परुत्परारि-(पा.5।3।22)’ इत्यादिना निपातनादव्ययम्। `अद्यात्राह्लाय पूर्वेऽह्रीत्यादौ पूर्वोत्तरापरात् । तथाधरान्यान्यतरेतरात्पूर्वेंद्युरादयः ।।’ इत्यमरः। मुनिहोमधेनुः आत्मानुचरस्य भावमभिप्रायं दृढभक्तित्वम्। `भावोऽभिप्राय आशयः’ इति यादवः। जिज्ञासमाना ज्ञातुमिच्छन्ती। `ज्ञाश्रुस्मृदृशां सनः'(पा.1।3।57)इत्यात्मनेपदे शानच्। प्रपतत्यस्मिन्निति प्रपातः पतनप्रदेशः गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्मिंस्तत्। `शष्पं बालतृणं घासः’ इत्यमरः। गौरीगुरोः पार्वतीपितुर्गह्वरं गुहामाविवेश ।। 2.26 ।।
सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ।। 2.27 ।।
सेति।। सा धेनुर्हिंस्रैर्व्याघ्रादिभिर्मनसाऽपि दुष्प्रधर्षा दुर्धर्षेति हेतोः,अद्रिशोभायां प्रहितेक्षणेन दत्तदृष्टिना नृपेणालक्षितमभ्युत्पतनमाभिमुख्येनोत्पतनं यस्य स सिंहस्तां धेनुं प्रसह्य हठात्। `प्रसह्य तु हठार्थकम्’ इत्यमरः। चकर्ष। `किल’ इत्यलीके ।। 2.27 ।।
तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् ।
रश्मिष्ववादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ।। 2.28 ।।
तदीयमिति।। गुहानिबद्धेन प्रतिशब्देन प्रतिध्वनिना दीर्घम्। तस्या इदं तदीयम्। आक्रन्दितमार्तघोषणम्। आर्तेष्वापन्नेषु साधोर्हितकारिणो नृपस्य नगेन्द्रसक्तां दृष्टिम्। रश्मिषु प्रग्रहेषु। `किरणप्रग्रहौ रश्मी’इत्यमरः। आदायेव गृहीत्वेव। निवर्तयामास।। 2.28 ।।
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श ।
अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ।। 2.29 ।।
स इति।। धनुर्धरः स नृपः पाटलायां रक्तवर्णायां गवि तस्थिवांसं स्थितम्। `क्कसुश्च'(पा.3।2।102)इति क्वसुप्रत्ययः। केसरिणं सिंहम्। सानुमत्तोऽद्रेः। धातोर्गैरिकस्य विकारो धातुमयी। तस्यामधित्यकायामूर्ध्वभूमौ। `उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमाधित्यका’ इत्यमरः। `उपाधिभ्यां त्यकन्नासन्नारूढयोः (पा.5।2।34) इति त्यकन्प्रत्ययः। प्रफुल्लो विकसितस्तम्। `फुल्ल विकसने’ इति धातोः पचाद्यच्। `प्रफुल्तम्’इति तकारपाठे ञिफला विशरणे’ इति धातोः कर्तरि क्तः। `उत्परस्यातः'(पा.7।4।88)इत्युकारादेशः। लोध्राख्यं द्रुममिव ददर्श।। 2.29 ।।
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ।। 2.30 ।।
तत इति।। ततः सिंहदर्शनानन्तरं मृगेन्द्रगामी सिंहगामी। शरणं रक्षणम्। `शरणं गृहरक्षित्रोः’ इत्यमरः। `शरणं रक्षणे गृहे’इति यादवः। शरणे साधुः शरण्यः,`तत्र साधुः'(पा.4।4।98) इति यत्प्रत्ययः। प्रसभेन बलात्कारेणोद्धृता अरयो येन स नृपती राजा जाताभिषङ्गो जातपराभवः सन्। `अभिषङ्गः पराभवे’ इत्यमरः। वध्यस्य वधार्हस्य। `दण्डादिभ्यो यत्'(पा.5।1।66) इति यत्प्रत्ययः। मृगन्द्रस्य वधाय निषङ्गात्तूणीरात् `तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः’ इत्यमरः। शरमुद्धर्तुमैच्छत् ।। 2.30 ।।
वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे ।
सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे ।। 2.31 ।।
वामेति।। प्रहर्तुस्तस्य वामेतरो दक्षिणः करः। नखप्रभाभिर्भूषितानि विच्छुरितानि कङ्कस्य पक्षिविशेषस्य पत्राणि यस्य तस्मिन्। `कङ्कः पक्षिविशेषे स्याद्गुप्ताकारे युधिष्टिरे’ इति विश्वः। `कङ्कस्तु कर्कटः’ इति यादवः। सायकस्य पुङ्ख एव कर्तर्याख्ये मूलप्रदेशे। `कर्तरी पुङ्खे’इति यादवः। सक्ताङ्गुलिः सन्। चित्रार्पितारम्भश्चित्रलिखितशरोद्धरणोद्योग इव। अवतस्थे ।। 2.31 ।।
बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः ।
राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्त्रौषधिरुद्धवीर्यः ।। 2.32 ।।
बाह्विति।। बाह्वोः प्रतिष्मम्भेन प्रतिबन्धेन। `प्रतिबन्धः प्रतिष्टम्भः’ इत्यमरः। विवृद्धमन्युः प्रवृद्धरोषो राजा। मन्त्त्रौषधिभ्यां रुद्धवीर्यः प्रतिबद्धशक्तिर्भोगीसर्प इव। `भोगी राजभुजंगयोः’ इति शाश्वतः। अभ्यर्णमन्तिकम्। `उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्’ इत्यमरः। आगस्कृतमपराधकारिणम्,अस्पृशद्भिः स्वतेजोभिरन्तरदह्यत। `अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि’ इति यादवः।। 2.32 ।।
तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ।। 2.33 ।।
तमिति।। निगृहीता पीडिता धेनुर्येन स सिंहः। आर्याणां सतां गृह्यं पक्ष्यम्। `पदास्वैरिबाह्यापक्ष्येषु च'(पा.3।1।119) इति क्यप्। मनुवंशस्य केतुं चिह्नं केतुवद्व्यावर्तकम्। सिंह इवोरुसत्त्वो महाबलस्तम्। आत्मनो वृत्तौ बाहुस्तम्भरूपे व्यापारेऽभूतपूर्वत्वाद्विस्मितम्। कर्तरि क्तः। तं दिलीपं मनुष्यवाचा करणेन। पुनर्विस्माययन् स्मयमाश्चर्यं प्रापयन्निजगाद। `स्मिङ् ईषद्धसने’ इति धातोर्णिचि वृद्धावायादेशे शतृप्रत्यये च सति विस्माययन्निति रूपं सिद्धम्। `विस्मापयन्’ इति पाठे पुगागममात्रं वक्यव्यम्। तञ्च `नित्यं स्मयतेः'(पा.6।1।57) इति हेतुभयविवक्षायामेवेति `भीस्म्योर्हेतुभये’ (पा.1।3।68) इत्यात्मनेपदे विस्मापयमान इति स्यात्। तस्मान्मनुष्यवाचा विस्माययन्निति रूपं सिद्धम्। करणविवक्षायां न कश्चिद्दोषः।। 2.33 ।।
अलं महीपाल! तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
न पादणेन्मूलनशक्ति रंहः शिलोञ्चये मूर्च्छति मारुतस्य ।। 2.34 ।।
अलमिति।। हे महीपाल! तव श्रमेणालम्,साध्याभावाच्छ्रमो न कर्तव्य इत्यर्थः। अत्र गम्यमानसाधनक्रियापेक्षया श्रमस्य करणत्वात्तृतीया। उक्तं च न्यासोद्द्योते-`न केवलं श्रूयमाणैव क्रिया निमित्तं करणभावस्य । अपि तर्हि गम्यमानापि’ इति। `अलं भूषणपर्याप्तिशक्तिवारणवाचकम्’ इत्यमरः। इतोऽस्मिन्मयि। सार्वविभक्तिकस्तसिः। प्रयुक्तमप्यस्त्त्रं वृथा स्यात्। तथा हि-पादपोन्मूलने शक्तिर्यस्य तत्तथोक्तं मारुतस्य रंहो वेगः शिलोञ्चये पर्वते न मूर्च्छति न प्रसरति ।। 2.34 ।।
कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् ।
अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ।। 2.35 ।।
कैलासेति।। कैलास इव गौरः शुभ्रस्तम्। `चामीकरं च शुभ्रं च गौरमाहुर्मनीषिणः’ इति शाश्वतः। वृषं वृषभम्,आरुरुक्षोरारोढुमिच्छोः। स्वस्योपरि पदं निक्षिप्य वृषमारोहतीत्यर्थः। अष्टौ मूर्तयो यस्य स तस्याष्टमूर्तेः शिवस्य पादार्पणं पादन्त्यासस्तदेवानुग्रहः प्रसादस्तेन पूतं पृष्ठं यस्य तं तथोक्तं निकुम्भमित्रं कुम्भोदरं नाम किंकरं मामवेहि विद्धि। `पृथिवी सलिलं तेजौ वायुराकाशमेव च । सूर्यां चन्द्रमसौ मोमयाजी चेत्यष्टमूर्तयः ।।’ इति यादवः।। 2.35 ।।
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ।। 2.36 ।।
अमुमिति।। पुरोऽग्रतोऽग्रतोऽमुं देवदारुं पश्यसि। इति काकुः। असौ देवदारुः। वृषभो ध्वजे यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः। अभूततद्भावे च्विः। यो देवदारुः स्कन्दस्य मातुर्गौर्या हेम्नः कुम्भ एव स्तनः तस्मान्निःसृतानां पयसामम्बूनां रसज्ञः स्वादज्ञः। स्कन्दपक्षे,-हेमकुम्भ इव स्तन इति विग्रहः। पयसां क्षीराणाम्। `पयः क्षीरं पयोऽम्बु च’ इत्यमरः। स्कन्दसमानप्रेमास्पदमिति भावः ।। 2.36 ।।
कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।
अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्त्रैः ।। 2.37 ।।
कण्डूयमानेनेति।। कदाचित् कटं कपोलं कण्डूयमानेन कर्षता। `कण्ड्वादिभ्यो यक्'(पा.3।2।61) इति यक। ततः शानच्। वन्यद्विपेनास्य देवदारोस्त्वगुन्मथिता अथाद्रेस्तनया गौरी। असुरास्त्त्रैरालीढं क्षतम्। सेनां नयत्तीति सेनानीः स्कन्दः। `पार्वतीनन्दनः स्कन्दः सेनानीः’ इत्यमरः। `सत्सूद्विष-‘ (पा.3।1।27)इत्यादिना क्विप्। तमिव। एवं देवदारुं शुशोच ।। 2.37 ।।
तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ ।
व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति ।। 2.38 ।
तदेति।। तदा तत्कालः प्रभृतिरादिर्यस्मिन्कर्मणि तत्तथा तदाप्रभृत्येव वनद्विपानां त्रासार्थं भयार्थं शूलभृता शिवेन । अङ्गंसमीपमागताः प्राप्ताः सत्त्वाः प्राणिनो वृत्तिर्यस्मिंस्तत्। `अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः’ इति केशवः। सिंहत्वं विधाय। अस्मिन्नद्रिकुक्षौ गुहायामहं व्यापारितो नियुक्तः ।। 2.38 ।।
तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ।। 2.39 ।।
तस्येति।। परमेश्वरेण प्रदिष्टो निर्दिष्टः कालो भोजनवेला यस्याः सोपस्थिता प्राप्ता एषा गोरूपा शोणितपारणा रुधिरस्य व्रतान्तभोजनम्। सुरद्विषोराहोः चन्द्रमस इयं चान्द्रमसी सुधेव क्षुधितस्य तस्याङ्कागतसत्त्ववृत्तेर्मे मम सिंहस्य तृप्त्या अलं पर्याप्ता। `नमःस्वस्ति-‘(पा.2।3।16) इत्यादिना चतुर्थी ।। 2.39 ।।
स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्त्रभृतां क्षिणोति ।। 2.40 ।।
स इति।। स एवमुपायशून्यस्त्वं लज्जां विहाय निवर्तस्व। भवांस्त्वं गुरोर्दर्शिता प्रकाशिता शिष्यस्य कर्तव्या भक्तिर्येन स तथोक्तोऽस्ति। ननु गुरुधनं विनाश्य कथं तत्समीपं गच्छेयमत आह-शस्त्त्रेणेति। यद्रक्ष्यं धनं शस्त्त्रेणायुधेन। `शस्त्त्रमायुधलोहयोः’ इत्यमरः। अशक्या रक्षा यस्य तदशक्यरक्षम्; रक्षितुमशक्यमित्यर्थः। तद्रक्ष्यं नष्टमपि शस्त्रभृतां यशो न क्षिणोति न हिनस्ति। अशक्यार्थेष्वप्रतिविधानं न दोषायेति भावः ।। 2.40 ।।
इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ।। 2.41 ।।
इति प्रगल्भं पुरुषाणामधिराजो नृप इति प्रगल्भं मृगाधिराजस्य वचोनिशम्य श्रुत्वा गिरिशस्येश्वरस्य प्रभावात्प्रत्याहतास्त्त्रः’ कुण्ठितास्त्त्रः सन् आत्मनि विषयेऽववज्ञामपमानं शिथिलीचकार। तत्याजेत्यर्थः। अवज्ञातोऽहमिति निर्वेदं न प्रापेत्यर्थः। समानेषु हि क्षत्रियाणामभिमानः न सर्वेश्वरं प्रतीति भावः ।। 2.41 ।। प्रत्यब्रवीञ्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः ।
जडीकृतस्त्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः ।। 2.42 ।।
प्रतीति।। स एव पूर्वः प्रथमो भङ्गः प्रतिबन्धो यस्य तस्मिस्तत्पूर्वभङ्ग इषुप्रयोगे वितथप्रयत्नो विफलप्रयासः। अत एव वज्रं कुलिशं मुमुक्षन् मोक्तुमिच्चन्। अम्बुकं लोचनम्। दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि’ इति हलायुधः। त्रीण्यम्बकानि यस्य स त्र्यम्बको हरः। तस्य वीक्षणेन जडीकृतो निष्पन्दीकृतः। वज्रं पाणौ यस्य स वज्रपाणिरिन्द्रः। `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्'(वा.1415) इति पाणेः सप्तम्यन्तस्योत्तरनिपातः। स इव स्थितो नृप एनं सिंहं प्रत्यब्रवीञ्च। `बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः’ इति महाभारते ।। 2.42 ।।
संरुद्धचेष्टस्य मृगेन्द्र! कामं हास्यं वचस्तद्यदहं विवक्षुः ।
अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावमतोऽभिधास्ये ।। 2.43 ।।
संरुद्धेति।। हे मृगेन्द्र! संरुद्धचेष्टस्य प्रतिबद्धव्यापारस्य मम तद्वचोवाक्यं कामं हास्यं परिहसनीयम्। यद्वचः `स त्वं मदीयेन'(2।45) इत्यादिकमहं विवक्षुर्वक्तुमिच्छुरस्मि। तर्हि तूष्णीं स्थीयतामित्याशङ्क्येश्वरकिंकरत्वात्सर्वज्ञं त्वां प्रति न हास्यमित्याह-अन्तरिति। हि यतो भवान् प्राणभृतामन्तर्गतं हृद्गतं वाग्वृत्त्या बहिरप्रकाशितमेव सर्वं भावं वेद वेत्ति। `विदो लटो वा'(पा.3।4।83)इति णलादेशः। अतोऽभिधास्ये वक्ष्यामि। वच इति प्रकृतं कर्म संबध्यते। अन्ये त्वीदृग्वचनमाकर्ण्यासंभावितार्थमेतदित्युपहसन्ति। अतस्तु मौनमेव भूषणम्। त्वं तु वाङ्मनसयोरेकविध एवायमिति जानासि। अतोऽभिधास्ये यद्वचोऽहं विवक्षुरित्यर्थः।। 2.43 ।।
मान्यः स मे स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ।। 2.44 ।।
मान्य इति।। प्रत्यवहारः प्रलयः। स्थावराणां तरुशैलादीनां जंगमानां मनुष्यादीनां सर्गस्थितिप्रत्यवहारेषु हेतुः स ईश्वरो मे मम मान्यः पूज्यः। अलङ्घ्यशासन इत्यर्थः। शासनं च `सिंहत्वमङ्कागतसत्त्ववृत्ति'(2।38) इत्युक्तरूपम्। तर्हि विसृज्य गम्यताम्; नेत्याह-गुरोरपीति। पुरस्तादग्रे नश्यदिदमाहिताग्नेगुरोर्धनमपि गोरूपमनुपेक्षणीयम्। `आहिताग्नेः’ इति विशेषणेनानुपेक्षाकारणं हविः साधनत्वं सूचयति।। 2.44 ।।
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः ।। 2.45 ।।
स इति।। सोऽङ्कागतसत्त्ववृत्तिस्त्वं मदीयेन देहेन शरीरस्य वृत्तिं जीवनं निर्वर्तयितुं संपादयितुं प्रसीद। दिनावसान उत्सुको `माता ममागमिष्यति’ इत्युत्काण्ठतो बालवत्सो यस्याः सा महर्षेरियं धेनुर्विसृज्यताम् ।। 2.45 ।।
अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपतिं बभाषे ।। 2.46 ।।
अथेति।। अथ भूतेश्वरस्य पार्श्ववर्त्यनुचरः स सिंहो गिरेर्गह्वराणां गुहानाम्। `देवखातबिले गुहा। गह्वरम्’ इत्यमरः। अन्धकारं ध्वान्तं दंष्ट्रामयूखैः शकलानि खण्डानि कुर्वन्,निरस्यन्नित्यर्थः। किंचिद्विहस्य। अर्थपतिं नृपं भूयो बभाषे। हासकारणम् `अल्पस्य हेतोर्बहु हातुमिच्छन्'(2।47) इति वक्ष्यमाणं द्रष्टव्यम्।। 2.46 ।।
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् ।। 2.47 ।।
एकेति।। एकातपत्रमेकच्छत्रं। जगतः प्रभुत्वं स्वामित्वम्। नवं वयो यौवनम्। इदं कान्तं रम्यं वपुश्च। इत्येवं बहु अल्पस्य हेतोरल्पेन कारणेन अल्पफलायेत्यर्थः। `षष्ठी हेतुप्रयोगे'(पा.2।3।36) इति षष्ठी। हातुं त्यक्तुमिच्छंस्त्वं विचारे कार्याकायविमर्शे मूढो मूर्खो मे मम प्रतिभासि ।। 2.47 ।।
भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते ।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ! पितेव पासि ।। 2.48 ।।
भूतेति।। तव भूतेष्वनुकम्पा कृपा चेत्। `कृपा दयानुकम्पा स्यात्’इत्यमरः। कृपैव वर्तते चेदित्यर्थः। तर्हि त्वदन्ते तव नाशे सति,इयमेका गौः। स्वस्ति क्षेममस्या अस्तीति स्वस्तिमती। भवेत्,जीवेदित्यर्थथः। `स्वस्त्याशीःक्षेमपुण्यादौ’इत्यमरः। हे प्रजानाथ! जीवन् पुनः पितेव प्रजा उपप्लवेभ्यो विपद्भ्यः शश्वत् सदा ।`पुनः सदार्थयोः शश्वत्’ इत्यमरः। पासि रक्षसि। स्वप्राणव्ययेनैकधेनुरक्षणाद्वरं जीवितेनैव शश्वदखिलजगत्त्राणमित्यर्थः।। 2.48 ।।
न धर्मलोपादियं प्रवृत्तिः किंतु गुरुभयादित्यत आह-
अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि ।
शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ।। 2.49 ।।
अथेति।। अथेति पक्षआन्तरे,अथवा। एकैव धेनुर्यस्य तस्मात्। अयं कोपकारणोपन्यास इति ज्ञेयम्। अत एवापराधे गवोपेक्षालक्षणे सति चण्डादतिकोपनात्। `चण्डस्त्वत्यन्तकोपनः’ इत्यमरः। अत एव कृशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद्गुरोर्बिभेषि इति काकुः। `भीत्रार्थानां भयहेतुः'(पा.1।4।25)इत्यपादानात्पञ्चमी। अल्पवित्तस्य धनहानिरतिदुःसहेति भावः। अस्य गुरोर्मन्युः क्रोधः। `मन्युर्दैन्ये क्रतौ क्रुधि’ इत्यमरः। घटा इवोधांसि यासां ता घटोध्नीः। `ऊधसोऽनङ्'(पा.5।4।131) इत्यनङादेशः। ` बहुव्रीहेरूधसो ङीष्'(पा.4।1।25) इति ङीष्। कोटिशो गाः स्पर्शयता प्रतिपादयता। `विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्’ इत्यमरः। भवता विनेतुमपनेतुं शक्यः ।। 2.49 ।।
तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् ।
महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ।। 2.50 ।।
तदिति।। तत्तस्मात्कारणात् कल्याणपरम्पराणां भोक्तारम्। कर्मणि षष्ठी। ऊर्जो बलमस्यास्तीत्यूर्जस्वलम्। `ज्योत्स्नातमिस्रा-‘(पा.5।2।114) इत्यादिना बलच्प्रत्ययान्तो निपातः। आत्मदेहं रक्ष। ननु गामुपेक्ष्यात्मदेहरक्षणे स्वर्गहानिः स्यात्। नेत्याह-महीतलेति। ऋद्धं समृद्धं राज्यं महीतलस्पर्शनमात्रेण भूतलसंबन्धमात्रेण भिन्नमैन्द्रमिन्द्रसंबन्धि पदं स्थानमाहुः। स्वर्गान्न भिद्यत इत्यर्थः।। 2.50 ।।
एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।
शिलोञ्चयोऽपि क्षितिपालमुञ्चैः प्रीत्या तमेवार्थमभाषतेव ।। 2.51 ।।
एतावदिति।। मृगेन्द्र एतावदुक्त्वा विरते सति गुह्नागतेनास्य सिंहस्य प्रतिस्वनेन शिलोञ्चयः शैलोऽपि प्रीत्या तमेवार्थँ क्षितिपालमुञ्चैरभाषतेव। इत्युत्प्रेक्षा। भाषिरयं ब्रुविसमानार्थत्वाद्दिकर्मकः। ब्रुविस्तु द्विकर्मकेषु पठितः। तदुक्तम्-`दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ। ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ।।’ इति ।। 2.51 ।।
निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच ।
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयासुः ।। 2.52 ।।
निशम्येति।। देवानुचरस्येश्वरकिंकरस्य सिंहस्य वाचं निशम्य,मनुष्यदेवो राजा पुनरप्युवाच। किंभूतः सन्? तेन सिंहेन यदध्यासितं व्याक्रमणम्। नपुंसके भावे क्तः। तेन कातरे अक्षिणी यस्यास्तया। `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्'(पा.5।4।113) इति षच्। `षिद्गौरादिभ्यश्च'(पा.4।1।41) इति ङीष्। `किंवा वक्ष्यति’ इति मीत्यैवं स्थितयेत्यर्थः। धेन्वा निरीक्ष्यमाणः। अत एव सुतरां दयालुः सन्। `सुतराम्’ इत्यत्र `द्विवचनविभज्य-‘(पा.4।1।41) इत्यादिना सुशब्दात्तरप्। `किमेत्तिङव्यय-‘(पा.5।4।11) इत्यादिनाम्प्रत्ययः। `तद्धितश्चासर्वविभक्तिः'(पा.1।1।38) इत्यव्ययसंज्ञा ।। 2.53 ।।
किमुवाचेत्याह-
क्षतात्किल त्रायत इत्युदग्रः क्षत्त्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ।। 2.53 ।।
क्षतादिति।। `क्षणु हिंसायाम्’ इति धातोः संपदादित्पात्क्विप्। `गमादीनाम्'(वा.4073) इति वक्तव्यादनुनासिकलोपे तुगागमे च क्षदिति रूपं सिद्धम्। क्षतो नाशात्त्रायत इति क्षत्त्रः। `सुपि-‘(पा.3।2।4) इति योगविभागात्कः। तामेतां व्युत्पत्तिं कविरर्थतोऽनुक्रामति-क्षतादित्यादिना। उदग्र उन्नतः क्षत्त्रवर्णस्य शब्दो वाचकः। क्षत्त्रशब्द इत्यर्थः। क्षतात्त्रायत इति व्युत्पत्त्या भुवनेषु रूढः किल प्रसिद्धः। खलु। नाश्वकर्णादिवत्केवलरूढः किंतु पङ्कजादिवद्योगरूढ इत्यर्थः। ततः किमित्य आह-तस्य`क्षत्त्र’शब्दस्य विपरीतवृत्तेर्विरुद्धव्यापारस्य क्षतस्त्राणमकुर्वतः पुंसो राज्येन किम्? उपक्रोशमलीमसैर्निन्दामलिनैः। `उपक्रोशोजुगुप्सा च कुत्सा निन्दा च गर्हणे’इत्यमरः। `ज्योत्स्नातमिस्रा-‘(पा.5।2।114)इत्यादिना `मलीमैस’शब्दो निपातितः। `मलीमसं तु मलिनं कञ्चरं मलदूषितम्’इत्यमरः। तैः प्राणैर्वा किम्? निन्दितस्य सर्वं व्यर्थमित्यर्थः। एतेन `एकातपत्रम्'(2।47)इत्यादिना श्लोकद्वयेनोक्तं प्रत्युक्तमिति वेदितव्यम् ।। 2.53 ।।
`अथैकधेनोः'(2।47)इत्यत्रोत्तरमाह-
कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाञ्चान्यपयस्विनीनाम् ।
इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयाऽस्याम् ।। 2.54 ।।
कथमिति।। अनुनयः क्रोधापनयः। चकारो वाकारार्थः। महर्षेरनुनयो वाऽन्यासां पयस्विनीनां दोग्ध्रीणां गवां विश्राणनाद्दानात्। `त्यागो वितरणं दानमुत्सर्जनविसर्जने। विश्राणनं वितरणम्’ इत्यमरः। कथं नु शक्यः? न शक्य इत्यर्थः। अत्र हेतुमाह-इमां गां सुरभेः कामधेनोः। `पञ्चमी विभक्ते'(पा.2।3।42)इति पञ्चमी। अनूनामन्यूनामवेहि जानीहि। तर्हि कथमस्याः परिभवोऽभूदित्याह-रुद्रौजसेति। अस्यां गवि त्वया कर्त्रा प्रहृतं तु प्रहारस्तु। नपुंसके भावे क्तः। रुद्रौजसेश्वरसामर्थ्येन। न तु त्वयेत्यर्थः। `सप्तम्यधिकरणे च'(पा.2।3।36) इति सप्तमी।। 2.54 ।।
तर्हि किं चिकीर्षितमित्यत्राह-
सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः ।
न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ।। 2.55 ।।
सेयमिति।। सेयं गौर्मया। निष्क्रीयते प्रत्याह्रियतेऽनेन परगृहीतमिति निष्क्रयः प्रतिशीर्षकम्। `एरच्'(पा.3।3।56) इत्यच्प्रत्ययः। स्वदेहार्पणमेव निष्क्रयस्तेन भवत्तस्त्वत्तः। पञ्चम्यास्तसिल्। मोचयितुं न्याय्या न्यायादनपेता। युक्तेत्यर्थः। `धर्मपथ्यर्थं-‘(पा.4।4।92) इत्यादिना यत्प्रत्ययः। एवं सति तव पारणा भोजनं विहता न स्यात्। मुनेः क्रिया होमादिः स एवार्थः प्रयोजनम्। स चालुप्तो भवेत्। स्वप्राणब्ययेनापि स्वामिगुरुधनं संरक्ष्यमिति भावः।। 2.55 ।।
अत्र भवानेव प्रमाणमित्याह-
भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ।। 2.56 ।।
भवानिति।। परवान् स्वामिपरतन्त्त्रो भवानपि। `परतन्त्त्रः पराधीनः परवान्नाथवानपि’ इत्यमरः। इदं वक्ष्यमाणमवैति। भवतानुभूयत एवेत्यर्थः। `शेषे प्रथमः'(पा.1।4।108) इति प्रथमपुरुषः। किमित्यत आह-हि यस्माद्धेतोः,`हि हेताववधारणे’इत्यमरः। तव देवदारौ विषये महान् यत्नः। महता यत्नेन रक्ष्यत इत्यर्थः। इदंशब्दोक्तमर्थं दर्शयति-स्थातुमिति।। रक्ष्यं वस्तु विनाश्य विनाशं गमयित्वा स्वयमक्षतेनाव्रणेन। नुयुक्तेनेति शेषः। नियोक्तुः स्वामि नोऽग्रे स्थातुं शक्यं न हि ।। 2.56 ।।
सर्वथा चैतदप्रतिहार्यमित्याह-
किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ।
एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ।। 2.57 ।।
किमिति।। किमपि किं वाऽहं तवाहिंस्योऽवध्यो मतश्चेत्तर्हि मे यश एव शरीरं तस्मिन् दयालुः कारुणिको भव। `स्याद्दयालुः कारुणिकः’ इत्यमरः। ननु मुख्यमुपेक्ष्यामुख्यशरीरे कोऽभिनिवेशः? अत आह-एकान्तेति।। मद्विधानां मादृशानां विवेकिनामेकान्तविध्वंसिष्ववश्यविनाशिषु भौतिकेषु पृथिव्यादिभूतविकारेषु पिण्डेषु शरीरेष्वनास्था खल्वनपेक्षैव। `आस्था त्वालम्बनास्थानयत्नापेक्षासु कथ्यते’ इति विश्वः ।। 2.57 ।।
सौहार्दादहमनुसरणीयोऽस्मीत्याह-
संबन्धमाभाषणपूर्वमाहुर्वृत्तः स नौ संगतयोर्वनान्ते ।
तद्भूतनाथानुग! नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम् ।। 2.58 ।।
संबन्धमिति।। संबन्धं सख्यम्। आभाषणमालापः पूर्वं कारणं यस्य तमाहुः। `स्यादाभाषणमालापः’इत्यमरः। स तादृक्संबन्धो वनान्ते संगतयोर्नावावयोर्वृत्तो जातः। तत्ततो हेतोर्हे भूतनाथानुग शिवानुचर!। एतेन तस्य महत्त्वं सूचयति। अत एव संबन्धिनो मित्रस्य मे प्रणयं याञ्चाम्। `प्रणयास्त्मी। विश्रम्भयाञ्चाप्रेमाणः’ इत्यमरः। विहन्तुं नार्हसि ।। 2.58 ।।
तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः ।
सन्न्यस्तशस्त्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ।। 2.59 ।।
तथेति।। तथेति गामुक्तवते हरये सिंहाय। `कपौ सिंहे सुवर्णे च वर्णे विष्णौ हरिं विदुः’ इति शाश्वतः। सद्यस्तत्क्षणे प्रतिष्टम्भात्प्रतिबन्धाद्विमुक्तो बाहुर्यस्य सः। दिलीपः। न्यस्तशस्त्त्रस्त्यक्तायुधः सन्। स्वदेहं,आमिषस्य मांसस्य,`पललं क्रव्यमामिषम्’ इत्यमरः। पिण्डं कवलमिव। उपानयत् समर्पितवान्। एतेन निर्ममत्वमुक्तम्।। 2.59 ।।
तस्मिन्क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् ।
अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ।। 2.60 ।।
तस्मिन्निति।। तस्मिन्क्षणे उग्रं सिंहनिपातमुत्पश्यत उत्प्रेक्षमाणस्य तर्कयतोऽवाङ्मुखस्याधोमुखस्य। `स्यादवाङप्यधोमुखः’ इत्यमरः। प्रजानां पालयितू राज्ञ उपर्युपरिष्टात्। `उपर्युपरिष्टात्'(पा.5।3।31) इति निपातः। विद्याधराणां देवयोनिविशेषणां हस्तैर्मुक्ता पुष्पवृष्टिः पपात ।। 2.60 ।।
उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ।
ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम् ।। 2.61 ।।
उत्तिष्ठेति।। राजा। अमृतमिवाचरतीत्यमृतायमानम्। `उपमानादाचारे'(पा.3।1।10)इति क्यच्। ततः शानच्। उत्थितमुत्पन्नम्,`हे वत्स! उत्तिष्ठ’ इति वचो निशम्य श्रुत्वा। उत्थितः सन्। अस्तेः शतृप्रत्ययः। अग्रतोऽग्रे प्रस्रवः क्षीरस्रावोऽस्ति यस्याः सा तां प्रस्रविणीं गां स्वां जननीमिव ददर्श। सिंहं न ददर्श ।। 2.61 ।।
तं विस्मितं धेनुरुवाच साधो! मायां मयोद्भाव्य परीक्षितोऽसि ।
ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः ।। 2.62 ।।
तमिति।। विस्मितमाश्चर्यं गतम्। कर्तरि क्तः। तं दिलीपं धेनुरुवाच । किमित्यत्राह-हे साधो! मया मायामुद्भाव्य कल्पयित्वा परीक्षितोऽसि। ऋषिप्रभावान्मय्यन्तको यमोऽपि प्रहर्तुं न प्रभुर्न समर्थः। अन्ये हिंस्ना घातुकाः। `शरारुर्घातुको हिंस्रः’ इत्यमरः। `नमिकम्पि-‘(पा.3।1।167)इत्यादिना रप्रत्ययः। किमुत सुष्ठु,न प्रभव इति योज्यम्। `बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरे’ इत्यमरः ।। 2.62 ।।
भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र! वरं वृणीष्व ।
न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम् ।। 2.63 ।।
भक्त्येति।। हे पुत्र! गुरौ। भक्त्या। मय्यनुकम्पया च। ते तुभ्यं प्रीताऽस्मि। `क्रियाग्रहणमपि कर्तव्यम्’ इति चतुर्थी। वरं देवेभ्यो वरणीयमर्थम्। `देवाद्धृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये’ इत्यमरः। वृणीष्व स्वीकुरु। तथा हि-मां केवलानां पयसां प्रसूतिं कारणं नावेहि न विद्धिः। किंतु प्रसन्नां माम्। कामान्दोग्धीति कामदुघा। तामवेहि। `दुहः कब्थश्च'(पा.3।2।70) इति कप्प्रत्ययः ।। 2.63 ।।
ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।
वंशस्य कर्तारमनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ।। 2.64 ।।
तत इति।। ततो मानितार्थी। स्वहस्तार्जितो वीर इति शब्दो येन सः। एतेनास्य दातृत्वं दैन्यराहित्यं चोक्तम्। स राजा हस्तौ समानीय संधाय। अञ्जलिं बद्ध्वेत्यर्थः। वंशस्य कर्तारं प्रवर्तयितारम्। अत एव रघुकुलमिति प्रसिद्धिः। अनन्तकीर्तिं स्थिरयशसं तनयं सुदक्षिणायां ययाचे ।। 2.64 ।
संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमादिदेश ।। 2.65 ।।
संतानेति।। सा पयस्विनी गौः। संतानं कामयत इति ह्यंतानकामः। `कर्मण्यण्'(पा.3।2।1)तस्मै राज्ञे तथेति। काम्यत इति कामो वरः। कर्मार्थे घञप्रत्ययः। तं प्रतिश्रुत्य प्रतिज्ञाय,`हे पुत्र!मदीयं पयः पत्रपुटे पत्रनिर्मिते पात्रे दुग्ध्वोपभुङ्क्ष्व पिब’ इति तमादिदेशाज्ञापितवती। `उपयुङ्क्ष्व’ इति वा पाठः।। 2.65 ।।
वत्सस्य होमार्थविधेश्च शेषमृषेरनुज्ञामधिगम्य मातः ।
ऊधस्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः ।। 2.66 ।।
वत्सस्येति।। हे मातः!वत्सस्य वत्सपीतस्य शेषम्। वत्सपीतावशिष्टमित्यर्थथः। होम एवार्थः। तस्य विधिरनुष्ठानम्। तस्य च शेषम्। होमावशिष्टमित्यर्थः। तव। ऊधसि भवमूधस्यं क्षीरम्। `शरीरावयवाञ्च'(पा.4।3।55)इति यत्प्रत्ययः। पक्षिताया उर्व्याः षष्ठांशं षष्ठभागमिव। ऋषेरनुज्ञामधिगम्य उपभोक्तुमिच्छामि ।। 2.66 ।।
इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।
तदन्विता हैमवताञ्च कुक्षेः प्रत्याययावाश्रममश्रमेण ।। 2.67 ।।
इत्थमिति।। इत्थं क्षितीशेन विज्ञापिता वसिष्ठस्य धेनुः प्रीततरा पूर्वं शुश्रूषया प्रीता। संप्रत्यनया विज्ञापनया प्रीततराऽतिसंतुष्टा बभूव। तदन्विता तेन दिलीपेनान्विता हैमवताद्धिमवत्संबन्धिनः कुक्षेगुहायाः सकाशादश्रमेणानायासेनाश्रमं प्रत्याययावागता च ।। 2.67 ।।
तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ।। 2.68 ।।
तस्या इति।। प्रसन्नेन्दुरिव मुखं यस्य स नृपाणां गुरुर्दिलीपः प्रहर्षचिह्नैर्मुखरागादिभिरनुमितमभ्यूहितं तस्या धेनोः प्रसादमनुग्रहं प्रहर्षचिह्नैरेव ज्ञातत्वात्पुनरुक्तयेव वाचा गुरवे निवेद्य विज्ञाप्य पश्चात्प्रियायै शशंस । कथितस्यैव कथनं पुनरुक्तिः,न चेह तदस्ति। किंतु चिह्नैः कथितप्रायत्वात्पुनरुक्तयेव स्थितयेवेत्युत्प्रेक्षा ।। 2.68 ।।
स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् ।
पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तमिवातितृष्णः ।। 2.69 ।।
स इति।। अनिन्दितात्माऽगर्हितस्वभावः। सत्सु वत्सलः प्रेमवान् सद्वत्सलः। `वत्सांसाभ्यां कामबले'(पा.5।2।98)इति लच्प्रत्ययः। वसिष्ठेन कृताभ्यनुज्ञः कृतानुमतिः स राजा वत्सस्य हुतस्य चावशेषं पीतहुतावशिष्टं नन्दिन्याः स्तन्यं क्षीरम्। शुभ्रं मूर्तं परिच्छिन्नं यश इव। अतितृष्णः सन्पपौ ।। 2.69 ।।
प्रातर्यथोक्तव्रतपारमान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य ।
तौ दंपती स्वां प्रति राजधानीं प्रस्थापयामास वशी वसिष्ठः ।। 2.70 ।।
प्रातरिति।। वशी वसिष्ठः प्रातः। यथोक्तस्य पूर्वोक्तस्य व्रतस्य गोसेवारूपस्याङ्गभूता या पारणा तस्या अन्ते प्रास्थानिकं प्रस्थानकाले भवम्। तत्कालोचितमित्यर्थथः। `कालाट्टञ्'(पा.4।3।11) इति ठञ्प्रत्ययः। `यथाकथंचिद्गुणवृत्त्यापि काले वर्तमानत्वात्तत्प्रत्यय इष्यते’ इति वृत्तिकारः। ईयते प्राप्यतेऽनेनेत्ययनं स्वस्त्ययनं शुभावहमाशीर्वादं प्रयुज्य । तौ दंपती स्वां राजधानीं पुरीं प्रति प्रस्थापयामास ।। 2.70 ।।
प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च ।
धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतप्रभावः ।। 2.71 ।।
प्रदक्षिणीकृत्येति।। नृपो हुतं तर्पितम्। हुतमश्नातीति हुताशोऽग्निः। `कर्मण्यण्'(पा.3।2।12)। तं भर्तुर्मुनेरनन्तरम्। प्रदक्षिणानन्तरमित्यर्थः। अरुन्धतीं च सवत्सां धेनुं च प्रदक्षिणीकृत्य । प्रगतो दक्षिणं प्रदक्षिणम्। `तिष्ठद्गुप्रभृतीनि च'(पा.2।1।17) इत्यव्ययीभावः। ततश्चिवः। अप्रदक्षिणं प्रदक्षिणं संपद्यमानं कृत्वा प्रदक्षिणीकृत्य। सद्भिर्मङ्गलैः प्रदक्षिणादिभिर्मङ्गलाचारैरुदग्रतरप्रभावः सन्। प्रतस्थे ।। 2.71 ।।
श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः ।
ययावनुद्धातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ।। 2.72 ।।
श्रोत्रेति।। धर्मपत्नीसहितः सहिष्णुर्व्रतादिदुःखसहनशीलः स नृपः श्रोत्राभिरामध्वनिना कर्णाह्लादकरस्वनेनानुद्धातः पाषाणादि प्रति घातरहितः। अत एव सुखयतीति सुखः,तेन रथेन। स्वेन पूर्णेन सफलेन मनोरथेनेव। मार्गमध्वानं ययौ। मनोरथपक्षे,-ध्वनिः श्रुतिः। अनुद्धातः प्रतिबन्धनिवृत्तिः।। 2.72 ।।
तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम् ।
नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवौषधीनाम् ।। 2.73 ।।
तमिति।। अदर्शनेन प्रवासनिमित्तेनाहितौत्सुक्यं जनितदर्शनोत्कण्ठम्। प्रजार्थेन संतानार्थेन व्रतेन नियमेन कर्शितं कृशीकृतमङ्गं यस्य तम्। नवोदयं नवाभ्युदयं प्रजास्तृप्तिमनाप्नुवद्भिरतिगृध्नुभिर्नेत्रैः। ओषधीनां नाथं सोममिव। तं राजानं पपुः । अत्यास्थया ददृशुरित्यर्थः। चन्द्रपक्षे,-अदर्शनं कलाक्षयनिमित्तम्। प्रजार्थे लोकहितार्थम्। व्रतं देवताभ्यः कलादाननियमः-`तं च सोमं पपुर्देवाः पर्यायेणानुपूर्वशः’ इति व्यासः। उदय आविर्भावः । अन्यत्समानम्।। 2.73 ।।
पुरंदरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः ।
भुजे भुजंगेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ।। 2.74 ।।
पुरंदरेति।। पुरः पुरीरसुराणां दारयतीति पुरंदरः शकः। `पूःसर्वयोर्दारिसहोः'(पा.3।2।41)इति खच्प्रत्ययः। `वाचंयमपुरंदरौ च'(पा.6।3।69)इति मुमागमो निपातितः। तस्य श्रीरिव श्रीर्यस्यसः। स नृपः पौरैरभिनन्द्यमानः। उत्पताकमुच्छ्रितध्वजम्। `पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्’इत्यमरः। पुरं प्रविश्य भुजंगेन्द्रेण समानसारे तुल्यबले। `सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रुषु’ इत्यमरः। भुजे भूयो भूमेर्धुरमाससञ्ज अर्पितवान्।। 2.74 ।।
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः
सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् ।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः ।। 2.75 ।।
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः।
अथेति।। अथ द्यौः सुरवर्त्म। `द्यौः स्वर्गसुरवर्त्मनोः’ इति विश्वः। अत्रेर्महर्षेर्नयनयोः समुत्थमुत्पन्नं नयनसमुत्थम्। `आतश्चोपसर्गे'(पा.3।1।136)इति कप्रत्ययः। ज्योतिरिव। चन्द्रमिवेत्यर्थः। `ऋक्षेशः स्यादत्रिनेत्रप्रसूतः’ इति हलायुधः। चन्द्रस्यात्रिनेत्रोद्भूतत्वमुक्तं हरिवंशे-`नेत्राभ्यां वारि सुस्नाव दशधा द्योतयद्दिशः। तद्गर्भविधिना हृष्टा दिशो देव्यो दधुस्तदा। समेत्य धारयामासुर्न चैताः समशक्नुवन्। स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः। पपात पावयँल्लोकाञ्छीतांशुः सुरभावनः।।’ इति। सुरसरिद्गङ्गा वह्निना निष्ठ्यूतं विक्षिप्तम्। `च्छ्वोः शूडनुनासिके च'(पा.6।4।19)इत्यनेन निपूर्वात्ष्ठीवतेर्वकारस्य ऊठ्। `नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः’ इत्यमरः। ऐशं तेजः स्कन्दमिव। अत्र रामायणम्(बाल.3।6।10)-`ते गत्वा पर्वतं राम! कैलासं धातुमण्डितम्। अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः। देवकार्यमिदं देव समाधत्स्व हुताशन!। शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज। देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः। गर्भँ धारय वै देवि! देवतानामिदं प्रियम्। इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत्। स तस्यामहिमां दृष्ट्वा समन्तादवशीर्यत। समन्ततस्तु तां देवीमभ्यषिञ्चत पावकः। सर्वस्नोतांसि पूर्णानि गङ्गाया रघुनन्दन!।।’ इति। राज्ञी सुदक्षिणा नरपतेर्दिलीपस्य कुलभूत्यै संततिलक्षणायै गुरुभिर्महद्भिर्लोकपालानामनुभावैस्तेजोभिरभिनिविष्टमनुप्रविष्टं गर्भमाधत्त। दधावित्यर्थः। अत्र मनुः(5।96)-`अष्टानां लोकपालानां वपुर्धारयते नृपः’ इति। अत्र `आधत्त’ इत्यनेन स्त्रीकर्तृकधारणमात्रमुच्यते। तथा मन्त्रे च दृश्यते-`यथेयं पृथिवी मह्युत्ताना गर्भमादधे। एवं त्वं गर्भमाधेहि दशमे मासि सूतवे।’ इत्याश्वलायनानां सीमन्तमन्त्रे स्त्रीव्यापारधारण आधानशब्दप्रयोगदर्शनादिति। मालिनीवृत्तमेतत्। तदुक्तम्-`ननमयययुतेयं मालिनी भोगिलोकैः’ इति लक्षणात् ।। 2.75 ।।
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां संजीविनीसमाख्यायां द्वितीयः सर्गः ।
तृतीयः सर्गः
उपाधिगम्योऽप्यनुपाधिगम्यः समावलोक्योऽप्यसमावलोक्यः ।
भवोऽपि योऽभूदभवः शिवोऽयं जगत्यपायादपि नः स पायात् ।।
`राज्ञी गर्भमाधत्त'(2।75) इत्युक्तम्,संप्रति गर्भलक्षणानि वर्णयितुं प्रस्तौति-
अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् ।
निदानमिक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ।। 3.1 ।।
अथेति।। अथ गर्भधारणानन्तरम्। सुदक्षिणा। उपस्थितोदयं प्राप्तकालं भर्तुर्दिलीपस्येप्सितं मनोरथम्। भावे क्तः। पुनः सखीजनस्योद्वीक्षणानां दृष्टीनां कौमुदीमुखं चन्द्रिकाप्रादुर्भावम्। यद्वा,-कौमुदी नाम दीपोत्सपतिथिः। तदुक्तं भविष्योत्तरे-`कौ मोदन्ते जना यस्यां तेनासौ कौमुदी मता’ इति। तस्या मुखं प्रारम्भम्। अत एव केचित्-`सखीजनोद्वीक्षणकौमुदीमहम्’ इति पाठं पठन्ति। इक्ष्वाकुकुलस्य संतते रविच्छेदस्य निदानं मूलकारणम्। `निदानं त्वादिकारणम्’ इत्यमरः। एवंविधं दौर्हृदलक्षणं गम्भचिह्नं वक्ष्यमाणं दधौ। स्वहृदयेन गर्भहृदयेन च द्विहृदया गर्भिणी। यथाह वाग्भटः(अ.हृ.शा.1।52)-`मातृजं ह्यस्य हृदयं मातुश्च हृदयं तु तत्। संबद्धं तेन गर्भिण्याः श्रेष्ठं श्रद्धाभिमाननम्।।’ इति। तत्संबन्धित्वाद्गर्भो दौर्हृदमित्युच्यते। सा च तद्योगाद्दौहृदिनीति। तदुक्तं संग्रहे(अ.2)-`द्विहृदयां नारीं दौर्हृदिनीमाचक्षते’ इति। अत्र दौर्हृदलक्षणस्येप्सितत्वेन कौमुदीमुखत्वेन च निरूपणाद्रूपकालंकारः। अस्मिन्सर्गे वंशस्थं वृत्तम्-`जतौ तु वंशस्थमुदीरितं जरौ’ इति लक्षणात् ।। 3.1 ।।
संप्रति क्षामताख्यं गर्भलक्षणं वर्णयति-
शरीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना ।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ।। 3.2 ।।
शरीरेति।। शरीरस्य सादात् काश्यादसमग्रभूषणा परिमिताभरणा लोध्रपुष्पवत् पाण्डुना मुखेनोपलक्षिता सा सुदक्षिणा। विचेया मृग्यास्तारका यस्यां सा तथोक्ता। विरलनक्षत्रेत्यर्थः। तनुप्रकाशेनाल्पकान्तिना शशिनोपलक्षितेषदसमाप्तप्रभाता प्रभातकल्पा। प्रभातादीषदूनेत्यर्थः। `तसिलादिष्वा कृत्वसुचः'(पा.6।3।35) इति `प्रभात’शब्दस्य पुंवद्भावः। शर्वरी रात्रिरिव। अलक्ष्यत। शरीरसादादिगर्भलक्षणमाह वाग्भटः(अ.हृ.शा1।50)-`क्षामता गरिमा कुक्षेमूर्च्छा छर्दिररोचकम्। जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्।।’ इति ।। 3.2 ।।
दोहदलक्षणे मृद्भक्षणे हेत्वन्तरमुत्प्रेक्षते-
तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ।। 3.3 ।।
तदिति।। क्षितीश्वरो रहसि मृत्सुरभि मृदा सुगन्धि तस्या आननं तदाननं सुदक्षिणामुखमुपाघ्राय तृप्तिं नाययौ। कः कमिव? शुचिव्यपाये प्रीष्मावसाने। `शुचि शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते। ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्त्रिणी।।’ इति विश्वः। पयोमुचां मेघानां पृषतैर्बिन्दुभिः। `पृषन्ति बिन्दुपृषताः’ इत्यमरः। सिक्तमुक्षितं वनराज्याः पल्वलमुपाघ्राय करी गज इव । अत्र करिवनराजिपल्वलानां कान्तकामिनीवदनसमाधिरनुसंधेयः। गर्भिणीनां मृद्भक्षणं लोकप्रसिद्धमेव। एतेन दोहदाख्यं गर्भलक्षणमुच्यते ।। 3.3 ।।
दिवं मरुत्वानिव भोक्ष्यते भुवं दिग विश्रान्तरथो हि तत्सुतः ।
अतोऽभिलाषे प्रथमं तथाविधे मनो बवन्धान्यरसान्विलङ्घ्य सा ।। 3.4 ।।
दिवमिति।। हि यस्माद्दिगन्तविश्रान्तरथश्चक्रवर्ती तस्याः सुतस्तत्सुतः। मरुत्वानिन्द्रः। `इन्द्रो मरुत्वान्मघवा’ इत्यमरः। दिवं स्वर्गमिव। भुवं भोक्ष्यते। `भुजोऽनवने'(पा.1।3।36)इत्यात्मनेपदम्। अतः प्रथमं सा सुदक्षिणा तथा मृद्रूपे। अभिलष्यत इत्यभिलाषो भोग्यवस्तु। कर्मणि घञ्प्रत्ययः। रस्यन्ते स्वाद्यन्तविधे भूविकारे इति रसा भोग्यार्थाः। अन्ये च ते रसाश्च तान्विलङ्घ्य विहाय मनो बबन्ध। विदधावित्यर्थः। दोहदहेतुकस्य मृद्भक्षणस्य पुत्रभूभोगसूचनार्थत्वमुत्प्रेक्षते ।। 3.4 ।।
न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी ।
इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः ।। 3.5 ।।
नेति।। मगधस्य राज्ञोऽपत्यं स्त्त्री मागधी सुदक्षिणा। `व्द्यञ्मगधकलिङ्गसूरमसादण्'(पा.4।1।170)इत्यण्प्रत्ययः। ह्रिया किंचित्किमपीप्सितमिष्टं मे मह्यं न शंसति नाचष्टे। केषु वस्तुषु स्पृहावतीत्यनुवेलमनुक्षणमादृत आदृतवान्। कर्तरि क्तः। `आदृतौ सादरार्चितौ’ इत्यमरः। प्रियायाः सखीः सहचरीरुत्तरकोसलेश्वरो दिलीपः पृच्छति स्म पप्रच्छ। `लट् स्मे'(पा.3।2।118) इत्यनेन भूतार्थे लट्। सखीनां विश्रम्भभूमित्वादिति भावः ।। 3.5 ।।
उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् ।
न हीष्टमस्य त्रिदिवेऽपि भूपतेरभूदनासाद्यमधिज्यधन्वनः ।। 3.6 ।।
उपत्येति।। दोहदं गर्भिणीमनोरथः। `दोहदं दौर्हृदं श्रद्धा लालसं च समं स्मृतम्’ इति हलायुधः। सा सुदक्षिणा दोहदेन गर्भिणीमनोरथेन दुःखशीलतां दुःखस्वभावतामुपेत्य प्राप्य यद्वस्तु वव्र आचकाङ्क्ष तदाहृतमानीतम्। भर्त्रेति शेषः। अपश्यदेव। अलभतेत्यर्थः। कुतः? हि यस्मादस्य भूपतेस्त्त्रिदिवेऽपि स्वर्गेऽपीष्टं वस्त्वनासाद्यमनवाप्यं नाभूत्। किं याञ्चया? नेत्याह-अधिज्यधन्वन इति। न हि वीरपत्नीनामलभ्यां नाम किंचिदस्तीति भावः। अत्र वाग्भटः (अ.हृ.शा।1।52)`पादशोफो विदाहोऽन्ते श्रद्धा च विवधात्मिका’इति। एतञ्च पत्मीमनोरथपूरणाकरणे दृष्टदोषसंभवात्,न तु राज्ञः प्रीतिलौल्यात्। तदुक्तम्(अ.हृ.शा.1।53)-`देयमप्यहितं तस्यै हिताय हितमल्पकम्। श्रद्धाविघाते गर्भस्य विकृतिश्च्युतिरेव वा’।। अन्यत्र च-`दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात्’ इति ।। 3.6 ।।
क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा ।
पुराणपत्रापगमादनन्तरं लतेव संनद्धमनोज्ञपल्लवा ।। 3.7 ।।
क्रमेणेति।। सा सुदक्षिणा क्रमेण दोहदव्यथां च निस्तीर्य प्रचीयमानावयवा पुष्यमाणावयवा सती। पुराणपत्राणामपगमान्नाशादनन्तरं संनद्धाः संजाताः प्रत्यग्रत्बान्मनोज्ञाः पल्लवा यस्याः सा लतेव। रराज ।। 3.7 ।।
लक्षणान्तरं वर्णयति-
दिनेषु गच्छत्सु नितान्तपीवरं तदीयमानीलमुखं स्तनद्वयम् ।
तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम् ।। 3.8 ।।
दिनेष्विति।। दिनेषु दोहददिवसेषु गच्छत्सु सत्सु नितान्तपीवरमतिस्थूलम्। आ समन्तान्नीले मुखे चूचुके यस्य तत्। तदीयं स्तनद्वयम्। भ्रमरैरभिलीनयोरभिव्याप्तयोः सुजातयोः सुन्दरयोः पङ्कजकोशयोः पद्ममुकुलयोः श्रियं तिरश्चकार। अत्र वाग्भटः(अ.हृ.शा 1।51)-`अम्लेष्टता स्तनौ पीनौ श्वेतान्तौ कृष्णचूचुकौ’ इति ।। 3.8 ।।
निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम् ।
नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत ।। 3.9 ।।
निधानेति।। नृपः ससत्त्वामापन्नसत्त्वाम्। गर्भिणीमित्यर्थः। `आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी’ इत्यमरः। महिषीम्। निधानं निधिर्गर्भे यस्यास्तां सागराम्बरां समुद्रवसनाम्। भूमिमिवेत्यर्थः;`भूतधात्री रत्नगर्भा विपुला सागराम्बरा’ इति कोशः। अभ्यन्तरे लीनः पावको यस्यास्तां शमीमिव। शमीतरौ वह्निरस्तीत्यत्र लिङ्गं-शमीगर्भादग्निं मथ्नन्तीति। अन्तः सलिलामन्तर्गतजलां सरस्वतीं नदीमिव। अमन्यत। एतेन गर्भस्य भाग्यवत्त्व-तेजस्वित्व-पावनत्वानि विवक्षितानि ।। 3.9 ।।
प्रियानुरागस्य मनः समुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम् ।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः ।। 3.10 ।।
प्रियेति।। धीरः स राजा प्रियायामनुरागस्य स्नेहस्य । मनसः समुन्नतेरौदार्यस्य। भुजेन भुजबलेन करेण वाऽर्जितानाम्,न तु वाणिज्यादिना। दिगन्तेषु संपदाम्। धृत्तेः पुत्रो मे भविष्यतीति संतोषस्य च,`धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु’ इति विश्वः। सदृशीरनुरूपाः। पुमान् सूयतेऽनेनेति पुंसवनम्। तदादिर्यासां ताः क्रिया यथाक्रमं क्रममनतिक्रम्य व्यधत्त कृतवान्। `आदि’- शब्देनानवलोभनसीमन्तोन्नयने गृह्येते। अत्र मासि द्वितीये तृतीये वा पुंसवनम्। `यदहः पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्’ (1।16।3) इति पारस्करः। `चतुर्थेऽनवलोभनम्'(1।14) इत्याश्वलायनः । `षष्ठेऽष्टमे वा सीमन्तोन्नयनं’ (आचार.11) इति याज्ञवल्क्यः ।। 3.10 ।।
सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः ।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ।। 3.11 ।।
सुरेन्द्रेति।। गृहागतो नृपः सुरेन्द्राणां लोकपालानां मात्राभिरंशैराश्रितस्यानुप्रविष्टस्य गर्भस्य गौरवाद्भारात् प्रयत्नेन मुक्तासनया। आसनादुत्थितयेत्यर्थः। उपचारस्याञ्जलावञ्जलिकरणे खिन्नहस्तया पारिप्लवनेत्रया तरलाक्ष्या। `चञ्चलं तरलं चैव पारिप्लवपरिप्लवे’ इत्यमरः। तया सुदक्षिणया ननन्द। `सुरेन्द्रमात्राश्रित-‘ इत्यत्र मनुः(5।96)- `अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः’ इति ।। 11 ।।
कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि ।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव ।। 3.12 ।।
कुमारेति।। अथ । कुमारभृत्या बालचिकित्सा। `संज्ञायां समजनिषद-‘ (पा.3।3।99) इत्यादिना क्यप्। तस्यां कुशलैः कृतिभिः। `कृती कृशलः’इत्यमरः। आप्तैर्हितैर्भिषग्भिर्वैद्यैः। `भिषग्वैद्यौ चिकित्सकौ’ इत्यमरः। गर्भस्य भर्मणि भरणे। `भरणे पोषणे भर्म’ इति हैमः। `भृतिर्भर्म’ इति शाश्वतः। मृञो मनिच्प्रत्ययः। `गर्भकर्मणि’इति पाठे गर्भाधानप्रतीतावौचित्यभङ्गः। अनुष्ठिते कृते सति। काले दशमे मासि। अन्यत्र,ग्रीष्मावसाने। प्रसवस्य गर्भमोवनस्योन्मुखीम्। आसन्नप्रसवामित्यर्थः। `स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने’ इत्यमरः। प्रियां भार्याम्। अभ्राण्यस्याः संजातान्यभ्रिता ताम्। `तदस्य संजातं तारकादिभ्य इतच्'(पा.5।2।36)इतीतच्प्रत्ययः। दिवमिव। पतिर्भर्ता प्रतीतो हृष्टः सन्। `दिवः ख्याते हृष्टे प्रतीतः’ इत्यमरः। ददर्श दृष्टवान्।। 3.12 ।।
ग्रहैस्ततः पञ्चभिरुञ्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदम् ।
असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ।। 3.13 ।।
ग्रहैरिति।। ततः शच्येन्द्राण्या समा। `पुलोमजा शचीन्द्राणी’ इत्यमरः। सा सुदक्षिणा समये प्रसूतिकाले सति। दशमे मासीत्यर्थः। `दशमे मासि जायते’ इति श्रुतिः। उच्ञ्चसंश्रयैरुञ्चसंस्थैस्तुङ्गस्थानगैरसूर्यगैरनस्तमितैः कैश्चिद्यथासंभवं पञ्चभिर्ग्रहैः सूचिता भाग्यसंपद्यस्य तं पुत्रम्। त्रीणि प्रभावमन्त्रोत्साहात्मकानि साधनान्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः। `शक्तयस्तिस्रः प्रभावोत्साहमन्त्त्रजाः’ इत्यमरः। अक्षयमर्थमिव। असूत। `षूङ् प्राणिगर्भविमोचने’ इत्यात्मनेपदिषु पठ्यते। तस्माद्धातोः कर्तरि लङ्। अत्रेदमनुसंधेयम्-`अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः। दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः।।'(बृ.जा.) इति। सूर्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उञ्चस्थानानि। स्वस्वतुङ्गापेक्षया सप्तमस्थस्थानानि च नीचानि। तत्रोञ्चेष्वपि दशमादयो राशित्रिंशांशा यथाक्रममुञ्चेषु परमोञ्चा नीचेषु परमनीचा इति जातकश्लोकार्थः। अत्रांशस्त्त्रिंशो भागः। यथाह नारदः-`त्रिंशद्भागात्मकं लग्नम्’ इति। सूर्यप्रत्यासत्तिर्ग्रहाणामस्तमयो नाम्। तदुक्तं लघुजातके-`रविणास्तमयो योगो वियोगस्तूदयो भवेत्’ इति। ते च स्वोञ्चस्थाः फलान्ति नास्तगा नापि नीचगाः। तदुक्तं राजमृगाङ्के-`स्वोञ्चे पूर्णं स्वर्क्षकेऽर्धं सुहृद्भे पादं द्विङ्भेऽल्पं शुभं खेचरेन्द्रः। नीचस्थायी नास्तगो वा न किंचित्पादं नूनं स्वत्रिकोणे ददाति।।’ इति। तदिदमाह कविः-`उञ्चसंश्रयैरसूर्यगैः’ इति च। एवं सति यस्य जन्मकाले पञ्चप्रभृतयो ग्रहाः स्वोञ्चस्थाः स एव तुङ्गो भवति। तदुक्तं कूटस्थीये-`सुखिनः प्रकृष्टकार्या राजप्रतिरूपकाश्च राजानः। एकद्वित्रिचतुर्भिर्जायन्तेऽतः परं दिव्याः।।’ इति। तदिदमाह-पञ्चभिरिति ।। 3.13 ।।
दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे ।
बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ।। 3.14 ।।
दिश इति।। तत्क्षणं तस्मिन्क्षणे। `कालाध्वनोरत्यन्तसंयोगे द्वितीया’ (पा.2।3।5)दिशः प्रसेदुः प्रसन्ना बभूवुः। मरुतो वाताः सुखा मनोहरा ववुः। अग्निः प्रदक्षिणार्चिः सन् हविराददे स्वीचकार । इत्थँ सर्वं शुभशंसि शुभसूचकं बभूव। तथा हि-तादृशां रघुप्रकाराणां भवो जन्म लोकाभ्युदयाय। भवतीति शेषः। ततो देवा अपि संतुष्टा इत्यर्थः। 3.14 ।।
अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा ।
निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव ।। 3.15 ।।
अरिष्टेति।। `अरिष्टं सूतिकागृहम्’ इत्यमरः। अरिष्टे सूतिकागृहे शय्यां तल्पं परितः सर्वतः। `अभितः परितः समयानिकषाप्रतियोगेऽपि'(वा.1422) इति द्वितीया। विसारिणा। सुजन्मनः शोभनोत्पत्तेः। `जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः’ इत्यमरः। तस्य शिशोर्निजेन नैसर्गिकेण तेजसा सहसा हतत्विषः क्षीणकान्तयो निशीथदीपा अर्धरात्रप्रदीपाः `अर्धरात्रनिशीथौद्वौ’इत्यमरः। आलेख्ये चित्रे समर्पिता इव बभूवुः। `निशीथ’शब्दो दीपानां प्रभाधिक्यसंभावनार्थः।। 3.15 ।।
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् ।
अदेयमासीत्त्रयमेव भूपतेः शशिप्रभ छत्रमुभे च चामरे ।। 3.16 ।।
जनायेति।। भूपतेर्दिलीपस्यामृतसंमिताक्षरममृतसमानाक्षरम्। `सरूपसमसंमिताः’ इत्याह दण्डी। कुमारजन्म पुत्रोत्पत्तिं शंसते कथयते शुद्धान्तचरायान्तःपुरचारिणे जनाय त्रयमेवादेयमासीत्। किं तत्? शशिप्रभमुज्ज्वलं छत्रम्। उभे चामरे च, छत्रादीनां राज्ञः प्रधानाङ्गत्वादिति भावः ।। 3.16 ।।
निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् ।
महोदधेः पूर इवेन्दुदर्शनाद्गुरुः प्रहर्षः प्रबभूव नात्मनि ।। 3.17 ।।
निवातेति।। निवातो निर्वातप्रदेशः। `निवातावाश्रयावातौ’ इत्यमरः। तत्र यत्पद्मं तद्वत्स्तिमितेन निष्पन्देन चक्षुषा नेत्रेण कान्तं सुन्दरं सुताननं पुत्रमुखं पिबतस्तृष्णया पश्यतो नृपस्य गुरुरुत्कटः प्रहर्षः कर्ता इन्दुदर्शनाद्गुरुर्महोदधेः पूरो जलौघ इव आत्माने शरीरे न प्रबभूव स्थातुं न शशाक। अन्तर्न माति स्मेति यावत्। न ह्यल्पाधारेऽधिकं मीयत इति भावः। यद्वा,-हर्ष आत्मनि स्वस्मिन्विषये न प्रबभूव। आत्मानं नियन्तुं न शशाक। किंतु बहिर्निर्जगामेत्यर्थः।। 3.17 ।।
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते ।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ।। 3.18 ।।
स इति।। स दिलीपसूनुः। सपस्विना पुरोधसा पुरोहितेन। `पुरोधास्तु पुरोहितः’ इत्यमरः। वसिष्ठेन। तपस्वित्वात्तदनुष्ठितं कर्म सवीर्यं स्यादिति भावः। तपोवनादेत्यागत्य। अखिले समग्रे जातकर्मणि जातस्य कर्तव्यसंस्कारविशेषे कृते सति। प्रयुक्तः संस्कारः शाणोल्लेखनादिर्यस्य स तथोक्तः। आकरोद्भवः खनिप्रभवः। `खनिः स्त्त्रियामाकरः स्यात्’ इत्यमरः। मणिरिव। अधिकं बभौ। वसिष्ठमन्त्त्रप्रभावात्तेजिष्ठोऽभूदित्यर्थः। अत्र मनुः (2।29)-`प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते’ इति ।। 3.18 ।।
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् ।
न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ।। 3.19 ।।
सुखश्रवा इति।। सुखः सुखकरः श्रवः श्रवणं येषां ते सुखश्रवाः। श्रुतिसुखा इत्यर्थः। मङ्गलतूर्यनिस्वना मङ्गलवाद्यध्वनयो वारयोषितां वेश्यानाम्। `वारस्त्त्री गणिका वेश्या रूपाजीवा’ इत्यमरः। प्रमोदनृत्यैर्हर्षनर्तनैः सह मागधीपतेर्दिलीपस्य सद्मनि केवलं गृह एव न व्यजृम्भन्त,किंतु द्यौरोको येषां ते दिवौकसो देवाः। पृषोदरादित्वात्साधुः,तेषां पथ्याऽऽकाशेऽपि व्यजृम्भन्त। तस्य देवांशत्वाद्देवोपकारित्वाञ्च देवदुन्दुभयोऽपि नेदुरिति भावः।। 3.19 ।।
न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः ।
ऋणाभिधानात्स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात् ।। 3.20 ।।
नेति।। रक्षितुः सम्यक्पालनशीलस्य तस्य दिलीपस्य। अत एव चौराद्यभावात्। संयतो बद्धो न बभूव नास्ति स्म। किं तेनात आह-विसर्जयेदिति।। सुतजन्म हर्षितस्तोषितः सन्। यं बद्धं विसर्जयेद्विमोचयेत्। किंतु स राजा तदा पितॄणामृणाभिधानाद्बान्धनात् केवलमेकं यथा तथा। स्वयमेव। एक एवेत्यर्थः। `केवलः कृत्स्न एकश्च केवलश्चावधीरितः’ इति शाश्वतः। मुमुचे। कर्मकर्तरि लिट्। स्वयमेव मुक्त इत्यर्थः। अस्मिन्नर्थे-`एष वा अनृणो यः पुत्री’ इति श्रुतिः प्रमाणम् ।। 3.20 ।।
श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः ।
अवेक्ष्य धातोर्गमनार्थमर्थविञ्चकार नाम्ना रघुमात्मसंभवम् ।। 3.21 ।।
श्रुतस्येति।। अर्थविच्छब्दार्थज्ञः पार्थिवः पृथिवीश्वरो दिलीपः। अयमर्भको बालकः श्रुतस्य शास्त्त्रस्यान्तं पारं यायात्। तथा युधि परेषां शत्रूणामन्तं पारं च यायात्। यातुं शक्नुयादित्यर्थः। `शकि लिङ् च'(पा.3।3।172)इति शक्यार्थे लिंङ्। इति होतोर्धातोः `अधिवधिलधि गत्यर्थाः’ इति लधिधातोर्गमनाख्यमर्थमर्थवित्त्वादवेक्ष्यालोच्च। आत्मसंभवं पुत्रं नाम्ना रघुं चकार। `लङ्घिवं ह्योर्नलोपश्च'(वा.4798) इत्यप्रत्यये `बलमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते'(उ.सू.29) इति वैकल्पिके रेफादेशे रघुरिति रूपं सिद्धम्। अत्र शङ्खः-`आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते’ इति ।। 3.21 ।।
पितुः प्रयत्नात्स समग्रसंपदः शुभैः शरीरावयवैर्दिने दिने ।
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ।। 3.22 ।।
पितुरिति।। स रघुः समग्रसंपदः पूर्णलक्ष्मीकस्य पितुर्दिलीपस्य प्रयत्नाच्छुभैर्मनोहरैः शरीरावयवैः। हरिदश्वदीधितेः सूर्यस्य रश्मेः। `भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः’ इत्यमरः। अनुप्रवेशाद्बालचन्द्रमा इव। दिने दिने प्रतिदिनम्। `नित्यवीप्सयोः'(पा.8।1।4) इति द्विर्वचनम्। वृद्धिं पुपोष। अत्र वराहसंहितावचनम्-`सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमोनैशम्। क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः।।’ इति ।। 3.22 ।।
उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ ।
तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ।। 3.23 ।।
उमेति।। उमावृषाङ्कौ पार्वती-वृषभध्वजौ शरजन्मना कार्तिकेयेन। `कार्तिकेयो महासेनः शरजन्मा षडाननः’ इत्यमरः। यथा ननन्दतुः। शचीपुरंदरौ जयन्तेन जयन्ताख्येन सुतेन। `जयन्तः पाकशासनिः’ इत्यमरः। यथा ननन्दतुः। तथा तत्समौ ताभ्यामुमान्वृषाङ्काभ्यां शची-पुरंदराभ्यां च समौ समानौ सा मागधी नृपश्च तत्सदृशेन ताभ्यां कुमार-जयन्ताभ्यां सदृशेन सुतेन ननन्दतुः। मागधी प्रग्व्याख्याता ।। 3.23 ।।
रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् ।
विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पयचीयत ।। 3.24 ।।
रथाङ्गेति।। रथाङ्गनाम्नी च रथाङ्गनामा च रथाङ्गनामानो चक्रवाकौ। `पुमान्स्त्रिया'(पा.1।2।67)इत्येकशेषः। तयोरिव तयोर्दपत्योर्भावबन्धनं हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं यत्प्रेम बभूव तदेकेन केवलेन ताभ्यामन्येन वा। `एके मुख्यान्यकेवलाः’ इत्यमरः। सुतेन विभक्तमपि कृतविभागमपि परस्परस्योपरि पर्यचीयत ववृधे। कर्मकर्तरि लिट्। अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः। यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते। अत्र तु तयोः प्रागेकैककर्तृकमेकैकविषयं प्रेम संप्रति द्वितीयविषयलामेऽपि नाहीयत,प्रत्युतोपचितमेवाभूदिति भावः ।। 3.24 ।।
उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् ।
अभूञ्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ।। 3.25 ।।
उवाचेति।। सोऽर्भकः शिशुः। `पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः’ इत्यमरः। धात्र्योपमात्रा। `छात्रीजनन्यामलकीवसुमत्युपमातृषु’ इति विश्वः। प्रथममुदितमुपदिष्टं वच उवाच। तदीयामङ्गुलिमवलम्ब्य ययौ च। प्रणिपातस्य शिक्षयोपदेशेन नम्रोऽभूञ्च। इति यत्तेन पितुर्मुदं ततान ।। 3.25 ।।
तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि ।
उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ।। 3.26 ।।
तमिति।। शरीरयोगजैः सुखैस्त्वचि त्वगिन्द्रियेऽमृतं निषिञ्चन्तं वर्षन्तमिव तं पुत्रमङ्कमारोप्य मुदाविर्भावादुपान्तयोः प्रान्तयोः संमीलितलोचनः सन्। नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ। रसः स्वादः।। 3.26 ।।
अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् ।
स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः ।। 3.27 ।।
अमंस्तेति।। स्थितेरभेत्ता मर्यादापालकः स नृपः परार्ध्यजन्मनोत्कृष्टजन्मनाऽनेन रघुणाऽन्वयं वंशम्। प्रजानां पतिर्ब्रह्मा। गुणाः स्त्त्वादयः। तेष्वग्र्येण मुख्येन सत्त्वेन वर्तते व्याप्रियत इति गुणाग्र्यवर्ती। तेन स्वस्य मूर्तिभेदेनावतारविशेषेण विष्णुनाऽऽत्मनः सर्गं सृष्टिमिव। स्थितिमन्तं प्रतिष्ठावन्तममंस्त मन्यते स्म। मन्यतेरनुदात्तत्वादिट्प्रतिषेधः। अत्रोपमानोपमेययोरितरेतरविशेषणानीतरेतरत्र योज्यानि। तत्र रघुपक्षे,- गुणा विद्याविनयादयः। `गुणोऽप्रधाने रूपादौ मौर्व्या सूदे वृकोदरे। स्तम्बे सत्त्वादिसंध्यादिविद्यादिहरितादिषु।।’ इति विश्वः। शेषं सुगमम् ।। 3.27 ।।
स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः ।
लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ।। 3.28 ।।
स इति।। `चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात्।।’ (2।34) इति मनुस्मरणात्तृतीये वर्षे वृत्तचूलो निष्पन्नचूडाकर्मा सन्। डलयोरभेदः। स रघुः। `प्राप्ते तु पञ्चमे वर्षे विद्यारम्भं च कारयेत्’ इति वचनात्पञ्चमे वर्षे चलकाकपक्षकैश्चञ्चलशिखण्डकैः। `बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः’ इति हलायुधः। सवयोभिः स्निग्धैः। `वयस्यः स्निग्धः सवयाः’ इत्यमरः। अमात्यपुत्रैरन्वितः सन्। लिपेः पञ्चाशद्वर्णात्मिकाया मातृकाया यथावद्ग्रहणेन सम्यग्बोधेनोपायभूतेन वाङ्मयं शब्दजातम्। नद्यामुखं द्वारम्। `मुखं तु वदने मुख्यारम्भे द्वाराभ्युपाययोः’ इति यादवः। तेन कश्चिन्मकरादिः समुद्रमिव। आविशत् प्रविष्टः। ज्ञातवानित्यर्थः।। 3.28 ।।
अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् ।
अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति ।। 3.29 ।।
अथेति।। `गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्। गर्भादेकादशे राज्ञो गर्भाञ्च द्वादशे विशः।।’ (2।36) इति मनुस्मरणात्। अथ गर्भैकादशेऽब्दे विधिवदुपनीतं गुरुप्रियमेनं रघुं विपश्चितो विद्वांसो गुरवो विनिन्युः शिक्षितवन्तः। ते गुरवोऽत्रास्मिन्रघौ अवन्ध्ययत्नाश्च बभूवुः। तथा हि-क्रिया शिक्षा। `क्रिया तु निष्कृतौ शिक्षाचिकित्सोपायकर्मसु’ इति यादवः। वस्तुनि पात्रभूत उपहिता प्रयुक्ता प्रसीदति फलति। `क्रिया हि द्रव्यं विनयति नाद्रव्यम्’ इति कौटिल्यः ।। 3.29 ।।
धियः समग्रैः स गुणैरुदारधीः क्रमाञ्चतस्रश्चतुरर्णवोपमाः ।
ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः ।। 3.30 ।।
धिय इति।। अत्र कामन्दकः-`शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः।।’ इति। `आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती। एता विद्याश्चतस्रस्तु लोकसंस्थितिहेतवः।।’ इति च। उदारधीरुत्कृष्टबुद्धिः स रघुः समग्रैर्धियो गुणैः। चत्वारोऽर्णवा उपमा यासां ताश्चतुरर्णवोपमाः। `तद्धितार्थोत्तरपदसमाहारे च’ (पा.2।1।41) इत्युत्तरपदसमासः। चतस्रो विद्याः। हरितां दिशामीश्वरः सूर्यः पवनातिपातिभिर्हरिद्भिर्निजाश्वैः। `हरित्ककुभि वर्णे च तृणवाजिविशेषयोः’ इति विश्वः। चतस्रो दिश इव। क्रमात्ततार। चतुरर्णवोपमत्वं दिशामपि द्रष्टव्यम् ।। 3.30 ।।
त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्त्रं पितुरेव मन्त्रवत् ।
न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः ।। 3.31 ।।
त्वचमिति।। स रघुः। `कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः। वसीरन्नानुपूर्व्येण शाणक्षौमादिकानि च।।’ (2।41) इति मनुस्मरणान्मेध्यां शुद्धां रौरवीं रुरुसंबन्धिनीम्। `रुरुर्महाकृष्णसारः’ इति यादवः। त्वचं चर्म परिधाय वसित्वा मन्त्त्रवत् समन्त्त्रकमस्त्त्रमाग्नेयादिकं पितुरेवोपाध्यायादशिक्षताऽभ्यस्तवान्। `आख्यातोपयोगे'(पा.1429) इत्यपादानसंज्ञा। पितुरेवेत्यवधारणमुपपादयति-नेति।। तद्गुरुरेकोऽद्वितीयः पार्थिवः केवलं पृथिवीश्वर एव नाभूत्,किंतु क्षितौ स दिलीप एको धनुर्धरोऽप्यभूत् ।। 3.31 ।।
महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव ।
रघुः क्रमाद्यौवनभिन्नशैशवः पुपोप गाम्भीर्यमनोहरं वपुः ।। 3.32 ।।
महोक्षतामिति।। रघुः क्रमाद्यौवनेन भिन्नशैशवो निरस्तशिशुभावः सन्। महानुक्षा महोक्षो महर्षभः। `अचतुर-‘ (पा.5।4।77) आदिसूत्रेण निपातनादकारान्तत्वम्,तस्य भावस्तत्ता। तां स्पृशन्गच्छन् वत्सतरो दम्य इव।`दम्यवत्सतरौ समौ’ इत्यमरः। द्विपेन्द्रभावं महागजत्वं श्रयन्व्रजन् कलभः करिपोत इव। गाम्भीर्येणाचापलेन मनोहरं वपुः पुपोष।। 3.32 ।।
अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः ।
नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः ।। 3.33 ।।
अथेति।। `गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः। स्त्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि।। पुंस्त्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु।।’ इति केशवः। गावो लोमानि केशा दीयन्ते खण्ड्यन्तेऽस्मिन्निति व्युत्पत्त्या गोदानं नाम ब्राह्मणादीनां षोडशादिषु वर्षेषु कर्तव्यं केशान्ताख्यं कर्मोच्यते। तदुक्तं मनुना(2।65)-`केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते। राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः।।’ इति। अथ गुरुः पिता। `गुरू गीष्पतिपित्राद्यौ’ इत्यमरः। अस्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयत्। कृतवानित्यर्थः। अथ नरेन्द्रकन्यास्तं रघुम्। दक्षस्य सुता रोहिण्यादयस्तमोनुदं चन्द्रमिव। `तमोनुदोऽग्निचन्द्रार्काः’ इति विश्वः। सत्पतिमवाप्त्याबभुः। रघुरपि तमोनुत्। अत्र मनुः(3।2)-`वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्। अविप्लुतब्रह्मचर्ये गृहस्थाश्रममाविशेत्।।’ इति।। 3.33 ।।
संप्रति यौवराज्ययोग्यतामाह-
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः ।
वपुः प्रकर्षादजयद्गुरुं रघुस्तथापि नीचौर्विनयाददृश्यत ।। 3.34 ।।
युवति।। युवा। युगो नाम धुर्यस्कन्धगः सच्छिद्रप्रान्तो यानाङ्गभूतो दारुविशेषः। `यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु’ इत्यमरः। युगवद्व्यायतौ दीर्घौ बाहू यस्य सः। अंसावस्य स्त इत्यंसलो बलवान्। मांसलश्चेति वृत्तिकारः। `बलवान्मांसलोंऽसलः’ इत्यमरः। `वत्सांसाभ्यां कामबले'(पा.5।2।98) इति लच्प्रत्ययः। कपाटवक्षाः परिणद्धकंधरो विशालग्रीवः। `परिणाहो विशालता’ इत्यमरः। रघुर्वपुषः प्रकर्षादाधिक्याद्यौवनकृताद्गुरुं पितरमजयत्। तथापि विनयान्नम्रत्वेन नीचैरल्पकोऽदृश्यत।। अनौद्धत्यं च विवक्षितम्।। 3.34 ।।
ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् ।
निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ।। 3.35 ।।
तत इति।। तत आत्मना चिरं धृतां नितान्तगुर्वीम्। `वोतो गुणवचनात्'(पा.4।1।44) इति ङीष्। प्रजानां धुरं पालनप्रयासं लघयिष्यता लघुं करिष्यता। `तत्करोति तदाचष्टे'(ग.204) इति लघुशब्दाण्णिच्। ततो `लृटः सद्वा'(पा.3।3।18) इति शतृप्रत्ययः। नृपेण दिलीपेन। असौ रघुर्निसर्गेण स्वभावेन संस्कारेण शास्त्त्राभ्यासजनितवासनया च विनीतो नम्र इति हेतोः। युवराज इति शब्दं भजतीति तथोक्तः। `भजो ण्विः'(पा.3।2।62) इति ण्विप्रत्ययः। चक्रे कृतः। `द्विविधो विनयः स्वाभाविकः कृत्रिमश्च’ इति कौटिल्यः। तदुभयसंपन्नत्वात्पुत्रं युवराजं चकारेत्यर्थः। अत्र कामन्दकः-`विनीयोपग्रहान्भूत्यै कुर्वीत नृपतिः सुतान्। अविनीतकुमारं हि कुलमाशु विशीर्यते ।। विनीतमौरसं पुत्रं यौवराज्येऽभिषेचयेत्।।’ इति ।। 3.35 ।।
नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् ।
अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ।। 3.36 ।।
नरेन्द्रेति।। गुणान्विनयादीन्सौरभ्यादींश्चाभिलषतीति गुणाभिलाषिणी श्री राज्यलक्ष्मीः पद्माश्रया च नरेन्द्रो दिलीप एव मूलायतनं प्रधानस्थानं तस्मात्। अपादानात्। अनन्तरं संनिहितम्। `युवराज’ इति संज्ञास्य संजाता युवराजसंज्ञितम्। तारकादित्वातच्प्रत्ययः। आत्मनः पदं स्थानमास्पदम्। `आस्पदं प्रतिष्ठायाम्'(पा.6।1।146) इति निपातः। स रघुरित्यास्पदं तदास्पदम्। कमलाञ्चिरोत्पन्नवावतारमचिरोत्पन्नमुत्पलमिव। अंशेनागच्छत्। स्रियो हि यूनि रज्यन्त इति भावः ।। 3.36 ।।
विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव ।
बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ।। 3.37 ।।
विभावसुरिति।। सारथिना सहायभूतेन। एतद्विशेषणमुत्तरवाक्येष्वप्यनुषञ्जनीयम्। वायुना वाभावसुर्वह्रिरिव। `सूर्यवर्नी विभावसू’ इत्यमरः। घनव्यपायेन शरत्समयेन सारथिना गभस्तिमान् सूर्य इव। कटो गण्डः। `गण्डः कटो मदोदानम्’ इत्यमरः। तस्य प्रभेदः स्फुटनम्। मदोदय इत्यर्थः। तेन करीव। पार्थिवो दिलीपः। तेन रघुणाऽतितरामत्यन्तं सुदुःसहः सुष्ठ्वसह्यो बभूव ।। 3.37 ।।
नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् ।
अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमाप सः ।। 3.38 ।।
नियुज्येति।। शतक्रतुरिन्द्र उपमा यस्य स शतक्रतूपमः स दिलीपः। `शतं वै तुल्या राजपुत्रा देवा आशापालाः’ इत्यादिश्रुत्या। राजसुतैरनुद्रुतमनुगतं धनुर्धरं तं रघुं होमतुरंगाणां रक्षणे नियुज्य। एकेन क्रतुनाऽपूर्णमेकोनं क्रतूनामश्वमेधानां शतमपविघ्नमपगतविघ्नं यथा तथाऽऽप ।। 3.38 ।।
ततः परं तेन मखाय यज्वना तुरंगमुत्सृष्टमनर्गलं पुनः ।
धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ।। 3.39 ।।
तत इति।। ततः परमेकोनशतक्रतुप्राप्त्यनन्तरं यज्वना विधिनेष्टवता तेन दिलीपेन पुनः पुनरपि मखाय मखं कर्तुम्। `क्रियार्थोपपदस्य-‘(पा.2।3।14)इत्यादिना चतुर्थी। उत्सृष्टं मुक्तमनर्गलमप्रतिबन्धम्। अव्याहतस्वैरगतिमित्यर्थः। `अपर्यावर्तयन्तोऽश्वमनुचरन्ति’ इत्यापस्तम्बस्मरणात्। तुरंगं धनुर्भृतां रक्षिणां रक्षकाणामग्रत एव शक्रो गूढविग्रहः सन्। जहार किल। `किल’ इत्यैतिह्ये ।। 3.39 ।।
विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् ।
वसिष्ठधेनुश्च यदृच्छयागता श्रुतप्रभावा ददृशेऽथ नन्दिनी ।। 3.40 ।।
विषादेति।। तत् कुमारस्य सैन्यं सेना सपदि। विषाद इष्टनाशकृतो मनोभङ्गः। तदुक्तम्-`विषादश्चेतसो भङ्ग उपायाभावनाशयोः’ इति। तेन लुप्ता प्रतिपत्तिः कर्तव्यज्ञानं यस्य तत्तथोक्तम्। विस्मितमश्वनाशस्याकस्मिकत्वादाश्चर्याविष्टं सत्। स्थितं तस्थौ। अथ श्रुतप्रभावा यदृच्छया स्वेच्छयागता। रघोः स्वप्रसादलब्धत्वादनुजिघृक्षयेति भावः। नन्दिनी नाम वसिष्ठधेनुश्च ददृशे। द्वौ चकारावविलम्बसूचकौ ।। 3.40 ।।
तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सत्ताम् ।
अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ।। 3.41 ।।
तदिति।। सतां पुरस्कृतः पूजितो दिलीपनन्दनो रघुः पुण्येन तस्या नन्दिन्या यदङ्गं तस्य निस्यन्दो द्रवः स एव जलम्। मूत्रमित्यर्थः। तेन लोचने प्रमृज्य शोधयित्वा। अतीन्द्रियेष्विन्द्रियाण्यतिक्रान्तेषु। `अत्यादयः क्रान्ताद्यर्थे द्वितीयया’ (वा.1336) इति समासः। द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधाद्विशेष्यनिघ्नत्वम्। भावेष्वपि वस्तुषूपपन्नदर्शनः संपन्नसाक्षात्कारशक्तिर्बभूव ।। 3.41 ।।
स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः ।
पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ।। 3.42 ।।
स इति।। नरदेवसंभवः स रघुः पुनः पुनः सूतेन निषिद्धचापलं निवारितौद्धत्यं रथस्य रश्मिभिः प्रग्रहैः। `किरणप्रग्रहौ रश्मी’ इत्यमरः। संयतं बद्धमश्वं हरन्तं पर्वतपक्षाणां शातनं छेदकं देवमिन्द्रं पूर्वतः पूर्वस्यां दिशि ददर्श ।। 3.42 ।।
शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः ।
अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ।। 3.43 ।।
शतैरिति।। रघुस्तमश्वहर्तारमनिमेषवृत्तिभिर्निमेषव्यापारशून्यैरक्ष्णां शतैर्हरिभिर्हरिद्वर्णैः। `हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः’ इति विश्वः। वाजिभिरश्वैश्च हरिमिन्द्रं विदित्वा। `हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु’ इति विश्वः। एनमिन्द्रं गगनस्पृशा व्योमव्यापिना धीरेण गभीरेण स्वरेण ध्वनिनैव निवर्तयन्निव। अवोचत् ।। 3.43 ।।
मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र! सदा निगद्यसे ।
अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविथाताय कथं प्रवर्तसे ? ।। 3.44 ।।
मखेति।। हे देवेन्द्र! मनीषिभिस्त्वमेव मखांशभाजां यज्ञभागभुजां प्रथमः सदा निगद्यसे कथ्यसे। तथाप्यजस्रदीक्षायां नित्यदीक्षायां प्रयतस्य मद्गुरोः क्रियाविघाताय क्रतुविघाताय,क्रियां विहन्तुमित्यर्थः। `तुमर्थाञ्च भाववचनात्'(पा.2।3।15)इति चतुर्थीं। कथं प्रवर्तसे? ।। 3.44 ।।
त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा ।
स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसिच्युतोविधिः ।। 3.45 ।।
त्रिलोकेति।। त्रयाणां लोकानां नाथस्त्त्रिलोकनाथः। `तद्धितार्थ-‘(पा.2।1।51) इत्यादिनोत्तरपदसमासः। तेन त्रैलोक्यनियामकेन दिव्यचक्षुषाऽःतीन्द्रियार्थदर्शिना त्वया मखद्विषः क्रतुविघातकाः सदा नियम्या ननु शिक्ष्याखलु। स त्वं धर्मचारिणां कर्मसु क्रतुषु स्वयमन्तरायो विघ्नो भवसि चेत्। विधिरनुष्ठानं च्युतः क्षतः। लोके सत्कर्मकथैवास्तमियादित्यर्थः।। 3.45 ।।
तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरंगं प्रतिमोक्तुमर्हसि ।
पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ।। 3.46 ।।
तदिति।। हे मघवन्! तत्तस्मात्कारणात्। महाक्रतोरश्वमेधस्याग्र्यं श्रेष्ठमङ्गं साधनममुं तुरंगं प्रतिमोक्तुं प्रतिदातुमर्हसि। तथा हि-श्रुतेः पथो दर्शयितारः सन्मार्गप्रदर्शका ईश्वरा महान्तो मलीमसां मलिनां पद्धतिं मार्गं नाददते न स्वीकुर्वते,असन्मार्गं नावलम्बन्त इत्यर्थः। `मलीमसं तु मलिनं कञ्चरं मलदूषितम्’ इत्यमरः।। 3.46 ।।
इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् ।
निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ।। 3.47 ।।
इतीति।। इति रघुणा समीरितं प्रगल्भं वचो निशम्याऽऽकर्ण्य। दिवौकसः स्वर्गौकसः। `दिवं स्वर्गेऽन्तरिक्षो च’ इति विश्वः। तेषामधिपतिर्देवेन्द्रो रघुप्रभावात् सविस्मयः सन्। रथं निवर्तयामास। उत्तरं प्रतिवक्तुं प्रचक्रमे च ।। 3.47 ।।
यदात्थ राजन्यकुमार! तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः ।
जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ।। 3.48 ।।
यदिति।। हे राजन्यकुमार क्षत्रियकुमार! `मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्’ इत्यमरः। यद्वाक्यमात्थ ब्रवीषि। `ब्रुवः पञ्चानाम्-‘(पा.3।4।84) इत्यादिनाहादेशः। तत्तथा सत्यम्;किंतु यशोधनैरस्मादृशैः परतः शत्रुतो यशो रक्ष्यम्। ततः किमत आह-भवद्गुरुस्त्वात्पिता जगत्प्रकाशं लोकप्रसिद्धमशेषं सर्वं मम तद्यश इत्यया यागेन लङ्घयितुं तिरस्कर्तुमुद्यत उद्युक्तः ।। 3.48 ।।
किं तद्यश इत्याह-
हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्त्र्यम्बक एव नापरः ।
तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ।। 3.49 ।।
हरिरिति।। पुरुषेषूत्तम इति सप्तमीसमासः। `न निर्धारणे’ (पा.2।2।50)इति षष्ठीसमासनिषेधात्। कर्मधारये तु `सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः’ इत्युत्तमपुरुष इति स्यात्। यथा ह्ररिर्विष्णुरेक एव पुरुषोत्तमः स्मृतः। यथा च त्र्यम्बकः शिव एव महेश्वरः स्मृतः। नापरोऽपरः पुमान्न। तथा मां मुनयः शतक्रतुं विदुर्विदन्ति। `विदो लटो वा'(पा.3।4।83) इति झेर्जुसादेशः। नोऽस्माकम्। हरिहरयोर्मम चेत्यर्थः। एष त्रितयोऽपि शब्दो द्वितीयगामी न हि। द्वितीयाप्रकरणे नमिगम्यादीनामुपसंख्यानात्समासः ।। 3.49 ।।
अतोऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः ।
अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः ।। 3.50 ।।
अत इति। अतोऽहमेव शतक्रतुरतस्त्वदीयस्य पितुरयं शततमोऽश्वः कपिलानुकारिणा कपिलमुनितुल्येन मयाऽपहारितोऽपहृतः। अपहारित इति स्वार्थे णिच्। तवात्राश्वे प्रयत्नेनालम्;प्रयत्नो माकारीत्यर्थः। निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया। सगरस्य राज्ञः संततेः संतानस्य पदव्यां पदं मा निधा न निधेहि। निपूर्वाद्धाधातोर्लुङ्। `न माङ्योगे'(पा.6।4।74) इत्यडागमप्रतिषेधः। महदास्कन्दनं ते विनाशमूलं भवेदिति भावः ।। 3.50 ।।
ततः प्रहस्यापभयः पुरंदरं पुनर्बभाषे तुरगस्य रक्षिता ।
गृहाण शस्त्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ।। 3.51 ।।
तत इति।। ततस्तुरगस्य रक्षिता रघुः प्रहस्य प्रहासं कृत्वा। अपभयो निर्भीकः सन्। पुनः पुरंदरं बभाषे। किमिति? हे देवेन्द्र! यद्येषोऽश्वामोचनरूपस्ते तव सर्गो निश्चयः। `सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु’ इत्यमरः। तर्हि शस्त्रं गृहाण। भवान् रघुं मामनिर्जित्य। कृतमनेनेति कृती। कृतकृत्यो न खलु। `इष्टादिभ्यश्च'(पा.5।2।88) इतीनिप्रत्ययः। रघुमित्यनेनात्मनो दुर्जयत्वं सूचितम्।। 3.51 ।।
स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् ।
अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ।। 3.52 ।।
स इति।। स रघुरुन्मुखः सन् मघवन्तमिन्द्रमेवमुक्त्वा शरासनं चापं सशरं करिष्यमाणः। आलीढेनालीढाख्येन स्थानभेदेन विशेषशोभिनाऽतिशयशोभिना वपुःप्रकर्षेण देहौन्नत्येन विडम्बितेश्वरोऽनुसृतपिनाकी सन्। अतिष्ठत्। आलीढलक्षणमाह यादवः-`स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्त्रियाम्। त्रिवितस्त्यन्तरौ पादौ मण्डलं तोरणाकृति।। अन्वर्थं स्यात्समपदमालीढं तु ततोऽग्रतः। दक्षिणे वाममाकुञ्च्य प्रत्यालीढविपर्ययः।।’ इति ।। 3.52 ।।
रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः ।
नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकम् ।। 3.53 ।।
रघोरिति।। रघोरवष्टम्भमयेन स्तम्भरूपेण। `अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि’ इति विश्वः। पत्रिणा बाणेन हृदि हृदये क्षतो विद्धः। अत एवामर्षणोऽसहनः। क्रुद्ध इत्यर्थः। गोत्रभिदिन्द्रोऽपि । `संभावनीये चौरेऽपि गोत्रः क्षोणीधरे मतः’ इति विश्वः। नवाम्बुदानामनीकस्य वृन्दस्य मुहूर्तं क्षणमात्रं लाञ्छने चिह्रभूते धनुषि। दिव्ये धनुषीत्यर्थः। अमोघमवन्ध्यं सायकं बाणं समधत्त संहितवान् ।। 3.53 ।।
दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः ।
पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ।। 3.54 ।।
दिलीपेति।। भीमानां भयंकराणामसुराणां शोणिते रुधिरे उचितः परिचितः स इन्द्गमुक्त आशुगः सायको दिलीपसूनो रघोर्बृहद्विशालं भुजान्तरं वक्षः प्रविश्य अनास्वादितपूर्वं पूर्वमनास्वादितम्। सुप्सुपेति समासः। मनुष्यशोणितं कुतूहलेनेव पपौ ।। 3.54 ।।
हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ ।
भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ।। 3.55 ।।
हरेरिति।। कुमारस्य स्कन्दस्य विक्रम इव विक्रमो यस्य स तथोक्तः। `सप्तम्युपमान-‘ इत्यादिना समासः। कुमारोऽपि रघुरपि सुरद्विपस्यैरावतस्यास्फालनेन कर्कशा अङ्गुलयो यस्य सः। तस्मिन्। शच्याः पत्रविशेषकैरङ्किते शचीपत्रविशेषकाङ्किते हरेरिन्द्रस्य भुजे स्वनामचिह्नं स्वनामाङ्कितं सायकं निचखान निखातवान्। निष्कण्टकराज्यमाप्तस्यायं महानभिभव इति भावः ।। 3.55 ।।
जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् ।
चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ।। 3.56 ।।
जहारेति।। अन्येन मयूरपत्रिणा मयूरपत्रवता शरेण शक्रस्येन्द्रस्य महाशनिध्वजं महान्तमशनिरूपं ध्वजं जहार चिच्छेद च। स शकः। सुरश्रियः प्रसह्य बलात्कृत्य केशानां व्यपरोपणादवतारणाच्छेदनादिव। तस्मै रघवे भृशमत्यर्थं चुकोप। तं हन्तुमियेषेत्यर्थः। `क्रुधद्रुह-‘(पा.1।4।37) इत्यादिना संप्रदानाञ्चतुर्थी ।। 3.56 ।।
तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः ।
बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्रिभिः ।। 3.57 ।।
तयोरिति।। जयैषिणोरन्योन्यजयाकाङ्क्षिणोस्तयोरिन्द्ररध्वोः। गरुत्मन्तः पक्षवन्तः। `गरुत्पक्षच्छदाः पत्रम्’ इत्यमरः। आशीविषाः। आशिषि दंष्ट्रायां विषं येषां त आशीविषाः सर्पाः। पृषोदरादित्यात्साधुः। `स्त्त्री त्वाशीर्हिताशंसाहिदंष्ट्रुयोः’ इत्यमरः। त इव भीमदर्शनाः सपक्षाः सर्पा इव। द्रष्टॄणां भयावहा इत्यर्थः। तैरधोमुखैरूर्ध्वमुखैश्च। धन्विनोरुपर्यधोदेशावस्थितत्वादिति भावः । पत्रिभिर्बाणैरुपान्तस्थितास्तटस्थाः सिद्धा देवा इन्द्रस्य सैनिकाश्च रघोर्यस्मिंस्तथोक्तं तुमुलं संकुलं संकुलं युद्धं बभूव ।। 3.57 ।।
अतिप्रबन्धप्रहितास्त्त्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः ।
शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः ।। 3.58 ।।
अतीति।। वासवोऽतिप्रबन्धेनातिसातत्येन प्रहिताभिः प्रयुक्ताभिरस्त्त्रवृष्टिभिर्दुष्प्रसहस्य दुःखेन प्रसह्यत इति दुष्प्रसहं तस्य। दुःखेनाप्यसह्यस्येत्यर्थः। तेजसः प्रतापस्याश्रयं तं रघुम्। अम्बुदोऽद्भिः स्ततश्च्युतं निर्गतं वह्निमिव निर्वापयितुं न शशाक। रघोरपि लोकपालात्मकस्येन्द्रांशसंभवत्वदिति भावः ।। 3.58 ।।
ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् ।
रघुः शशाङ्कार्धमुखेन पत्रिणा शरासनज्यामलुनाद्बिडौजसः ।। 3.59 ।।
तत इति।। ततो रघुर्हरिचन्दनाङ्किते प्रकोष्ठे मणिबन्धे प्रमथ्यमानार्णवधीरनादिनीं प्रमथ्यमानार्णव इव धीरं गम्भीरं नदतीति तां तथोक्ताम्। वेवेष्टि व्याप्नोतीति विट् व्यापकमोजो यस्य स तस्य बिडौजस इन्द्रस्य। पृषोदरादित्यात्साधुः। शरासनज्यां धनुर्मौर्वीम्। शशाङ्कस्यार्धः खण्ड इव मुकं फलं यस्य तेन पत्रिणाऽलुनादच्छिनत् ।। 3.59 ।।
स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः ।
महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलमस्त्त्रमाददे ।। 3.60 ।।
स इति।। विवृद्धमत्सरः प्रवृद्धवैरः स इन्द्रश्चापमुत्सृज्य प्रबलस्य विद्विषः शत्रोः प्रणाशनाय वधाय। महीं धारयन्तीति महीध्राः पर्वताः। मूलविभुजादित्वात्कप्रत्ययः। तेषां पक्षव्यपरोपणे पक्षच्छेद उचितं स्फुरत्प्रभामण्डलमस्त्त्रं वज्रायुधमाददे जग्राह ।। 3.60 ।।
रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।
निमेषमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः ।। 3.61 ।।
रघुरिति।। रघुस्तेन वज्रेण भृशमत्यर्थं वक्षसि ताडितो हतः सन् । सैनिकानामश्रुभिः सह भूमौ पपात। तस्मिन्पतिते ते रुरुदुरित्यर्थः। निमेषमात्राद्व्यथां दुःखमवधूय तिरस्कृत्य सैनिकानां हर्षेण ये निस्वनाः क्ष्वेडास्तैः सहोत्थितश्च। तस्मिन्नुत्थिते हर्षात्सिंहनादांश्चक्रुरित्यर्थः।। 3.61 ।।
तथापि शस्त्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः ।
तुतोष वीर्यातिशयेन वृत्रघहा पदं हि सर्वत्र गुणैर्निधीयते ।। 3.62 ।।
तथापीति।। तथापि वज्रघातेऽपि शस्त्त्राणामायुधानां व्यवहारेण व्यापारेण निष्ठुरे क्रूरे विपक्षभावे शात्रवे चिरं तस्थुषः स्थितवतोऽस्य रघोर्वीर्यातिशयेन। वृत्रं हतवानिति वृत्रहा। `ब्रह्मभ्रूणवृत्रेषु क्विप्’। (पा.3।2।87) तुतोष। स्वयं वीर एव वीरं जानातीति भावः। कथं शत्रोः संतोषोऽत आह-गुणैः सर्वत्र शत्रुमित्रोदासीनेषु पदमङ्ग्रिर्निधीयते। गुणैः सर्वत्र संक्रम्यत इत्यर्थः। गुणाः शत्रूनप्यावर्जयन्तीति भावः ।। 3.62 ।।
असङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् ।
अवेहि मां प्रीतमृते तुरंगमात्किमिच्छसीति स्फुटमाह वासवः ।। 3.63 ।।
असङ्गमिति।। सारवत्तयाऽद्रिष्वसङ्गमप्रतिबन्धं मे आयुधं वज्रं त्वदन्येन न विसोढम्। अतो मां प्रीतं संतुष्टमवेहि। तुरंगमादृते दुरंगं वर्जयित्वा। `अन्यारादितरर्ते-‘ (पा.2।3।29) इति पञ्चमी। किमिच्छसीति स्फुटं वासव आह। तुरंगमादन्यददेयं नास्तीति भावः।। 3.63 ।।
ततो निषङ्गादमसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् ।
नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरम् ।। 3.64 ।।
तत इति।। ततो निषङ्गात्तूणीरादसमग्रं यथा तथोद्धृतं सुवर्णपुङ्खद्युतिभी रञ्जिता अङ्गुलयो येन तमिषुं प्रतिसंहरन्निवर्तयन्। `नाप्रहरन्तं प्रहरेत्’ इति निषेधादिति भावः। प्रियं वदतीति प्रियंवदः। `प्रियवशे वदः खच्'(पा.3।2।38) इति खच्प्रत्ययः। `अरुर्द्विषट्-‘(पा.6।3।67) इत्यादिना मुमागमः। नरेन्द्रसूनू रघुः सुरेश्वरं प्रत्यवदत्। न तु प्राहरदिति भावः।। 3.64 ।।
अमोच्यमश्वं यदि मन्यसे प्रभो! ततः समाप्ते विधिनैव कर्मणि ।
अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यताम् ।। 3.65 ।।
अमोच्यमिति।। हे प्रभो इन्द्र! अश्वममोच्यं मन्यसे यदि ततस्तर्ह्यजस्रदीक्षायां प्रयतः स मद्गुरुर्मम पिता विधिनैव कर्मणि समाप्ते सति क्रतोर्यत्फलं तेन फलेनाशेषेण कृत्स्नेन युज्यतां युक्तोऽस्तु । अश्वमेधफललाभे किमश्वेनेति भावः।। 3.65 ।।
यथा च वृत्तान्तमिमं सदोगतस्त्त्रिलोचनैकांशतया दुरासदः ।
तवैव संदेशहराद्विशांपतिः श्रृणोति लोकेश! तथाविधीयताम् ।। 3.66 ।।
यथेति।। सदोगतः सदो गृहं गतस्त्त्रिलोचनस्येश्वरस्यैकांशतया,अष्टानामन्यतममूर्तित्वात्। दुरासदो मादृशैर्दुष्प्राप्यो विशांपतिर्यथेमं वृत्तान्तं तव संदेशहराद्वार्ताहरादेव शृणोति च। हे लोकेशेन्द्र! तथा विधीयताम्।। 3.66 ।।
तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ ।
नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ।। 3.67 ।।
तथेति।। मातलिसारथिरिन्द्रो रघोः संबन्धिनं कामं मनोरथं तथेति `तथास्तु’ इति प्रतिशुश्रुवान्। `भाषायां सदवसश्रुवः'(पा.3।2।108) इति क्वसुप्रत्ययः। तथागतं ययौ सुदक्षिणासूनू रघुरपि नातिप्रमना विजयलाभेऽप्यश्वनाशान्नातीव तुष्टः सन्। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। नृपस्य सदोगृहं प्रति न्यवर्तत ।। 3.67 ।।
तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः ।
परामृशन्हर्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ।। 3.68 ।।
तमिति।। हरेरिन्द्रस्य शासनहारिणा पुरुषेण प्रथमं प्रबोधितो ज्ञापितः। वृत्तान्तमिति शेषः। प्रजेश्वरो दिलीपो हर्षजडेन हर्षजडेन हर्षशिशिरेण पाणिना कुलिशव्रणाङ्कितम्। तस्य रघोरिदं तदीयम्। अङ्गं शरीरं परामृशन्,तं रघुमभ्यनन्दत् ।। 3.68 ।।
इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।
समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव ।। 3.69 ।।
इतीति।। महनीयशासनः पूजनीयाज्ञः क्षितीश इत्यनेन प्रकारेण। `इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु’ इत्यमरः’। महाक्रतूनामश्वमेधानां नवभिरधिकां नवतिमेकोनशतमायुषः क्षये सति दिवं स्वर्गं समारुरुक्षुरारोढुमिच्छुः सोपानानां परम्परां पङ्क्तिमिव ततान ।। 3.69 ।।
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ।। 3.70 ।।
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ रघुराज्याभिषेको नाम तृतीयः सर्गः ।
अथेति।। अथ विषयेभ्यो व्यावृत्तात्मा निवृत्तचितः स दिलीपो यथाविधि यथाशास्त्त्रं यूने सूनवे नृपतिककुदं राजचिह्नम्। `ककुद्वत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि’ इति विश्वः। सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छायां शिश्रिये श्रितवान्। वानप्रस्थाश्रमं स्वीकृतवानित्यर्थः। तथा हि-गलितवयसां वृद्धानामिक्ष्वाकूणामिक्ष्वाकोर्गोत्रापत्यानाम्। तद्राजसंज्ञकत्वादणो लुक्। इदं वनगमनं कुलव्रतम्। `देव्या सह’ इत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः। तथा च याज्ञवल्क्यः(प्राय.3।45)- `सुतविन्यस्तपत्नीकस्तया वाऽनुगतो वनम्। वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्।।’ इति। हरिणीवृत्तमेतत्। तदुक्तम्-`रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा’ इति।। 3.70 ।।
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां संजीविनीसमाख्यायां तृतीयः सर्गः ।
चतुर्थः सर्गः।
शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदाऽस्माकं सन्निधिं संनिधिं क्रियात् ।।
स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः ।। 4.1 ।।
स इति।। स रघुर्गुरुणा पित्रा दत्तं राज्यं राज्ञः कर्म प्रजापरिपालनात्मकम्। पुरोहितादित्वाद्यक्। प्रतिपद्य प्राप्य। दिनान्ते सायंकाले सवित्रा सूर्येण निहितं तेजः प्रतिपद्य हुताशनोऽग्निरिव। अधिकं बभौ। `सौरं तेजः सायमग्निं संक्रमते। आदित्यो वा अस्तं यन्नग्निमनुप्रविशति। अग्निं वा आदित्यः सायं प्रविशति।’ इत्यादिश्रुतिप्रामाण्यम् ।। 4.1 ।।
दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् ।
पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः ।। 4.2 ।।
दिलीपेति।। दिलीपानन्तरं राज्ये प्रतिष्ठितमवस्थितं तं रघुं निशम्याकर्ण्यं पूर्वं दिलीपकाले राज्ञां हृदये प्रकर्षेण धूमोऽस्य संजातः प्रधूमितोऽग्निः संतापाग्निरुत्थित इव प्रज्वलित इव। पूर्वाभ्यधिकः संतापोऽभूदित्यर्थः। राजकर्तृकस्यापि निशमनस्याग्नावुपचारान्न समानकर्तृकत्वविरोधः ।। 4.2 ।।
पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः ।
नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ।। 4.3 ।।
पुरुहूतेति।। पुरुहूतध्वज इन्द्रध्वजः। स किल राजभिर्वृष्ट्यर्थं पूज्यत इत्युक्तं भविष्योत्तरे-`एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर!। पर्यन्यः कामवर्षी स्यात्तस्य राज्ये न संशयः।।’ इति। `चतुरस्रं ध्वजाकारं राजद्वारे प्रतिष्टितम्। आहुः शक्रध्वजं नाम पौरलोकसुखावहम्।।’ इति च। पुरुहूतध्वजस्येव तस्य रघोर्नवमभ्युत्थानमभ्युन्नतिमभ्युदयं च पश्यन्तीति नवाभ्युत्थानदर्शिन्यः। उदूर्द्ध्वं प्रस्थिता उल्लसिताश्च नयनपङ्क्तयो यासां ताः सप्रजाः ससंतानाः प्रजाः जनाः। `प्रजा स्यात्संततौ जने’ इत्युत्रयत्राप्यमरः। ननन्दुः ।। 3.3 ।।
सममेव समाक्रान्तं द्वयं द्विरदगामिना ।
तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ।। 4.4 ।।
सममिति।। द्विरद इव द्विरदैश्च गच्छतीति द्विरदगामिना। `कर्तर्युपमाने'(पा.3।2।79)इति,`सुप्यजातौ-‘(पा.3।2।78)इति च णिनिः। तेन रघुणा समं युगपदेव द्वयं समाक्रान्तमधिष्ठितम्। किं तद्वयम्? पितुरागतं पित्र्यम्। `पितुर्यत-‘(पा.4।3।79)इति यत्प्रत्ययः। सिंहासनम्। अखिलमरीणां मण्डलं राष्ट्रं च ।। 4.4 ।।
अथ सिंहासनारोहणानन्तरं तस्य लक्ष्मीसंनिधानमाह-
छायामण्डललक्ष्येण तमदृश्या किल स्वयम् ।
पद्मा पद्मातपत्रेण मेजे साम्राज्यदीक्षितम् ।। 4.5 ।।
छायेति।। अत्र रघोस्तेजोविशेषेण स्वयं संनिहितया लक्ष्म्या छत्रधारणं कृतमित्युत्प्रेक्षते-पद्मा लक्ष्मीः। `लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया’ इत्यमरः। सा स्वयमदृश्या किल। `किल’ इति संभावनायाम्। सती छायामण्डललक्ष्येण कान्तिपुञ्जानुमेयेन। न तु स्वरूपतो दृश्येन। `छायामण्डलम्’ इत्यनेनानातपज्ञानं लक्ष्यते। `छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः’ इत्युभयत्राप्यमरः। पद्मातपत्रेण पद्ममेवातपत्रं तेन कारणभूतेन साम्राज्यदीक्षितं साम्राज्ये साम्राज्यकर्मणि मण्डलाधिपत्ये दीक्षितमभिषिक्तं तं भेजे। अन्यथा कथमेतादृशी कान्तिसंपत्तिरिति भावः ।। 4.5 ।।
संप्रति सरस्वतीसांनिध्यमाह-
परिकल्पितसांनिध्या काले काले च बन्दिषु ।
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ।। 4.6 ।।
परिकल्पितेति।। सरस्वती च काले काले सर्वेष्वपि योग्यकालेषु। `नित्यवीप्सयोः'(पा.8।1।4) इति वीप्सायां द्विर्वचनम्। बन्दिषु परिकल्पितसांनिध्या कृतसंनिधाना सती स्तुत्यं स्तोत्रार्हं तं रघुम्। अर्थ्याभिरर्थादनपेताभिः। `धर्मपथ्यर्थन्यायादनपेते'(पा.4।4।92)इति यत्प्रत्ययः। स्तुतिभिः स्तोत्रैः। उपतस्थे। देवताबुद्ध्या पूजितवतीत्यर्थः। देवतात्वं च-`ना विष्णुः वृथिवीपतिः’ इति वा लोकपालात्मकत्वाद्वेत्यनुसंधेयम्। एवं च सति`उपाद्देवपूजासंगतिकरणमित्रकरणपथिषु'(वा.914) इति वक्तव्यादात्मनेपदं सिद्ध्यति।। 4.6 ।।
मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः ।
तथाप्यनन्यपूर्वेव तस्मिन्नासीद्धसुंधरा ।। 4.7 ।।
मन्विति।। वसुंधरा मनुप्रभृतिभिर्मन्वादिभिर्मान्यैः पूज्यै राजभिर्भुक्ता यद्यपि। भुक्तैवेत्यर्थः। `यद्यपि’ इत्यवधारणे। `अप्यर्थे यदि वार्थे `स्यात्’ इति केशवः। तथापि तस्मिन् राज्ञि। अन्यः पूर्वो यस्याः साऽन्यपूर्वा। अन्यपूर्वा न भवतीत्यनन्यपूर्वा। अनन्योपभुक्तेवासीत्। तत्प्रथमपतिकेवानुरक्तवतीत्यर्थः।। 4.7 ।।
अत्र कारणमाह-
स हि सर्वस्य लोकस्य युक्तदण्डतया मनः ।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ।। 4.8 ।।
स इति।। हि यस्मात्कारणात् स रघुर्युक्तदण्डतया यथापराधदण्डतया सर्वस्य लोकस्य मन आददे जहार। क इव? अतिशीतोऽत्युष्णो वा न भवतीति नातिशीतोष्णः। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। दक्षिणो दक्षिणदिग्भवो नभस्वान् वायुरिव। मलयानिल इवेत्यर्थः। `युक्तदण्डतया’ इत्यत्र कामन्दकः-`उद्वेजयति तीक्ष्णेन मृदुना परिभूयते। दण्डेन नृपतिस्तस्माद्युक्तदण्डः प्रशस्यते ।।’ इति ।। 4.8 ।।
मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ ।
फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ।। 4.9 ।।
मन्देति। तेन रघुणा प्रजा गुरौ दिलीपविषये। सहकारोऽतिसौरभश्चूतः। `आम्रश्चूतो रसालोऽसौ सहकारोऽसौरभः’ इत्यमरः। तस्य फलेन पुष्पोद्गमे पुष्पोदय इव। ततोऽपि गुणाधिकतया हेतुना मन्दोत्कण्ठा अल्पौत्सुक्याः कृताः। गुणोत्तरश्चोत्तरो विषयः पूर्वं विस्मारयतीति भावः।। 4.9 ।।
नयविद्भिर्नवे राज्ञि सदसञ्चोपदर्शितम् ।
पूर्वं एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ।। 4.10 ।।
नयविद्भिरिति।। नयविद्भिर्नीतिशास्त्त्रज्ञैर्नवे तस्मिन्राज्ञि विषये। तमधिकृत्येत्यर्थः। सद्धर्मयुद्धादिकम्,असत् कूटयुद्धादिकं चोपदर्शितम्। तस्मिन्राज्ञि पूर्वः पक्ष एवाभवत्। संकान्त इत्यर्थः। उत्तरः पक्षो नाभवत्। न संक्रान्त इत्यर्थः। तत्र सदसतोर्मध्ये सदेवाभिमतं नासत्। तदुद्भावनं तु ज्ञानार्थमेवेत्यर्थः। पक्षः साधनयोग्यार्थः। `पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु’ इति केशवः।। 4.10 ।।
पञ्जानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः ।
नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ।। 4.11 ।।
पञ्चानामिति।। पृथिव्यादीनां पञ्चानां भूतानामपि गुणा गन्धादय उत्कर्षमतिशयं पुपुषुः। अत्रोत्प्रेक्षते-तस्मिन् रघौ नाम नवे महीपाले सति सर्वं क्स्तुजातं नवमिवाभवत्। तदेव भूतजातमिदानीमपूर्वगुणयोगादपूर्वमिवाभवदिति भावः ।। 4.11 ।।
यथा प्रह्लादनाञ्चन्द्रः प्रतापात्तपनो यथा ।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ।। 4.12 ।।
यथेति।। यथा चन्दयत्याह्लादयतीति चन्द्र इन्दुः। चदिधातोरौणादिकोरप्रत्ययः। प्रह्लादनादाह्लादकरणादन्वर्थोऽनुगतार्थनामकोऽभूत्। यथा च तपतीति तपनः सूर्यः। नन्द्यादित्वाल्ल्युप्रत्ययः। प्रतापात् संतापजननादन्वर्थः। तथैव स राजा प्रकृतिरञ्जनादन्वर्थः सार्थकराजशब्दोऽभूत्। यद्यपि `राज’ शब्दो राजतेर्दीप्त्यर्थात्कनिन्प्रत्ययान्तो न तु रञ्जेस्तथापि धातूनामनेकार्थत्वाद्रञअजनाद्राजेत्युक्तं कविना ।। 4.12 ।।
कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने ।
चक्षुष्मत्ता तु शास्त्त्रेण सूक्ष्मकार्यार्थदर्शिना ।। 4.13 ।।
काममिति।। विशाले तस्य रघोर्लोचने कामं कर्णान्तयोर्विश्रान्ते कर्णप्रान्तगते। चक्षुष्मत्ता तु। चक्षुःफलं त्वित्यर्थः। सूक्ष्मान् कार्यार्थान्कर्तव्यार्थान् दर्शयति प्रकाशयतीति सूक्ष्मकार्यार्थदर्शिना शास्त्त्रेणैव। शास्त्त्रं दृष्टिर्विवेकिनामिति भावः।। 4.13 ।।
लब्धप्रशमनस्वस्थमथैनं समुपस्तिता ।
पार्थिवश्रीर्दितीयेव शरत्पङ्कजलक्षणा ।। 4.14 ।।
लब्धेति।। अथ लब्धस्य राज्यस्य प्रशमनेन परिपन्थिनामनुरञ्जनप्रतीकाराभ्यां स्थिरीकरणेन स्वस्थं समाहितचित्तमेनं रघुं पङ्कजलक्षणा पद्मचिह्ना। श्रियोऽपि विशेषणमेतत्। शरत्। द्वितीया पार्थिवश्री राजलक्ष्मीरिव। समुपस्थिता प्राप्ता। `रक्षा पौरजनस्य देशनगरग्रामेषु गुप्तिस्तथा योधानामपि संग्रहोऽपि तुलया मानव्यवस्थापनम्। साम्यं लिङ्गिषु दानवृत्तिकरणं त्यागः समानेऽर्चनं कार्याण्येव महीभुजां प्रशमनान्येतानि राज्ये नवे।।’ इति।। 4.14 ।।
निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः ।
प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिशः ।। 4.15 ।।
निर्वृष्टेति।। निःशेषं वृष्टा निर्वृष्टाः। कर्तरि क्तः। अत एव लघवः,तैर्मेघैर्मुक्तवर्मा त्यक्तमार्गः। अत एव सुदुःसहः। तस्य रघोर्भानोश्च प्रतापः पौरुषमातपश्च। `प्रतापौ पौरुषातपौ’ इति यादवः। यचुगपद्दिशो व्यानशे व्यापः ।। 4.15 ।।
वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ ।
प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ।। 4.16 ।।
वार्षिकमिति।। इन्द्रः। वर्षासु भवं वार्षिकम्,वर्षानिमित्तमित्यर्थः। `वर्षाभ्यष्ठक्'(पा.4।3।18) इति ठक्प्रत्ययः। धनुः संजहार। रघुर्जैत्रं जयशीलम्। `जेतृ’शब्दात्तृन्नन्तात् `प्रज्ञादिभ्यश्च'(पा.5।4।38) इति स्वार्थेऽण्प्रत्ययः। धनुर्दधौ। हि यस्मात् ताविन्द्ररघू प्रजानामर्थस्य प्रयोजनस्य वृष्टिविजयलक्षणस्य साधने विषये पर्यायेणोद्यते कार्मुके याभ्यां तौ पर्यायोद्यतकार्मुकौ। `पर्यायोद्यमविश्रमौ’ इति पाठान्तरे पर्यायेणोद्यमो विश्रमश्च ययोस्तौ पर्यायोद्यमविश्रमौ। द्वयोः पर्यायकरणादक्लेशः इति भावः ।। 4.16 ।।
पुण्डरीकातपत्रस्तं विकसत्काशचामरः ।
ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ।। 4.17 ।।
पुण्डरीकेति।। पुण्डरीकं सिताम्भोजमेवात्तपत्रं यस्य स तथोक्तः। विकसन्ति काशानि काशाख्यतृणकुसुमान्येव चामरणि यस्य स तथोक्तः। ऋतुः शरदृतुः पुण्डरीकनिभातपत्रं काशनिभचामरं तं रघुं विडम्बयामासानुचकार। तस्य रघोः श्रियं पुनः शोभां तु न प्राप। `शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दश्यते’ इति शाश्वतः ।। 4.17 ।।
प्रसादसुमुखे तस्मिंश्चन्द्रे च विशदप्रभे ।
तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः ।। 4.28 ।।
प्रसादेति।। प्रसादेन सुमुखे तस्मिन् रघौ विशदप्रभे निर्मलकान्तौ चन्द्रे च द्वयोर्विषये तदा चक्षुष्मतां प्रीतिरनुरागः समरसा समस्वादा। तुल्यभोगेति यावत्। `रसो गन्धे रसः स्वादे’ इति विश्वः। आसीत्।। 4.18 ।।
हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।
विभूतयस्तदीयानां पर्यस्ता यशसामिव ।। 4.19 ।।
हंसेति।। हंसानां श्रेणीषु पङ्क्तिषु। तारासु नक्षत्रेषु। कुमुदानि येषु सन्तीति कुमुद्वन्ति। `कुमुद्वान्कुमुदप्राये’ इत्यमरः। `कुमुदनडवेतसेभ्यो ड्यतुप्'(पा.4।2।87)। तेषु। कुमुदप्रायेष्वित्यर्थः। वारिषु च तदीयानां रघुसंबन्धिनां यशसां विभूतयः संपदः पर्यस्ता इव प्रसारिताः किम् ? इत्युत्प्रेक्षा। अन्यथा कथमेषां धवलिमेति भावः।। 4.19 ।।
इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।
आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः ।। 4.20 ।।
इक्ष्विति।। इक्षूणां छायेक्षुच्छायम्। `छाया बाहुल्ये'(पा.2।4।22) इति नपुंसकत्वम्; तत्र निषण्णा इक्षुच्छायनिषादिन्यः। `इक्षुच्छायानिषादिन्यः’ इति स्त्त्रीलिङ्गपाठ इक्षोश्छायेति विग्रहः; अन्यथा बहुत्वे नपुंसकत्वप्रसङ्गात्। शालीन् गोपायन्ति रक्षन्तीति शालिगोप्यः सस्यपालिकाः स्त्त्रियः। `कर्मण्यण्’ (पा.3।2।1) । `टिड्ढाणञ-‘(पा.4।1।15)इत्यादिना ङीप्। गोप्तू रक्षकस्य तस्य रघोः। गुणेभ्य उदयो यस्य तद्गुणोदयं गुणोत्पन्नमाकुमारं कुमारादारभ्य कथोद्घातः कथारम्भो यस्य तम्। कुमारैरपि स्तूयमानमित्यर्थः। यशो जगुर्गायन्ति स्म। अथवा,-कुमारस्य सतो रघोर्याः कथा इन्द्रविजयादयस्तत यशो जगुर्गायन्ति स्म। अथवा,-कुमारस्य सतो रघोर्याः कथा इन्द्रविजयादयस्तत आरभ्याकुमारकथम्। तत्राप्यभिविधावव्ययीभावः। आकुमारकथमुद्घातो यस्मिन् कर्मणि। गानकियाविशेषणमेतत्। `स्यादभ्यादानमुद्घात आरम्भः’इत्यमरः। `आकुमारकथोद्भूतम्’ इति पाठे कुमारस्य सतस्तस्य कथभिश्चरितैरुद्भूतं यद्यशस्तद्यश आरभ्य यशो जगुरिति व्याख्येयम् ।। 4.20 ।।
प्रससादोदयादम्भः कुम्भयोनेर्महौजसः ।
रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः ।। 4.21 ।।
प्रससादेति।। महौजसः कुम्भयोनेरगस्त्यस्य। `अगस्त्यः कुम्भसंभवः’ इत्यमरः। उदयादम्भः प्रससाद प्रसन्नं बभूव। महौजसो रघोरुदयादभिभवाशङ्कि द्विषतां मनश्चुक्षुभे कालुष्यं प्राप। `अगस्त्योदये जलानि प्रसीदन्ति’ इत्यमरः।। 4.21 ।।
मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः ।
लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ।। 4.22 ।।
मदेति।। मदोदग्रा मदोद्घाताः। ककुदेषामस्तीति ककुद्मन्तः। महाककुद इत्यर्थः। यवादित्वान्मकारस्य वत्वाभावः। सरितां कूलान्युद्रुजन्तीति कूलमुद्रुजाः। `उदि कूले रुजिवहोः'(पा.3।2।31) इति खश्प्रत्ययः। `अरुर्द्विषद्-‘(पा.6।3।67)इत्यादिना मुमागमः। महन्त उक्षाणो महोक्षाः। `अचतुर-‘(पा.5।4।77) इत्यादिना निपातनादकारान्तः। लीलाखेलं विलाससुभगं तस्य रघोरुत्साहवतो वपुष्मतः परभञ्जकस्य विक्रमं शौर्यम्। अनुप्रापुरनुचक्रुः।। 4.22 ।।
प्रसवैः सप्तपर्णानं मदगन्धिभिराहताः ।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ।। 4.23 ।।
प्रसवैरिति।। मदस्यैव गन्धो येषां तैर्मदगन्धिभिः। `उपमानाञअच'(पा.5।4।137)इतीकारः समासान्तः। सप्तपर्णानां वृक्षविशेषाणाम्। `सप्तपर्णो विशालत्वक्शारदो विषमच्छदः’इत्यमरः। प्रसवैः पुष्पैराहतास्तस्य रघोर्नागागजाः। `गजेऽपि नागमातङ्गौ’ इत्यमरः। असूययेवाहतिनिमित्तया स्पर्धयेव सप्तधैव प्रसुस्रुवुर्मदं ववृषुः। प्रतिगजगन्धाभिमानादिति भावः। `करात्कटाभ्यां मेढाञ्च नेत्राभ्यां च मदस्रुतिः’ इति पालकाप्ये। करान्नासारन्ध्राभ्यामित्यर्थः।। 4.23 ।।
सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।
यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ।। 4.24 ।।
सरित इति।। सरितो गाधाः सुप्रतराः कुर्वती। पथो मार्गांश्चाश्यानकर्दमाञ्शुष्कपङ्कान् कुर्वंती। `संयोगादेरातो धातोर्यण्वतः'(पा.8।4।43)इति श्यतेर्निष्ठातस्य नत्वम्। शरच्छरदृतुस्तं रघुं शक्तेरुत्साहृशक्तेः प्रथमं प्राग्यात्रायै दण्डयात्रायै चोदयामास प्रेरयामास। प्रभुमन्त्त्रशक्तिसंपन्नस्य शरत् स्वयमुत्साहमुत्पादयामासेत्यर्थः।। 4.24 ।।
तस्मै रुम्यग्घुतो विह्निर्वाजिनीराजनाविधौ ।
प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ ।। 4.25 ।।
तस्मा इति।। वाजिनामश्वानां नीराजनाविधौ नीराजनाख्ये शान्तिकर्मणि सम्यग्विधिवद्धुतो होमसमिद्धो वह्निः। प्रगता दक्षिणं प्रदक्षिणम्। तिष्ठद्गुप्रभृतित्वादव्ययीभावः। प्रदक्षिणं याऽर्चिर्ज्वाला तस्या व्याजेन हस्तेनेव तस्मै जयं ददौ। उक्तं महायात्रायाम्-`इद्धः प्रदक्षिणगतो हुतभुङ् नृपस्य धात्रीं समुद्ररशनां वशगा करोति’ इति। `वाजि’ग्रहणं गजादीनामप्युपलक्षणम्,तेषामपि नीराजनाविधानात् ।। 4.25 ।।
स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः ।
षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ।। 4.26 ।।
स इति।। गुप्तौ मूलं स्वनिवासस्थानं प्रत्यन्तः प्रान्तदुर्गं च येन स गुप्तमूलप्रत्यन्तः। शुद्धपार्ष्णिरुद्धृतपृष्टशत्रुः सेनया रक्षितपृष्ठदेशो वा। अयान्वितः शुभदैवान्वितः। `अयः शुभावहो विधिः’इत्यमरः। स रघुः षड्विधं मौलभृत्यादिरूपं बलं सैन्यम्। `मौलं भृत्यः सुहृच्छ्रेणी द्विषदाटविकं बलम्’इति कोशः। आदाय दिशां जिगीषया जेतुमिच्छया प्रतस्थे चचाल ।। 4.26 ।।
अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः ।
पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ।। 4.27 ।।
अवाकिरन्निति।। वयोवृद्धाः पौरयौषितस्तं रघुं प्रयान्तं लाजैराचारलाजैः। मन्दरोद्धूतैः पृषतैर्बिन्दुभिः क्षीरोर्मयः क्षीरसमुद्रोर्मयोऽच्युतं विष्णुमिव। अवाकिरन् पर्यक्षिपन्।। 4.27 ।।
स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा ।
अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ।। 4.28 ।।
स इति।। प्राचीनबर्हिर्नाम कश्चिन्महाराज इति केचित्। प्राचीनवर्हिरिन्द्रः। `पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिस्तथा’इतीन्द्रपर्यायेषु हलायुधाभिधानात्। तेन तुल्यः स रघुः। अनिलेनानुकूलवातेनोद्धूतैः केतुभिर्ध्वजैरहितान् रिपून्। तर्जयन्निव भर्त्सयन्निव। तर्जभिर्त्स्योरनुदात्तेत्त्वे।ञपि चक्षिङो ङित्करणेनानुदात्तेत्त्वनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनात्परस्मैपदमिति वामनः। प्रथमं प्राचीं दिशं ययौ ।। 4.28 ।।
रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः ।
भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ।। 4.29 ।।
रजोभिरिति।। किं कुर्वन्? स्यन्दनोद्धूतै रजोभिर्घनसंनिभैर्वर्णतः क्रियातःपरिमाणताश्च मेघतुल्यैर्गजैश्च यथाक्रमं व्योमाकाशं भुवस्तलमिव भूतलं च व्योमेव कुर्वन्। `ययौ’इति पूर्वेण संबन्धः।। 4.29 ।।
प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् ।
ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः ।। 4.30 ।।
प्रताप इति।। अग्रे प्रतापस्तेजोविशेषः। `स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्’ इत्यमरः। ततः शब्दः सेनाकलकलः। तदनन्तरं परागो धूलिः। `परागः पुष्परजसि धूलिस्नानीययोरपि’इति शब्दाध्याहारेण योज्यम्। इतीत्थं चतुःस्कन्धेव चतुर्व्यूहेव। `स्कन्धः प्रकाण्डे कायांशे विज्ञानादिषु पञ्चसु। नृपेसमूहे व्यूहे च’ इति हैमः। सा चमूर्ययौ ।। 4.30 ।।
मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः ।
विपिनानि प्रकाशानि शक्तिमत्त्वाञ्चकार सः ।। 4.31 ।।
मर्विति।। स रघुः शक्तिमत्त्वात्समर्थत्वान्मरुपृष्ठानि निर्जलस्थानानि। `समानौ मरुधान्वानौ’ इत्यमरः। उदम्भांस्युद्भूतजलानि चकार। नाव्या नौभिस्तार्या नदीः। `नाव्यं त्रिलिङ्गं नौतार्ये’इत्यमरः। a`नौवयोधर्मविषमूल-‘(पा.4।4।91)इत्यादिना यत्प्रत्ययः। सुप्रतराः सुखेन तार्याश्चकार। विपिनान्यरण्यानि। `अटव्यरण्यं विपिनम्’इत्यमरः। प्रकाशानि निर्वृक्षाणि चकार। शक्त्युत्कर्षात्तस्यागम्यं किमपि नासीदिति भावः।। 4.31 ।।
स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् ।
बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ।। 4.32 ।।
स इति।। महतीं सेनां पूर्वसागरगामिनीं कर्षन् स रघुः। हरस्य जटाभ्यो भ्रष्टां गङ्गां कर्षन्। सापि पूर्वसागरगामिनी। भगीरथ इव। बभौ। भगीरथो नाम कश्चित्कपिलदग्धानां सागराणां नप्ता तत्पावनाय हरकिरीटाद्गङ्गा प्रवर्तयिता राजा। यत्संबन्धाद्गङ्गा च भागीरथीति गीयते ।। 4.32 ।।
त्याजितैः फलमुत्खातैर्भग्नैशअच बहुधा नृपैः ।
तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ।। 4.33 ।।
त्याजितैरिति।। `फलं फले धने बीजे निष्पत्तौ भोगलाभयोः’ इति केशवः। फलं लाभम्। वृक्षपक्षे,-प्रसवं च। त्याजितैः। त्यजेर्ण्यन्ताद्द्वकर्मकादप्रधाने कर्मणि क्तः। उत्खातैः स्वपदाञ्च्यावितैः। अन्यत्र,-उत्पाटितैः। बहुधा भग्नै रणे जितैः। अन्यत्र,-छिन्नेः। नृपैः। पादपैर्दन्तिनो गजस्येव तस्य रघोर्मार्ग उल्बणः प्रकाश आसीत्। `प्रकाशं प्रकटं स्पष्टमुल्बणं विशदं स्फुटम्’ इति यादवः।। 4.33 ।।
पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जयी ।
प्राप तालीवनश्याममुपकण्ठं महोदधेः ।। 4.34 ।।
पौरस्त्यानिति।। जयी जयनशीलः। `जिदृक्षिविश्री-‘(पा.3।2।147) इत्यादिनेनिप्रत्ययः। स रघुरेवम्। पुरो भवान् पौरस्त्यान्प्राच्यान्। `दक्षिणापश्चात्पुरसस्त्यक्'(पा.4।2।98) इति त्यक्प्रत्ययः। तांस्तान्,सर्वानित्यर्थः। वीप्सायां द्विरुक्तिः। जनपदान्देशानाक्रामन्। तालीवनैः श्यामं महोदधेरुपकण्ठमन्तिकं प्राप।। 4.34 ।।
अनम्राणां समुद्धर्तस्तस्मात्सिन्धुरयादिव ।
आत्मा संरक्षितः सुह्यैर्वृत्तिमाश्रित्य वैतसीम् ।। 4.35 ।।
अनम्राणामिति।। अनम्राणाम्। कर्मणि षष्ठी। समुद्धर्तुरुन्मीलयितुस्तस्माद्रघोः सकाशात्। `भीत्रार्थानां भयहेतुः'(पा.1।4।25)इत्यपादानत्वात्पञ्चमी। सिन्धुरयान्नदीवेगादिव सुह्नैः सुह्नदेशीयैः। सुह्नादयः शब्दा जनपदवचनाः क्षत्रियमाचक्षते। वैतसीं वेतसः संबन्धिनीं वृत्तिम्। प्रणतिमित्यर्थः। आश्रित्य। आत्मा संरक्षितः। अत्र कौटिल्यः-`बलीयसाभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतसं धर्ममातिष्ठेत्’इति ।। 4.35 ।।
वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् ।
निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु सः ।। 4.36 ।।
वङ्गानिति।। नेता नायकः स रघुर्नौभिः साधनैरुद्यतान्संनद्धान् वङ्गान्राज्ञस्तरसा बलेन। `तरसी बलरंहसी’ इति यादवः। उत्खायोन्मूल्य गङ्गायाः स्रोतसां प्रवाहाणामन्तरेषु द्वीपेषु जयस्तम्भान्निचखान। स्थापितवानित्यर्थः।। 4.36 ।।
आपादपद्मप्रणताः कलमा इव ते रघुम् ।
फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः ।। 4.37 ।।
आपादेति।। आपादपद्ममङ्घ्रिपम्दपर्यन्तं प्रणताः। अत एव,उत्खाताः पूर्वमुद्धृता अपि प्रतिरोपिताः पश्चात्स्थापितास्ते वङ्गाः। कलमा इव शालिविशेषा इव। `शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी’इत्यमरः। तेऽप्यापादपद्मं पादपद्ममूलपर्यन्तं प्रणताः। `पादो बुध्ने तुरीयांशशैलप्रत्यन्तपर्वताः’इति विश्वः। उत्खातप्रतिरोपिताश्च। रघुं फलैर्धनैः। अन्यत्र,-सस्यैः। संवर्धयामासुः। `फलं फले धने बीजे निष्पत्तौ भोगलाभयोः। सस्ये’ इति केशवः।। 4.37 ।।
स तीर्त्वा कपिशां सैन्यैर्बद्धद्विरदसेतुभिः ।
उत्कलादर्शित्प्पथः कलिङ्गाभिमुखो ययौ ।। 4.38 ।।
स इति।। स रघुर्बद्धा द्विरदा एव सेतवो यैस्तैः सैन्यैः कपिशां नाम नदीं तीर्त्वा। `करभाम्’इति केचित्पठन्ति। उत्कलै राजभिरादर्शितपथः संदर्शितमर्गः सन् कलिङ्गाभिमुखो ययौ ।। 4.38 ।।
स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् ।
अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ।। 4.39 ।।
स इति।। स रघुर्महेन्द्रस्य कुलपर्वतविशेषस्य। `महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः। विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः।’ इति विष्णुपुराणात्। मूर्ध्नि तीक्ष्णं दुःसहं प्रतापम्। यन्ता सारथिर्गम्भीरवेदिनो द्विरदस्य गजविशेषस्य मूर्ध्नि तीक्ष्णं निशितमङ्कुशमिव। न्यवेशयन्निक्षिप्तवान्। `त्वग्भेदाच्छोणितस्रावान्मांसस्य क्रथनादपि। आत्मानं यो न जानाति स स्याद्गम्भीरवेदिता।।’ इति राजपुत्रीये। `चिरकालेन यो वेत्ति शिक्षां परिचितामपि । गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः।।’ इति मृगचर्मीये ।। 4.39 ।।
प्रतिजग्राह कालिङ्गस्तमस्त्त्रैर्गजसाधनः ।
पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ।। 4.40 ।।
प्रतीति।। गजसाधनः सन् कालिङ्गः कलिङ्गानां राजा। `द्व्यञ्मगधकलिङ्ग-‘(पा.4।1।170)इत्यादिनाण्प्रत्ययः। अस्त्त्रैरायुधैस्तं रघुम्। पक्षाणां धेद उद्यतमुद्युक्तं शक्रं शिलावर्षी पर्वत इव। प्रतिजग्राह प्रत्यभियुक्तवान् ।। 4.40 ।।
द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनम् ।
सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ।। 4.41 ।।
द्विषामिति।। काकुत्स्थो रघुस्तत्र महेन्द्राद्रौ द्विषां नाराचदुर्दिनं नाराचानां बाणाविशेषाणां दुर्दिनम्। लक्षणया वर्षमुच्यते। विषह्य सहित्वा सद्यथाशास्त्त्रं मङ्गलस्नात इव विजयमङ्गलार्थमभिषिक्त इव जयश्रियं प्रतिपेदे प्राप। `यत्तु सर्वौषधिस्नानं तन्माङ्गल्यमुदीरितम्’इति यादवः ।। 4.41 ।।
ताम्बूलीनां दलैस्तत्र रचितापानभूमयः ।
नारिकेलासवं योधाः शात्रवं च पपुर्यशः ।। 4.42 ।।
ताम्बूलीनामिति।। तत्र महेन्द्राद्रौ। युध्यन्त इति योधाः। पचाद्यच्। रचिताः कल्पिता आपानभूमयः पानयोग्यप्रदेशा यैस्ते तथोक्ताः सन्तो नारिकेलासवं नारिकेलमद्यं ताम्बूलीनां नागवल्लीनां दलैः पपुः। तत्र विजह्रुरित्यर्थः। शात्रवं यशश्च पपुः,जह्रुरित्यर्थः।। 4.42 ।।
गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः ।
श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ।। 4.43 ।।
गृहीतेति।। धर्मविजयी धर्मार्थविजयशीलः स नृपो रघुः। गृहीतश्चासौ प्रतिमुक्तश्च गृहीतप्रतिमुक्तः। तस्य महेन्द्रनाथस्य कालिङ्गस्य श्रियं जहार। धर्मार्थमिति भावः। मेदिनीं तु न जहार। शरणागतवात्सल्यादिति भावः ।। 4.43 ।।
ततो वेलातटेनैव फलवत्पूगमालिना ।
अगस्त्याचरितामाशामनाशास्यजयो ययौ ।। 4.44 ।।
तत इति।। ततः प्राचीविजयानन्तरं फलवत्पूगमालिना फलितक्रमुकश्रेणीमता। व्रीह्यादित्वादिनिप्रत्ययः। वेलायाः समुद्रकूलस्य तटेनोपान्तेनैवागस्त्येनाचरितामाशां दक्षिणां दिशमनाशास्यजयः। अयत्नसिद्धत्वादप्रार्थनीयजयः सन्। ययौ। `अगस्त्यो दक्षिणमाशामाश्रित्य नभसि स्थितः। वरुणस्यात्मजो योगी विन्धअय वातापिमर्दनः’ इति ब्रह्मपुराणे ।। 4.44 ।।
स सैन्यपरिभोगेण गजदानसुगन्धिना ।
कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ।। 4.45 ।।
स इति।। स रघुः गजानां दानेन मदेन सुगन्धिना सुरभिगन्धिना। `गन्धस्येत्-‘(पा.5।4।135)इत्यादिनेकारादेशः समासान्तः। यद्यपि गन्धस्येत्वेः तदेकान्तग्रहणं कर्तव्यमिति नैसर्गिग्धविवक्षायामेवेकारादेशः,तथापि `निरङ्कुशाः कवयः’। तथा च माघकाव्ये(6।50)-`ववुरयुक्छदगुच्छसुगन्धयः सततगास्तगानगिरोऽलिभिः’, नैषधे च (3।93)-`अपां हि तृप्ताय न वारिधाराः स्वादुसुगन्धिः स्वदते तुषारा’इति। `न कर्मधारयान्मत्वर्थीय’ इति निषेधादिनिप्रत्ययपक्षोऽपि जघन्य एव। सेनायां समवेताः सैन्याः। `सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते’ इत्यमरः। `सेनाया वा'(पा.4।4।45)इति ण्यप्रत्ययः। तेषां परिभोगेन कावेरीं नाम सरितं सरितां पत्युः समुद्रस्य शङ्कनीयां न विश्वसनीयामिवाकरोत्। संभोगलिङ्गदर्शनाद्भर्तुरविश्वासो भवतीति भावः ।। 4.45 ।।
बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः ।
मारीचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः ।। 4.46 ।।
बलैरिति।। विजिगीषोर्विजेतुमिच्छोर्गताध्वनस्तस्य रघोर्बलैः सैन्यैः। `बलं शक्तिर्बलं सैन्यम्’इति यादवः। मारीचेषु मरीचवनेषूद्भ्रान्ताः परिभ्रान्ता ह्रारीताः पक्षिविशेषा यासुताः। `तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः’ इत्यमरः। मलयाद्रेरुपत्यका आसन्नभूमयः। `उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका’ इत्यमरः। `उपाधिभ्यां त्यकन्-‘(पा.5।4।34)इत्यादिना त्यकन्प्रत्ययः। अध्युषिताः। उपत्यकासूषितमित्यर्थः। `उपान्वध्याङ्वसः'(पा.1।4।48) इति कर्मत्वम्।। 4.46 ।।
ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः ।
तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ।। 4.47 ।।
ससञ्जुरिति।। अश्वैः क्षुण्णानामेलानामेलालतानामुत्पतिष्णव उत्पतनशीलाः `अलंकृञ-‘(पा.3।2।136)इत्यादिनेष्णुच्प्रत्ययः। फलरेणवः फलरजांसि तुल्यगन्धिषु समानगन्धिषु। सर्वधनीतिवदिन्नन्ताद्बहुव्रीहिः। मत्तेभानां कटेषु ससञ्जुः सक्ताः। `गजगण्डकटी कटौ’इति कोषः ।। 4.47 ।।
भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।
नास्रसत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि ।। 4.48 ।।
भोगीति।। चन्दनानां चन्दनद्रुमाणां भोगिवेष्टनमार्गेषु सर्पवेष्टनान्निम्रेषु समर्पितं सञ्जितं त्रिपदीच्छेदिनां पादशृङ्खलच्छेदकानामपि। `ग्रीवाभ्योऽण्च’ (पा.4।3।57) इत्यण्प्रत्ययः। नास्रसन्न स्रस्तमभूत्। `द्युद्भ्यो लुङि'(पा.1।3।91) इति परस्मैपदम्। पुषादित्वादङ्। `अनिदिताम्-‘(पा.6।4।24) इति नकारलोपः।। 4.48 ।।
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ।। 4.49 ।।
दिशीति।। दक्षिणस्यां दिशि रवेरपि तेजो मन्दायते मन्दं भवति। लोहितादित्वात्क्यष्प्रत्ययः। `वा क्यषः'(पा.1।3।90) इत्यात्मनेपदम्। दक्षिणायने तेजोमान्द्यादिति भावः। तस्यामेव दिशि। पाण्ड्याः पाण्डूनां जनपदानां राजानः पाण्ड्याः। `पाण्डोर्ड्यण्वक्तव्यः'(वा.2671)। रघोः प्रतापं न विषेहिरे न सोढवन्तः। सूर्यविजयिनोऽपि विजितवानिति नायकस्य महानुत्कर्षो गम्यते ।। 4.49 ।।
ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः ।
ते निपत्य तदुस्तस्मै यशः स्वमिव संचितम् ।। 4.50 ।।
ताम्रपर्णीति।। ते पाण्ड्यास्ताम्रपर्ण्या नद्या समेतस्य संगतस्य महोदधेः संबन्धि संचितं मुक्तासारं मौक्तिकवरम्। `सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु’ इत्यमरः। स्वं स्वकीयं संचितं यश इव तस्मै रघवे निपत्य प्रणिपत्य ददुः। यशसः शुभ्रत्वादौपम्यम्। ताम्रपर्णीसंगमे मौक्तिकोत्पत्तिरिति प्रसिद्धम् ।। 4.50 ।।
स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ ।
स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ।। 4.51 ।।
असह्यविक्रमः सह्यं दूरान्मुक्तमुदन्वता ।
नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ।। 4.52 ।।
स इति।। असह्येति च।। युग्ममेतत्। असह्यविक्रमः स रघुस्तटेषु सानुष्वालीनचन्दनौ व्याप्तचन्दनद्रुमौ। गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्त्रियाम्’ इत्यमरः। स्तनपक्षे,-प्रान्तेषु व्याप्तचन्दनानुलेपौ। तस्या दक्षिणस्या दिशः स्तनाविव स्थितौ मलयदर्दुरौ नाम शैलौ यथाकामं यथेच्छं निर्विश्योपभुज्य। `निर्वेशो भृतिभोगयोः’इत्यमरः। उदकान्यस्य सन्तीत्युदन्वानुदधिः। `उदन्वानुदधौ च’ इति(पा.8।2।13)निपातः। उदन्वता दूरान्मुक्तं दूरतस्त्यक्तम्। `स्तोकान्तिकदूरार्थिकृच्छ्राणि क्तेन'(पा.2।1।39) इति समासः। ` पञ्चम्याः स्तोकादिभ्यः'(पा.6।3।3) इत्यलुक्। स्रस्तांशुकं मेदिन्या नितम्बमिव स्थितं सह्यं सह्याद्रिमलङ्घयत् प्राप्तोऽतिक्रान्तो वा ।। 4.52 ।।
संप्रति प्रतीचीं दिशमभिययावित्याह-
तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः ।
रामास्त्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः ।। 4.53 ।।
तस्येति।। अपरान्तानां पाश्चात्त्यानां जय उद्यतैरुद्युक्तैः। `अपरान्तास्तु पाश्चात्त्यास्ते च सूर्यरिकादयः’ इति यादवः। विसर्पद्भिर्गच्छद्भिस्तस्य रघोरनीकैः सैन्यैः। `अनीकं तु रणे सैन्ये’ इति विश्वः। अर्णवो रामस्य जामदग्न्यस्यास्त्त्रैरुत्सारितः परिसारितोऽपि सह्यलग्न इवासीत्। सैन्यं द्वितीयोऽर्णव इवादृश्यतेति भावः ।। 4.53 ।।
भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् ।
अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ।। 4.54 ।।
भयेति।। तेन रघुणा भयेनोत्सृष्टविभूषाणां परिहृतभूषणानां केरलयोषितां केरलाङ्गनानामलकेषु चमूरेणुः चूर्णस्य सेनारजश्चूर्णस्य कुङ्कुमादिरजसः प्रतिनिधीकृतः। एतेन योषितां पलायनं चमूनां च तदनुधावनं ध्वन्यते ।। 4.54 ।।
मुरलामारुतोद्धूतमगमत्कैतकं रजः ।
तद्योधवारबाणानामयत्नपटवासताम् ।। 4.55 ।।
मुरलेति।। मुरला नाम केरलदेशेषु काचिन्नदी,तस्या मारुतेनोद्धूतमुत्थापितम्। `मुरवीमारुतोद्भूतम्’ इति केचित्पठन्ति। कैतकं केतकसंबन्धि रजस्तद्योधवारबाणानां रघुभटकञ्चुकानाम्,`कञ्चुको वारबाणोऽस्त्त्री’ इत्यमरः। अयत्नपटवासतामयत्नसिद्धवस्त्त्रवासनाद्रव्यत्वमगमत्। `पिष्टातः पटवासकः’ इत्यमरः ।। 4.55 ।।
अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः ।
वर्मभिः पवनोद्धूतराजतालीवनध्वनिः ।। 4.56 ।।
अभ्यभूयतेति।। चरतां गच्छतां वाहानां वाजिनां,`वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः’इत्यमरः। गात्रशिञ्जितैर्गात्रेषु शब्दायमानैः। कर्तरि क्तः। `गात्रसञ्जितैः’ इति वा पाठः। सञ्जतेर्ण्यन्तात्कर्मणि क्तः। वर्मभिः कवचैः। `मर्मरैः’ इति पाठे वाहानां गात्रशिञअजितैर्गात्रध्वनिभिरित्यर्थः। मर्मरो मर्मरायमाण इति ध्वनेर्विंशेषणम्। पवनेनोद्धूतानां कम्पितानां राजतालीवनानां ध्वनिरभ्यभूयत तिरस्कृतः ।। 4.56 ।।
खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु ।
कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ।। 4.57 ।।
खर्जूरीति।। खर्जूरीणां तृणद्रुमविशेषाणाम्। `खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमा’ इत्यमरः। स्कन्धेषु प्रकाण्डेषु। `अस्त्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः’ इत्यमरः। नद्धानां बद्धानां करिणां मदोद्गारेण मदस्रावेण सुगन्धिषु। `गन्धस्येत्-‘(पा.5।4।135) इत्यादिनेकारः। कटेषु गण्डेषु पुंनागेभ्यो नागकेशरेभ्यः पुंनागपुष्पाणि विहाय। ल्यब्लोपे पञ्चमी। शिलीमुखा अलयः पेतुः। `अलिबाणौ शिनीमुखौ’ इत्यमरः। ततो।ञपि सौगन्ध्यातिशयादिति भावः ।। 4.57 ।।
अवकाशं कोलोदन्वान् रामायाभ्यर्थितो ददौ ।
अपरान्तमहीपालव्याजेन रघवे करम् ।। 4.58 ।।
अवकाशमिति।। उदन्वानुदधी रामाय जामदग्न्याय। अभ्यर्थितो याचितः सन्। अवकाशं स्थानं ददौ किल। `किल’ इति प्रसिद्धौ। रघवे त्वपरान्तमहीपालव्याजेन करं बलिं ददौ। `बलिहस्तांशवः कराः’ इत्यमरः। अपरान्तानां समुद्रमध्यदेशवर्तित्वात्तैर्दत्ते करे समुद्रदत्तत्वोपचारः। करदानं च भीत्या,न तु याञ्चयेति रामाद्रघोरुत्कर्षः ।। 4.58 ।।
मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।
त्रिकूटमेव तत्रोञ्चैर्जयस्तम्भं चकार सः ।। 4.59 ।।
मत्तेति।। तत्र स रघुर्मत्तानामिभानां रदनोत्कीर्णानि दन्तक्षतान्येव। भावे क्तः। व्यक्तानि स्फुटानि विक्रमलक्षणानि पराक्रमचिह्नानि विजयवर्णावलिस्थानानि यस्मिंस्तं तथोक्तं त्रिकूटमेवोञ्चैर्जयस्तम्भं चकार। गाढप्रहारस्त्त्रिकूटो।ञद्रिरेवोत्कीर्णवर्णस्तम्भ इव रघोर्जयस्तम्भोऽभूदित्यर्थः ।। 4.59 ।।
पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मा ।
इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी ।। 4.60 ।।
पारसीकानिति।। ततः स रघुः। संयमी योगी तत्त्वज्ञानेनेन्द्रियाख्यानिन्द्रियनामकान् रिपूनिव। पारसीकान् राज्ञो जेतुं स्थलवर्त्मना प्रतस्थे। न तु नेदिष्टेनापि जलपथेन। समुद्रयानस्य निषिद्धत्वादिति भावः ।। 4.60 ।।
यवनीमुखपद्मानां सेहे मधुमदं न सः ।
बालातपमिवाब्जानामकालजलदोदयः ।। 4.61 ।।
यवनीति।। स रघुर्यवनीनां यवनस्त्त्रीणाम्। `जातेरस्त्त्रीविषयादयोपधात्'(पा.4।1।63)इति ङीष्। मुखानि पद्मानीव मुखपद्मानि। उपमितसमासः। तेषां मधुना मद्येन यो मदो मदरागः। कार्यकारणभावयोरभेदेन निर्देशः। तं न सेहे। कमिव? अकाले प्रावृड्व्यतिरिक्ते काले जलदोदयः। प्रायेण प्रावृषि पद्मविकाशस्याप्रसक्तत्वादब्जानां संबन्धिनं बालातपमिव। अब्जहितत्वादब्जसंबन्धित्वं सौरातपस्य ।। 4.61 ।।
सङ्ग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्वसाधनैः ।
शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ।। 4.62 ।।
सङ्ग्राम इति।। तस्य रघोरश्वसाधनैर्वाजिसैन्यैः। `साधनं सिद्धिसैन्ययोः’ इति हैमः। पश्चाद्भवैः पाश्चात्त्यैर्यवनैः सह `दक्षिणापश्चात्पुरसस्त्यक्'(पा.4।2।98)। सहार्थे तृतीया। शृङ्गाणां विकाराः शार्ङ्गाणि धनूंषि तेषां कूजितैः शब्दैः। `शार्ङ्गं पुनर्धनुषि शार्ङ्गिणः। जये च शृङ्गविहिते चापेऽप्याह विशेषतः।।’ इति केशवः। अथवा,-शार्ङ्गैः शृङ्गसंबन्धिभिः कूजितैर्विज्ञेया अनुमेयाः प्रतियोधाः प्रतिभटाः यस्मिंस्तस्मिन् रजसि तुमुलः सङ्गामः संकुलं युद्धमभूत्। `तुमुलं रणसंकुले’ इत्यमरः ।। 4.62 ।।
भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ।। 4.63 ।।
भल्लेति।। स रघुर्भल्लापवलर्जितैर्बाणविशेषकृत्तैः। `स्नुहीदलफलो भल्लः’ इति यादवः। श्मश्रुलैः प्रवृद्धमुखरोमवद्भिः। `सिध्मादिभ्यश्च'(पा.5।2।97) इति लच्प्रत्ययः। तेषां पाश्चात्त्यानां शिरोभिः। सरघाभिर्मधुमक्षिकाभिर्व्याप्तैः। `सरघा मधुमक्षिका’ इत्यमरः। क्षुद्राः सरघाः। `क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका’ इत्यमरशाश्वतौ। क्षुद्राभिः कृतानि क्षौद्राणि मधूनि। `मधु क्षौद्रं माक्षिकादि’ इत्यमरः। `क्षुद्राभअरमरवटरपादपादञ्'(पा.4।3।119) इति संज्ञायामञ्प्रत्ययः। तेषां पटलैः स्तबकैरिव। `पटलं तिलके नेत्ररोगे छन्दसि संचये। पटिके परिवारे च’ इति हैमः। महीं तस्ताराच्छादयामास ।। 4.63 ।।
अपनीतशिरस्त्त्राणां शेषास्तं शरणं ययुः ।
प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ।। 4.64 ।।
अपनीतेति।। शेषा हतावशिष्ठा अपनीतशिरस्त्त्राणा अपसारितशीर्यण्याः सन्तः `शीर्षकम्। शीर्षण्यं च शरिस्त्त्रे’ इत्यमरः। शरणागतलक्षणमेतत्। तं रघुं शरणं ययुः। तथा हि-महात्मनां संरम्भः कोपः। `संरम्भः संभ्रमे कोपे’ इति विश्वः। प्रणिपातः प्रणतिरेव प्रतीकारो यस्य स हि। महतां परकीयमौद्धत्यमेवासह्यं, न तु जीवितमिति भावः ।। 4.64 ।।
विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् ।
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ।। 4.65 ।।
विनयन्त इति।। तस्य रघोर्योधा भटा आस्तीर्णान्यजिनरत्नानि चर्मश्रेष्टानि यासु तासु द्राक्षावलयानां भूमिषु। `मृद्विका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च’ इत्यमरः। मधुभिर्द्राक्षाफलप्रकृतिकैर्मद्यैर्विजयश्रमं युद्धखेदं विनयन्ते स्मापनीतवन्तः। `कर्तृस्थे चाशरीरे कर्मणि'(पा.1।3।37) इत्यात्मनेपदम्। `लट् स्मे’ (पा.3।2।118) इति भूतार्थे लट् ।। 4.65 ।।
ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् ।
शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ।। 4.66 ।।
तत इति।। ततो रघुर्भास्वान् सूर्य इव शरैर्बाणैरुस्रैः किरणैरिव। `किरणोस्रमयूखांशुगभस्तघृणिरश्मयः’ इत्यमरः। उदीच्यानुदग्भवान्नृपान् रसानुदकानीवोद्धरिष्यन् कौबेरीं कुबेरसंबन्धिनीं दिशमुदीचीं प्रतस्थे। अनेकेवशब्देनेयमुपमा। यथाह दण्डी-`एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा’ इति ।। 4.66 ।।
विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनैः ।
दुधुवुर्वाजिनः स्कन्धाँल्लग्न्कुङ्कुमकेसरान् ।। 4.67 ।।
विनीतेति।। सिन्धुर्नाम काश्मीरदेशेषु कश्चिन्नदविशेषः। `देशे नदविशेषेऽब्धेः सिन्धुर्ना सरिति स्त्त्रियाम्’ इत्यमरः। सिन्धोस्तीरे विचेष्टनैरङ्गपरिवर्तनैर्विनीताध्वश्रमास्तस्य रघोर्वाजिनोऽश्वा लग्नाः कुङ्कुमकेसराः कुङ्कुमकुसुमकिञ्जल्का येषां तान्। यद्वा,-लग्नकुङ्कुमाः केसराः सटा येषां तान्। `अथ कुङ्कुमम्। काश्मीरजन्म’ इत्यमरः। `केसरो नामकेसरे। तुरंगसिंहयोः स्कन्धकेशेषु बहुलद्रुमे। पुंनागवृक्षे किञ्जल्के स्यात्’ इति हैमः। स्कन्धान् कायान्। `स्कन्धः प्रकाण्डे कायेंऽसे विज्ञानादिषु पञ्चसु। नृपे समूहे व्यूहे च’ इति हैमः। दुधुवुः कम्पयन्ति स्म ।। 4.67 ।।
तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् ।
कपोलपाटलादेशि बभूव रघुचेष्टितम् ।। 4.68 ।।
तत्रेति।। तत्रोदीच्यां दिशि भर्तृषु व्यक्तविक्रमम्। भर्तृवधेन स्फुटपराक्रममित्यर्थः। रघुचेष्टितं रघुव्यापारः। हूणा जनपदाख्याः क्षत्रियाः। तेषामवरोधा अन्तः पुरस्त्त्रियस्तासां कपोलेषु पाटलस्य पाटलिम्रस्ताडनादिकृतारुण्यस्यादेश्युपदेशकं बभूव। अथवा,-पाटल आदेश्यादेष्टा यस्य तद्बभूव। स्वयं लेख्यायत इत्यर्थः ।। 4.68 ।।
काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः ।
गजालानपरिक्लिष्टैरक्षोटैः सार्धमानताः ।। 4.69 ।।
काम्बोजा इति।। काम्बोजा राजानः समरे तस्य रघोर्वीर्यं प्रभावम्। `वीर्यं तेजःप्रभावयोः’ इति हैमः।। सोढुमनीश्वरा अशक्ताः सन्तः। गजानामालानं बन्धनम्। भावे स्युटि `विभाषा लीयतेः'(पा.6।1।51) इत्यात्वम्। तेन परिक्लिष्टैः परिक्षतैरक्षोटैर्वृक्षविशेषैः सार्धमानताः ।। 4.69 ।।
तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः ।
उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् ।। 4.70 ।।
तेषामिति।। तेषां काम्बोजानां सद्भिरश्वैर्भूयिष्ठा बहुलास्तुङ्गा द्रविणानां हिरण्यानाम्। `हिरण्यं द्रविणं द्युम्नम्’ इत्यमरः। राशय एवोपदा उपायनानि। `उपायनमुपग्राह्यमुपहारस्तथोपदा’ इत्यमरः। कोसलेश्वरं कोसलदेशाधिपतिं तं रघुं शश्वदसकृद्विविशुः। `मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः’ इत्यमरः। तथाप्युत्सेका गर्वास्तु न विविशुः। सत्यपि गर्पकारणे न जगर्वेत्यर्थः ।। 4.70 ।।
ततो गौरीगुरुं शैलमारुरोहाश्वसाधनः ।
वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ।। 4.71 ।।
तत इति।। ततोऽनन्तरमश्वसाधनः सन् गौर्या गुरुं पितरं शैलं हिमवन्तम्। उद्धूतैरश्वस्वुरोद्धूतैर्धातूनां गैरिकादीनां रेणुभिस्तत्कूटांस्तस्य श्रृङ्गाणि। `कूटो।ञस्त्त्री शिखरं शृङ्गम्’ इत्यमरः। वर्धयन्निव। आरुरोह। उत्पतद्धूलिदर्शनाद्गिरिशिखरवृद्धिभ्रमो जायत इति भावः ।। 4.71 ।।
शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमम् ।
गुहाशयानां सिंहानां परिवृत्यावलोकितम् ।। 4.72 ।।
शशंसेति।। तुल्यसत्त्वानां सैन्यैः समानबलानाम्। गुहासु शेरत इति गुहाशयास्तेषाम्। `अधिकरणे शेते'(पा.3।2।15)इत्यच्प्रत्ययः। `दरी तु कन्दरो वा स्तत्री देवखातबिले गुहा’ इत्यमरः। संबन्धि परिवृत्य परावृत्यावलोकितं शयित्वैव ग्रीवाभङ्गेनावलोकनं कर्तृ सैन्यघोषे सेनाकलकले संभ्रमकारणे सत्यप्यसंभ्रममन्तः क्षोभविरहित्वम्। नञः प्रसज्यप्रतिषेधे।ञपि समास इष्यते। शशंस कथयामास। `सैन्येभ्यः’ इत्यर्थाल्लभ्यते। बाह्यचेष्टितमेव मनोवृत्तेरनुमापकमिति भावः। असंभ्रान्तत्वे हेतुः-तुल्यसत्त्वानामिति। न हि समबलः समबलाद्बिभेतीति भेवः ।। 4.72 ।।
भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः ।
गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे ।। 4.73 ।।
भूर्जेष्विति।। भूर्जेषु भूर्जेपत्रेषु। `भूर्जपत्रो भुजो भूर्जो मृदुत्वक्चर्मिका मता’ इति यादवः। मर्मरः शुकपर्णध्वनिः । `मर्मरः शुष्कपर्णानाम्’ इति यादवः। अयं च शुक्लादिशब्दवद्गुणिन्यपि वर्तते। प्रयोज्यते च-`मर्मरैरगुरुधूपगन्धिभिः’ इति। अतो मर्मरीभूताः। `मर्मर’ शब्दवन्तो भूता इत्यर्थः। कीचकानां वेणुविशेषाणां ध्वनिहेतवः। श्रोत्रसुखाश्चेति भावः। गङ्गाशीकरिणः शीतला इत्यर्थः। मरुतो वाता मार्गे तं सिषेविरे ।। 4.73 ।।
विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः ।
दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ।। 4.74 ।।
विशश्रमुरिति।। सैनिकाः सेनायां समवेताः। प्राग्वहतीयष्ठक्प्रत्ययः। नमेरूणां सुरपुंनागानां छायासु निषण्णानां दृषदुपविष्टानां मृगाणां कस्तूरीमृगाणां नाभिभिर्वासितोत्सङ्गाः सुरभिततला दृषदः शिला अध्यास्याधिष्ठाय। अधिशीङ्स्थासां कर्म’ (पा.1।4।46) इति कर्म। दृषत्स्वधिरुह्येत्यर्थः। विशश्रमुर्विश्रान्ताः ।। 4.74 ।।
सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः ।
आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ।। 4.75 ।।
सरलेति।। सरलेषु देवदारुविशेषेष्वासक्तानि यानि मातङ्गानां गजानाम्। ग्रीवासु भवानि ग्रैवेयाणि कण्ठशृङ्खलानि। `ग्रीवाभ्योऽण्च'(पा.4।3।57) इति चकाराड्ढतञ्प्रत्ययः। तेषु स्फुरितत्विषः प्रतिफलितभास ओषधयो ज्वलन्तो ज्योतिर्ललाविशेषा नक्तं रात्रौ नेतुर्नायकस्य रघोरस्नेहदीपिकास्तैलनिरपेक्षाः प्रदीपा आसन् ।। 4.75 ।।
तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः ।
गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः ।। 4.76 ।।
तस्येति।। तस्य रघोरुत्सृष्टेषूज्झितेषु निवासेषु सेनानिवेशेषु कण्ठरज्जुभिर्गजग्रैवैः क्षता निष्पिष्टास्त्वचो येषां ते देवदारवः किरातेभ्यो वनचरेभ्यो गजानां वर्ष्म प्रमाणम्। `वर्ष्म देहप्रमाणयोः’ इत्यमरः। शशंसुः कथितवन्तः,देवदारुस्कन्धत्वक्क्षतैर्गजानामौन्नत्युमनुमीयत इत्यर्थः ।। 4.76 ।।
तत्रेति।। तत्र हिमाद्रौ रघोः पर्वते भवैः पर्वतीयैः। `पर्वताञ्च'(पा.4।2।143)इति छप्रत्ययः। गणैरुत्सवसंकेताख्यैः सप्तभिः सह। `गणानुत्सवसंकेतानजयत्सप्तपाण्डवः’ इति महाभारते। नाराचानां बाणविशेषाणां क्षेपणीयानां भिन्दिपालानामश्मनां च निष्पेषेण संघर्षेणोत्पतिता अनला यस्मिंस्तत्तथोक्तम्। `क्षेपणीयो भिन्दिपालः खङ्गो दीर्घो महाफलः’ इति यादवः। घोरं भीमं जन्यं युद्धमभूत्। `युद्धमायोधनं जन्यम्’ इत्यमरः।। 4.77 ।।
शरैरुत्सवसंकेतान्स कृत्वा विरतोत्सवान् ।
जयोदाहरणं बाह्वोर्गापयामास किंनरान् ।। 4.78 ।।
शरैरिति।। स रघुः शरैर्बाणैरुत्सवसंकेतान्नाम गणान्विरतोत्सवान्कृत्वा। डित्वेत्यर्थः। किंनरान्बाह्वोः स्वभुजयोर्जयोदाहरणं जयख्यापकं प्रबन्धविशेषं गापयामास। `गतिबुद्धि-‘(पा.1।4।52) इत्यादिना किंकराणां कर्मत्वम्।। 4.78 ।।
परस्परेण विज्ञातस्तेषूपायनपाणिषु ।
राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ।। 4.79 ।।
परस्परेति।। तेषु गणेषूपायनयुक्ताः पाणयो येषां तेषु सत्सु परस्परेणान्योन्यं राज्ञा हिमवतः सारो धनरूपो विज्ञातः। हिमाद्रिणाऽपि राज्ञः सारो बलरूपो विज्ञातः। एतेन तत्रत्यवस्तूनामनर्ध्यत्वं गणानामभूतपूर्वश्च पराजय इति ध्वन्यते ।। 4.79 ।।
तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोह सः ।
पौसस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ।। 4.80 ।।
तत्रेति।। स रघुस्तत्र हिमाद्रावक्षोभ्यमधृष्यं यशोराशिं निवेश्य निधाय पौलस्त्येन रावणेन तुलितस्य चालितस्याद्रेः कैलासस्य ह्रियमादधानो जनयन्निव। अवरुरोहावततार। कैलासमगत्वैव प्रतिनिवृत्त इत्यर्थः। न हि शूराः परेण पराजितमभियुज्यन्त इति भावः ।। 4.80 ।।
चकम्पे तीर्णलौहित्ये तस्मिन्प्रागन्ज्योतिषेश्वरः ।
तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः ।। 4.81 ।।
चकम्प इति।। तस्मिन्रघौ। तीर्णा लौहित्या नाम नदी येन तस्मिंस्तीर्णलौहित्ये सति। प्राग्ज्योतिषाणां जनपदानामीश्वरस्तस्य रघोर्गजानामालानतां प्राप्तैः कालागुरुद्रुमैः कृष्णागुरुवृक्षैः सह चकम्पे कम्पितवान् ।। 4.81 ।।
न प्रसेहे स रुद्धार्कमधारावर्षदुर्दिनम् ।
रथवर्त्मरजोऽप्यस्य कुत एव पताकिनीम् ।। 4.82 ।।
नेति।। स प्राग्ज्योतिषेश्वरो रुद्धार्कमावृतसूर्यम्। अधारावर्षं च तद्दुर्दिनं च धारावृष्टिं विना दुर्दिनीभूतम्। अस्य रघो रथवर्त्मरजोऽपि न प्रसेहे। पताकिनीं सेनां तु कुत एव प्रसेहे? न कुतोऽपीत्यर्थः ।। 4.82 ।।
तमीशः कामरूपाणामत्याखण्डलविक्रमम् ।
भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः ।। 4.83 ।।
तमिति।। कामरूपाणां नाम देशानामीशोऽत्याखण्डलविक्रममतीन्द्रपराक्रमं तं रघुम्। भिन्नाः स्रवन्मदाः कटा गण्डा येषां तैर्नागैर्गजैः साधनैः । भेजे। नागान्दत्त्वा शरणं गत इत्यर्थः। कीदृशैर्नागैः? यैरन्यान् रघुव्यतिरिक्तान्नृपानुपरुरोध शूराणामपि शूरो रघुरिति भावः ।। 4.83 ।।
कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् ।
रत्नपुष्पोपहारेण छायामानर्च पादयोः ।। 4.84 ।।
कामरूपेश्वर इति।। कामरूपेश्वरो हेमपीठस्याधिदेवतां तस्य रघोः पादयोश्छायां कनकमयपादपीठव्यापिनीं कान्तिं रत्नान्येव पुष्पाणि तेषामुपहारेण समर्पणेनानर्चार्चयामास ।। 4.84 ।।
इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् ।
रजो विश्रामयन्राज्ञां छत्रशून्येषु मौलिषु ।। 4.85 ।।
इतीति।। जिष्णुर्जयशीलः। `ग्लाजिस्थश्च ग्स्नुः'(पा.3।2।139) इति ग्स्नुप्रत्ययः। स रघुरितीत्थं दिशो जित्वा रथैरुद्धतं रजश्छत्रशून्येषु। रघोरेकच्छत्रकत्वादिति भावः। राज्ञां मौलिषु किरीटेषु। `मौलिः किरिटे धम्मिल्लेचूडाकंकेलिमूर्धजे’ इति हैमः। विश्रामयन्। संक्रामयन्नित्यर्थः। न्यवर्तत निवृत्तः ।। 4.85 ।।
स विश्वजितमाजह्ने यज्ञं सर्वस्वदक्षिणम् ।
आदानं हि विसर्गाय सतां वारिमुचामिव ।। 4.86 ।।
स इति।। स रघुः सर्वस्वं दक्षिणा यस्य तं सर्वस्वदक्षिणम्। `विश्वजित्सर्वस्वदक्षिणः’इति श्रुतेः। विश्वजितं नाम यज्ञमाजह्ने। कृतवानित्यर्थः। युक्तं चैतदित्याह-सतां साधूनाम्। वारिमुचां मेघानामिव। आदानमर्जनं विसर्गाय त्यागाय हि। पात्रविनियोगायेत्यर्थः।। 4.86 ।।
सत्रान्ते सचिवसखः पुरस्क्रियाभि-
र्गुर्वीभिः शमितपराजयव्यलीकान् ।
काकुत्स्थश्चिरविरहोत्सुकावरोधान्
राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ।। 4.87 ।।
सत्रान्त इति।। काकुत्स्थो रघुः सत्रान्ते यज्ञान्ते। `सत्रमाच्छादने यज्ञे सदादाने धनेऽपि च’ इत्यमरः। सचिवानाममात्यानां सखेति सचिवसखः सन्। `सचिवो भृतकेऽमात्ये’ इति हैमः। तेषामत्यन्तानुसरणद्योतनार्थं राज्ञः सखित्वव्यपदेशः। `राजाहःसखिभ्यष्टच्'(पा.5।4।91) गुर्वीभिर्महतीभिः। `गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके’ इति हैमः। पुरस्क्रियाभिः पूजाभिः शमितं पराजयेन व्यलीकं दुःखं वैलक्ष्यं वा येषां तान्। `दुःखे वैलक्ष्ये व्यलीकम्’ इति यादवः। चिरविरहेणोत्सुका उत्कण्ठिता अवरोधा अन्तःपुराङ्गना येषां तान्। राज्ञोऽपत्यानि राजन्याः क्षत्रियाः। तान्। `राजश्वशुराद्यत्'(पा.4।1।137) इत्यपत्यार्थे यत्प्रत्ययः। `मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्’इत्यमरः। स्वपुरं प्रतिनिवृत्तये प्रतिगमनायानुमेनेऽनुज्ञातवान् । प्रहर्षिणीवृत्तमेतत्। तदुक्तम्-`म्नौ ज्रौ गस्त्त्रिदशयतिः प्रहर्षिणीयम्’इति ।। 4.67 ।।
ते रेखाध्वजकुलिशातपत्रचिह्नं
सम्राजश्चरणयुगं प्रसादलभ्यम् ।
प्रस्थानप्रणतिभिरङ्गुलीषु
चकुर्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ।। 4.88 ।।
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ रघुदिग्विजयो नाम चतुर्थः सर्गः ।
त इति।। ते राजानः । रेखा एव ध्वजाश्च कुलिशानि चातपत्राणि च। ध्वजाद्याकाररेखा इत्यर्थः। तानि चिह्नानि यस्य तत्तथोक्तम्। प्रसादेनैव लभ्यं प्रसादलभ्यम्। सम्राजः सार्वभौमस्य रघोश्चरणयुगं प्रस्थाने प्रयाणसमये याः प्रणतयो नमस्कारास्ताभिः करणैः। अङ्गुलीषु। मौलिषु केशबन्धेषु याः स्रजो माल्यानि ताभ्यश्च्युतैर्मकरन्दैः पुष्परसैः। `मकरन्दः पुष्परसः’ इत्यमरः। रेणुभिः परागैश्च। `परागः सुमनोरजः’ इत्यमरः। गौरं गौरवर्णं चक्रुः। 4.88 ।।
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां संजीविनीसमाख्यायां चतुर्थः सर्गः ।
पञ्चमः सर्गः
इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् ।
वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ।।
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।
उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ।। 5.1 ।।
तमिति।। विश्वजिति विश्वजिन्नाम्र्यध्वरे यज्ञे। `यज्ञः सवोऽध्वरो यागः’ इत्यमरः। निःशेषं विश्राणितं दत्तम्। `श्रण दाने’चुरादिः। कोशानामर्थराशीनां जातं समूहो येन तं तथोक्तम्। `कोशोऽस्त्त्री कुड्भले खङ्गपिधानेऽर्यौघदिव्ययोः’ इत्यमरः। `जातं जनिसमूहयोः’ इति शाश्वतः। एतेन कौत्सस्यानवसरप्राप्तिं सूचयति। त्तं क्षितीशं रघुमुपात्तविद्यो लब्धविद्यो वरतन्तोः शिष्यः कौत्सः। `ऋष्यन्धक-‘(पा.4।1।114) इत्यण्। इञोऽपवादः। गुरुदक्षिणार्थी। `पुष्करादिभ्यो देशे'(पा.5।2।135) इत्यत्रार्थाञ्चासंनिहिते तदन्ताञ्चेतीनेः। अप्रत्याख्येय इति भावः। प्रपेदे प्राप। अस्मिन्सर्गे वृत्तमुपजातिः। तल्लक्षणं तु-`स्यादिन्द्रवज्रा यदि तौ जगौ गः। उपेन्द्रवज्रा जतजास्ततो गौ। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीथावुपजातयस्ताः’ इति।। 5.1 ।।
स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्ध्यमनर्घशीलः ।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः ।। 5.2 ।।
स इति।। अनर्घशीलोऽमूल्यस्वभावः। असाधारणस्वभाव इत्यर्थः। `मूल्ये पूजाविधआवर्धः’ इति। `शीलं स्वभावे सद्वृत्ते’ इति चामरशाश्वतौ। यशसा कीर्त्या। प्रकाशत इति प्रकाशः। पचाद्यच्। अतिथिषु साधुरातिथएयः। `पथ्यतिथिवसतिस्वपतेर्ढञ'(पा.4।4।104) इति ढञ्। स रघुः। हिरण्यस्य विकारो हिरण्मयम्। `दाण्डिनायन-‘(पा.6।4।174) आदिसूत्रेण निपातः। वीतहिरण्मयत्वादपगतसुवर्णपात्रत्वात्। यज्ञस्य सर्वस्वदक्षिणाकत्वादिति भावः। मृण्मये मृद्विकारे पात्रे। अर्घार्थमिदमर्घअयम्। `पादार्घाभ्यां च'(पा.5।4।25)इति यत्। पूजार्थं द्रव्यं निधआय श्रुतेन शास्त्त्रेण प्रकाशं प्रसिद्धम्। श्रूयत इति श्रुतं वेदशास्त्त्रम्।`श्रुतं शास्त्त्रावधृतयोः’इत्यमरः। अतिथिमभ्यागतं कौत्सम्। `अतिथिर्ना गृहागते’इत्यमरः। प्रत्युज्जगाम ।। 5.2 ।।
तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।
विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच ।। 5.3 ।।
तमिति।। विधिज्ञः शास्त्त्रज्ञः। अकरणे प्रत्यवायभीरुरित्यर्थः। मानधनानामग्रयाय्यग्रेसरः। अपयशोभीरुरित्यर्थः। कृत्यवित् कार्यज्ञः। आगमन प्रयोजनमवश्यं प्रष्टव्यमिति कृत्यवित्। विशांपतिर्मनुजेश्वरः। `द्वौ विशौ वैश्यमनुजौ’ इत्यमरः। विष्टरभाजमासनगतम्। उपविष्टमित्यर्थः। `विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्’। इत्यमरः। `वृक्षासनयोर्विष्टरः'(पा.8।3।93) इति निपातः। तं तपोधनं विधिवद्विध्यर्हम्। यथाशास्त्त्रमित्यर्थः। `तदर्हम्'(पा.5।1।117)इति वतिप्रत्ययः। अर्चयित्वा। आरात् समीपे। `आराद्दूरसमीपयोः’ इत्यमरः। कृताञ्जलिः सन्। इति वक्ष्यमाणप्रकारेणोवाच ।। 5.3 ।।
अप्यग्रणीर्भन्त्त्रकृतामृषीणां कुशाग्रबुद्धे! कुशली गुरुस्ते ।
यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ।। 5.4 ।।
अप्यग्रणीरिति।। हे कुशाग्रबुद्धे सूक्ष्मबुद्धे!`कुशाग्रीयमतिः प्रोक्तः सूक्ष्मदर्शी च यः पुमान्’ इति हलायुधः। मन्त्रकृतां मन्त्रस्रष्टॄणाम्। `सुकर्मपापमन्त्र-‘ (पा.3।2।89)इत्यादिना क्विप्। ऋषीणामग्रणीः श्रेष्ठस्ते तव गुरुः कुशल्यपि क्षेमवान्किम्? `अपि’प्रश्ने। `गर्हासमुञ्चयप्रश्नशङ्कासंभावनास्वपि’ इत्यमरः। यतो यस्माद्गुरोः सकाशात् त्वयाऽशेषं ज्ञानम्। लोकेनोष्णरश्मेः सूर्याञ्चैतन्यं प्रबोध इव। आप्तं स्वीकृतम् ।। 5.4 ।।
कायेन वाचा मनसापि शश्वद्यत्संभृतं वासवधैर्यलोपि ।
आपाद्यते न व्ययमन्तरायैः कञ्चिन्महर्षेस्त्त्रिविधं तपस्तत् ।। 5.5 ।।
कायेनेति।। कायेनोपवासादिकृच्छ्रचान्द्रायणादिना वाचा वेदपाठेन मनसा गायत्रीजपादिना कायेन वाचा मनसापि करणेन वासवस्येन्द्रस्य धैर्यं लुम्पतीति वासवधैर्यलोपि। स्वपदापहारशङ्काजनकमित्यर्थः। यत्तपः शश्वदसकृत्। `मुहुः पुनः पुनः शश्वदभीक्ष्णससकृत्समाः’ इत्यमरः। संभृतं संचितं महर्षेर्वरतन्तोस्त्त्रिविधं वाङ्मनः कायजं तत्तपोऽन्तरायैर्विघ्नैरिन्द्रप्रेरिताप्सरः शापैर्व्ययं नाशं नापाद्यते कञ्चित् न नीयते किम्? `कञ्चित् कामप्रवेदने’ इत्यमरः।। 5.5 ।।
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।
कञ्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ।। 5.6 ।।
आधारेति।। आधारबन्धप्रमुखैरालवालनिर्माणादिभिः प्रयत्नैरुपायैः। `आधार आलवालेऽम्बुबन्धेऽधिकरणेऽपि च’ इति विश्वः। सुतेभ्यो निर्गतो विशेषोऽतिशयो यस्मिन्कर्मणि तत्तथा संवर्धितानां श्रमच्छिदां व आश्रमपादपानां वाय्वादिः। `आदि’शब्दाद्दावानलादिः। उपप्लवो बाधको न कञ्चिन्नास्ति किम्? ।। 5.6 ।।
क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कञ्चिन्मृगीणामनघा प्रसूतिः ।। 5.7 ।।
क्रियेति।। क्रियानिमित्तेष्वप्यनुष्टानसाधनेष्वपि कुशेषु मुनिभिर्वत्सलत्वान्मृगस्नेहादभग्नकामाऽप्रतिहतेच्छा। तेषां मुनीनामङ्का एव शय्यास्तासु च्युतानि नाभिनालानि यस्याः सा तथोक्ता मृगीणां प्रसीतिः संततिरनघाऽव्यसना कञ्चित्? अनपायिनी किमित्यर्थथः। `दुःखैनोव्यसनेष्वघम्’ इति यादवः। ते हि व्यालभयाद्दशरात्रमङ्क एव धारयन्ति ।। 5.7 ।।
निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितॄणाम् ।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कञ्चित् ।। 5.8 ।।
निर्वर्त्यत इति।। यैस्तीर्थजलैर्नियमाभिषेको नित्यस्नानादिर्निर्वर्त्यते निष्पाद्यते। येभ्यो जलेभ्यः। उद्धृत्येति शेषः। पितॄणामग्निष्वात्तादीनां निवापाञ्जलयस्तर्पणाञ्जलयः। `पितृदानं निवापः स्यात्’ इत्यमरः। निर्वर्त्यन्ते। उञ्छानां प्रकीर्णोद्धृतधान्यानां षष्टैः षष्ठभागैः पालकत्वाद्राजग्राहैरङ्कितानि सैकतानि पुनिनानि येषां तानि तथोक्तानि वो युष्माकं तानि तीर्थजलानि शिवानि भद्राणि कञ्चित्? अनुपप्लवानि किमित्यर्थः। `उञ्छो धान्यांशकादानं कणिशाद्यर्जनं शिलम्’ इति यादवः। `।षष्टाष्टमाभ्यां ञ च'(पा.5।3।50) इति षष्ठशब्दाद्भागार्थेऽन्प्रत्ययः। अत एवापूरणार्थत्वात् `पूरणगुण-‘(पा.2।2।11) इत्यादिना न षष्ठीसमासप्रतिषेधः। सिकता येषु सन्ति सैकतानि। `सिकताशर्कराभ्यां च'(पा.5।2।104) इत्यण्प्रत्ययः ।। 5.8 ।।
नीवारपाकादि कडंगरीयैरामृश्यते जानपदैर्न कञ्चित् ।
कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः ।। 5.9 ।।
नीवारेति।। कालेषु योग्यकालेषूपपन्नानामगतानामतिथीनां कल्प्याभागा यस्य तत्तथोक्तम्। वने भवं वन्यम्। शरीरस्थिते र्जीवनस्य साधनं वो युष्माकम्। पच्यत इति पाकः फलम्। धान्यमिति यावत्। नीवारपाकादि। `आदि’शब्दाञ्छ्यामाकादिधान्यसंग्रहः। जनपदेभ्य आगतैर्जानपदैः। `तत आगतः’ (पा.4।3।74) इत्यण्। कडंगरीयैः। कडंगरं बुसमर्हन्तीति कडंगरीयाः। `कडंगरो बुसंक्लीबे धान्यत्वचि तुषः पुमान्’इत्यमरः। `कडंगरदक्षिणाच्छ च'(पा.5।1।69) इति छप्रत्ययः। तैर्गोमहिषादिभिर्नामृश्यते कञ्चित् ? न भक्ष्यते किमित्यर्थः।। 5.9 ।।
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ।। 5.10 ।।
अपीति।। किंच,त्वं प्रसन्नेन सता महर्षिणा सम्यग्विनीय शिक्षयित्वा। विद्यामुपदिश्येत्यर्थः। गृहाय गृहस्थाश्रमं प्रवेष्मुम्। `क्रियार्थोपपद-‘(पा.2।3।14)इत्यादिना चतुर्थी। अनुमतोऽप्यनुज्ञातः किम् ? हि यस्मात्ते तव सर्वेषामाश्रमाणां ब्रह्मचर्य-वनप्रस्थ यतीनामुपकारे क्षमं शक्तम्। `क्षमं शक्ते हिते त्रिषु’ इत्यमरः। द्वितीयमाश्रमं गार्हस्थ्यं संक्रमितुं प्राप्तुमयं कालः। विद्याग्रहणानन्तर्यात्तस्येति भावः। `कालसमयवेलासु तुमुन्'(पा.3।3।164) इति तुमुन्। सर्वोपकारक्षममित्यत्र मनुः(3।77)-`यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः। वर्तन्ते गृहीणस्तद्वदाश्रित्येतर आश्रमाः ।।’ इति ।। 5.10 ।।
कुशलप्रश्नं विधायागमनप्रयोजनप्रश्नं चिकीर्षुराह-
तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।
अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम् ।। 5.11 ।।
तवेति।। अर्हतः पूज्यस्य प्रशंस्यस्य। `अर्हः प्रशंसायाम्'(पा.3।2।113) इति शतृप्रत्ययः। तवाभिगमेनागमनमात्रेण मे मनो न तृप्तं न तुष्टम्। किंतु नियोगक्रिययाऽऽज्ञाकरणेनोत्सुकं सोत्कण्ठम्। `इष्टार्थोद्युक्त उत्सुकः’ इत्यमरः। `प्रसितोत्सुकाभ्यां तृतीया च'(पा.2।3।44) इति सप्तम्यर्थे तृतीया। शासितुर्गुरोराज्ञयाप्यात्मना स्वतो वा। `प्रकृत्यादिभ्य उपसंख्यानम्'(वा.1466) इति तृतीया। मां संभावयितुं वनात्प्राप्तोऽसि? गुर्वर्थं स्वार्थं वाऽऽगमनमित्यर्थः।। 5.11 ।।
इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य ।
स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्यः ।। 5.12 ।।
इतीति।। अर्घ्यपात्रेण मृष्मयेनानुमितो व्ययः सर्वस्वत्यागो यस्य तस्य रघोरित्युक्तप्रकारामुदारामौदार्ययुक्तामपि गां वाचम्। `मनो नियोगक्रिययोत्सुकं मे’ (5।11) इत्येवंरूपाम्। `स्वर्गेषुपशुवाग्वज्रदिङ्गेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः’ इत्यमरः। निशम्य श्रुत्वा वरतन्तुशिष्यः कौत्सः स्वार्थोपपत्तिं स्वकार्यसिद्धिं प्रति दुर्बलाशः सन् मृण्मयपात्रदर्शनाच्छिथिलमनोरथथः सन्। तं रघुमिति वक्ष्यमाणप्रकारेणावोचत् ।। 5.12 ।।
सर्वत्र नो वार्तमवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् ।
सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ।। 5.13 ।।
सर्वत्रेति।। हे राजन्! त्वं सर्वत्र नोऽस्माकं वार्तं स्वास्थ्यमवेहि जानीहि। `वार्तं वल्गुन्यरोगे च’ इत्यमरः। `वार्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम्’ इति यादवः। न चैतदाश्चर्यमित्याह-नाथ इति। त्वयि नाथ ईश्वरे सति प्रजानामशुभं दुःखं कुतः? तथा हि-अर्थान्तरं न्यस्यति सूर्य इत्यादिना। सूर्ये तपति प्रकाशमाने सति तमिस्रा तमस्ततिः। `तमिस्रं तिमिरं रोगे तमिस्रा तु समस्ततौ । कृष्णपक्षे निशायां च’ इति विश्वः। `तमिस्रम्’ इति पाठे तमिस्रं तिमिरम्। `तमिस्रं तिमिरं तमः’ इत्यमरः। लोकस्य जनस्य। `लोकस्तु भुवने जने’ इत्यमरः। दृष्टेरावरणाय कथं कल्पेत? दृष्टिमावरितुं नालमित्यर्थः। क्लृपेरलमर्थत्वात्तद्योगे `नमःस्वस्ति-‘(पा.2।3।16) इत्यादिना चतुर्थी। `अलमिति पर्याप्त्यर्थग्रहणम्’ इति भगवान्भाष्यकारः। कल्पेत। संपद्येत। न कल्पत इत्यर्थः। `क्लृपि संपद्यमाने चतुर्थी’ (वा.1459) इति वक्तव्यात् ।। 5.13 ।।
`तवार्हत-‘(5।11) इत्यादिनोक्तं यत्तन्न चित्रमित्याह-
भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग! तयातिशेषे ।
व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः ।। 5.14 ।।
भक्तिरिति।। प्रतीक्ष्येषु पूज्येषु। `पूज्यः प्रतीक्ष्यः’ इत्यमरः। भक्तिरनुरागविशेषस्ते तव कुलोचिता कुलाभ्यस्ता। `अभ्यस्तेऽप्युचितं न्याय्यम्’ इति यादवः। हे महाभाग सार्वभौम! तया भक्त्या पूर्वानतिशेषेऽतिवर्तसे। किंतु सर्वत्र वार्तं चेत्तर्हि कथं खेदखिन्न इव दृश्यसेऽत आह-व्यतीतेति। अहं व्यतीतकालोऽतिक्रान्तकालः सन्नर्थिभावात्त्वामभ्युपेत इति मे मम विषादः ।। 5.14 ।।
शरीरमात्रेण नरेन्द्र! तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः ।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ।। 5.15 ।।
शरीरेति।। हे नरेन्द्र! तीर्थे सत्पात्रे प्रतिपादिता दत्ता ऋद्धिर्येन स तथोक्तः। `योनौ जलावतारे च मन्त्त्र्याद्यष्टादशस्वपि। पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्शनेष्वपि ।।’ इति हलायुधः। शरीरमात्रेण तिष्ठन्। आरण्यका अरण्ये भवा मनुष्या मुनिप्रमुखाः। `अरण्यान्मनुष्ये'(पा.4।2।129) इति वुञ्प्रत्ययः। तैरुपात्ता फलमेव प्रसूतिर्यस्य स स्तम्बेन काण्डेनावशिष्टः। प्रकृत्यादित्वात्तृतीया। नीवार इव। आभासि शोभसे ।। 5.15 ।।
स्थाने भवानेकनराधिपः सन्निकिंचनत्वं मखजं व्यनक्ति ।
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ।। 5.16 ।।
स्थान इति।। भवानेकनराधिपः सार्वभौमः सन्। मखजं मखजन्यम्। न विद्यते किंचन यस्येत्यकिंचनः। मयूरव्यंसकादित्वात्तत्पुरुषः। तस्य भावस्तत्त्वं निर्धनत्वं व्यनक्ति प्रकटयति। स्थाने युक्तम्। `युक्ते द्वे सांप्रतं स्थाने’ इत्यमरः । तथा हि-सुरैर्देवैः पर्यायेण क्रमेण पीतस्य हिमांशोः कलाक्षयो वृद्धेरुपचयाच्छ्लाघ्यतरो हि वरः खलु। `मणिः शाणोल्लीढः समरविजयी हेति निहतो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः। क्रलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चिर्थिषु नृपाः।।’ (भर्तृ.2।44) इति भावः। अत्र कामन्दकः-`धर्मार्थं क्षीणकोशस्य क्षीणत्वमपि शोभते। सुरैः पीतावशेषस्य कृष्णपक्षे विधोरिव ।।’ इति ।। 5.16 ।।
तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्टे ।
स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्धनं नार्दति चातकोऽपि ।। 5.17 ।।
तदिति।। तत्तस्मात्। तावदनन्यकार्यः। `यावत्तावञ्च साकल्येऽवधौ मानेऽवधारणे’ इति विश्वः। प्रयोजनान्तररहितोऽहमन्यतो वदान्यान्तराद्गुर्वर्थं गुरु-धनमाहर्तुमर्जयितुं यतिष्य उद्योक्ष्ये। ते तुभ्यं स्वस्ति शुभमस्तु। `नमःस्वस्ति-‘ (पा.2।3।16) इत्यादिना चतुर्थी। तथा हि-चातकोऽपि। `धरणीपतितं तोयं चातकानां रुजाकरम्’ इतिहेतोरनन्यगतिकोऽपीत्यर्थः। निर्गलितोऽम्ब्वेव गर्भो यस्य तं शरद्धनं नार्दति न याचते। `अर्द गतौ याचने च’ इति धातुः। `याचनार्थे रणेऽर्दनम्’ इति यादवः ।। 5.17 ।।
एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।
किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुक्तः ।। 5.18 ।।
एतावदिति।। एतावद्वाक्यमुक्त्वा प्रतियातुं कामो यस्य तं प्रतियातुकामं गन्तुकामम् । `तुं काममनसोरपि’ इति मकारलोपः। महर्षेर्वरतन्तोः शिष्यं कौत्सं नृपती रघुर्निषिध्य निवार्य,हे विद्वन्! त्वया गुरवे प्रदेयं वस्तु किं किमात्मकं कियत् किंपरिमाणं वा? इत्येवं तं कौत्समन्वयुङ्क्तापृच्छत्। `प्रश्नोऽनुयोगः पृच्छा च’ इत्यमरः ।। 5.18 ।।
ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ।। 5.19 ।।
तत इति।। ततो यथावद्यथार्हम्। अर्हार्थे वतिः। विहिताध्वराय विधिवदनुष्ठितयज्ञाय। सदाचारायेत्यर्थः। स्मयावेशविवर्जिताय गर्वाभिनिवेशशून्याय। अनुद्धतायेत्यर्थः। वर्णानां ब्राह्मणादीनामश्रमाणां ब्रह्मचर्यादीनां च गुरवे नियामकाय। `वर्णाः स्युर्ब्राह्मणादयः’ इति। `ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये। आश्रमोऽस्त्त्री’ इति चामरः। सर्वकार्यनिर्वाहकायेत्यर्थः। तस्मै रघवे विचंक्षणो विद्वान् वर्णी ब्रह्मचारी। `वर्णिनो ब्रह्मचारिणः’ इत्यमरः। `वर्णाद्ब्रह्मचारिणि’ (पा.5।2।134) इतीनिप्रत्ययः। सः कौत्सः प्रस्तुतं प्रकृतमाचचक्षे ।। 5.19 ।।
समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै ।
स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ।। 5.20 ।।
समाप्तेति।। समाप्तविद्येन मया महर्षिर्गुरुदक्षिणायै गुरुदक्षिणास्वीकारार्थं विज्ञापितोऽभूत्। स च गुरुश्चिरायास्खलितोपचारां तां दुष्करां मे भक्तिमेव पुरस्तात् प्रथमम्। अगणयत् संख्यातवान्। भक्त्यैव संतुष्टः,किं दक्षिणयेत्युक्तवानित्यर्थः। अथवा,-भक्तिमेव तां दक्षिणामगणयदिति योज्यम् ।। 5.20 ।।
निर्बन्धसंजातरुषार्थकार्श्यमचिन्तयित्वा गुरुणाहमुक्तः ।
वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ।। 5.21 ।।
निर्बन्धेति।। निर्बन्धेन प्रार्थनातिशयेन संजातरुषा संजातक्रोधेन गुरुणा। अर्थकार्श्यं दारिद्र्यमचिन्तयित्वाऽविचार्य। अहं वित्तस्य धनस्य चतस्रो दश च कोटीश्चतुर्दशकोटीर्मे मह्यमाहरानयेति विद्यापरिसंख्यया विद्यपरिसंख्यानुसारेणैवोक्तः। अत्र मनुः-`अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश।।’ इति ।। 5.21 ।।
सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् ।
अभ्युत्सहे संप्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ।। 5.22 ।।
सोऽहमितिः।। सोऽहं सपर्याविधिभाजनेनार्घ्यपात्रेण भवन्तं `प्रभु’-शब्द एव शेषो यस्य तं मत्वा। निःस्वं निश्चित्येत्यर्थः। श्रुतनिष्क्रयस्य विद्यामूल्यस्याल्पेतरत्वादतिमहत्त्वात् संप्रत्युपरोद्धुं निर्बन्धुं नाभ्युत्सहे ।। 5.22 ।।
इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण ।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ।। 5.23 ।।
इत्थमिति।। द्विजराजकान्तिश्चन्द्रकान्तिः। `द्विजराजः शशधरो नक्षत्रेशः क्षपाकरैः’ इत्यमरः। `तस्मात्सोमो राजा नो ब्राब्मणानाम्’इति श्रुतेः। द्विजराजकान्तित्वेनार्थावाप्तिवैराग्यं वारयति। एनसः पापान्निवृत्तेन्द्रियवृत्तिर्यस्य स जगदेकनाथो रघुर्वेदविदां वरेण श्रेष्ठेन द्विजेन कौत्सेन। इत्थमावेदितो निवेदितः सन्। एनं कौत्सं भूयः पुनर्जगाद ।। 5.23 ।।
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् ।
गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ।। 5.24 ।।
गुर्वर्थमिति।। श्रुतस्य पारं दृष्टवाञ्च्छ्रुतपारदृश्वा। `दृशेः क्वनिप्'(पा3।2।94) इति क्वनिप्। गुर्वर्थं गुरुदक्षिणार्थं यथा तथाऽर्थी याचकः। विशेषणद्वयेनाप्यस्याप्रत्याख्येयत्वमाह। रघोः सकाशात् कामं मनोरथमनवाप्याप्राप्य वदान्यान्तरं तात्रन्तरं गतः। `स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे’ इत्यमरः। इत्येवंरेूपोऽयं परीवादस्यापवादस्य नवो नूतनः प्रथमोऽवतार आविर्भावो मे मा भून्माऽस्तु। `रघोः’ इति स्वनामग्रहणं संभावितत्वद्योतनार्थम्। तथा च(भ.गी.2।34)-`संभावितस्य चाकीर्तिर्मरणादतिरिच्यते’ इति भावः ।। 5.24 ।।
स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे ।
द्वित्राण्यहान्यर्हसि सोढुमर्हन्! यावद्यते साधयितुं त्वदर्थम् ।। 5.25 ।।
स इति।। स त्वं महिते पूजिते प्रशस्ते प्रसिद्धे मदीयेऽग्न्यगारे त्रेताग्निशालायां चतुर्थोऽग्निरिव वसन् द्वित्राणि द्वे त्रीणि वाऽहानि दिनानि। `संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये'(पा.2।2।25) इति बहुव्रीहिः। `बहुव्रीहौ संख्येये डजबहुगणात्'(पा.5।4।73) इति डच्प्रत्ययः समासान्तः। सोढुमर्हसि। हे अर्हन्मान्य! त्वदर्थं तव प्रयोजनं साधयितुं यावद्यते यतिष्ये। `यावत्पुरानिपातयोर्लट्'(पा.3।3।4) इति भविष्यदर्थे लट् ।। 5.25 ।।
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा ।
गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ।। 5.26 ।।
तथेतीति।। अग्रजन्मा ब्राह्मणः प्रतीतः प्रीतः सन्,तस्य रघोरवितथममोघं संगरं प्रतिज्ञाम्। `अथ प्रतिज्ञाजिसंविदापत्सु संगरः’ इत्यमरः। `तां गिरम्’ इति केचित्पठन्ति। तथेति प्रत्यग्रहीत्। रघुरपि गां भूमिमात्तसारां गृहीतधनामवेक्ष्य कुबेरादर्थं निष्क्रष्टुमाहर्तुं चकम इयेष ।। 5.26 ।।
वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु ।
मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ।। 5.27 ।।
वसिष्ठेति।। वसिष्ठस्य यन्मन्त्रेणोक्षणमभिमन्त्र्य प्रोक्षणं तज्जात्प्रभावात् सामर्थ्याद्धेतोः। उदन्वदाकाशमहीधरेषूदन्वत्युदधावाकाशे महीधरेषु वा। मरुत्सखस्य। मरुतः सखेति तत्पुरुषो बहुव्रीहौ समासान्ताभावात्। ततो वायुसहायस्येति लभ्यते। वारीणां वाहको बलाहकः। पृषोदरादित्वात्साधुः,तस्येव मेघस्येव। तद्रथस्य गतिः संचारो न विजघ्ने न विहता हि ।। 5.27 ।।
अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्त्रगर्भम् ।
सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः ।। 5.28 ।।
अथेति।। अथ प्रदोषे रजनीमुखे। तत्काले यानाधिरोहणविधानात्। प्रयतो धीरो रघुः। समन्ताद्भवः सामन्तः राजमात्रमिति संभावनयैव कैलासनाथं कुबेरं तरसा बलेन जिगीषुर्जेतुमिच्छुः सन्। कल्पितं सज्जितं शस्त्त्रं गर्भे यस्य तं रथमधिशिश्ये। रथे शयितवानित्यर्थः। `अधिशीङ्स्थासां कर्म'(पा.1।4।46) इति कर्मत्वम् ।। 5.28 ।।
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोषगृहे नियुक्ताः ।
हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ।। 5.29 ।।
प्रातरिति।। प्रातः प्रयाणाभिमुखाय तस्मै रघवे कोषगृहे नियुक्ता अधिकृता भाण्डागारिकाः सविस्मयाः सन्तः कोषगृहस्य मध्ये नभस्तो नभसः। पञ्चम्यास्तसिल्प्रत्ययः। पतितां हिरण्मयीं सुवर्णमयीम्। `दाण्डिनायन-‘ (पा.6।4।174) इत्यादिना निपातनात्साधुः। वृष्टिं शशंसुः कथयामासुः ।। 5.29 ।।
तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् ।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ।। 5.30 ।।
तमिति।। भूपती रघुः। अभियास्यमानादभिगमिष्यमाणात् कुबेराल्लब्धम्। वज्रेण कुलिशेन भिन्नं सुमेरोः पादं प्रत्यन्तपर्वनमिव स्थितम्। `पादाः प्रत्यन्तपर्वताः’ इत्यमरः। `शृङ्गम्’ इति क्वचित्पाठः। तं भासुरं भास्वरम्। `भञ्जभासमिदो घुरच्'(पा.3।2।161) इति घुरच्। हेमराशिं समस्तं कृत्स्नमेव कौत्साय दिदेश ददौ। न तु चतुर्दशकोटिमात्रमित्येवकारार्थः ।। 5.30 ।।
जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ।। 5.31 ।।
जनस्येति।। तावर्थि-दातारौ द्वावपि साकेतनिवासिनोऽयोध्यावासिनः। `साकेतः स्यादयोध्यायां कोसला नन्दिनी च सा’ इति यादवः। जनस्याभिनन्द्यसत्त्वौ स्तुत्यव्यवसायावभूताम्। `द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु’ इत्यमरः। कौ द्वौ? गुरुप्रदेयादधिकेऽतिरिक्तद्रव्ये निःस्पृहोऽर्थी। अर्थिकामादर्थिमनोरथादधिकं प्रददातीति तथोक्तः। `प्रे दाज्ञः’। (पा.3।2।6) इति कप्रत्ययः। नृपश्च ।। 5.31 ।।
अथोष्ट्रवामीशतवाहितार्थे प्रजेश्वरं प्रीतमना महर्षिः ।
स्पृशन्करेणानतपूर्वकायं संप्रस्थितो वाचमुवाच कौत्सः ।। 5.32 ।।
अथेति।। अथ प्रीतमना महर्षिः कौत्सः संप्रस्थितः प्रस्थास्यमानः सन्। `आशंसायां भूतवञ्च'(पा.3।3।132) इति भविष्यदर्थे क्तः। उष्ट्राणां क्रमेलकानां वामीनां वडवानां च शतैर्वाहितार्थं प्रापितधनमानतपूर्वकायम्। विनयनम्रमित्यर्थः। प्रजेश्वरं रघुं करेण स्पृशन्,वाचमुवाच ।। 5.32 ।।
किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् ।
अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ।। 5.33 ।।
किमिति।। वृत्ते स्थितस्य। `न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा। सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम्।।’ इति कामन्दकः। तस्मिन्वृत्ते स्थितस्य प्रजानामधिपतेर्नृपस्य भूः कामान्सूत इति कामसूर्यदि। `सत्सूद्विषद्रह-‘(पा.3।2।61) इत्यादिना क्विप्। अत्र कामप्रसवने किं चित्रम्? न चित्रमित्यर्थः। किंतु तव प्रभावो महिमा त्वचिन्तनीयः। येन त्वया द्यौरपि मनीषितमभिलषितं दुग्धा। दुहेर्द्विकर्मकत्वादप्रधाने कर्मणि क्तः। `प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ।।’ इति स्मरणात् ।। 5.33 ।।
आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ।। 5.34 ।।
आशास्यमिति।। सर्वाणि श्रेयांसि शुभान्यधिजग्मुषः प्राप्तवतस्ते तवान्यत् पुत्रातिरिक्तमाशास्यमाशीः साध्यमाशंसनीयं वा पुनरुक्तभूतम्। सर्वं सिद्धमित्यर्थः। किं त्वीड्यं स्तुत्यं भवन्तं भवतः पितेवात्मगुणानुरूपम्। त्वया तुल्यगुणमित्यर्थः। पुत्रं लभस्व प्राप्नुहि ।। 5.34 ।।
इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् ।
राजापि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोकः ।। 5.35 ।।
इत्थमिति।। अग्रजन्मा ब्राह्मणः। `अग्रजन्मा द्विजे श्रेष्ठे भ्रातरि ब्रह्मणि स्मृतः’ इति विश्वः। इत्थं राज्ञ आशिषं प्रयुज्य दत्त्वा गुरोः सकाशं समीपं प्रतीयाय प्राप। राजाऽपि। जीवलोको जीवसमूहः। `जीवः प्राणिनि गीष्पतौ’ इति विश्वः। अर्गादालोकं प्रकाशमिव। `चैतन्यम्’ इति पाठे ज्ञानम्। तस्मादृषेराशु सुतं लेभे प्राप ।। 5.35 ।।
ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।
अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ।। 5.36 ।।
ब्राह्म इति।। तस्य रघोर्देवी महिषी ब्राह्मे। `तस्येदम्'(पा.4।3।120)इत्यण्। ब्रह्मदेवताकेऽभिजिन्नामके मुहूर्ते किलेषदसमाप्तं कुमारं कुमारकल्पं स्कन्दसदृशम्। `ईषदसमाप्तौ-‘(पा.5।6।67) इत्यादिना कल्पप्प्रत्ययः। कुमारं पुत्रं सुषुवे। `कुमारो बालके स्कन्दे’ इति विश्वः। अतो ब्राह्ममुनहूर्तोत्पन्नत्वात् पिता रघुर्ब्रह्मणो विधेरेव नाम्ना तमात्मजन्मानं पुत्रमज मजनामकं चकार। `अजो हरौ हरे कामे विधौ छागे रघोः सुते’ इति विश्वः ।। 5.36 ।।
रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ।। 5.37 ।।
रूपमिति।। ओजस्वि तेजस्वि बलिष्ठं वा। `ओजस्तेजसि धातूनामवष्टम्भप्रकाशयोः। ओजो बले च दीप्तौ च’ इति विश्वः। रूपं वपुः। `अथ रूपं नपुंसकम्। स्वभावाकृतिसौन्दर्यवपुषि श्लोकशब्दयोः।’ इति विश्वः। तदेव पैतृकमेव । वीर्यं शौर्यं तदेव। नैसर्गिकं स्वाभाविकमुन्नतत्वं तदेव। तादृशमेवेत्यर्थः। कुमारो बालकः। प्रवर्तित उत्पादितो दीपः प्रदीपात् स्वोत्पादकदीपादिव। स्वात्स्वकीयात्। `पूर्वादिभ्यो नवभ्यो वा'(पा.7।1।16) इति स्माद्भावो वैकल्पिकः। कारणाज्जनकान्न बिभिदे भिन्नो नाभूत्। सर्वात्मनातादृश एवाभूदित्यर्थः ।। 5.37 ।।
उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् ।
श्रीः साभिलाषापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ।। 5.38 ।।
उपात्तेति।। गुरुभ्यो विधिवद्यथाशास्त्त्रमुपात्तविद्यं लब्धविद्यम्। यौवनस्योद्भेदादाविर्भावाद्धेतोर्विशेषेण कान्तं सौम्यं तमजं प्रति साभिलाषापि श्रीः। धीरा स्थिरोन्नतचित्ता। `स्थिरा चित्तोन्नतिर्या तु तद्धैर्यमिति संज्ञितम्’ इति भूपालः। कन्या पितुरिव। गुरोरनुज्ञामाचकाङ्क्षेयेष। यौवराज्यार्होऽभूदित्यर्थः। `अनुज्ञा’शब्दात्पितृपारतन्त्त्र्यमुपमासामर्थ्यात्पाणिग्रहणयोग्यता च ध्वन्यते ।। 5.38 ।।
अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः ।
आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ।। 5.39 ।।
अथेति।। अथ स्वसुर्भगिन्या इन्दुमत्याः स्वयंवरार्थं कुमारस्याजस्यानयन उत्सुकेन क्रथकैशिकानां विदर्भदेशानामीश्वरेण स्वामिना भोजेन राज्ञाप्तो हितो दूतो रघवे विसृष्टः प्रेषितः। क्रियामात्रयोगेऽपि चतुर्थी ।। 5.39 ।।
तं श्लाघ्यसंबन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् ।
प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ।। 5.40 ।।
तमिति।। असौ रघुस्तं भोजं श्लाघ्यसंबन्धमनूचानत्वादिगुणयोगात्स्पृहणीयसंबन्धं विचिन्त्य विचार्य पुत्रं च दारक्रियायोग्यदशं विवाहयोग्यवयसं विचिन्त्य ससैन्यमेनं पुत्रमृद्धा विदर्भाधिपस्य धानी। `करणाधिकरणयोश्च'(पा.3।3।117) इत्यधिकरणे ल्युट्प्रत्ययः। राज्ञां धानीति विग्रहः।। 5.40 ।।
तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभिः ।
मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः ।। 5.41 ।।
तस्येति।। उपकार्यासु राजयोग्येषु पटभवनादिषु। `सौधोऽस्त्री राजसदनमुपकार्योपकारिका’ इत्यमरवचनव्याख्याने क्षीरस्वामी। उपक्रियत उपकरोति वा पटमण्डपादि राजसदनमिति। रचिता उपचाराः शयनादयो येषु ते तथोक्ताः। जानपदानां जनपदेभ्य आगतानामुपदाभिरुपायनैः। वन्या वने भवा इतरे येषां ते वन्येतराः। अवन्या इत्यर्थः। `न बहुव्रीहौ'(पा.1।1।29) इति सर्वनामसंज्ञानिषेधः। तत्पुरुषे सर्वनामसंज्ञा दुर्वारैव। तस्य मनुजेन्द्रसूनोरजस्य मार्गे निवासा वासनिका उद्यानान्याक्रीडाः। `पुमानाक्रीड उद्यानम्’ इत्यमरः। तान्येव विहारा विहारस्थानानि तत्कल्पाः। तत्सदृशा इत्यर्थः। `ईषदसमाप्तौ-‘(पा.5।3।67) इति कल्पप्प्रत्ययः। बभूवुः ।। 5.41 ।।
स नर्मदारोधसि सीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले ।
निवेशयामास विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ।। 5.52 ।।
स इति।। विलङ्घिताध्वाऽतिक्रान्तमार्गः सोऽजः सीकरार्द्रैः। शीतलैरित्यर्थः। मरुद्भिर्वातैरानर्तिताः कम्पिता नक्तमालाश्चिरबिल्वाख्यवृक्षभेदाः। `चिरबिल्वो नक्तमालः करजश्च करञ्जके’ इत्यमरः। यस्मिंस्तस्मिन्। निवेशार्ह इत्यर्थः। नर्मदाया रोधसि रेवायास्तीरे क्लान्तं श्रान्तं रजोभिर्धूसराः केतवो ध्वजा यस्य तत्सैन्यं निवेशयामास ।। 5.42 ।।
अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः ।
निर्धौतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज ।। 5.43 ।।
अथेति।। अथोपरिष्टादूर्ध्वम्। `उपर्युपरिष्टात्'(पा.5।3।31) इति निपातः। भ्रमद्भिः। मदलोभादिति भावः। भ्रमरैः प्रागुन्मज्जनात्पूर्वं सूचितो ज्ञापितोऽन्तः सलिले प्रवेशो यस्य स तथोक्तः। निर्धौतदाने क्षालितमदे अत एव,अमले गण्डिभित्ती यस्य स तथोक्तः। `दानं गजमदे त्यागे’ इति शाश्वतः। प्रशक्तौ गण्डौ गण्डभित्ती। `प्रशंसावचनैश्च'(पा.2।1।66) इति समासः। `भित्ति’शब्दः प्रशस्तार्थः। तथा च गणरत्नमहोदधौ- ौ`मतल्लिकोद्धमिश्राः स्युः प्रकाण्डस्थलभित्तयः’ इति। भित्तिः प्रदेशो वा । `भित्तिः प्रदेशे कुड्येऽपि’ इति विश्वः। निर्धौतदानेनामला गण्डभित्तिर्यस्येति वा। वन्यो गजः सरित्तो नर्मदायाः सकाशात्। पञ्चम्यास्तसिल्प्रत्ययः। उन्ममज्जोत्थितः।। 5.43 ।।
निःशेषविक्षालितधातुनापि वप्रक्रियामृक्षवतस्तटेषु ।
नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ।। 5.44 ।।
निःशेषेति।। कथंभूतो गजः? निःशेषविक्षालितधातुनापि धौतगैरिकादिनापि। नीलाभिरूर्ध्वाभी रेखाभिस्तटाभिघातजनिताभिः शबलेन कर्वुरेण। `चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे’ इत्यमरः। अश्मभिः पाषाणैर्विकुण्ठितेन कुण्ठीकृतेन दन्तद्वयेन ऋक्षवान्नाम कश्चित्तत्रत्यः पर्वतः तस्य तटेषु वप्रक्रियां वप्रक्रीडाम्। `उत्खातकेलिः शृङ्गाद्यैर्वप्रक्रीडा निगद्यते’ इति शब्दार्णवः। शंसन् कथयन्। सूचयन्नित्यर्थः। युग्मम्।। 5.44 ।।
संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् ।
बभौ स भिन्दन्बृहतस्तरंगान्वार्यर्गलाभङ्ग इव प्रवृत्तः ।। 5.45 ।।
संहारेति।। संहारविक्षेपयोः संकोचनप्रसारणयोर्लघुक्रियेण क्षिप्रव्यापारेण। `लघु क्षिप्रमरं द्रुतम्’ इत्यमरः। हस्तेन शुण्डादण्डेन। `हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि’ इति विश्वः। सशब्दं सघोषं बृहतस्तरंगान्भिन्दन्विदारयंस्तीराभिमुखः स गजः वारी गजबन्धनस्थानम्। `वारी तु गजबन्धनी’ इति यादवः। वार्या अर्गलाया विष्कम्भस्य भङ्गे भञ्जने प्रवृत्त इव बभौ ।। 5.45 ।।
शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् ।
पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ।। 5.46 ।।
शैलेति।। शैलोपमः स गजः शैवलमञ्जरीणां जालानि वृन्दान्युरसा कर्षन् पश्चात्तटमुत्ससर्प। पूर्वं तेन गजेनोत्पीडितो नुन्नो वारिराशिर्यस्य स सरित्प्रवाहस्तटमुत्ससर्प ।। 5.46 ।।
शैलेति।। शैलोपमः स गजः शैवलमञ्जरीणां जालानि वृन्दान्युरसा कर्षन् पश्चात्तटमुत्ससर्प। पूर्वं तेन गजेनोत्पीडितो नुन्नो वारिराशिर्यस्य स सरित्प्रवाहस्तटमुत्ससर्प ।। 5.46 ।।
तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता ।
वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः ।। 5.47 ।।
तस्येति।। तस्यैकनागस्यैकाकिनो गजस्य कपोलभित्त्योर्जलावगाहेन क्षणमात्रं शान्ता निवृत्ता मददुर्दिनश्रीर्मदवर्षलक्ष्मीर्वन्येतरेषां ग्राम्याणामनेकपानां द्विपानां दर्शनेन पुनर्दिदीपे ववृधे ।। 5.47 ।।
सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् ।
विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ।। 5.48 ।।
सप्तच्छदेति।। सप्तच्छदस्य वृक्षविशेषस्य क्षीरवत् कटुः सुरभिः प्रवाहः प्रसारो यस्य तम्। `कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः’ इति यादवः। असह्यं तदीयं मदमाघ्राय सेनागजेन्द्राः। विलङ्घितस्तिरस्कृत आधोरणानां हस्तिपकानां तीव्रो महान् यत्नो यैस्ते तथोक्ताः सन्तः। `आधोरणा हस्तिपका हस्त्यारोहा निषादिनः’ इत्यमरः। विमुखाः पराङ्मुखा बभूवुः ।। 5.48 ।।
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ।। 5.49 ।।
स इति।। स गजः। छिन्ना बन्धा यैस्ते छिन्नबन्धा द्रुताः पलायिताः युगं वहन्तीति युग्या वाहा यस्मिन्सः। स चासौ शून्यश्च तम्। भग्ना अक्षा रथावयवदारुविशेषाः। `अक्षो रथस्यावयवे पाशकेऽप्यक्षमिन्द्रियम्’ इति शाश्वतः। येषां ते भग्नाक्षा अत एव पर्यस्ताः पतिता रथा यस्मिंस्तम्। रामाणां स्त्त्रीणां परित्राणे संरक्षणे विहस्ता व्याकुलाः। `विहस्तव्याकुलौ समौ’ इत्यमरः। योधा यस्मिंस्तं सेनानिवेशं शिबिरं क्षणेन तुमुलं संकुलं चकार ।। 5.49 ।।
तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः ।
निवर्तियिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः ।। 5.50 ।।
तमिति।। नृपते राज्ञो वन्यः कर्यवध्य इति श्रुतवान् शास्त्त्राज्ज्ञातवान्। कमार आपततन्मभिधावन्तं तं गजं निवर्तयिष्यन्न तु प्रहरिष्यन्। अत एव नात्यायतमनतिदीर्घँ यथा स्यात्। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। कृष्टशार्ङ्गं ईषदाकृष्टचापः सन्विशिखेन बाणेन कुम्भे जघान। अत्र चाक्षुषः- `लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात्। इयं हि श्रीर्ये करिणः’ इति। अत एव `युद्धादन्यत्र’ इति द्योतनार्थमेव `वन्य’ग्रहणं कृतम् ।। 5.50 ।।
स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः ।
स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे ।। 5.51 ।।
स इति।। स गजो विद्धमात्रस्तडितमात्रः किल न तु प्रहृतस्तथापि नागरूपं गजशरीरमुत्सृज्य तेन वृत्तान्तेन विस्मितैस्तद्विस्मितैः सैन्यैर्दृष्टः सन् । स्फुरतः प्रभामण्डलस्य मध्यवर्ति कान्तं मनोहरं व्योमचरं वपुः प्रपेदे प्राप ।। 5.51 ।।
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः ।
उवाच वाग्मी दशनप्रभाभिः संवर्धितोरः स्थलतारहारः ।। 5.52 ।।
अथेति।। अथ प्रभावेनोपनतैः प्राप्तैः कल्पद्रुमोत्थैः कल्पवृक्षोत्पन्नैः पुष्पैः कुमारमजमवकीर्याभिवृष्य दशनप्रभाभिर्दन्तकान्तिभिः संवर्धिता उरःस्थले ये तारहाराः स्थूलमुक्ताहारास्ते येन स तथोक्तः। वाचोऽस्य सन्तीति वाग्मी वक्ता। `वाचो ग्मिनिः'(पा.5।2।124) इति ग्मिनिप्रत्ययः। स पुरुष उवाच ।। 5.52 ।।
मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।
अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ।। 5.53 ।।
मतङ्गेति।। अवलेपमूलाद्गर्वहेतुकात्। `अवलेपस्तु गर्वे स्याल्लेपने द्वेषणेऽपि च’ इति विश्वः। मतङ्गस्य मुनेः शापान्तमङ्गजत्वमवाप्तवानस्मि। मां प्रियदर्शनस्य प्रियदर्शनाख्यस्य गन्धर्वपतेर्गन्धर्वराजस्य तनूजं पुत्रम्। `स्त्त्रियां मूर्तिस्तनुस्तनूः’ इत्यमरः। `तन्वादेर्वा'(पा.3।1।79) इत्यूङिति केचित्। प्रियंवदं प्रियंवदाख्यमवेहि जानीहे। प्रियं वदतीति प्रियंवदः। `प्रियवशे वदः खच्'(पा.3।2।38) इति खच्प्रत्ययः ।। 5.53 ।।
स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् ।
उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ।। 5.54 ।।
स इति।। स महर्षिश्च प्रणतेन मयाऽनुनीतः सन् पश्चान्मृदुतां शान्तिमगच्छत्। तथा हि-जलस्योष्णत्वमग्नेरातपस्य वा संप्रयोगात् संपर्कात्। न तु प्रकृत्योष्णत्वम्। यच्छैत्यं सा प्रकृतिः स्वभावः। विधेयप्राधान्यात् `सा’ इति स्त्रीलिङ्गनिर्देशः। महर्षीणां शान्तिरेव स्वभावो न क्रोध इत्यर्थः ।। 5.54 ।।
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन ।
संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ।। 5.55 ।।
हक्ष्वाक्विति।। इक्ष्वाकुवंशः प्रभवो यस्य सोऽजो यदा ते कुम्भमयोमुखेन लोहाग्रेण शरेण भेत्स्यति विदारयिष्यति तदा स्वेन वपुषो महिम्ना पुनः संयोक्ष्यसे संगंस्यस इति स तपोनिधिर्मामवोचत् ।। 5.55 ।।
संमोचितः सत्त्ववता त्वयाहं शापाञ्चिरप्रार्थितदर्शनेन ।
प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः ।। 5.56 ।।
संमोचित इति।। चिरं प्रार्थितं दर्शनं यस्य तेन सत्त्ववता बलवता त्वयाऽहं शापात्संमोचितो मोक्षं प्रापितः। भवतः प्रतिप्रियं प्रत्युपकारं न कुया चेन्मे स्वपदोपलब्धिः स्वस्थानप्राप्तिः। `पदं व्यवसितत्राणस्थानलक्ष्माङ्घिवस्तुषु’ इत्यमरः। वृथा स्याद्धि। तदुक्तम्-`प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम्’ इति ।। 5.56 ।।
संमोहनं नाम सखे! ममास्त्त्रं प्रयोगसंहारविभक्तमन्त्रम् ।
गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ।। 5.57 ।।
संमोहनमिति।। हे सखे! `सखि’शब्देन समप्राणतोक्ता। यथोक्तम्-`अत्यागसहनो बन्धुः सदैवानुमतः सुहृत्। एकक्रियं भवेन्मित्रं समप्राणः सखा मतः ।।’ इति।। प्रयोगसंहारयोर्विभक्तमन्त्रं गान्धर्वं गन्धर्वदेवताकम्। संमोह्यतेऽनेनेति संमोहनं नाम ममास्त्रमादत्स्व गृहाण। यतोऽस्त्रात्प्रयोक्तुरस्त्रप्रयोगिणोऽरिहिंसा न च विजयश्च हस्ते। हस्तगतो विजयो भवतीत्यर्थः।। 5.57 ।।
वधलज्जितः कथमस्त्रग्रहणपरः स्यामिति चेत्तत्राह-
अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभूः प्रहरन्नपि त्वम् ।
तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् ।। 5.58 ।।
अलमिति।। किं च,मां प्रति ह्रिया प्रहारनिमित्तयाऽलम्। कुतः? यद्यतो हेस्तोस्त्वं मां प्रहरन्नपि मुहूर्तं दयापरः कृपालुरभूः। तस्मादुपच्छन्दयति प्रार्थयमाने मयि त्वया। प्रतिषेधः परिहारः स एव रौक्ष्यं पारुष्यम्। तन्न प्रयोज्यं न कर्तव्यम् ।। 5.58 ।।
तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः ।
उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् ।। 5.59 ।।
तथेति।। ना सोमश्चन्द्र इव नृसोमः। उपमितसमासः। `सोम ओषधिचन्द्रयोः’ इति शाश्वतः। पुरुषश्रेष्ठ इत्यर्थः। अस्त्रविदस्त्रज्ञः सोऽजः। `तथा’ इति। सोम उद्भवो यस्याः सा तस्याः सोमोद्भवायाः सरितो नर्मदायाः। ` रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका’ इत्यमरः। पवित्रं पय उपस्पृश्य पीत्वा। आचम्येत्यर्थः। उदङ्मुखः सन्निगृहीतऽशापान्निवर्तितशापात्। उपकृतादित्यर्थः। तस्मात् प्रियंवदादस्त्रमन्त्रं जग्राह ।। 5.59 ।।
एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु ।
एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान् ।। 5.60 ।।
एवमिति।। एवमध्वनि मार्गे दैवयोगाद्दैववशादचिन्त्यहेत्वनिर्धार्यहेत्तुकं सख्यं सखित्वम्। `सख्युर्यः'(पा.5।1।126) इति यप्रत्ययः। आसेदुषोः प्राप्तवतोस्तयोर्मध्य एको गन्धर्वश्चैत्ररथस्य कुबेरोद्यानस्य प्रदेशान्। `अस्योद्यानं चैत्ररथम्’ इत्यमरः। अपरोऽजः सौराज्येन राजन्वत्तया रम्यान्विदर्भान्विदर्भदेशान् ययौ ।। 5.60 ।।
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः ।
प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ।। 5.61 ।।
तमिति।। नगरस्योपकण्ठे समीपे तस्थिवांसं स्थित तमजं तस्याजस्यागमेनागमनेनारूढ उत्पन्नो गुरुः प्रहर्षो यस्य स क्रथकैशिकेन्द्रो विदर्भराजः। प्रवृद्धोर्मिरूर्मिमाली समुद्रश्चन्द्रमिव। प्रत्युज्जगाम ।। 5.61 ।।
प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्रीः ।
मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ।। 5.62 ।।
प्रवेश्येति।। एनमजमग्रयीयी। सेवाधर्मेण पुरो गच्छन्नित्यर्थः। नीचैर्नम्रः पुरं प्रवेश्य प्रवेशं कारयित्वा प्रीत्याऽर्पितश्रीस्तथा तेन प्रकारेणोपाचरदुपचरितवान्। यथा येन प्रकारेण तत्र पुरे समेतो मिलितो जनो वैदर्भं भोजमागन्तुं प्राघूर्णिकं मेने। अजं गृहेशं गृहपतिं मेने ।। 5.62 ।।
तस्याधिकारपुरुषैः प्रणतैः प्रदिष्टां
प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम् ।
रम्यां रघुप्रतिनिधिः स नवोपकार्यां
बाल्यात्परामिव दशां मदनोऽध्युवास ।। 5.63 ।।
तस्येति।। रघुप्रतिनिधी रघुकल्पः। रघुतुल्य इत्यर्थः। उक्तं च दण्डिना सादृश्यवाचकप्रस्तावे-`कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि’ इति। सोऽजः प्रणतैर्नमस्कृतवद्भिः। कर्तरि क्तः। तस्य भोजस्याधिकारो नियोगस्तस्य पुरुषैः। अधिकृतैरित्यर्थः। प्रदिष्टां निर्दिष्टां प्राग्द्वारस्य वेद्यां विनिवेशितः प्रतिष्ठापितः पूर्णकुम्भो यस्यास्ताम्। स्थापितमङ्गलकलशामित्यर्थः। रम्यां रमणीयां नवोपकार्यां नूतनं राजभवनम्। `उपकार्या राजसद्मन्युपचारचितेऽन्यवत्’ इति विश्वः। मदनो बाल्यात्परां शैशवादनन्तरां दशामिव। यौवनमिवेत्यर्थः। अध्युवासाधिष्ठितवान्। तत्रोषितवानित्यर्थः। `उपान्वध्याङ्वसः'(पा.1।4।48) इति कर्मत्वम् ।। 5.63 ।।
तत्र स्वयंवरसमाहृतराजलोकं
कन्याललाम कमलीयमजस्य लिप्सोः ।
भावावबोधकलुषा दयितेव रात्रौ
निद्रा चिरेण नयनाभिमुखी बभूव ।। 5.64 ।।
तत्रेति।। तत्रोपकार्यायाम्। स्वयंवरनिमित्तं समाहृतः संमेलितो राजलोको येन तत्कमनीयं स्पृहणीयं कन्याललाम कन्यासु श्रेष्ठम्। `ललामोऽस्त्री ललामापि प्रभावे पुरुषे ध्वजे। श्रेष्ठभूषाशुण्डशृङ्गपुच्छचिह्नाश्वलिङ्गिषु’ इति यादवः। लिप्सोर्लब्धुमिच्छोः। लभेः सन्नन्तादुप्रत्ययः। अजस्य भावावबोधे पुरुषस्याभिप्रायपरिज्ञाने कलुषाऽसमर्था दयितेव। रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव। `राजानं कामिनं चौरं प्रविशन्ति प्रजागराः’ इति भावः। `अभिमुखी’शब्दो ङीषन्तश्च्व्यन्तो वा ।। 5.64 ।।
तं कर्णभूषणनिपीडितपीवरांसं
शय्योत्तरच्छदविमर्दकृशाङ्गरागम् ।
सूतात्मजाः सवयसः प्रथितप्रबोधं
प्राबोधयन्नुषसि वाग्भिरुदारवाचः ।। 5.65 ।।
तमिति।। कर्णभूषणाभ्यां निपीडितौ पीवरौ2 पीनावंसौ यस्य तम्। शय्याया उत्तरच्छदस्योपर्यास्तरणवस्त्रस्य विमर्देन घर्षणेन कृशो विरलोऽङ्गरागो यस्य तम्। न त्वङ्गनासङ्गादिति भावः। प्रथितप्रबोधं प्रकृष्टज्ञानं तमेनमजं सवयसः समानवयस्का उदारवाचः प्रगल्भगिरः सूतात्मजा बन्दिपुत्राः। `वैतालिकाः’ इति वा पाठः। `वैतालिका बोधकराः’ इत्यमरः। वाग्भिः स्तुतिपाठैः। उषसि। प्राबोधयन् प्रबोधयामासुः ।। 5.65 ।।
रात्रिर्गता मतिमतां वर! मुञ्च शय्यां
धात्रा द्विधैव ननु धूर्जगतो विभक्ता ।
तामेकतस्तव बिभर्ति गुरुर्विनिद्र-
स्तस्या भवानपरधुर्यपदावलम्बी ।। 5.66 ।।
रात्रिरिति।। हे मतिमतां वर! निर्धारणे षष्टी। रात्रिर्गता। शय्यां मुञ्च। विनिद्रो भवेत्यर्थः। विनिद्रत्वे फलमाह-धात्रेति।। धात्रा ब्रह्मणा जगतो धूर्भारः `धूः स्याद्यानमुखे भारे’ इति यादवः। द्विधैव। द्वयोरेवेत्यर्थः। एवकारस्तृतीयनिषेधार्थः। विभक्ता ननु विभज्य स्थापिता खलु। तत्कितम आह-तां धुरमेकत एककोटौ तव गुरुः पिता विनिद्रः सन् बिभर्ति। तस्या धुरो भवान्। धुरं वहतीति धुर्यो भारवाही। तस्य पदं वहनस्थानम्। अपरं यद्धुर्यपदं तदवलम्बी। ततो विनिद्रो भवेत्यर्थः। न ह्युभयवाह्यमेको वहतीति भावः।। 5.66 ।।
निद्रावशेन भवताप्यनवेक्षमाणा
पर्युत्सुकत्वमबला निशि खण्डितेव ।
लक्ष्मीर्विनोदयति येन दिगन्तलम्बी
सोऽपि त्वदाननरुचिं विजहाति चन्द्रः ।। 5.67 ।।
निद्रेति।। चन्द्रारविन्दराजवदनादयो लक्ष्मीनिवासस्थानानीति प्रसिद्धिमाश्रित्योच्यते। निद्रावशेन निद्राधीनेन। स्त्र्यन्तरासङ्गेऽत्र ध्वन्यते। भवता पर्युत्सुः कत्वमपि त्वय्यनुरक्तत्वमपीत्यर्थः। `प्रसितोत्सुकाभ्यां तृतीया च'(पा.2।3।44) इति सप्तम्यर्थे तृतीया। `अपि’शब्दस्तद्विषयानुरागस्यानपेक्ष्यत्वद्योतनार्थः। निशिखण्डिता भर्तुरन्यासङ्गज्ञानकलुषिताऽबलेव नायिकेव। `ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता'(2।25) इति दशरूपके। अनवेक्षमाणाऽविचारयन्ती सती। उपेक्षमाणेत्यर्थः। `ह्यनवेक्ष्यमाणा’ इति पाठे निद्रावशेन भवताऽनवेक्ष्यमाणाऽनिरीक्ष्यमाणा। कर्मणि शानच्। लक्ष्मीः प्रयोजककत्रीं। येन। प्रयोज्येन चन्द्रेण। पर्युत्सुकत्वं त्वद्विरहवेदनाम्। `कालाक्षमत्वमौत्सुक्यं मनस्तापज्वरादिकृत्’ इत्यलंकारे। विनोदयति निरासयतीति योजना। शेषं पूर्ववत्। नाथस्त्वर्थोपपत्तिमपश्यन्निमं पक्षमुपैक्षिष्ट। लक्ष्मीर्येन चन्द्रेण सह। त्वदाननसदृशत्वादिति भावः। विनोदयति विनोदं करोति। `विनोद’शब्दात् `तत्करोति तदाचष्टे'(ग.सू.204) इति णिच्प्रत्ययः। सादृश्यदर्शनादयो हि विरहिणां विनोदस्थानानीति भावः। स चन्द्रोऽपि दिगन्तलम्बी पश्चिमाशां गतः सन्। अस्तं गच्छन्नित्यर्थः। अत एव त्वदाननरुचिं त्वन्मुखसादृश्यं विजहाति। त्यजतीत्यर्थः। अतो निद्रां विहाय तां लक्ष्मीमनन्यशरणं परिगृहाणेति भावः ।। 5.67 ।।
तद्वल्गुना युगपदुन्मिषितेन ताव-
त्सद्यः परस्परतुलामधिरोहतां द्वे ।
प्रस्पन्दमानपरुषेतरतारमन्त-
श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ।। 5.68 ।।
तदिति।। तत्तस्माल्लक्ष्मीपरिग्रहणाद्वल्गुना मनोज्ञेन। `वल्गु स्थाने मनोज्ञे च वल्गु भाषितमन्यवत्’ इति विश्वः। युगपत्तावदुन्मिषितेन युगपदेवोन्मीलनेन सद्यो द्वे अपि परस्परतुलामन्योन्यसादृश्यमधिरोहतां प्राप्नुताम्। प्रार्थनायां लोट्। के द्वे? अन्तः प्रस्पन्दमाना चलन्ती परुषेतरा स्निग्धा तारा कनीनिका यस्य तत्तथोक्तम्। `तारकाक्ष्णः कनीनिका’ इत्यमरः। तव चक्षुः। अन्तः प्रचलितभ्रमरं चलद्भृङ्गं पद्मं च। युगपदुन्मिषिते सति संपूर्णसादृश्यलाभ इति भावः ।। 5.68 ।।
वृन्ताच्छ्लथं हरति पुष्पमनोकहानां
संसृज्यते सरसिजैररुणांशुभिन्नैः ।
स्वाभाविकं परगुणेन विभातवायुः
सौरभ्यमीप्सुरिव ते मुखमारुतस्य ।। 5.69 ।।
वृन्तादिति।। विभातवायुः प्रभातवायुः स्वाभाविकं नैसर्गितं ते तव मुखमारुतस्य निःश्वासपवनस्य सौरभ्यम्। तादृक्सौगन्ध्यमित्यर्थः। परगुणेनान्यदीयगुणेन। सांक्रामिकगन्धेनेत्यर्थः। ईप्सुराप्नुमिच्छुरिव। `आप्ज्ञप्यृधामीत्’ (पा.7।4।55) इतीकारादेशः। अनोकहानां वृक्षाणां श्लथं शिथिलं पुष्पं वृन्तात् प्रसवबन्धनात्। `वृन्तं प्रसवबन्धनम्’ इत्यमरः। हरत्यादत्ते। अरुणांशुभिन्नैस्तरणिकिरणोद्बोधितैः सरसि जातैः सरसिजैः कमलैः सह। `तत्पुरुषे कृति बहुलम्'(पा.6।3।14) इति सप्तम्या अलुक्। संसृज्यते संगच्छते। सृजेर्दैवादिकात्कर्तरि लट् ।। 5.69 ।।
ताम्रोदरेषु पतितं तरुपल्लवेषु
निर्धौतहारगुलिकाविशदं हिमाम्भः ।
आभाति लब्धपरभागतयाधरोष्ठे
लीलास्मितं सदशनार्चिरिव त्वदीयम् ।। 5.70 ।।
ताम्रेति।। ताम्रोदरेष्वरुणाभ्यन्तरेषु तरुपल्लवेषु पतितं निर्धौता या हारगुलिका मुक्तामणयस्तद्वद्विशदं हिमाम्भो लब्धपरभागतया लब्धोत्कर्षतया। `परभागो गुणोत्कर्षे’ इति यादवः। अधरोष्ठे त्वदीयं सदशनार्चिर्दन्तकान्तिसहितं लीलास्मितमिवाभाति शोभते ।। 5.70 ।।
यावत्प्रतापनिधिराक्रमते न भानु-
रह्नाय तावदरुणेन तमो निरस्तम् ।
आयोधनाग्रसरतां त्वयि वीर! याते
किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति? ।। 5.71 ।।
यावदिति।। प्रतापनिधिस्तेजोनिधिर्भानुर्यावन्नाक्रमते नोद्गच्छति। `आङउद्गमने'(पा.1।3।40) इत्यात्मनेपदम्। तावत्। भानावनुदित एवेत्यर्थः। अह्नाय झिटिति। `द्राग्झटित्यञ्जसाह्राय’ इत्यमरः। अरुणेनानूरुणा। `सूर्यसूतोऽरुणोऽनूरुः’ इत्यमरः। तमो निरस्तम्। तथा हि- हे वीर। त्वय्यायोधनेषु युद्धेषु। `युद्धमायोधनं जन्यम्’ इत्यमरः। अग्रसरतां पुरःसरतां याते सति तव गुरुः पिता रिपून् स्वयमुच्छिनत्ति किं वा? नोच्छिनत्त्येवेत्यर्थः। न खलु योग्यपुत्रन्यस्तभाराणां स्वामिनां स्वयं व्यापारखेद इति भावः ।। 5.71 ।।
शय्यां जहत्युभयपक्षविनीतनिद्राः
स्तम्बेरमा मुखरश्रृङ्खलकर्षिणस्ते ।
येषां विभान्ति तरुणारुणरागयोगा-
द्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ।। 5.72 ।।
शय्यामिति।। उभाभ्यां पक्षाभ्यां पार्श्वाभ्यां विनीताऽपगता निद्रा येषां त उभयपक्षविनीतनिद्राः। अत्र समासविषय `उभ’शब्दस्थाने `उभय’ शब्दप्रयोग एव साधुरित्यनुसंधेयम्। यथाह कैयटः-`-“उभादुदात्तो नित्यम्” इति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय `उभ’शब्दस्य प्रयोगो मा भूत्। `उभय’शब्दस्यैव यथा स्यात्। उभयपुत्र इत्यादि भवति’ इति। मुखराण्युत्थानचलनाच्छब्दायमानानि शृङ्खलानि निगडानि कर्षन्तीति तथोक्तास्ते तव स्तम्बे रमन्त इति स्तम्बेरमा हस्तिनः। `स्तम्बकर्णयो रमिजपाः'(पा.3।2।13)इत्यच्प्रत्ययः। `हस्तिसूचकयोः'(वा.1994)इति वक्तव्यात्। `इभः स्तम्बेरमः पद्मी’इत्यमरः। `तत्पुरुषे कृति बहुलम्'(पा.6।3।14) इति सप्तम्या अलुक्। शय्यां जहति त्यजन्ति येषां स्तम्बेरमाणाम्। दन्ताः कोशाः इव दन्तकोशाः। दन्तकुडम्भलास्तरुणारुणरागयोगाद्बालार्कारुणसंपर्काद्धेतोर्भिन्नाद्रागैरिकतटा इव विभान्ति। धातुरक्ता इव भान्तीत्यर्थः।। 5.72 ।।
दीर्घेष्वमी नियमिताः पटमण्डपेषु
निद्रां विहाय वनजाक्ष! वनायुदेश्याः ।
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि
लेह्यानि सैन्धवशिलाशकलानि वाहाः ।। 5.73 ।।
दीर्घेष्विति।। हे वनजाक्ष नीरजाक्ष! `वनं नीरं वनं सत्त्वम्’ इति शाश्वतः। दीर्घेषु पटमण्डपेषु नियमिता बद्धा वनायुदेश्या वनायुदेशे भवाः। `पारसीका वनायुजाः’ इति हलायुधः। अमी वाहा अश्वा निद्रां विहाय पुरोगतानि लेह्यान्यास्व्नाद्यानि सैन्धवशिलाशकनलानि। `सैन्धवोऽस्त्त्री सितशिवं माणिमन्थं च सिन्धुजे’ इत्यमरः। वक्त्रोष्मणा मलिनयन्ति मलिनानि कुर्वन्ति। उक्तं च सिद्धयोगसंग्रहे-`पूर्वाह्णकाले चाश्वानां प्रयाशो लवणं हितम्। शूलानाहविबन्धघ्नं लवणं सैन्धवं वरम् ।।’ इत्यादि ।। 5.73 ।।
भवति विरलभक्तिर्म्लानपुष्पोपहारः
स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः ।
अयमपि च गिरं नस्त्वत्प्रवोधप्रयुक्ता-
मनुवदति शुकस्ते मञ्जुवाक्यञ्जरस्थः ।। 5.74 ।।
भवतीति। म्लानः पुष्पोपहारः पुष्पपूजा म्लानत्वादेव विरलभक्तिर्विरलरचनो भवति। प्रदीपाश्च स्वकिरणानां परिवेषस्य मण्डलस्योद्भेदेन स्फुरणेन शून्या भवन्ति,निस्तेजस्का भवन्तीत्यर्थः। अपि चायं मञ्जुवाङ्मधुरवचनः पञ्चरस्थस्ते तव शुकस्त्वत्प्रबोधनिमित्ते प्रयुक्तामुञ्चारितां नोऽस्माकं गिरं वाणीमनुवदति,अनुकृत्य वदतीत्यर्थः। इत्थं प्रभातलिङ्गानि वर्तन्ते, अतः प्रबोद्धव्यमिति भावः ।। 5.74 ।।
इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः
सपदि विगतनिद्रस्तल्पमुज्झांचकार ।
मदपटुनिनदद्भिर्बोधितो राजहंसैः
सुरगज इव गाङ्गं सैकतं सुप्रतीकः ।। 5.75 ।।
इतीति।। इतीत्थँ विरचितवाग्भिर्बन्दिपुत्रैर्वैतालिकैः। `पुत्र’ग्रहणं समानवयस्कत्वद्योतनार्थम्। सपदि विगतनिद्रः कुमारः। तल्पं शय्याम्। `तल्पं शय्याट्टदारेषु’ इत्यमरः। उज्झांचकार विससर्ज। `इजादेश्च गुरुमतोऽनृच्छः’ (पा.3।1।36) इत्याम्प्रत्ययः। कथमिव? मदेन पटु मधुरं निनदद्भी राजहंसैर्बोधितः सुप्रतीकाख्यः सुरगज ईशानदिग्गजः। गङ्गाया इदं गाङ्गम्। सैकतं पुलिनमिव। `तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्’ इत्यमरः। `सिकताशर्कराभ्यां च'(पा.5।2।104) इत्यण्प्रत्ययः। `सुप्रतीक’ग्रहणं प्रायशः कैलासवालिनस्तस्य नित्यं गङ्गातटविहारसंभवादित्यनुसंधेयम् ।। 5.75 ।।
अथ विधिमवसाय्य शास्त्रदृष्टं
दिवसमुखोचितमञ्चिताक्षिपक्ष्मा ।
कुशलविरचितानुकूलवेषः
क्षितिपसमाजमगात्स्वयंवरस्थम् ।। 5.76 ।।
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतावजस्वयंवराभिगमनो नाम पञ्चमः सर्गः ।
अथेति।। अथोत्थानानन्तरम्। अञ्चितानि चारुण्यक्षिपक्ष्माणि यस्य सोऽजः शास्त्रे दृष्टमवगतं दिवसमुखोचितं प्रातःकालोचितं विधिमनुष्ठानमवसाय्य समाप्य। स्ततेर्ण्यन्ताल्लयम्। कुशलैः प्रसाधनदक्षैर्विरचितोऽनुकूलः स्वयंवरोचितो वेषो नेपथ्यं यस्य स तथोक्तः सन् स्वयंवरस्थं क्षितिपसमाजं राजसमूहमगादगमत्-`इणो गा लुङि'(पा.2।4।45)इति गादेशः। पुष्पिताग्रावृत्तमेतत्। तल्लक्षणम्-`अयुजि नयुगरेफलो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा’ इति।। 5.76 ।।
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां रघुवंशव्याख्यायां संजीविनीसमाख्यायां पञ्चमः सर्गः ।
षष्ठः सर्गः ।
जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ ।
कामारिं कामतातं वा कंचिदेकं भजामहे ।।
स तत्र मञ्चेषु मनोज्ञवेषान्सिंहानस्थानुपचारवत्सु ।
वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान् ।। 6.1 ।।
स इति।। सोऽजस्तत्र स्थान उपचारवत्सु राजोपकरणवत्सु मञ्चेषु पर्यङ्केषु सिंहासनस्थान् मनोज्ञवेषान् मनोहरनेपथ्यान् वैमानिकानां विमानैश्चरताम्। `चरति'(पा.4।4।8) इति ठक्प्रत्ययः। मरुताममराणाम्। `मरुतौ पवनामरौ’ इत्यमरः। आकृष्टलीलान् गृहीतसौभाग्यान्। आकृष्टमरुल्लीलानित्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। नरलोकं पालयन्तीति नरलोकपालाः। कर्मण्यण्प्रत्ययः। तान्भूपालानपश्यत्। सर्गेऽस्मिन्नुपजातिश्छन्दः ।। 6.1 ।।
रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण ।
काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ।। 6.2 ।।
रतेरिति।। `रतिः स्मरप्रियायां च रागे च सुरते स्मृता’ इति विश्वः। रतेः कामप्रियाया गृहीतानुनयेन स्वीकृतप्रार्थनेन। गृहीतरत्यनुनयेनेत्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। ईश्वरेण हरेण प्रत्यर्पितस्वाङ्गं काममिव स्थितं काकुत्स्थमजमालोकयतां नृपाणां मन इन्दुमतीनिराशं वैदर्भीनिःस्पृहं बभूव,`इन्दुमती सत्पतिमेनं विहाय नास्मान्वरिष्यति’ इति निश्चिक्युरित्यर्थः। सर्वातिशयसौन्दर्यं मत्वेति भावः ।। 6.2 ।।
वैदर्भनिर्दिष्टमसौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम् ।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ।। 6.3 ।।
वैदर्भेति।। असौ कुमारो वैदर्भेण भोजेन निर्दिष्टं प्रदर्शितं मञ्चं पर्यङ्कं क्लप्तेन सुविहितेन सोपानपथेन। मृगराजशावः सिंहपोतः। `पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः’ इत्यमरः। शिलानां विभङ्गैर्भङ्गीस्तुङ्गमुन्नतं नगोत्सङ्गं शैलाग्रमिव। आरुरोह ।। 6.3 ।।
परार्ध्यवर्णास्तरणोपपन्नमासेदिवान्रत्नवदासनं सः ।
भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ।। 6.4 ।।
परार्ध्येति।। परार्धअयाः श्रेष्ठा वर्णा नीलपीतादयो यस्य तेनास्तरणेन कम्बलादिनापपन्नं संगतं रत्नवद्रत्नखचितमासनं सिंहासनमासेदिवानधिष्टितवान् सोऽजः। मयूरपृष्ठाश्रयिणा गुहेन सेनान्या सह। `सेनानीरग्निभूर्गुहः’ इत्यमरः। भूयिष्ठमत्यर्थमुपमेयकान्तिरासीत्। मयूरस्य विचित्ररूपत्वात्तत्साम्यं रत्नासनस्य,तद्द्वारा च तदारूढयोरपगीति भावः ।। 6.4 ।।
तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्ष्यः ।
सहस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ।। 6.5 ।।
तास्विति।। तासु राजपरम्परासु श्रिया लक्ष्म्या कार्त्र्या पयोमुचां मेघानां पङ्क्तिषु विद्युतेव सहस्रधा विभक्तः। तरंगेषु तरणिरिव स्वयमेक एव प्रत्येकं संक्रामित इत्यर्थः। प्रभाविशेषस्योदयेनाविर्भावेन दुर्निरीक्ष्यो दुर्दर्शन आत्मा श्रियः स्वरूपं व्यरुचद्व्यद्योतिष्ट। `द्युद्भ्यो लुङि'(पा.1।3।91) इति परस्मैपदम्। द्युतादित्वादङ्प्रत्ययः। तस्मिन्समये प्रत्येकं संक्रांन्तलक्ष्मीकतया तेषां किमपि दुरासदं तेजः प्रादुरासीदित्यर्थः ।। 6.5 ।।
तेषां महार्हासनसंस्थितानामुदारनेपथ्यभृतां स मध्ये ।
रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ।। 6.6 ।।
तेषामिति।। महार्हासनसंस्थितानां श्रेष्ठसिंहासनस्थानाम्। उदारनेपथ्यभृतामुज्ज्वलवेषधारिणां तेषां राज्ञां मध्ये। कल्पद्रुमाणां मध्ये पारिजात इव सुरद्रुमविशेष इव। `पञ्चैते देवतरवो मन्दारः पारिजातकः। संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्।।’ इत्यमरः। स रघुसूनुरेव धाम्ना तेजसा। `भूम्ना’ इति पाठेऽतिशयेनेत्यर्थः। रराज। अत्र `कल्पद्रुम’शब्दः पञ्चान्यतमविशेषवचनः। उपकल्पयन्ति मनोरथानिति व्युत्पत्त्या सुरद्रुममात्रोपलक्षकतया प्रयुक्त इत्यनुसंधेयम्। कल्पा इति द्रुमाः कल्पद्रुमा इति विग्रहः ।। 6.6 ।।
नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः ।
मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ।। 6.7 ।।
नेत्रेति।। पौरजनस्य नेत्रव्रजाः सर्वान्नृपतीन्विहाय तस्मिन्नजे निपेतुः। स एव सर्वोत्कर्षेण ददृश इत्यर्थः। कथमिव? मदोत्कटे मदेनोद्भिन्नगण्डे निर्भरमदे वा वन्ये गन्धद्विपे गन्धप्रधाने द्विपे गजे। रेचिता रिक्तीकृताः पुष्पाणां वृक्षा यैस्ते। त्यक्तपुष्पवृक्षा इत्यर्थः। द्विरेफा भृङ्गा इव। द्विपस्य `वन्य’ विशेषणै द्विरेफाणां पुष्पवृक्षत्यागसंभावनार्थं कृतम् ।। 6.7 ।।
त्रिभिर्विशेषकमाह-
अथ स्तुते बन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके ।
संचारिते चागुरुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः ।। 6.8 ।।
अथेति।। अथान्वयज्ञै राजवंशाभिज्ञैर्बन्दिभिः स्तुतिपाठकैः। `बन्दिनः स्तुतिपाठकाः’ इत्यमरः। सोमार्कवंश्ये सोमसूर्यवंशभवे नरदेवलोके राजसमूहे स्तुते सति। विवेशेत्युत्तरेण संबन्धः। एवमुत्तरत्रापि योज्यम्। संचारिते समन्तात्प्रचारिते। अगुरुंसारो योनिः कारणं यस्य तस्मिन् धूपे च वैजयन्तीः पताकाः समुत्सर्पति सति अतिक्रम्य गच्छति सति ।। 6.8 ।।
पुरोपकण्ठोपवनाश्रयाणां कलापिनामुद्धतनृत्यहेतौ ।
प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्च्छति मङ्गलार्थे ।। 6.9 ।।
पुरोपकण्ठेति।। किंच,पुरस्योपकण्ठे समीप उपवनान्याश्रयो येषां तेषां कलापिनां बर्हिणामुद्धतनृत्यहेतौ मेघध्वनिसादृश्यात्ताण्डवकारणे। प्रध्माताः पूरिताः शङ्खा यत्र तस्मिन्। मङ्गलार्थे मङ्गलप्रयोजनके । तूर्यस्वने वाद्यघोषे। परितः सर्वतो दिगन्तान्मूर्च्छति व्याप्नुवति सति ।। 6.9 ।।
मनुष्यवाह्यं चतुरस्रयानमध्यास्य कन्या परिवारशोभि ।
विवेश मञ्चान्तरराजमार्गं पतिंवरा क्लृप्तविवाहवेषा ।। 6.10 ।।
मनुष्येति।। पतिं वृणोतीति पतिंवरा स्वयंवरा। `अथ स्वयंवरा। पतिंवरा च वर्याथ’ इत्यमरः। `संज्ञायां भृतॄवृजि-‘(पा.3।2।46) इत्यादिना खच्प्रत्ययः। क्लृप्तविवाहवेषा कन्येन्दुमती मनुष्यैर्वाह्यं परिवारेण परिजनेन शोभि चतुरस्रयानं चतुरस्रवाहनं शिबिकामध्यास्यारुह्य मञ्चान्तरे मञ्चमध्ये यो राजमार्गस्तं वेवेश ।। 6.10 ।।
तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये ।
निपेतुरन्तः करणैर्नरेन्द्रा देहैः स्थिताः केवलमासनेषु ।। 6.11 ।।
तस्मिन्निति।। नेत्रशतानामेकलक्ष्य एकदृश्ये कन्यामये कन्यारूपे तस्मिन्विधातुर्विधानातिशये सृष्टिविशेषे नरेन्द्रा अन्तःकरणैर्निपेतुः। आसनेषु देहैः केवलं देहैरेव स्थिताः। देहानपि विस्मृत्य तत्रैव दत्तचित्ता बभूवुरित्यर्थः। अन्तःकरणकर्तृके निपतने नरेन्द्राणां कर्तृत्वव्यपदेश आदरातिशयार्थः ।। 6.11 ।।
तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः ।
प्रवालशोभा इव पादपानां श्रृङ्गारचेष्टा विविधा बभूवुः ।। 6.12 ।।
तामिति।। तामिन्दुमतीं प्रति। अभिव्यक्तमनोरथानां प्ररूढाभिलाषाणां महीपतीनां राज्ञां प्रणयाग्रदूत्यः। प्रणयः प्रार्थना प्रेम वा। `प्रणयास्त्वमी। विस्रम्भयाच्ञाप्रेमाणः’ इत्यमरः। प्रणयेष्वग्रदूत्यः प्रथमदूतिकाः। प्रणयप्रकाशकत्वसाम्याद्दूतीत्वव्यपदेशः। विविधाः श्रृङ्गारचेष्टाः शृङ्गारविकारः पादपानां प्रवालशोभाः पल्लवसंपद इव बभूवुरुत्पन्नाः। अत्र शृङ्गारलक्षणं रससुधाकरे-`विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः। नीता सदस्यरस्यत्वं रतिः शृङ्गार उच्यते ।।’रतिरिच्छाविशेषः। तञ्चोक्तं तत्रैव-`यूनोरन्योन्यविषयस्थायिनीच्छा रतिः स्मृता’ इति।। `चेष्टा’शब्देन तदनुभावविशेषा उच्यन्ते। तेऽपि तत्रैवोक्ताः-`भावं मनोगतं साक्षात्स्वहेतुं व्यञ्जयन्ति ये। तेऽनुभावा इति ख्याता भ्रूविक्षेपस्मितादयः। ते चतुर्धा चित्तगात्रवाग्बुद्ध्यारम्भसंभवाः।।’ इति। तत्र गात्रारम्भसंभवांश्चेष्टाशब्दोक्ताननुभावान् `कश्चित्'(6।13) इत्यादिभिः श्लोकैर्वक्ष्यति। शृङ्गाराभासश्चायम्; एकत्रैव प्रतिपादनात्। तदुक्तम्-`एकत्रैवानुरागश्चेत्तिर्यक्शब्दगतोऽपि वा। योषितां बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः।।’ इति ।। 6.12 ।।
`शृङ्गारचेष्टा बभूवुः'(6।12) इत्युक्तम्,ता एव दर्शयति-
कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् ।
रजोभिरन्तः परिवेषबन्धि लीलारविन्दं भ्रमयांचकार ।। 6.13 ।।
कश्चिदिति।। कश्चिद्राजा कराभ्यां पाणिभ्यामुपगूढनालं गृहीतनालम्। आलोलैश्चञ्चलैः पत्रैरभिहततास्ताडिता द्विरेफा भ्रमरा येन तत्तथोक्तम्। रजोभिः परगैरन्तः परिवेषं मण्डलं बध्नातीत्यन्तः परिवेषबन्धि। लीलारविन्दं भ्रमयांचकार। `करस्थलीलारविन्दवत्त्वयाऽहं भ्रमयितव्यः’ इति-नृपाभिप्रायः। `हस्तघूर्णकोऽयमपलक्षणकः’-इतीन्दुमत्यभिप्रायः ।। 6.13 ।।
विस्रस्तमंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् ।
प्रालम्बमुत्कृष्य यथावकाशं निनाय साचीकृतचारुवक्त्रः ।। 6.14 ।।
विस्रस्तमिति।। विलसनशीलो विलासी। `वौ कषलसकत्थस्रम्भः'(पा.3।2।143) इति घिनुण्प्रत्ययः। अपरो राजा । अंसाद्विस्रस्तं रत्नानुविद्धं रत्नखचितं यदङ्गदं केयूरं तस्य कोटिलग्नं प्रालम्ब मृजुलम्बिनीं स्रजम्। `प्रालम्बमृजुलम्बि स्यात्कण्ठात्’ इत्यमरः। `प्रावारम्’ इति पाठे तूत्तरीयं वस्त्रम्। उत्कृष्योद्धृत्य साचीकृतं तिर्यक्कृतं चारु वक्त्रं यस्य स तथोक्तः सन्,यथावकाशं स्वस्थानं निनाय। `प्रावारोत्क्षेपणच्छलेनाहं त्वामेवं परिरप्स्ये’- इति नृपाभिप्रायः। `गोपनीयं किंचिदङ्गेऽस्ति ततोऽयं प्रावृणुते’-इतीन्दुमत्यभिप्रायः ।। 6.14 ।।
आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः ।
तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ।। 6.15 ।।
आकुञ्चितेति।। ततः पूर्वोक्तादन्योऽपरो राजा किंचित्समावर्जितनेत्रशोभ ईषदर्वाक्पातितनेत्रशोभः सन्। आकुञ्चिता आभुग्रा अग्राङ्गुलयो यस्य तेन तिर्यग्विसंसर्पिण्यो नखप्रभा यस्य तेन च पादेन हैमं हिरण्मयं पीठं पादपीठं विलिलेख लिखितवान्। पादाङ्गुलीनामाकुञ्चनेन `त्वं मत्समीपमागच्छ’-इति नृपभिप्रायः। `भूमिविलेखकोऽयमपलक्षणकः’-इतीन्दुमत्याशयः। भूमिविलेखनं तु लक्ष्मीविनाशहेतुः ।। 6.15 ।।
निवेश्य वामं भुजमासनार्धे तत्संनिवेशादधिकोन्नतांसः ।
कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परोऽभूत् ।। 6.16 ।।
निवेश्येति।। कश्चिद्राजा वामं भुजमासनार्धे सिंहासनैकदेशे निवेश्य संस्थाप्य तत्संनिवेशात्तस्य वामभुजस्य संनिवेशात्संस्थापनादधिकोन्नतोंऽसो वामांस एव यस्य स तथोक्तः सन्। विवृत्ते परावृत्ते त्रिके त्रिकप्रदेशे भिन्नहारो लुण्ठितहारः सन्। `पृष्ठवंशाधरे त्रिकम्’ इत्यमरः। सुहृत्समाभाषणतत्परोऽभूत्। वामपार्श्ववर्तिनैव मित्रेण संभाषितुं प्रवृत्त इत्यर्थः। अत एव विवृत्तत्रिकत्वं घटते। `त्वया वामाङ्गे निवेशितया सहैवं वार्तां करिष्ये’-इति नृपाभिप्रायः। परं `दृष्ट्वा पराङ्मुखोऽयं न कार्यकर्ता’- इतीन्दुमत्यभिप्रायः ।। 6.16 ।।
विलालिनीविभ्रमदन्तपत्रमापाण्डुरं केतकबर्हमन्यः ।
प्रियानितम्बोचितसंनिवेशैर्विपाटयामास युवा नखाग्रैः ।। 6.17 ।।
विलासिनीति।। अन्यो युवा विलासिन्याः प्रियाया विभ्रमार्थं दन्तपत्रं दन्तपत्रभूतमापाण्डुरं केतकबर्हं केतकदलम्। `दलेऽपि बर्हम्’ इत्यमरः। प्रियानितम्ब उचितसंनिवेशैरभ्यस्तनिक्षघेपणैर्नखाग्रैर्विपाटयामास। `अहं तव नितम्ब एवं नखव्रणादीन्दास्यामि’- इति नृपाशयः। `तृणच्छेदकवत् पत्रपाटकोऽयमपलक्षणकः’-इतीन्दुमत्याशयः ।। 6.17 ।।
कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन ।
रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयामास सलीलमक्षान् ।। 6.18 ।।
कुशेशयेति।। कश्चिद्राजा कुशेशयं शतपत्रमिवाताम्रं तलं यस्य तेन। `शतपत्रं कुशेशयम्’ इत्यमरः। रेखारूपो ध्वजो लाञ्छनं यस्य तेन करेण। अङ्गुलिषु भवान्यङ्गुलीयान्यूर्मिकाः। `अङ्गुलीयकमूर्मिका’ इत्यमरः। `जिह्वामूलाङ्गुलेश्छः’ (पा.4।3।62) इति छप्रत्ययः। रत्नानामङ्गुलीयानि तेषां प्रभयाऽनुविद्धान् व्याप्तानक्षान् पाशान्। `अक्षास्तु देवनाः पाशकाश्च ते’ इत्यमरः। सलीलमुदीरयामासोञ्चिक्षेप। `अहं त्वया सहैवं रंस्ये’-इति नृपाभिप्रायः। `अक्षचातुर्ये कापुरुषोऽयम्-‘ इतीन्दुमत्यभिप्रायः। `अक्षार्मा दीव्यः’ इति श्रुतिनिषेधात् ।। 6.18 ।।
कश्चिद्यथाभागमवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव ।
वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ।। 6.19 ।।
कश्चिदिति।। कश्चिद्यथाभागं यथास्थानमवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव स्वस्थानाञ्चलित इव किरीटे वज्राणां किरीटगतानामंशवो गर्भे येषां तान्यङ्गुलिरन्ध्राणि यस्य तमेकं करं व्यापारयामास। `किरीटवन्मम शिरसि स्थितामपि त्वां भारं न मन्ये’- इति नृपाभिप्रायः। `शिरसि न्यस्तहस्तोऽयमपलक्षणः’-इतीन्दुमत्यभिप्रायः ।। 6.19 ।।
ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी ।
प्राक्संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत्सुनन्दा ।। 6.20 ।।
तत इति।। ततोऽनन्तरं नृपाणां श्रुतवृत्तवंशा। श्रुतवृत्तावंशेत्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। प्रगल्भा वाग्मिनी सुनन्दा सुनन्दाख्या प्रतिहारं रक्षतीति प्रतिहाररक्षी द्वारपालिका। कर्मण्यण्प्रत्ययः। `टिड्ढाणञ्-‘ (पा.4।1।15) इत्यादिना ङीप्। प्राक् प्रथमं कुमारीमिन्दुमतीं मगधेश्वरस्य संनिकर्षं समीपं नीत्वा पुंवत् पुंसा तुल्यम्। `तेन तुल्यं क्रिया चेद्वतिः’ (पा.5।1।115) इति वतिप्रत्ययः। अवदत् ।। 6.20 ।।
असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः ।
राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा ।। 6.21 ।।
असाविति।। असौ राजा। `असौ’ इति पुरोवर्तिनो निर्देशः। एवमुत्तरत्रापि द्रष्टव्यम्। शरणोन्मुखानां शरणार्थिनां शरण्यः शरणे रक्षणे साधुः। इति यत्प्रत्ययः। शरणं भवितुमर्हः शरण्य इति-नाथनिरुक्तिर्निर्मूलैव। अगाधसत्त्वो गम्भीरस्वभावः। `सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः’ इति विश्वः। मगधा जनपदाः, तेषु प्रतिष्ठास्पदं यस्य स मगधप्रतिष्ठः। `प्रतिष्ठाकृत्यमास्पदम्’ इत्यमरः। प्रजारञ्जने लब्धवर्णो विचक्षणः। यद्वा,-प्रजारञ्जनेन लब्धोत्कर्षः। पराञ्शत्रूंस्तापयतीति परंतपः परंतपाख्यः। `द्विषत्परयोस्तापेः'(पा.3।2।39)। इति खच्प्रत्ययः। `खचि ह्रस्वः'(पा.6।4।94) इति ह्रस्वः। `अरुर्द्विषदजन्तस्य मुम्'(पा.6।3।67)इति मुमागमः। नामेति प्रसिद्धौ। यथार्थनामा। शत्रुसंतापनादिति भावः ।। 6.21 ।।
कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् ।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ।। 6.22 ।।
काममिति।। अन्ये नृपाः कामं सहस्रशः सन्तु। भूमिमनेन राजन्वतीं शोभनराजवतीमाहुः। नैतादृक्कश्चिदस्तीत्यर्थः। `सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान्’ इत्यमरः। `राजन्वान्सौराज्ये'(पा.8।2।14) इति निपातनात्साधुः। तथा हि – नक्षत्रैरश्विन्यादिभिस्ताराभिः साधारणैर्ज्योतिर्भिर्ग्रहैर्भौमादिभिश्च संकुलाऽपि रात्रिश्चन्द्रमसैव ज्योतिरस्या अस्तीति ज्योतिष्मती। नान्येन ज्योतिषेत्यर्थः ।। 6.22 ।।
क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसस्रनेत्रः ।
शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार ।। 6.23 ।।
क्रियेति।। अयं परंतपोऽध्वराणां क्रतूनां क्रियाप्रबन्धादनुष्ठानसातत्यात्,अविच्छिन्नादनुष्ठानादित्यर्थः। अजस्रं नित्यमाहूतसहस्रनेत्रः सन्,चिरं शच्या अलकान् पाण्डुकपोलयोर्लम्बान्स्रस्तान्। पचाद्यच्। मन्दारैः कल्पद्रुमकुसुमैः शून्यांश्चकार। प्रोषितभर्तृका हि केशसंस्कारं न कुर्वन्ति। `प्रोषिते मलिना कृशा’ इति `क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम्। हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका।।’ (याज्ञ.1।3।84) इति च स्मरणात् ।। 6.23 ।।
अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे ।
प्रासादवातायनसंश्रितानां नेत्रोत्सवं पुष्पपुराङ्गनानाम् ।। 6.24 ।।
अनेनेति।। वरेण्येन वरणीयेन। वृणोतेरौणादिक एण्यप्रत्ययः। अनेन राज्ञा गृह्यमाणं पाणिमिच्छसि चेत्। पाणिग्रहणमिच्छसि चेदित्यर्थः। प्रवेशे प्रवेशकाले प्रासादवातायनसंश्रितानां राजभवनगवाक्षस्थितानां पुष्पपुराङ्गनानां पाटलिपुराङ्गनानां नेत्रोत्सवं कुरु। सर्वोत्तमानां तासामपि दर्शनीया भविष्यसीति भावः ।। 6.24 ।।
एवं तयोक्ते तमवेक्षअय किंचिद्विस्रंसिदूर्वाङ्कमधूकमाला ।
क्रजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा ।। 6.25 ।।
एवमिति।। एवं तया सुनन्दयोक्ते सति तं परंतपमवेक्ष्य किंचिद्विस्रंसिनी दूर्वाङ्का दूर्वाचिह्ना मधूकमाला गुहपुष्पमाला यस्याः सा। `मधूके तु गुडपुष्पमधुद्रुमौ’ इत्यमरः। वरेण शिथिलप्रयत्नेति भावः। तन्वीन्दुमती। एनं नृमभाषमाणम्। ऋज्व्या भावशून्यया प्रणामक्रिययैव प्रत्यादिदेश परिजहार ।। 6.25 ।।
तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय ।
समीरणोत्थेव तरंगलेखा पद्मान्तरं मानसराजहंसीम् ।। 6.26 ।।
तामिति।। सैव नान्या। चित्तज्ञत्वादिति भावः। वेत्रग्रहणे नियुक्ता दौवारिकी सुनन्दा तां राजसुतां राजान्तरमन्यराजानं निनाय। नयतिर्द्विकर्मकः। कथमिव? समीरणोत्था वातोत्पन्ना तरंगलेखोर्मिपङ्क्तिर्मानसे सरसि या राजहंसी तां पद्मान्तरमिव ।। 6.26 ।।
जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः ।
विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते ।। 6.27 ।।
जगादेति।। एनामिन्दुमतीं जगाद। किमिति? अयमङ्गनाथोऽङ्गदेशाधीश्वरः सुराङ्गनाभिः प्रार्थिता कामिता यौवनश्रीर्यस्य स तथोक्तः। पुरा किलैनमिन्द्रसाहाय्यार्थमिन्द्रपुरागामिनमकामयन्ताप्सरस इति प्रसिद्धिः। किंच,सूत्रकारैर्गजशास्त्रकृद्भिः पालकाप्यादिभिर्महर्षिभिर्विनीतनागः शिक्षितगजः। `किल’ इत्यैतिह्ये। अत एव भूमिगतोऽप्यैन्द्रं भुङ्क्ते। भूर्लोक एव स्वर्गसुखमनुभवतीत्यर्थः। गजाप्सरोदेवर्षिसेव्यत्वं `ऐन्द्रपद’शब्दार्थः। पुरा किल कुतश्चिच्छापकारणाद्भुवमवतीर्णं दिग्गजवर्गमालोक्य स्वयमशक्तेरिन्द्राभ्यनुज्ञयानीतैर्देवर्षिभिः प्रणीतेन शास्त्रेण गजान्वशीकृते भुवि संप्रदायं प्रावर्तयदिति कथा गीयते ।। 6.27 ।।
अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु ।
प्रत्यर्पिताः शत्रुविलासिनीनामुन्मुच्य सूत्रेण विनैव हाराः ।। 6.28 ।।
अनेनेति।। शत्रुविलासिनीनां स्तनेषु मुक्ताफलस्थूलतमानश्रुबिन्दून्। `अस्रमश्रुणि शोणिते’ इति विश्वः। प्रयासयता प्रस्तारयता। भर्तृवधादिति भावः। अनेनाङ्गनाथेनोन्मुच्याक्षिप्य सूत्रेण विना हारा एव प्रत्यर्पिताः। अविच्छइन्नाश्रुबिन्दुप्रवर्तनादुत्सूत्रहारार्पणमेव कृतमिवेत्युत्प्रेक्षा गम्यते ।। 6.28 ।।
निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च ।
कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि! तयोस्तृतीया ।। 6.29 ।।
निसर्गेति।। निसर्गतः स्वभावतो भिन्नास्पदं भिन्नाश्रयम्। सहावस्थानविरोधीत्यर्थः। श्रीश्च सरस्वती चेति द्वयमस्मिन्नङ्गनाथ एकत्र संस्था स्थितिर्यस्य तदेकसंस्थम्। उभयमिह संगतमित्यर्थः। हे कल्याणि!`बाह्वादिभ्यश्च'(पा.4।1।96) इति ङीप्। कान्त्या सूनृतया सत्यप्रियया गिरा च योग्या संसर्गार्हा त्वमेव तयोः श्रीसरस्वत्यो स्तृतीया। समानगुणयोर्युवयोर्दांपत्यं युज्यत एवेति भावः। दक्षिणनायकत्वं चास्य ध्वन्यते- तदुक्तम्-`तुल्योऽनेकत्र दक्षिणः’ इति ।। 6.29 ।।
अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी ।
नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः ।। 6.30 ।।
अथेति।। अथ कुमार्यङ्गराजाञ्चक्षुरवतार्य। अपनीयेत्यर्थः। जन्यां मातृसखीम्। `जन्या मातृसखीमुदोः’ इति विश्वः। सुनन्दां याहि गच्छेत्यवदत्। `यातेति जन्यानवदत्’ इति पाठे-जनीं वधूं वहन्तीति जन्या वधूबन्धवः। तान्यात गच्छतेत्यवदत्। `जन्यो वरवधूज्ञातिप्रियतुल्यहिते।ञपि च’ इति विश्वः। अथवा,-जन्या वधूभृत्याः। `भृत्याश्चापि नवोढायाः’ इति केशवः। `संज्ञायां जन्या'(पा.4।4।82) इति यत्प्रत्ययान्ते निपातः। यदत्राह वृत्तिकारः-`जनीं वधूं वहन्तीति जन्या जामातुर्वयस्याः’ इति। यञ्चामरः-`जन्याः स्निग्धा वरस्य ये’ इति। तत्सर्वमुपलक्षणार्थमित्यविरोधः। न चायमङ्गराजनिषेधो दृश्यदोषान्नापि द्रष्टृदोषादित्याह-नेत्यादिना।। असावङ्गराजः काम्यः कमनीयो नेति न,किंतु काम्य एवेत्यर्थः। सा कुमारी च सम्यग्द्रष्टुं विवेक्तुं न वेदेति न,वेदेत्यर्थः। लोको जनो भिन्नरुचिर्हि रुचिरमपि किंचित्कस्मैचिन्न रोचते। किं कुर्मो न हीच्छा नियन्तुं शक्यत इति भावः ।। 6.30 ।।
ततः परं दुःप्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ ।
निदर्शयामास विशेषदृश्यमिन्दुं नवोत्थानमिवेन्दुमत्यै ।। 6.31 ।।
तत इति।। ततोऽनन्तरं प्रतिहारभूमौ द्वारदेशे नियुक्ता दौवारिकी। `स्त्री द्वार्द्वारं प्रतीहारः’ इत्यमरः। द्विषद्भिः शत्रुभिर्दुःप्रसहं दुःसहम्। शूरमित्यर्थः। विशेषेण दृश्यं दर्शनीयम्। रूपवन्तमित्यर्थः। परमन्यं नृपम्। नवोत्थानं नवोदयमिन्दुमिव। इन्दुमत्यै निदर्शयामास ।। 6.31 ।।
अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ।। 6.32 ।।
अवन्तीति।। उदग्रबाहुर्दीरघबाहुर्विशालवक्षास्तनुवृत्तमध्यः कृशवर्तुलमध्योऽयं राजाऽवन्तिनाथोऽवन्तिदेशाधीश्वरः। त्वष्ट्रा विश्वकर्मणा। भर्तुस्तेजोवेगमसहमानया दुहित्रा संज्ञादेव्या प्रार्थितेनेति शेषः। चक्रभ्रमं चक्राकारं शस्त्रोत्तेजनयन्त्रम्। `भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुण्डाख्ये शिल्पियन्त्रके’ इति विश्वः। आरोप्ययत्नेनोल्लिखित उष्णतेजाः सूर्य इव विभाति। अत्र मार्गण्डेयः-`विश्वकर्मात्वनुज्ञातः शाकद्वीपे विवस्वता। भ्रममारोप्य तत्तेजः शातनायोपचक्रमे ।।’ इति ।। 6.32 ।।
अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि ।
कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ।। 6.33 ।।
अस्येति।। समग्रशक्तेः शक्तित्रयसंपन्नस्यास्यावन्तिनाथस्य प्रयाणेषु जैत्रयात्रास्वग्रेसरैर्वाजिभिरश्वैरुत्थितानि रजांसि सामन्तानां समन्ताद्भक्तानां राज्ञां ये शिखामणयश्चूडामणयस्तेषां प्रभाप्ररोहास्तमयं तेजोऽङ्कुरनाशं कुर्वन्ति। नासीरैरेवास्य शत्रवः पराजियन्त इति भावः ।। 6.33 ।।
५ असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः ।
तमिस्रपक्षेऽपि सह प्रियामिर्ज्योत्स्नावतो निर्विशति प्रदोषान् ।। 6.34 ।।
असाविति।। असाववन्तिनाथः महाकालं नाम स्थानविशेषशः,तदेव निकेतनं स्थानं यस्य तस्य चन्द्रमौलेरीश्वरस्याऽदूरे समीपे वसन्। अत एव हेतोस्तमिस्रपक्षे कृष्णपक्षेऽपि प्रियाभिः सह ज्योत्स्नावतः प्रदोषान्रात्रीर्निर्विशत्यनुभवति किल। नित्यज्योत्स्नाविहारत्वमेतस्यैव नान्यस्येति भावः ।। 6.34 ।।
अनेन यूना सह पार्थिवेन रम्भोरु! कञ्चिन्मनसो रुचिस्ते ? ।
सिप्रातरंगानिलकम्पितासु विहर्तुमुद्यानपरंपरासु ।। 6.35 ।।
अनेनेति।। रम्भे कदलीस्तम्भाविवोरू यस्याः सा रम्भोरुस्तस्याः संबोधनम्। हे रम्भोरु! `ऊरूत्तरपदादौपम्ये'(पा.4।1।69) इत्यूङ्प्रत्ययः। नदीत्वाद्ध्रस्वः। यूनाऽनेन पार्थिवेन सह। सिप्रा नाम तत्रत्या नदी तस्यास्तरंगाणामनिलेन कम्पितासूद्यानानां परंपरासु पङ्क्तिषु विहर्तुं ते तव मनसो रुचिः कञ्चित्? स्पृहाऽस्ति किमित्यर्थः। `अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्’ इत्यमरः ।। 6.35 ।।
तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के ।
बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ।। 6.36 ।।
तस्मिन्निति।। उत्तमसौकुमार्योत्कृष्टाङ्गमार्दवा सेन्दुमती। अभिद्योतितान्युल्लसितानि बन्धव एव पद्मानि येन तस्मिन्। प्रतापेन तेजसा संशोषिताः शत्रव एव पङ्काः कर्दमा येन तस्मिन्। तस्मिन्नवन्तिनाथे कुमुद्वती। `कुमुदनडवेतसेभ्यो डतुपु'(पा.4।2।87)इति ङ्मतुप्प्रत्ययः। भानुमत्यंशुमतीव। भावं चित्तं न बबन्ध। न तत्रानुरागमकरोदित्यर्थः। बन्धूनां पद्मत्वेन शत्रूणां पङ्कत्वेन च निरूपणं राज्ञः सूर्यसाम्यार्थम् ।। 6.36 ।।
तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् ।
विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा ।। 6.37 ।।
तामिति।। सुनन्दा तामरसान्तराभां पद्मोदरतुल्यकान्तिम्। कनकगौरीमित्यर्थः। गुणैरनूनाम्। अधिकामित्यर्थः। शोभना दन्ता यस्याः सा सुदती। `वयसि दन्तस्य दतृ'(पा.5।4।141) इति दत्रादेशः। `उगितश्च'(पा.4।1।6)इति ङीप्। तां प्रकृतां प्रसिद्धां वा विधातुर्ललितां सृष्टम्। मधुरनिर्माणां स्त्रियमित्यर्थः। अनुगता आपो येषु तेऽनूपा नाम देशाः। `ऋक्पूरब्धूः पथामानक्षे'(पा.5।4।74) इत्यप्रत्ययः समासान्तः। `ऊदनोर्देशे'(पा.6।3।98) इत्यूदादेशः। तेषां राज्ञोऽनूपराजस्याग्रतो विधाय व्यवस्थाप्य भूयः पुनर्जगाद ।। 6.37 ।।
सङ्ग्रामनिर्विष्टसहस्रबाहुरष्टादशद्वीपनिखातयूपः ।
अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ।। 6.38 ।।
सङ्ग्रामेति।। सङ्ग्रामेषु युद्धेषु निर्विष्टा अनुभूताः सहस्रं बाहवो यस्य स तथोक्तः। युद्धादन्यत्र द्विभुज एव दृश्यत इत्यर्थः। अष्टादशसु द्वीपेषु निखाताः स्थापिता यूपा येन स तथोक्तः। सर्वक्रतुयाजी सार्वभौमश्चेति भावः। जरायुजादिसर्वभूतरञ्जनादनन्यसाधारणो राजशब्दो यस्य स तथोक्तः। योगी। ब्रह्मविद्वानित्यर्थः। स किल भगवती दत्तात्रेयाल्लब्धयोग इति प्रसिद्धिः। कृतवीर्यस्यापत्यं पुमान् कार्तवीर्यो नाम राजा बभूव किलेति। अयं चास्य महिमा सर्वोऽपि दत्तात्रेयवरप्रसादलब्ध इति भारते(वन.अ.115;अनु.अ.152) दृश्यते ।। 6.38 ।।
अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् ।
अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ।। 6.39 ।।
अकार्येति।। विनेता शिक्षको यः कार्तवीर्यः। अकार्यस्यासत्कार्यस्य चिन्तया च `अहं चौर्यादिकं करिष्यामी’ति बुद्ध्या। समकालमेककालमेव यथा तथा पुरस्तादग्रे चापधरः। अन्तः शरीरेष्वन्तःकरणेषु। `शरीर’शब्देनेन्द्रियं लक्ष्यते। अविनयमपि प्रत्यादिदेश। मानसापराधमपि निवारयामासेत्यर्थः। अन्ये तु वाक्कायापराधमात्रप्रतिकर्तार इति भावः ।। 6.39 ।।
ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरंपरेण ।
कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात् ।। 6.40 ।।
ज्यान्धेति।। ज्याया मौर्व्या बन्धेन बन्धनेन निष्पन्दा निश्चेष्टा भुजा यस्य तेन विनिःश्वसती जायाबन्धोपरोधाद्दीर्धं निःश्वसती वक्त्रपरंपरा दशमुखी यस्य तेन निर्जितवासवेनेन्द्रविजयिना। अत्रेन्द्रादयोऽप्यनेन जितप्राया एवेति भावः। लङ्केश्वरेण दशास्येन यस्य कार्तवीर्यस्य कारागृहे बन्धनागारे। `कारा स्याद्बन्धनालये’ इत्यमरः। आ प्रसादादनुग्रहपर्यन्तमुषितं स्थितम्। `नपुंसके भावे क्तः’ (पा.3।3।114)। एतत्प्रसाद एव तस्य मोक्षोपायो न तु क्षात्रमिति भावः ।। 6.40 ।।
तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी ।
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् ।। 6.41 ।।
तस्येति।। आगमवृद्धसेवी श्रुतवृद्धसेवी प्रतीप इति। ख्यात इति शेषः। एष भूपतिस्तस्य कार्तवीर्यस्यान्वये वंशे जातः। येन प्रतीपेन संश्रयस्याश्रयस्य पुंसो दोषैर्व्यसनादिभी रूढमुत्पन्नं श्रियः संबन्धि स्वभावलोला प्रकृतिचञ्चलेत्येवंरूपमयशो दुष्कीर्तिः प्रमृष्टं निरस्तम्। दुष्टाश्रयत्यागशीलायाः श्रियः प्रकृतिचापलप्रवादो मूढजनपरिकल्पित इत्यर्थः। अयं तु दोषराहित्यान्न कदाचिदपि श्रिया त्यज्यत इति भावः ।। 6.41 ।।
आयोधने कृष्णगतिं सहायमवाप्य यः क्षत्रियकालरात्रिम् ।
धारां शितां रामपरश्वघस्य संभावयत्युत्पलपत्रसाराम् ।। 6.42 ।।
आयोधन इति।। यः प्रतीप आयोधने युद्धे कृष्णगतिं कृष्णवर्त्मानमग्निं सहायमवाप्य क्षत्रियाणां कालरात्रिम्। संहाररात्रिमित्यर्थः। रामपरश्वधस्य जामददग्न्यपरशोः। `द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः’इत्यमरः। शितां तीक्ष्णां धारां मुखम्। `खङ्गादीनां च निशितमुखे धारा प्रकीर्तिता’इति विश्वः। उत्पलपत्रस्य सार इव सारो यस्यास्तां तथाभूतां संभावयति मन्यते। एतन्नगरजिगीषयागतान्रिपून्स्वयमेव धक्ष्यामीति भगवता वैश्वानरेण दत्तवरोऽयं राजा दह्यन्ते च तथागताः शत्रव इति भारते (वन.अ.117)कथानुसंधेया।। 6.42 ।।
अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम् ।
प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ।। 6.43 ।।
अस्येति।। दीर्घबाहारस्य प्रतीपस्याङ्कलक्ष्मीर्भव। एनं वृणीष्वेत्यर्थः। अनेनायं विष्णुतुल्य इति ध्वन्यते। माहिष्मती नामास्य नगरी। तस्या वप्रः प्राकार एव नितम्बः। तस्य काञ्चीं रशनाभूतां जलानां वेण्या प्रवाहेण रम्याम्। `ओघः प्रवाहो वेणी च’ इति हलायुधः। रेवां नर्मदां प्रासादजालैर्गवाक्षैः। `जालं समूह आनायो गवाक्षक्षारकावपि’ इत्यमरः। प्रेक्षितुं काम इच्छाऽस्ति यदि।। 6.43 ।।
तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव ।
शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः ।। 6.44 ।।
तस्या इति।। प्रकामं प्रियं प्रीतिकरं दर्शनं यस्य सोऽपि। दर्शनीयोऽपीकत्यर्थः। स क्षितीशः। शरदा प्रमृष्टाम्बुधरोपरोधो निरस्तमेघावरणः पर्याप्तरुचिं नाजीजनदित्यर्थः। लोको भिन्नरुचिरिति भावः ।। 6.44 ।।
सा शूरसेनाधिपतिं सुषेणमुद्दिश्य लोकान्तरगीतकीर्तिम् ।
आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ।। 6.45 ।।
सेति।। लोकान्तरे स्वर्गादावपि गीतकीर्तिमाचारेण शुद्धयोरुभयोवंशयोर्मातापितृकुलयोर्दीपं प्रकाशकम्। `उभयवंश’इत्यत्रोभयपक्षवन्निर्वाहः। शूरसेनानां देशानामधिपतिं सुषेणं नाम नृपतिमुद्दिश्याभिसंधाय शुद्धान्तरक्ष्याऽन्तःपुरपालिकया। `कर्मण्यण्'(पा.3।2।1)। `टिड्ढाणञ्-‘(पा.4।1।15)इति ङीप्। सा कुमारी जगदे ।। 6.45 ।।
नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण ।
सिद्धाश्रमं शान्तमिवैत्य सत्त्वैर्नैसर्गिकोऽप्युत्ससृजे विरोधः ।। 6.46 ।।
नीपेति।। यज्वा विधइवदिष्टवान्। `सुयजोर्ङ्वनिप्'(पा.3।2।103)इति ङ्वनिप्प्रत्ययः। एष पार्तिवः। नीपो नामान्वयोऽस्येति नीपान्वयो नीपवंशजः। यं सुषेणमाश्रित्य गुणैर्ज्ञानमौनादिभिः। शान्तं प्रसन्नं सिद्धाश्रममृष्याश्रममेत्य प्राप्य सत्त्वैर्गजसिंहादिभिः प्राणिभिरिव। नैसर्गिकः स्वाभाविकोऽपि परस्परेण विरोध उत्ससृजे त्यक्तः ।। 6.46 ।।
यस्यात्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्टा ।
हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविषह्यं रिपुमन्दिरेषु ।। 6.47 ।।
यस्येति।। हिमांशोः कान्तिश्चन्द्रकिरणा इव नयनयोरभिरामा यस्य सुषेणस्या कान्तिः शोभाऽऽत्मगेहे स्वभवने संनिविष्टा संक्रान्ता। अविषह्यं विसोढुमशक्यं तेजः प्रतापस्तु। हर्म्याग्रेषु धनिकमन्दिरप्रान्तेषु। `हर्म्यादि धनिनां वासः’ इत्यमरः। संरूढास्तृणाङ्कुरा येषां तेषु। शून्येष्वित्यर्थः। रिपुमन्दिरेषु शत्रुनगरेषु। `मन्दिरं नगरे गृहे’ इति विश्वः। संनिविष्टम्। स्वजनाह्लादकोऽयं द्विषंतपश्चेति भावः ।। 6.47 ।।
यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले ।
कलिन्दकन्या मथुरां गतापि गङ्गोर्मिसंसक्तजलेव भाति ।। 6.48 ।।
यस्येति।। यस्य सुषेणस्य वारिविहारकाले जलक्रीडासमयेऽवरोधानामन्तःपुराङ्गनानां स्तनेषु चन्दनानां मलयजानां प्रक्षालनाद्धेतोः कलिन्दो नाम शैलस्तत्कन्या यमुना। `कालिन्दी सूर्यतनया यमुना शमनस्वसा’इत्यमरः। मथुरा नामास्य राज्ञो नगरी। तां गतापि। गङ्गाया विप्रकृष्टापीत्यर्थः। मथुरायां गङ्गाभावं सूचयति`अपि’शब्दः। कालिन्दीतीरे मथुरा लवणासुरवधकाले शत्रुघ्नेन निर्मास्यतेति वक्ष्यति। तत्कथमधुना मथुरासंभव इति चिन्त्यम्। मथुरा मधुरापुरीति शब्दभेदः। यद्वा,-साम्येति गङ्गाया भागीरथ्या ऊर्मिभिः संसक्तजलेव भाति। धवलचन्दनसंसर्गात्प्रयागादन्यत्राप्यत्र गङ्गासंगतेव भातीत्यर्थः। `सितासिते हि गङ्गायमुने’ इति घण्टापथः ।। 6.48 ।।
त्रस्तेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः ।
वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभ ह्नेपयतीव कृष्णम् ।। 6.49 ।।
त्रस्तेनेति।। तार्क्ष्याद्गरुडात्त्रस्तेन। यमुनौकः स्थानं यस्य तेन। कालियेन नाम नागेन विसृष्टं किलाभयदाननिष्क्रयत्वेन दत्तम्। `किल’इत्यैतिह्ये। वक्षःस्थलव्यापिरुचं मणि दधानो यः सुषेणः सकौस्तुभं कृष्णं विष्णुं ह्रपयतीव व्रीडयतीव । `अर्तिह्री-‘(पा.7।3।36) इत्यादिना पुगागमः। कौस्तुभमणेरप्युत्कृष्टोऽस्य मणिरिति भावः ।। 6.49 ।।
संभाव्य र्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये ।
वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि! यौवनश्रीः ।। 6.50 ।।
संभाव्येति।। युवानममुं सुषेणं भर्तारं संभाव्य मत्वा। पतित्वेनाङ्गीकृत्येत्यर्थः। मृदुप्रवालोत्तरोपरिप्रस्तारितकोमलपल्लवा पुष्पशय्या यस्मिंस्तत्तस्मिश्चैत्ररथात्कुबेरोद्यानादनूने वृन्दावने वृन्दावननामक उद्याने हे सुन्दरि!यौवनश्रीर्यौवनफलं निर्विश्यतां भुज्यताम् ।। 6.50 ।।
अध्यास्य चाम्भःपृषतोक्षितानि शैलायगन्धीनि शिलातलानि ।
कलापिनां प्रवृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ।। 6.51 ।।
अध्यास्येति।। किंच,प्रावृषि वर्षासु कान्तासु गोवर्धनस्याद्रेः कन्दरासु दरीषु। `दरी तु कन्दरो वा स्त्री’ इत्यमरः। अम्भसः पृषतैर्बिन्दुभिरुक्षितानि सिक्तानि। शिलायां भवंशैलेयम्। `शिलाजतु च शैलेयम्’ इति यादवः। यद्वा,-शिलापुष्पाख्य ओषधिविशेषः। `कालानुसार्यवृद्धाश्यपुष्पशीतशिवानि तु। शैलेयम्’ इत्यमरः। `शिलाया ढः'(पा.5।3।102) इत्यत्र शिलाया इति योगविभागादिवार्थे ढप्रत्ययः। तद्गनधवन्ति शैलेयगन्धीनि शिलातलान्यध्यास्याधिष्ठाय कलापिनां बर्हिणां नृत्यं पश्य ।। 6.51 ।।
नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री ।
महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ।। 6.52 ।।
नृपमिति।। `स्यादावर्तोऽम्भसां भ्रमः’ इत्यमरः। आवर्तमनोज्ञा नाभिर्यस्याः सा। इदं च नदीसाम्यार्थमुक्तम्। अन्यवधूरन्यपत्नी भवित्री भाविनी सा कुमारी महीधरं तं नृपम्। सागरगामिनी सागरं गन्त्री स्रोतोवहा नदीमार्गवशादुपेतं प्राप्तं महीधरं पर्वतमिव। व्यत्यगादतीत्य गता ।। 6.52 ।।
अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् ।
आसेदुषीं सादितशत्रुपक्षं बालामवालेन्दुमुखीं बभाषे ।। 6.53 ।।
अथेति।। अथ भुजिष्या किंकरी सुनन्दा। `भुजिष्या किंकरी मता’ इति हलायुधः। अङ्गदाश्लिष्टभुजं केयूरनद्धबाहुं सादितशत्रुपक्षं विनाशितशत्रुवर्गं हेमाङ्गदं नाम कलिङ्गनाथमासेदुषीमासन्नामबालेन्दुमुखीं पूर्णेन्दुमुखीं बालामिन्दुमतीं बभाषे ।। 6.53 ।।
असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च ।
यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ।। 6.54 ।।
असाविति।। महेन्द्राद्रेः समानसारस्तुल्यसत्त्वोऽसौ हेमाङ्गदो महेन्द्रस्य नाम कुलपर्वतस्य महेन्द्राद्रेः समानसारस्तुल्यसत्त्वोऽसौ हेमाङ्गदो महेन्द्रस्य नाम कुलपर्वतस्य महोदधेश्च पतिः स्वामी। महेन्द्रमहोदधी एवास्य गिरिजलदुर्गे इति भावः। यस्य यात्रासु क्षरतां मदस्राविणां सैन्यगजानां छलेन महेन्द्रो महेन्द्राद्रिः पुरोऽग्रे यातीव। अद्रिकल्पा अस्य गजा इत्यर्थः।। 6.54 ।।
ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः ।
रिपुश्रियां साञ्जनबाष्पसेके बन्दीकृतानामिव पद्धती द्वे ।। 6.55 ।।
ज्याघातेति।। सुभुजश्चापभृतां पुरोगो धनुर्धराग्रेसरो यः। बन्दीकृतानां प्रगृहीतानाम्। `प्रग्रहोपग्रहौ बन्द्याम्’इत्यमरः। रिपुश्रिया साञ्जनो बाष्पसेको ययोस्ते। कज्जलमिश्राश्रसिक्ते इत्यर्थः। पद्धती इव। द्वे ज्याघातानां मौर्वीकिणानां रेखे राजी भुजाभ्यां बिभर्ति । द्विवचनात्सव्यसचित्वं गम्यते। रिपुश्रियां भुजाभ्यामेवाहरणात्तद्गतरेखयोस्तत्पद्धतित्वेनोत्प्रेक्षा। तयोः श्यामत्वात्साञ्जनाश्रुसेकोक्तिः ।। 6.55 ।।
यमात्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः ।
प्रासादवातायनदृश्यवीचिः प्रबोधयत्यर्णव एव सुप्तम् ।। 6.56 ।।
यमिति।। आत्मनः सद्मनि सुप्तं यं हेमाङ्गदं संनिकृष्टः समीपस्थोऽत एव प्रासादवातायनैर्द्दश्यवीचिर्मन्द्रेण गम्भीरेण। `मन्द्रस्तु गम्भीरे’इत्यमरः। ध्वनिना त्याजितं विवर्जितं यामस्य तूर्यं प्रहरावसानसूचकं वाद्यं येन स तथोक्तः। `द्वौ यामप्रहरौ समौ’ इत्यमरः। अर्णव एव प्रबोधयति। अर्णवस्यैव तूर्यकार्यकारित्वात्तद्वैयर्थ्यमित्यर्थथः। समुद्रस्यापि सेव्यः किमन्येषामिति भावः ।। 6.56 ।।
अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ।। 6.57 ।।
अनेनेति।। अनेन राज्ञा सार्धं तालीवनैर्मर्मरेषु मर्मरेति ध्वनत्सु। `अथ मर्मरः। स्वनिते वस्त्रपर्णानाम्’इत्यमरवचनाद्गुणपरस्यापि `मर्मर’ शब्दस्य गुणिपरत्वं प्रयोगादवसेयम्। अम्बुराशेः समुद्रस्य तीरेषु द्वीपान्तरेभ्य आनीतानि लवङ्गपुष्पाणि देवकुसुमानि यैस्तैः। `लवङ्गं देवकुसुमम्’इत्यमरः। मरुद्भिर्वातैरपाकृताः प्रशमिताः स्वेदस्य लवा बिन्दवो यस्याः सा तथाभूता सती त्वं विहर क्रीड ।। 6.57 ।।
प्रलोभिताप्याकृतिलोभनीया विदर्भराजावरजा तयैवम् ।
तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ।। 6.58 ।।
प्रलोभितेति।। आकृत्या रूपेण लोभनीयाऽऽकर्षणीया। न तु वर्णनमात्रेणेत्यर्थः। विदर्भराजावरजा भोजानुजेन्दुमती तया सुनन्दयैवं प्रलोभितापि प्रचोदितापि। नीत्या पुरुषकारेण द्वरकृष्टा दूरमानीता लक्ष्मीः प्रतिकूलं दैवं यस्य तस्मात्पुंस इव। तस्माद्धेमाङ्गदादपावर्तत प्रतिनिवृत्ता ।। 6.58 ।।
अथोरगाख्यस्य पुरस्य नाथं दौवारिकी देवसरूपमेत्य ।
इतश्चकोराक्षि! विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् ।। 6.59 ।।
अथेति।। अथ द्वारे नियुक्ता दौवारिकी सुनन्दा। `तत्र नियुक्तः'(पा.4।4।69) इति ठक्प्रत्ययः। `द्वारादीनां च'(पा.7।3।4)इत्यौ-आगमः। आकारेण देवसरूपं देवतुल्यम्। उरगाख्यस्य पुरस्य पाण्ड्यदेशे कान्यकुब्जतीरवर्तिनागपुरस्य नाथमेत्य प्राप्य। हे चकोराक्षि! इतो विलोकयेति पूर्वानुशिष्टां पूर्वमुक्तां भोजस्य राज्ञो गोत्रापत्यं स्त्रियं भोज्यामिन्दुमतीम्। `क्रौड्यादिभ्यश्च'(पा.4।1।80)इत्यत्र `भोजाक्षत्रियात्’इत्युपसंख्यानात्ष्यङ्प्रत्ययः। `यङश्चाप्'(पा.4।1।74) इति चाप्। निजगाद। `इतो विलोक्य’ इति पूर्वमुक्त्वा पश्चाद्वक्तव्यं निजगादेत्यर्थः ।। 6.59 ।।
पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन ।
आभाति बाला4तपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ।। 6.60 ।।
पाण्ड्य इति।। अंसयोरर्पिता लम्बन्त इति लम्बा हारा यस्य सः। हरिचन्दनेन गोशीर्षाख्येन चन्दनेन। `तैलपर्णकगोशीर्षे हरिचन्दनमस्त्रियाम्’ इत्यमरः। क्लृप्ताङ्गरागः सिद्धानुलेपनोऽयं पाण्डूनां जनपदानां राजा पाण्ड्यः। `पाण्डोर्जनपदशब्दात्क्षत्रियाड्ड्यण्वक्तव्यः'(वा.2671) इति ड्यण्प्रत्ययः। `तस्य राजन्यपत्यवत्’ इति वचनात्। बालातपेन रक्ता अरुणाः सानवो यस्य स सनिर्झरोद्गारः प्रवाहस्यन्दनसहितः। `वारिप्रवाहो निर्झरो झरः’ इत्यमरः। अद्रिराज इवाभाति ।। 6.60 ।।
विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः ।
प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः ।। 6.61 ।।
विन्ध्यस्येति।। विन्ध्यस्य नाम्नो महाद्रेः। तपनमार्गनिरोधाय वर्धमानस्येति शेषः। संस्तम्भयिता निवारयिता। निःशेषं पीत उज्झितः पुनस्त्यक्तः सिन्धुराजः समुद्रो येन सोऽगस्त्योश्वमेधस्यावभृथे दीक्षान्ते कर्मणि। `दीक्षान्तोऽवभृथो यज्ञे’ इत्यमरः। आर्द्रमूर्तेः। स्नातस्येत्यर्थथः। यस्य पाण्ड्यस्य प्रीत्या स्नेहेन। न तु दाक्षिण्येन। सुस्नातं पृच्छतीति सौस्नातिकः। भवति। `पृच्छतौ सुस्रातादिभ्यः'(वा.2953) इत्युपसंख्यानाट्टक् ।। 6.61 ।।
अस्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः ।
पुरा जनस्थानविमर्दशङ्की संधाय लङ्काधिपतिः प्रतस्थे ।। 6.62 ।।
अस्त्रमिति।। पुरा पूर्वं जनस्थानस्य खरालयस्य विमर्दशङ्की दृप्त उद्धतो लङ्काधिपती रावणो दुरापं दुर्लभमस्त्रं ब्रह्मशिरोनामकं हरादाप्तवता येन पाण्ड्येन संधाय इन्द्रलोकावजयायेन्द्रलोकं जेतुं प्रतस्थे। इन्द्रविजयिनो रावणस्यापि विजेतेत्यर्थः।। 6.62 ।।
अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी ।
रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ।। 6.63 ।।
अनेनेति।। महाकुलीनेन महाकुले जातेन। `महाकुलादञ्खञौ'(पा.4।1।141) इति खञ्प्रत्ययः। अनेन पाण्ड्येन पाणौ त्वदीये विधिवद्यथाशास्त्रं गृहीते सति गुर्वी गुरुः। `वोतो गुणवचनात्'(पा.4।1।44)इति ङीष्। महीव रत्नैरनुविद्धो व्याप्तोऽर्णव एव मेखला यस्यास्तस्याः। इदं विशेषणं मह्यामिन्दुमत्यां च योज्यम्। दक्षिणस्या दिशः सपत्नी भव। अनेन सपत्न्यन्तराभावो ध्वन्यते ।। 6.63 ।।
ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु ।
तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ।। 6.64 ।।
ताम्बूलेति।। ताम्बूलवल्लीभिर्नागवल्लीभिः परिणद्धाः परिरब्धाः पूगाः क्रमुका यासु तासु। `ताम्बूलवल्ली ताम्बूली नागवल्ल्यपि’इति,`घोण्टा तु पूगः क्रमुकः’ इति चामरः। एलालताभिरालिङ्गिताश्चन्दना मलयजा यासु तासु। `गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्’ इत्यमरः। तमालस्य तापिच्छस्य पत्राण्येवास्तरणानि यासु तासु। `कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि’ इत्यमरः। मलयस्थलीषु शश्वन्मुहुः सदा वा रन्तुं प्रसीदानुकूला भव ।। 6.64 ।।
इन्दीवरशअयामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः ।
अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ।। 6.65 ।।
इन्दीवरेति।। असौ नृप इन्दीवरश्यामतनुः,त्वं रोजना गोरोचनेव गौरी शरीरयष्टिर्यस्याः सा। ततस्तडित्तोयदयोर्विद्युन्मेघयोरिव वां युवयोर्योगः समागमोऽन्योन्यशोभायाः परिवृद्धयेऽस्तु ।। 6.65 ।।
स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः ।
दिवाकरादर्शनबद्धकोशे नक्षत्रनाथांशुरिवारविन्दे ।। 6.66 ।।
स्वसुरिति।। विदर्भाधिपतेर्भोजस्य स्वसुरिन्दुमत्याश्चेतसि तदीयः सुनन्दासंबन्ध्युपदेशो वाक्यम्। दिवाकरस्यादर्शनेन बद्धकोशे मुकुलितेऽरविन्दे नक्षत्रनाथांशुश्चन्द्रकिरण इव। अन्तरमवकाशं न लेभे ।। 6.66 ।।
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।। 6.67 ।।
संचारिणीति।। पतिंवरा सेन्दुमती रात्रौ संचारिणी दीपशिखेव यं यं भूमिपालं व्यतीयायातीत्य गता स स भूमिपालः। स सर्व इत्यर्थः। `नित्यवीप्सयोः'(पा.8।1।4) इति वीप्सायां द्विर्वचनम्। नरेन्द्रमार्गे राजपथेऽट्टाख्यो गृहभेद इव। `स्यादट्टः क्षौममस्त्रियाम्’ इत्यमरः। विवर्णभावं विच्छायत्वम्। अट्टस्तु तमोवृतत्वम्। प्रपेदे ।। 6.67 ।।
तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूत् ।
वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छ्वसितैर्नुनोद ।। 6.68 ।।
तस्यामिति।। तस्यामिन्दुमत्यामुपस्थितायामासन्नायां सत्यां रघोः सूनुरजो मां वृणीत न वेति समाकुलः संशयितोऽभूत्। अथास्याजस्य वामेतरो वामादितरो दक्षिणो बाहुः। केयूरं बध्यतेऽत्रेति केयूरबन्धोऽङ्गदस्थानम्। तस्योच्छ्वसितैः स्फुरणैः संशयं नुनोद ।। 6.68 ।।
तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी ।
न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्भपदाली ।। 6.69 ।।
तमिति।। कुमारी। सर्वेष्ववयवेष्वनवद्यमदोषं तमजं प्राप्य। अन्योपगमाद्राजान्तरोपगमाद्व्यावर्तत निवृत्ता। तथा हि-षट्पदानी भृङ्गावलिः। प्रफुल्लतीति प्रफुल्लं विकसितम्। पुष्पितमित्यर्थः। प्रपूर्वात्फुल्लतेः पचाद्यच्। फलतेस्तु प्रफुल्लमिति पठितव्यम्। `अनुपसर्गात्-‘(पा.8।2।55) इति निषेधात्। इत्युभयश्चापि न कदाचिदनुपपत्तिरित्युक्तं प्राक्। सहकारं चूतविशेषमेत्य। `आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः’ इत्यमरः। वृक्षान्तरं न काङ्क्षति। न हि सर्वोत्कृष्टवस्तुलाभेऽपि वस्त्वन्तरस्याभिलाषः स्यादित्यर्थः।। 6.69 ।।
तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य ।
प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा ।। 6.70 ।।
तस्मिन्निति।। तस्मिन्नजे समावेशिता संक्रामिता चित्तवृत्तिर्यया ताम्। इन्दोः प्रभेव प्रभा यस्यास्ताम्। आह्लादकत्वादिन्दुसाम्यम्। इन्दुमतीमवेक्ष्यानुक्रमज्ञा वाक्यपौर्वापर्याभिज्ञा सुनन्देदं वक्ष्यमाणं सविस्तरं सप्रपञ्चम्। `प्रथने वाचशब्दे'(पा.3।3।33) इति घञो निषेधात्’ ,`ॠदोरप्'(पा.3।3।57)इत्यप्प्रत्ययः। `विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः’ इत्यमरः। वाक्यं वक्तुं प्रचक्रमे ।। 6.70 ।।
इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् ।
काकुत्स्थशब्दं य उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः ।। 6.71 ।।
इक्ष्वाक्किति।। इक्ष्वाकोर्मनुपुत्रस्य वंश्यो वंशे भवः। नृपाणां ककुदं श्रेष्ठः। `ककुञ्च ककुदं श्रेष्ठे वृषांसे राजलक्ष्मणि’ इति विश्वः। आहितलक्षणः प्रख्यातगुणः। `गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ’ इत्यमरः। ककुदि वृषांसे तिष्ठतीति ककुत्स्थ इति प्रसिद्धः कश्चिद्राजाभूत्। यतः ककुत्स्थादारभ्योन्नतेच्छा महाशयाः। `महेच्छस्तु महाशयः’ इत्यमरः। उत्तरकोसलेन्द्रा राजानो दिलीपादयः श्लाध्यं प्रशस्तम्। ककुत्स्थस्यापत्यं पुमान् काकुत्स्थ इति शब्दं संज्ञां दधति बिभ्रति। तन्नामसंस्पर्शोऽपि वंशस्य कीर्तिकर इति भावः। पुरा किल पुरंजयो नाम साक्षाद्भगवतो विष्णोरंशावतारः कश्चिदैक्ष्वाको राजा देवैः सह समयबन्धेन देवासुरयुद्धे महोक्षरूपधारिणो महेन्द्रस्य ककुदि स्थित्वा पिनाकिलीलया निखिलमसुरकुलं निहत्य ककुत्स्थसंज्ञां लेभ इति पौराणिकी कथाऽत्रानुसंधेया। वक्ष्यते चायमेवार्थ उत्तरश्लोके ।। 6.71 ।।
महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः ।
चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ।। 6.72 ।।
महेन्द्रमिति।। यः ककुत्स्थः संयति युद्धे। महानुक्षा महोक्षः। `अचतुर-‘(पा.5।4।77) इत्यादिना निपातः। तस्य रूपमिव रूपं यस्य तं महेन्द्रमास्थायारुह्य। अत एव प्राप्ता पिनाकिन ईश्वरस्य लीला येन स तथोक्तः सन् बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखा निवृत्तपत्ररचनाश्चकार। तद्भर्तॄनसुरानवधीदित्यर्थः। न हि विधवाः प्रसाध्यन्त इति भावः।। 6.72 ।।
ऐरावतास्फालनविश्लथं यः संघट्टयन्नङ्गदमङ्गदेन ।
उपेयुषः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदोऽधितष्ठौ ।। 6.73 ।।
ऐरावतेति।। यः ककुत्स्थ ऐरावतस्य स्वर्गजस्यास्फालनेन ताडनेन विश्लथं शिथिलमङ्गदमैन्द्रमङ्गदेन स्वकीयेन संघट्टयन् संघर्षयन् स्वामग्र्यां श्रेष्ठां मूर्तिमुपेयुषोऽपि प्राप्तस्यापि गोत्रभिद इन्द्रस्यार्धमासनस्यार्धासनम्। `अर्धं नपुंसकम्’ (पा.2।2।2) इति समासः। अधितष्ठावधिष्ठितवान्। `स्थादिष्वभ्यासेन चाभ्यासस्य'(पा.8।3।64) इत्यभ्यासेन व्यवायेऽपि षत्वम्। न केवलं महोक्षरूपधारिण एव तस्य ककुदमारुरुक्षत्। किंतु निजरूपधारिणोऽपीन्द्रस्यार्धासनमित्यपिशब्दार्थः। अथवा,-अर्धासनमपीत्यपेरन्वयः ।। 6.73 ।।
जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः ।
अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ।। 6.74 ।।
जात इति।। उरुकीर्तिर्महायशाः कुलप्रदीपो वंशप्रदीपको दिलीपो नृपतिस्तस्य ककुत्स्थस्य कुले जातः किल। यो दिलीपः शक्राभ्यसूयाविनिवृत्तये। न त्वशक्त्येति भावः। एकेनोनाः शतं क्रतवो यस्य स एकोनशतक्रतुस्तस्य भावे तत्त्वेऽतिष्ठत्। इन्द्रप्रीतये शततमं क्रतुमवशेषितवानित्यर्थः। 6.74 ।।
यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम् ।
वातोऽपि नास्रंसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ।। 6.75 ।।
यस्मिन्निति।। यस्मिन् दिलीपे महीं शासति सति। विहरत्यत्रेति विहारः क्रीडास्थानम्। तस्यार्धपथे निद्रां गतानां वाणिनीनां मत्ताङ्गनानाम्। `वाणिनी नर्तकीमत्ताविदग्धवनितासु च’ इति विश्वः। `वाणिन्यौ नर्तकीमत्तेै’इत्यमरश्च। अंशुकानि वस्त्राणि वातोऽपि नास्रंसयन्नाकम्पयत्। आहरणायापहर्तुं को हस्तं लम्बयेत्? तस्याज्ञासिद्धत्वादकुतोभयसंचाराः प्रजा इत्यर्थः। अर्धश्चासौ पन्थाश्चेति विग्रहः। समप्रविभागे प्रमाणाभावान्नैकदेशिसमासः ।। 6.75 ।।
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता ।
चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ।। 6.76 ।।
पुत्र इति।। विश्वजितो नाम महाक्रतोः प्रयोक्ताऽनुष्ठाता तस्य दिलीपस्य पुत्रो रघुः पदं पैत्र्यमेव। प्रशास्ति पालयति। यो रघुश्चतसृभ्यो दिग्भ्य आवर्जिताहृता संभृता सम्यग्वर्धिता च या तां चतुर्दिगावर्जितसंभृतां विभूर्ति संपदं मृत्यात्रमेव शेषो यस्यास्तामकरोत्। विश्वजिद्यागस्य सर्वस्वदक्षिणाकत्वादित्यर्थः ।। 6.76 ।।
आरूढमद्रीनुदधीन्वितीर्णं भुजंगमानां वसतिं प्रविष्टम् ।
ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयालम् ।। 6.77 ।।
आरूढमिति।। किंच,अद्रीनारूढम्। उदधीन्वितीर्णमवगाढम्। सकलभूगोलव्यापकमित्यर्थः। भुजंगमानां वसतिं पातालं प्रविष्टम्। ऊर्ध्वं स्वर्गादिकं गतं व्याप्तम्। इत्थं सर्वदिग्व्यापीत्यर्थः। अनुबध्नातीत्यनुबन्धि चाविच्छेदि। कालत्रयव्यापकं चेत्यर्थः। अत एवैवंभूतं यस्य यश इयत्तया देशतः कालतो वा केनचिन्मानेन परिच्छेत्तुं परिमातुं नालं न शक्यम् ।। 6.77 ।।
असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः ।
गुर्वी धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति ।। 6.78 ।।
असाविति।। असावजाख्यः कुमारः। त्रिविष्टपस्य स्वर्गस्य पतिमिन्द्रं जयन्त इव। `जयन्तः पाकशासनिः’ इत्यमरः। तं रघुमनुजातः। तस्माज्जात इत्यर्थः। तज्जातोऽपि तदनुजातो भवति; जन्यजनकयोरानन्तर्यात्। `गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च'(पा.3।4।72) इति क्तः। सोपसृष्टत्वात्सकर्मकत्वम्। आह चात्रैव सूत्रे वृत्तिकारः-`श्लिषादयः सोपसृष्टाः सकर्मका भवन्ति’ इति। दम्यः शिक्षणीयावस्थः। योऽजो गुर्वीं भुवनस्य धुरं धुर्येण धुरंधरेण चिरनिरूढेन पित्रा सदृशं तुल्यं यथा तथा बिभर्ति। यथा कश्चिद्वत्सतरोऽपि धुर्येण महोक्षेण समं वहतीत्युपमालंकारो ध्वन्यते। `दम्यवत्सतरौ समौ’ इत्यमरः ।। 6.78 ।।
कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः ।
त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ।। 6.79 ।।
कुलेनेति।। कुलेन कान्त्या लावण्येन नवेन वयसा यौवनेन विनयः प्रधानं येषां तैस्तैर्गुणैः श्रुतशीलादिभिश्चात्मनस्तुल्यं स्वानुरूपममुमजं त्वं वृणीष्व। किं बहुना,रत्नं काञ्चनेन समागच्छतु संगच्छताम्। प्रार्थनायां लोट्। रत्नकाञ्चनयोरिवात्यन्तानुरूपत्वाद्युवयोः समागमः प्रार्थ्यत इत्यर्थः ।। 6.79 ।।
ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या ।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ।। 6.80 ।।
तत इति।। ततः सुनन्दावचनस्यावसानेऽन्ते नरेन्द्रकन्येन्दुमती लज्जां तनूकृत्य संकोच्य प्रसादेन मनःप्रसादेनामलया प्रसन्नया दृष्ट्या संवरणस्य स्रजा स्वयंवरणार्थं स्रजेव कुमारमजं प्रत्यग्रहीत् स्वीचकार। सम्यक्सानुरागमपश्यदित्यर्थः ।। 6.80 ।।
सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् ।
रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः ।। 6.81 ।।
सेति।। सा कुमारी यूनि तस्मिन्नजेऽभिलाषबन्धमनुरागग्रन्थिं शालीनतयाऽधृष्टतया। `स्यादधृष्टे तु शालीनः’इत्यमरः। `शालीनकौपीने अधृष्टाकार्ययोः'(पा.5।2।20) इति निपातः। वक्तुं न शशाक। तथाप्यरालकेश्याः सोऽभिलाषबन्धो रोमाञ्चलक्ष्येण पुलकव्याजेन। `व्याजोऽपदेशो लक्ष्यं च’ इत्यमरः। गात्रयष्टिं भित्त्वा निराक्रामत्। सात्त्विकाविर्भावलिङ्गेन प्रकाशित इत्यर्थः ।। 6.81 ।।
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे ।
आर्ये! व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ।। 6.82 ।।
तथेति।। सख्यामिन्दुमत्यां तथागतायां तथाभूतायाम्। दृष्टानुरागायां सत्यामित्यर्थः। सखी सहचरी। `सख्यशिश्वीति भाषायाम्'(पा.4।1।62) इति निपातनान्ङीष्। वेत्रभृत् सुनन्दा। हे आर्ये पूज्ये! अन्यतोऽन्यं प्रति व्रजाम इति परिहासपूर्वमाबभाषे। अथ वधूरिन्दुमत्येनां सुनन्दामसूयया रोषेण कुटिलं ददर्श। अन्यागमनस्यासह्यत्वादित्यर्थः ।। 6.82 ।।
सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः ।
आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ।। 6.83 ।।
सेति।। करभः करप्रदेशविशेषः। `मणिबन्धादाकनिष्ठं करस्य करभो बहिः’इत्यमरः। करभ उपमा ययोस्तावूरू यस्याः सा करभोपमोरुः। `ऊरूत्तरपदादौपम्ये'(पा.4।1।69)इत्यूङ्प्रत्ययः। सा कुमारी चूर्णेन मङ्गलचूर्णेन गौरं लोहितं गुणं स्रजम्। मूर्तं मूर्तिमन्तमनुरागमिव। धात्र्या उपमातुः सुनन्दायाः कराभ्यां रघुनन्दनस्याजस्य कण्ठे यथाप्रदेशं यथास्थानमासञ्जयामासासक्तं कारयामास। न तु स्वयमाससञ्ज,अनौचित्यात् ।। 6.83 ।।
तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः ।
अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ।। 6.84 ।।
तयेति।। वरेण्यो वरणीय उत्कृष्टः। वृञ एण्यः। सोऽजो मङ्गलपुष्पमय्या मधुकादिकुसुममय्या विशालवक्षःस्थले लम्बया लम्बमानया तया प्रकृतया स्रजा विदर्भराजावरजामिन्दुमतीं कण्ठार्तितौ बाहू एव पाशौ यया ताममंस्त। मन्यतेर्लुङ्। बाहुपाशकल्पसुखमन्वभूदित्यर्थः ।। 6.84 ।।
शशिनमुपगतेयं कौमुदी मेघमुक्तं
जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौराः
श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ।। 6.85 ।।
शशिनमिति।। तत्र स्वयंवरे समगुणयोस्तुल्यगुणयोरिन्दुमती-रघुनन्दनयोर्योगेन प्रीतिर्येषां ते समगुणयोगप्रीतयः पौराः पुरे भवा जनाः इयमजसंगतेन्दुमती मेघैर्मुक्तं शशिनं शरञ्चन्द्रमुपगता कौमुदी। अनुरूपं सदृशं जलनिधिमवतीर्णा प्रविष्टा जह्नुकन्या भागीरथी। तत्सदृशीत्यर्थः। इत्येवं नृपाणां श्रवणयोः कटु परुषमेकमविसंवादि वाक्यमेकवाक्यं विवव्रुः। मालिनीवृत्तम् ।। 6.85 ।।
प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् ।
उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रमासीत् ।। 6.86 ।।
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ स्वयंवरवर्णनो नाम षष्ठः सर्गः ।
प्रमुदितेति।। एकत एकत्र प्रमुदितो हृष्टो वरस्य जामातुः पक्षो वर्गो यस्य तत्तथोक्तम्। अन्यतोऽन्यत्र वितानं शून्यम्। भग्नाशत्वादप्रहृष्टमित्यर्थः। तत्क्षितिपतिमण्डलम्। उषसि प्रफुल्लपद्मं कुमुदवनेन प्रतिपन्ननिर्द्रप्राप्तनिमीलनं सर इव सरस्तुल्यम्। आसीत्। पुष्पिताप्रावृत्तमेतत् ।। 6.86 ।।
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां संजीवननीसमाख्यायां रघुवंशटीकायां षष्ठः सर्गः ।
सप्तमः सर्गः ।
भजेमहि निपीयैकं मुहुरन्यं पयोधरम् ।
मार्गन्तं बालमालोक्याश्वासयन्तौ हि दंपती ।।
अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम् ।
स्वसोरमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ।। 7.1 ।।
अथेति।। अथ विदर्भनाथो भोजः सदृशेनोपयन्त्रा वरेण युक्ताम्। अत एव साक्षात् प्रत्यक्षम्। `साक्षात्प्रत्यक्षतुल्ययोः’ इत्यमरः। स्कन्देन युक्तां देवसेनामिव। देवसेना नाम देवपुत्री स्कन्दपत्नी तामिव स्थितां स्वसारं भगिनीमुन्दुमतीमादाय गृहीत्वा पुरप्रवेशाभिमुखो बभूव। उपजातिवृत्तं सर्गेऽस्मिन् ।। 7.1 ।।
सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः ।
भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेशेषु च साभ्यसूया ।। 7.2 ।।
सेनेति।। भोजस्य राज्ञो गोत्रापत्यं स्त्री भोज्या तामिन्दुमतीं प्रति व्यर्थमनोरथत्वाद्रूपेष्वाकृतिषु वेशेषु नेपथ्येषु च साभ्यसूया वृथेति निन्दन्तः। किंच विभाते प्रातःकाले ये ग्रहाश्चन्द्रादयस्त इव मन्दभासः क्षीणकान्तयः पृथिवीक्षितो नृपा अपि सेनानिविशान् शिबिराणि जग्मुः ।। 7.2 ।।
ननु क्रुद्धाश्चेद्युध्यन्तां तत्राह-
सां निध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः ।
काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः ।। 7.3 ।।
सांनिध्येति।। तत्र स्वयंवरक्षेत्रे शच्या इन्द्राण्या। संनिधइरेव सांनिध्यम्। तस्य योगात्सद्भावाद्धेतोः स्वयंवरस्य क्षोभकृतां विघ्नकारिणामभावः किस। `किल’इति स्वयंवरविघातकाः शच्या विनाश्यन्त इत्यागमसूचनार्थम्। तेन हेतुना काकुत्स्थमजमुद्दिश्य समत्सरोऽपि सवैरोऽपि क्षितिपाललोकः शशाम नाक्षुभ्यत् ।। 7.3 ।।
तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् ।
वरः सवध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ।। 7.4 ।।
तावदिति।। `यावत्तावञ्च साकल्ये’ इत्यमरः। तावत्प्रकीर्णा साकल्येन प्रसारिता अभिनवा नूतना उपचाराः पुष्पप्रकरादयो यस्य तं तथोक्तम्। इन्द्रायुधानीव द्योतितानि प्रकाशितानि तोरणान्यङ्काश्चिह्नानि यस्य तम्। ध्वजानां छाया ध्वजच्छायम्,`छाया बाहुल्ये'(पा.2।4।22) इति नपुंसकत्वम्। तेन निवारित उष्ण आतपो यत्र तं तथा राजमार्गं स वरो वोढावध्वा सह प्राप विवेश ।। 7.4 ।।
ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु ।
बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचिष्टितानि ।। 7.5 ।।
तत इति।। ततस्तदनन्तरं चामीकरजालवत्सु सौवर्णगवाक्षयुक्तेषु सौधेषु तस्याजस्यालोकने तत्पराणामासक्तानां पुरसुन्दरीणामित्थं वक्ष्यमाणप्रकाराणि त्यक्तान्यन्यकार्याणि केशबन्धनादीनि येषु तानि विचेष्टितानि व्यापाराः। नपुंसके भावे क्तः। बभूवुः ।। 7.5 ।।
तान्येवाह पञ्चभिः श्लोकैः-
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ।। 7.6 ।।
आलोकेति।। सहसाऽऽलोकमार्गं गवाक्षपथं व्रजन्त्या कयाचित्कामिन्योद्वेष्टनवान्तमाल्यः। उद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनः। अत एव वांन्तमाल्यो बन्धविश्लेषेणोद्गीर्णमाल्यः। करेण रुद्धो गृहीतोऽपि च केशपाशः केशकलापः। `पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे’ इत्यमरः। तावदालोकमार्गप्राप्तिपर्यन्तं बद्धुं बन्धनार्थं न संभावितो न चिन्तित एव ।। 7.6 ।।
प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्‌द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ।। 7.7 ।।
प्रसाधिकेति।। काचित्। प्रसाधिकयाऽलंकर्त्र्या लम्बितं रञ्जनार्थं धृतं द्रवरागमेवार्द्रालक्तकमेव। अग्रश्चासौ पादश्चेत्यग्रपाद इति कर्मधारयसमासः। ` `हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदाभ्याम्'(का.सू.) इति वामनः। तमाक्षिप्याकृष्य। उत्सृष्टलीलागतिस्त्यक्तमन्दगमना सती। आ गवाक्षाद्गवाक्षपर्यन्तं पदवीं पन्थानमलक्तकाङ्कां लाक्षारागचिह्नां ततान विस्तारयामास ।। 7.7 ।।
विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा ।
तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ।। 7.8 ।।
विलोचनमिति।। अपरा स्त्री दक्षिणं विलोचनमञ्जनेन संभाव्यालंकृत्य। संभ्रमादिति भावः। दद्वञ्चितं तेनाञ्जनेन वर्जितं वामनेत्रं यस्याः सा सती तथैव शलाकामञ्जनतूलिकां वहन्ती सती वातायनसंनिकर्षं गवाक्षसमीपं ययौ। `दक्षिण’ग्रहणं संभ्रमाद्व्युत्क्रमकरणद्योतनार्थम्। `सव्यं हि पूर्वं मनुष्या अञ्जते’ इति श्रुतेः ।। 7.8 ।।
जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ।। 7.9 ।।
जालेति।। अन्या स्त्री जालान्तरप्रेषितदृष्टिर्गवाक्षमध्यप्रेरितदृष्टिः सती प्रस्थानेन गमनेन भिन्नां त्रुटितां नीवीं वसनग्रन्थिम्। `नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि’ इति विश्वः। न बबन्ध। किंतु नाभिप्रविष्टाभरणानां कङ्कणादीनां प्रभा यस्य तेन। प्रभैव नाभेराभरणमभूदिति भावः। हस्तेन वासोऽवलम्ब्य गृहीत्वा तस्थौ ।। 7.9 ।।
अर्धाञ्चिता सत्वरमुत्थितायाः पदे दुर्निमिते गलन्ती ।
कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ।। 7.10 ।।
अर्धेति।। सत्वरमुत्थितायाः कस्याश्चिदर्धाञ्चिता मणिभिरर्धगुम्फिता दुर्निमित्ते संभ्रमाद्दुरुत्क्षिप्ते। `डुमिञ्प्रक्षेपणे’ इति धातोः कर्मणि क्तः। पदे पदे प्रतिपदम्। वीप्सायां द्विर्भावः। गलन्ती गलद्रत्ना सती रशना मेखला तदानीं गमनसमयेऽङ्गुष्ठमूलेऽर्पितं सूत्रमेव शेषो यस्याः सा। आसीत् ।। 7.10 ।।
तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ।। 7.11 ।।
तासामिति।। तदानीं सान्द्रकुतूहलानां तासां स्त्रीणामासवगन्धो गर्भे येषां तैः। विलोलानि नेत्राण्येव भ्रमरा येषां तैः। मुखैर्व्याप्तान्तराश्छन्नावकाशा गवाक्षाः सहस्रपत्राभरणा इव कमलालंकृता इव। `सहस्रपत्रं कललम्’इत्यमरः। आसन् ।। 7.11 ।।
ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ।। 7.12 ।।
ता इति।। ता नार्यो रघारपत्यं राघवमजम्। `तस्यापत्यम्’ (पा.4।1।92)इत्यण्प्रत्ययः। दृष्टिभिरापिबन्त्योऽतितृष्णया पश्यन्त्यो विषयान्तराण्यन्यान्विषयान्न जग्मुः। न विविदुरित्यर्थः। तथा हि-आसां नारीणां शेषेन्दियवृत्तिश्चक्षुर्व्यतिरिक्तश्रोत्रादीन्द्रियव्यापारः सर्वात्मना स्वरूपकार्त्स्न्येन चक्षुः प्रविष्टेव। श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणाशक्तेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु। अन्यथा स्वस्वविषयाधिगमः किं न स्यादिति भावः ।। 7.12 ।।
`शृण्वन्कथाः श्रोत्रसुखाः कुमारः'(7।16) इति वक्ष्यति। ताः कथयति `स्थाने’ इत्यादिभिस्त्रिभिः-
स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुममंस्त भोज्या ।
पद्मेव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम्? ।। 7.13 ।।
स्थआन इति।। भोज्येन्दुमती परोक्षैरदृष्टैर्भूपतिभिर्वृता `ममैवेयम्’ इति प्रार्थितापि यं वरमेव साधुं हितममंस्त मेने। न तु परोक्षमेव कंचित्प्रार्थकं वव्रे। स्थाने युक्तमेतत्। `युक्ते द्वे सांप्रतं स्थाने’इत्यमरः। कुतः? अन्यथा स्वयंवराभवे। असाविन्दुमती। पद्ममस्या अस्तीति पद्मा लक्ष्मीः। `अर्शआदिभ्योऽच्'(पा.5।1।127)इत्यच्प्रत्ययः। नारायणमिव। आत्मतुल्यं स्वानुरूपं कान्तं पतिं कथं लभेत? न लभेतैव। सदसद्विवेकासौकर्यादिति भावः ।। 7.13 ।।
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ।। 7.14 ।।
परस्परेणेति।। स्पृहणीयशोभं सर्वाशास्यसौन्दर्यमिदं द्वन्द्वं मिथुनम्। `द्वन्द्वं रहस्य-‘(पा.8।1।15) इत्यादिना निपातः। परस्परेण नायोजयिष्यञ्चेत् न योजयेद्यदि तर्हि प्रजानां पत्युर्विधातुरस्मिन्द्वये द्वन्द्वे रूपविधानयत्नः सौन्दर्यनिर्माणप्रयासो वितथो विफलोऽभविष्यत्। एतादृशानुरूपस्त्रीपुंसान्तराभावादिति भावः। `लिङ्निमित्ते लृङ्क्रियातिपत्तौ'(पा.3।3।139) इति लृङ्। `कुतश्चित्कारणवैगुण्याक्रियाया अनभिनिष्पत्तिः क्रियातिपत्तिः’ इति वृत्तिकारः ।। 7.14 ।।
रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथा हि बाला ।
गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ।। 7.15 ।।
रतीति।। रतिस्मरौ यौ नित्यसहचरावित्यभिप्रायः। नूनं तावेवेयं चायं चेमौ दंपती। अभूताम्। एतद्रूपेणोत्पन्नौ। कुतः? तथा हि-इयं बाला राज्ञां सहस्रेषु राजसहस्रमध्ये। सत्यपि व्यत्यासकरण इति भावः। आत्मप्रतिरूपं स्वतुल्यमेव। `तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः’ इति दण्डी। गता प्राप्ता। तदपि कथं जातमत आह-हि यस्मान्मनो जन्मान्तरसंगतिज्ञं भवति। `तदेवेदम्’ इति प्रत्यभिज्ञाभावेऽपि वासनाविशेषशादनुभूतार्थेषु मनः प्रवृत्तिरस्तीत्युक्तम्। जन्मान्तरसाहचर्यमेवात्र प्रवर्तकमिति भावः ।। 7.15 ।।
इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोत्रसुखाः कुमारः ।
उद्भासितं मह्गलसंविधाभिः संबन्धिनः सद्म समाससाद ।। 7.16 ।।
इतीति।। इति `स्थाने वृता'(7।13) इत्याद्युक्तप्रकारेण पौरवधूमुखेभ्य उद्गता उत्पन्नाः श्रोक्षयोः सुखा मधुराः। `सुख’ शब्दो विशेष्यनिघ्नः। `पापपुण्यसुखादि च’ इत्यमरः। कथा गिरः शृण्वन् कुमारोऽजो मङ्गलसंविधाभिर्मङ्गलरचनाभिरुद्भासितं शोभितं-संबन्धिनः कन्यादायिनः सद्म गृहं समाससाद प्राप ।। 7.16 ।।
ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः ।
वैदर्भनिर्दिष्टमथो विवेश नारीमनांसीव चतुष्कमन्तः ।। 7.17 ।।
तत इति।। ततोऽनन्तरं करेणुकाया हस्तिन्याः सकाशादाशु शीघ्रमवतीर्य। कामरूपेश्वरे दत्तो हस्तो येन सोऽजः। अथो अनन्तरं वैदर्भेण निर्दिष्टं प्रदर्शितमन्तश्चतुष्कं चत्वरम्। नारीणां मनांसीव विवेश ।। 7.17 ।।
महार्हसिंहासनसंस्थितोऽसौ सरत्नमर्ध्यं मधुपर्कमिश्रम् ।
भोजोपनीतं च तुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ।। 7.18 ।।
महार्हेति।। महार्हसिंहासने संस्थितोऽसावजः। भोजेनोपनीतम्। रत्नैः सहितं सरत्नम्। मधुपर्कमिश्रमर्ध्यं पूजासाधनद्रव्यं दुकूलयोः क्षौमयोर्युग्मं च वनिताकटाक्षैरन्यस्त्रीणामपाङ्गदर्शनैः सार्धम्। जग्राह गृहीतवान् ।। 7.18 ।।
दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः ।
वेलासकाशं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ।। 7.19 ।।
दुकूलेति।। दुकूलवासाः सोऽजः विनीतैर्नम्रैरवरोधरक्षैरन्तःपुराधिकृतैर्वधूसमीपं निन्ये। तत्र दृष्टन्तः-स्फुटफेनराजिरुदन्वान् समुद्रो नवैर्नूतनैश्चन्द्रपादैश्चन्द्रकिरणैर्वेलायाः सकाशं समीपमिव। पूर्णदृष्टान्तोऽयम् ।। 7.19 ।।
तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः ।
तमेव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयांचकार ।। 7.20 ।।
तत्रेति।। तत्र सद्मन्यर्चितः पूजितोऽग्निकल्पोऽग्नितुल्यो भोजपतेर्भोजदेशाधीश्वरस्य पुरोधाः पुरोहितः। `पुरोधास्तु पुरोहितः’ इत्यमरः। आज्यादिभिर्द्रव्यैरग्निं हुत्वा तमेव चाग्निं विवाहसाक्ष्य आधाय। साक्षिणं च कृत्वेत्यर्थः। वधूवरौ संगमयांचकार योजयामास ।। 7.20 ।।
हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकासे ।
अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ।। 7.21 ।।
हस्तेनेति।। स राजसूनुर्हस्तेन स्वकीयेन वध्वा हस्तं परिगृह्य। अनन्तरायाः संनिहिताया अशोकलतायाः प्रवालं पल्लवं प्रतिपल्लवेन स्वकीयेन प्राप्य चूत आम्र इव। सुतरां चकासे ।। 7.21 ।।
आसीद्वरः कण्टकितप्रकोष्ठः स्वन्नाङ्गुलिः संववृते कुमारी ।
तस्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ।। 7.22 ।।
आसीदिति।। वरः कण्टकितः पुलकितः प्रकोष्ठो यस्य स आसीत्। `सीच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः’ इत्यमरः। कुमारी स्विन्नाङ्गुलिः संववृते बभूव। अत्रोत्प्रेक्षते-तस्मिन्द्वये मिथुने तत्क्षणमात्मवृत्तिः सात्त्विकोदयरूपा वृत्तिर्मनोभवेन कामेन समं विभक्तेव पृथक्कृतेव। प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणिस्पर्शकृतत्वमुत्प्रेक्षते। अत्र वात्स्यायनः-`कन्या तु प्रथमसमागमे स्विन्नाङ्गुलिः स्विन्नमुखी च भवति। पुरुषस्तु रोमाञ्चितो भवति। एभिरनयोर्भावं परीक्षित्।’ इति। स्त्री-पुरुषयोः स्वेदरोमाञ्चाभिधानं सात्त्विकमात्रोपलक्षणम्। न तु प्रतिनियमो विवक्षितः; `एभिः’ इति बहुवचनसामर्थ्यात्। एवं सति कुरामसंभवे(7।77)-`रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुंगवकेतुरासीत्’ इति व्युत्क्रमवचनं न दोषायेति। `वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ‘इत्यपरार्धस्य पाठान्तरे व्याख्यानान्तरम्-पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा तयोर्वधूवरयोर्मनोभवस्य वृत्तिः स्थितिः समं विभक्तेव। समीकृतेवेत्यर्थः ।। 7.22 ।।
तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिनिवर्तितानि ।
ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ।। 7.23 ।।
तयोरिति।। अपाङ्गेषु नेत्रप्रान्तेषु प्रतिसारितानि प्रवर्तितानि क्रिययोर्निरीक्षणलक्षणयोः समापत्त्या यदृच्छासंगत्या निवर्तितानि प्रत्याकृष्टान्यन्योन्यस्मिंल्लोलानि सतृष्णानि। `लोलश्चलसतृष्णयोः’इत्यमरः। तयोर्दंपत्योर्विलोचनानि दृष्टयो मनोज्ञां रम्यां ह्रिया निमित्तेन यन्त्रणां संकोचमानशिरे प्रापुः ।। 7.23 ।।
प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे ।
मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ।। 7.24 ।।
प्रदक्षिणेति।। तन्मिथुनमुदर्चिष उन्नतज्वालस्य कृशानोर्वह्नेः प्रदक्षिणप्रक्रमणात् प्रदक्षिणीकरणात्। मेरोरुपान्तेषु समीपेषु वर्तमानमावर्तमानम्। मेरुं प्रदक्षिणीकुर्वदित्यर्थः। अन्योन्यसंसक्तं परस्परसंगतम्। मिथुनस्याप्येतद्विशेषणम्। अहश्च त्रियामा चाहस्त्रियामं रात्रिंदिवमिव। समाहारे द्वन्दैकवद्भावः। चकासे दिदीपे ।। 7.24 ।।
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ।। 7.25 ।।
नितम्बेति।। नितम्बेन गुर्व्यलघ्वी। `दुर्धरालघुनोर्गुर्वी’ इति शाश्वतः। विधातृप्रतिमेन ब्रह्मतुल्येन तेन गुरुणा याचकेन प्रयुक्ता `जुहुधि’ इति नियुक्ता। मत्तचकोरस्येव नेत्रे यस्याः सा वधूः। अग्नौ लाजविसर्गं चकार ।। 7.25 ।।
हविःशमीपल्लवलाजगन्धी पुण्यः कृशानोरुदियाय धूमः ।
कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ।। 7.26 ।।
हविरिति।। हविष आज्यादेः शमीपल्लवानां लाजानां च गन्धोऽस्यास्तीति हविः-शमीपल्लवलाजगन्धी। `शमीपल्लवमिश्राँल्लाजानञ्जलिना वपति’ इति कात्यायनः। पुण्यो धूमः कृशानोः पावकादुदियायोद्धूतः। कपोलयोः संसर्पिणी प्रसहरणशीला शिखा यस्य स तथोक्तः स धूमस्तस्या वध्वा मुहूर्तं कर्णोत्पलतां कर्णाभरणतां प्रपेदे ।। 7.26 ।।
तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरम् ।
वधूमुखं पाटलगन्डलेखमाचारधूमग्रहणाद्बभूव ।। 7.27 ।।
तदिति।। तद्वधूमुखमाचारेण प्राप्ताद्धूमग्रहणात्। अञ्जनस्य क्लेदोऽञ्जनक्लेदः। अञ्जनभिश्रबाष्पोदकमित्यर्थः। तेन समाकुलाक्षम्। प्रम्लानो बीजाङ्कुरो यवाङ्कुर एव कर्णपूरोऽवतंसो यस्य तत् पाटलगण्डलेखमरुणगण्डस्थलं च बभूव ।। 7.27 ।।
तौ त्नातकैर्बन्धुमता च राज्ञा पुरंध्रिभिश्च क्रमशः प्रयुक्तम् ।
कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणमन्वभूताम् ।। 7.28 ।।
ताविति।। कनकासनस्थौ तौ क्याकुमारौ स्नातकैर्गृहस्थविशेषैः। `स्नातकस्त्वाप्लुतो व्रती’इत्यमरः। बन्धुमता। बन्धुपुरः सरेणेत्यर्थः। राज्ञा च पुरंध्रिभिः पतिपुत्रवतीभिर्नारीभिश्च क्रमशः प्रयुक्तं स्नातकादीनां पूर्वपूर्ववैशिष्ट्यात्क्रमेण कृतमार्द्राक्षतानामारोपणमन्वभूतामनुभूतवन्तौ ।। 7.28 ।।
इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा ।
महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्रीः ।। 7.29 ।।
इतीति।। अधिश्रीरधिकसंपन्नो भोजकुलप्रदीपः स राजा। इति स्वसुरिन्दुमत्याः पाणिग्रहणं विवाहं संपाद्य कारयित्वा। महीपतीनां राज्ञां पृथगेकैकशोऽर्हणार्थं पूजार्थमधिकृतानधिकारिणः समादि देशाज्ञापयामास ।। 7.29 ।।
लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्ताः ।
वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ।। 7.30 ।।
लिङ्गैरिति।। मुदः संतोषस्य लिङ्गैश्चिह्नैः कपटहासादिभिः संवृतविक्रिया निगूहितमत्सराः। अत एव प्रसन्ना बहिर्निर्मला गूढनक्रा अन्तर्लीनग्राहा ह्रदा इव स्थइतास्ते नृपा वैदर्भं भोजमामन्त्र्यापृच्छय तदीयां वैदर्भीयां पूजामुपदाछलेनोपायनमिषेण प्रत्यर्प्य ययुर्गतवन्तः ।। 7.30 ।।
स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम् ।
आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ।। 7.31 ।।
स इति।। आरम्भसिद्धौ कार्यसिद्धौ विषये। पूर्वं कृता कृतपूर्वा। सुप्सुपेति समासः। कृतपूर्वा संवित् संकेतो मार्गावरोधरूप उपायो येन स तथोक्तः। `संविद्युद्धेप्रतिज्ञायां संकेताचारनामसु’ इति केशवः। स राजलोकः समयोपलभ्यमजप्रस्थानकाले लभ्यम्। तदा तस्यैकाकित्वादिति भावः। `समरोपलभ्यम्’ इति पाठे युद्धसाध्यमित्यर्थः। तत्प्रमदैवामिषं भोग्यवस्तु। `आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि’ इति केशवः। आदास्यमानो ग्रहीष्यमाणः सन्,अजस्य पन्थानमावृत्यावरुध्य तस्थौ ।। 7.31 ।।
भर्तापि तावत्क्रथकैशिकानामनुष्ठितानन्तरजाविवाहः ।
सत्त्वानुरूपाहरणीकृतश्रीः प्रास्थापयद्राघवमन्वगाञ्च ।। 7.32 ।।
भर्तेति।। अनुष्ठितः संपादितोऽनन्तरजाया अनुजाया विवाहो येन स तथोक्तः क्रथकैशिकानां देशानां भर्ता स्वामी भोजोऽपि तावत् तदा सत्त्वानुरूपमुत्साहानुरूपं यथा तथा। आ समन्तात्। अनेनानियतवस्तुदानमित्यर्थः। हरणं कन्यायै देयं धनम्। `यौतकादि तु यद्देयं सुदायो हरणं च तत्’ इत्यमरः। आहरणीकृता श्रीर्येन तथोक्तः सन्,राघवमजं प्रास्थापयत् प्रस्थापितवान्। स्वयमन्वगादनुजगाम च ।। 7.32 ।।
तिस्रस्त्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा ।
तस्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ।। 7.33 ।।
तिस्र इति।। कुण्डिनं विदर्भनगरं तस्येशो भोजस्त्रिषु लोकेषु प्रथितेनाजेन सार्धं मार्गं पथि तिस्रो वसती रात्रीरुषित्वा स्थित्वा। `वसती रात्रिवेश्मनोः’ इत्यमरः। `कालाध्वनोरत्यन्तसंयोगे'(पा.2।3।5) इति द्वितीया। पर्यात्यये दर्शान्त उष्णरश्मेः सूर्यात् सोमश्चन्द्र इव। तस्मादजादपावर्तत । तं विसृज्य निवृत्त इत्यर्थः ।। 7.33 ।।
प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः ।
अतो नृपाश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ।। 7.34 ।।
प्रमन्यव इति।। नृपा राजानः प्रागपि प्रत्येकमात्तस्वतया दिग्विजये गृहीतधनत्वेन कोसलेन्द्रे रघौ प्रमन्यवो रूढवैरा बभूवुः। अतो हेतोः समेताः संगताः सन्तस्तदात्मजस्य रघुसूनोः स्त्रीरत्नलाभं न चक्षमिरे न सेहिरे ।। 7.34 ।।
तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः ।
बलिप्रदिष्टां श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ।। 7.35 ।।
तमिति।। दृप्त उद्वतः स राजन्यगणो राजसंघातः। भोजकन्यामुद्वहन्तं नयन्तं तमजम्। बलिना वैरोचनिना प्रदिष्टां दत्तां श्रियमाददानं स्वीकुवाणम्। त्रिविक्रमस्येमं त्रैविक्रमम्। पादमिन्द्रशत्रुः प्रह्लाद इव। पथिरुरोध। तथा च ब्राह्माण्डपुराणे-`विरोचनविरोधेऽपि प्रह्लादः प्राक्तनं स्मरन्। विषअणोस्तु क्रममाणस्य पादाम्भोजं रुरोध ह ।।’ इति ।। 7.35 ।।
तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः ।
प्रत्यग्रहीत्पार्थिववाहिनीं तां भागीरथीं शोण इवोत्तरंगः ।। 7.36 ।।
तस्या इति।। स कुमारोऽजस्तस्या इन्दुमत्या रक्षार्थमनल्पयोधं बहुभटम्। पितुरागंत पित्र्यम्। आप्तमित्यर्थः। सचिवमादिश्याज्ञाप्य तां पार्थिव वाहिनीं रामसेनाम्। `ध्वजिनी वाहिनी सेना’ इत्यमरः। भागीरथीमुत्तरंगः शोणः शोणाख्यो नद इव। प्रत्यग्रहीदभियुक्तवान् ।। 7.36 ।।
पत्तिः पदातिं रथिनं रथेगशस्तुरंगसादी तुरगाधिरूढम् ।
यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ।। 7.37 ।।
पत्तिरिति।। पत्तिः पादचारो योद्धा पदातिं पादचारमभ्यपतत्। पदा पादाभ्यामततीति पदातिः । `पादस्य पद्-‘(पा.6।3।52)इत्यादिना पदादेशः। `पदातिपत्तिपदगपादातिकपदाजयः’ इत्यमरः। रथेशो रथिको रथिनं रथारोहमभ्यपतत्। तुरंगसाद्यश्वारोहस्तुरगाधिरूढमश्वारोहमभ्यपतत्। `रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः’ इत्यमरः। गजस्य यन्ता हस्त्यारोहो गजस्थं पुरुषमभ्यपतत्। इत्थमनेन प्रकारेण तुल्यप्रतिद्वन्द्व्येकजातीयप्रतिभटं युद्धं बभूव। अन्योन्यं द्वन्द्वं कलहोऽस्त्येषामिति प्रतिद्वन्द्विनो योधाः। `द्वन्द्वं कलहयुग्मयोः’ इत्यमरः ।। 7.37 ।।
नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् ।
बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः ।। 7.38 ।।
नदत्स्विति।। तूर्येषु नदत्सु सत्सु,अविभाव्यवाचोऽनवधार्यगिरश्चापभृतो धानुष्काः कुलमुपदिश्यते प्रख्याप्यते यैस्ते कुलोपदेशास्तान्कुलनामानि नोदीरयन्ति स्म नोञ्चारयामासुः। श्रोतुमशक्यत्वाद्वाचो नाब्रुवन्नित्यर्थः। किंतु बाणाक्षरैर्बाणेषु लिखिताक्षरैरेव परस्परस्यान्योन्यस्योर्जितं प्रख्यातं नाम शशंसुरूचुः ।। 7.38 ।।
उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ।
विस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यम् ।। 7.39 ।।
उत्थापित इति।। संयति संग्रामेऽश्वैरुत्थापितः । स्यन्दनवंशानां रथसमूहानां चक्रै रथाङ्गैः सान्द्रीकृतो घनीकृतः। `वंशः पृष्ठास्थि गेहोर्ध्वकाष्ठे;वेणौ गणे कुले’ इति केशवः। कुञ्जरकर्णानां तालैस्तानैर्विस्तारितः प्रसारितो रेणुर्नेत्रक्रमेणांशुकपरिपाट्या। अंशुकमिवेत्यर्थः। `स्याज्जटांशुकयोर्नेत्रम्’ इति,`क्रमोऽङ्घ्रौ परिपाट्यां च’ इति च केशवः। सूर्यमुपरुरोधाच्छादयामास ।। 7.39 ।।
मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धध्वजिनीरजांसि ।
बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ।। 7.40 ।।
मत्स्येति।। वायुवशाद्विदीर्णैर्विवृतैर्मुखैः प्रवृद्धानि ध्वजिनीरजांसि सैन्यरेणून् पिबन्तो गृह्णन्तो मत्स्यध्वजा मत्स्याकारा ध्वजाः पर्याविलानि परितः कलुषाणि नवोदकानि पिबन्तः परमार्थमत्स्याः सत्यमत्स्या इव। बभुर्भान्ति स्म ।। 7.40 ।।
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः ।
स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः ।। 7.41 ।।
रथ इति।। सान्द्रे प्रवृद्धे रजसि रथो रथाङ्गध्वनिना चक्रस्वनेन विजज्ञे ज्ञातः। नागो हस्ती विलोलानां घण्टानां क्वणितेन नदिन विजज्ञे। आत्मपरावबोधः स्वपरविवेकः। योधानामिति शेषः। स्वभर्तॄणां स्वस्वामिनां नामग्रहणान्नामोञ्चारणाद्बभूव। रजोऽन्धतया सर्वे स्वं परं च शब्दादेवानुमाय प्रजह्रुरित्यर्थः ।। 7.41 ।।
आवृण्वतो लोचनमार्गमाजौ रजोन्धकारस्य विजृम्भितस्य ।
शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ।। 7.42 ।।
आवृण्वत इति।। लोचनमार्गमावृण्वतो दृष्टिपथमुपरुन्धतः। आजौ युद्धे विजृम्भितस्य व्याप्तस्य। रज एवान्धकारं तस्य। शस्त्रक्षतेभ्योऽश्वद्विपवीरेभ्यो जन्म यस्य स तथोक्तो रुधिरप्रवाहो बालारुणो बालार्कोऽभूत्। `अरुणो भास्करेऽपि स्यात्’ इत्यमरः। बालविशेषणं रुधइरसावर्ण्यार्थम् ।। 7.42 ।।
स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः ।
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ।। 7.43 ।।
स इति।। क्षतजेन रुधइरेण छिन्नमूलः। त्याजितभूतलसंबन्ध इत्यर्थः। तस्य क्षतजस्योपरिष्टात् पवनावधूतो वाताहतः स रेणुः। अङ्गारशेषस्य हुताशनस्याग्नेः पूर्वोत्थितो धूम इव। आबभासे दिदीपे ।। 7.43 ।।
प्रहारमूर्च्छापगमे रथस्था यन्तॄनुपालभ्य निवर्तिताश्वान् ।
यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः ।। 7.44 ।।
प्रहारेति।। रथस्था रथिनः प्रहारेण या मूर्च्छा तस्या अपगमे सति। मूर्च्छितानामन्यत्र नीत्वा संरक्षणं सारथिधर्म इति कृत्वा। निवर्तिताश्वान्यन्तॄन् सारथीनुपालभ्य `असाधु कृतम्’इत्यधिक्षिप्य। पूर्वं यैः स्वयं सादिता हताः। लक्षितपूर्वकेतून्। पूर्वदृष्टैः केतुभिः प्रत्यभिज्ञातानित्यर्थः। तानेव सामर्षतया सकोपत्वेन हेतुना निजघ्नुः प्रजह्रुः ।। 7.44 ।।
अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः ।
संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ।। 7.45 ।।
अपीति।। अर्धश्चासौ मार्गश्च तस्मिन्नर्धमार्गे परेषां बाणैर्लूनाश्छिन्ना अपि हस्तवतां कृतहस्तानां धनुर्भृतां पृषत्काः शरा आत्मजवानुवृत्त्या स्ववेगानुबन्धेन हेतुना फलिभिर्लोहाग्रवद्भिः। `सस्यबाणाग्रयोः फलम्’ इति विश्वः। पूर्वार्धभागैः। शृणातीति शरुः। तस्मै हितं शरव्यं लक्ष्यम्। `उगवादिभ्यो यत्'(पा.5।1।2)इति यत्प्रत्ययः। `लक्षं लक्ष्यं शरव्यं च’ इत्यमरः। संप्रापुरेव,न तु मध्ये पतिता इत्यर्थः।। 7.45 ।।
आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः ।
हतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ।। 7.46 ।।
आधोरणानामिति।। गजसंनिपाते गजयुद्धे निशितैरत एव क्षुराग्रैः क्षुरस्याग्रमिवाग्रं येषां तैश्चक्रैरायुधविशेषैर्हृतानि छिन्नान्यपि। श्येनानां पक्षिविशेषाणाम्। `पक्षी श्येनः’इत्यमरः। नखाग्रकोटिषु व्यासक्ताः केशा येषां तानि। आधोरणानां हस्त्यारोहाणाम्। `आधोरणा हस्तिपका हस्त्यारोहा निषादिनः’ इत्यमरः। शिरांसि चिरेण पेतुः पतितानि। शिरः पातात्प्रागेवारुह्य पश्चादुत्पततां पक्षिणां नखेषु केशसङ्गश्चिरपातहेतुरिति भावः ।। 7.46 ।।
पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी ।
तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष ।। 7.47 ।।
पूर्वमिति।। पूर्वं प्रथमं प्रहर्ताऽश्वसादी तौरंगिकः प्रतिहारेऽक्षममशक्तं तुरंगमस्कन्धे निषण्णदेहम्। मूर्च्छितमित्यर्थः। रिपुं भूयो न जघान पुनर्न प्रजहार। किंतु प्रत्याश्वसन्तं पुनरुज्जीवन्तमाचकाङ्क्ष। `नायुधव्यसनं प्राप्तं नार्तं नातिपरिक्षतम्'(मनु.7।93) इति निषेधादिति भावः ।। 7.47 ।।
तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः ।
उद्यन्तमग्निं शमयांबभूवुर्गजा विविग्नाः करशीकरेण ।। 7.48 ।।
तनुत्यजामिति।। तनुत्यजाम्। तनुषु निःस्पृहाणामित्यर्थः। वर्मभृतां कवचिनां संबन्धिभिर्बृहत्सु दन्तेषु पतद्भिरत एव विकोशैः पिधानादुद्धृतैः। `कोशोऽस्त्री कुङ्मले खङ्गपिधानेऽथौघदिव्ययोः’ इत्यमरः। असिभिः खङ्गैरुद्यन्तमुत्थितमग्निं विविग्ना भीता गजाः करशीकरेण शुण्डादण्डजलकणेन शमयां बभूवुः शान्तं चक्रुः ।। 7.48 ।।
शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव ।
रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः ।। 7.49 ।।
शिलीमुखेति।। शिलूमुखैर्बाणैरुत्कृत्तानि शिरांस्येव फलानि तैराढ्या संपन्ना। च्युतैर्भ्रष्टैः शिरांसि त्रायन्त इति शिरस्त्राणि शीर्षण्यानि। `शीर्षण्यं च शिरस्त्रे च’ इत्यमरः। तैश्चषकोत्तरा चषकः पानपात्रमुत्तरं यस्याः सेव। `चषकोऽस्त्री पानपात्रम्’ इत्यमरः। शोणितान्येव मद्यं तस्य कुल्याः प्रवाहा यस्यां सा। `कुल्याल्पा कृत्रिमा सरित्’ इत्यमरः। रणक्षितिर्युद्धभूमिर्मृत्योः पानभूमिरिव रराज ।। 7.49 ।।
उपान्तयोर्निष्कुषितं विहंगैराक्षिप्य तेभ्यः पिशितप्रियापि ।
केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार ।। 7.50 ।।
उपान्तयोरिति।। उपान्तयोः प्रान्तयोर्विहंगैः पक्षिभिर्निष्कुषितं खण्डितम्। `इण्निष्ठायाम्'(पा.7।2।47)इतीडागमः। भुजच्छेदं भुजखण्डं तेभ्यां विहंगेभ्य आक्षिप्याच्छिद्य पिशितप्रिया मांसप्रियाऽपि शिवा कोष्ट्री। `शिवः कीलः शिवा क्रोष्ट्री’ इति विश्वः। केयूरकोट्याऽङ्गदाग्रेण क्षतस्तालुदेशो यस्याः सा सती। अपाचकारापसारयामास। किरतेः करोतेर्वा लिट्।। 7.50 ।।
कश्चिद्विषत्खङ्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य ।
वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ।। 7.51 ।।
कश्चिदिति।। द्विषतः खङ्गेन हृतोत्तमाङ्गश्छिन्नशिराः कश्चिद्वीरः सद्यो विमानप्रभुतां विमानाधिपत्यम्। देवत्वमित्यर्थः। उपेत्य प्राप्य वामाङ्गसंसक्ता सव्योत्सङ्गसङ्गिनी सुराङ्गना यस्य स तथोक्तः सन्,समरे नृत्यत्स्वं निजं कबन्धं अशिरस्कं कलेवरं ददर्श। `कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्’ इत्यमरः ।। 7.51 ।।
अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथइनौ च कौचित् ।
व्यश्वौ गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ ।। 7.52 ।।
अन्योन्येति।। कौचिद्वीरावन्योन्यस्य सूतयोः सारथ्योरुन्मथनान्निघनात्तावेव सूतौ रथिनौ योद्धारौ चाभूताम्। तावेव व्यश्वौ नष्टाश्वौ सन्तौ गदाभ्यां व्यायतो दीर्घः संप्रहारो युद्धं ययोस्तावभूताम्। ततो भग्नायुधौ सन्तौ बाहुविमर्दे निष्ठा नाशो ययोस्तौ बाहुयुद्धसक्तावभूताम्। `निष्ठा निष्पत्तिनाशान्ताः’ इत्यमरः।। 7.52 ।।
परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव ।
अमर्त्यभावेऽपि कयोश्चिदासीदेकाप्सरः प्रार्थितयोर्विवादः ।। 7.53 ।।
परस्परेणेति।। परस्परेणान्योन्यं क्षतयोः क्षततन्वोः समकालमेककालं यथा तथोत्क्रान्तवाय्वोर्युगपदुद्गतप्राणयोः। एकैवाप्सराः प्रार्थिता याभ्यां तयोरेकाप्सरः प्रार्थितयोः। प्रार्थितैकाप्सरसोरित्यर्थः। `वाहिताग्न्यादिषु'(पा.2।2।37) इति परनिपातः। अथवा,-एकस्यामप्सरसि प्रार्थितं प्रार्थना ययोरिति विग्रहः। `स्त्रियां बाहुष्वप्सरसः’ इति बहुत्वाभिधानं प्रायिकम्। कयोश्चित्प्रहर्त्रोर्योधयोरमर्त्यभावेऽपि देवत्वेऽपि विवादः कलह आसीत्। एकामिषाभिलाषो हि महद्वैरबीजमिति भावः ।। 7.53 ।।
व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थम् ।
पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ।। 7.54 ।।
व्यूहाविति।। तावुभौ व्यूहौ सेनासंघातौ। `व्यूहस्तु बलविन्यासः’ इत्यमरः। पश्चात्पुरश्च यौ मारुतौ तयोः पर्यायवृत्त्या क्रमवृत्त्या प्रवृद्धौ महान्तावर्णवोर्मी महार्णवोर्मी इव। इतरेतरस्मादन्योन्यस्मादव्यवस्थं व्यवस्थारहितमनियतं जयं भङ्गं पराजयं चापतुः प्राप्तवन्तौ ।। 7.54 ।।
परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव ।
भूमो निवर्त्येत समीरणेन यतस्तु कक्षस्तत एव वह्निः ।। 7.55 ।।
परेणेति।। बले स्वलैन्ये परेण परबलेन भग्नेऽपि महौजा महाबलोऽजोऽरिसैन्यं प्रत्येव ययौ। तथा हि–समीरणेन वायुना धूमो निवर्त्येत कक्षादपसार्येत। वर्ततेर्ण्यन्तात्कर्मणि संभावनायां लिङ्। वह्निस्तु यतो यत्र कक्षस्तृणम्। `कक्षौ तु तृणवीरुधौ’ इत्यमरः। तत एव तत्रैव। प्रवर्तत इति शेषः। सार्वविभक्तिकस्तसिः ।। 7.55 ।।
रथी निषङ्गी कवची धनुष्मान्दृप्तः स राजन्यकमेकवीरः ।
निवारयामास महावराहः कल्पक्षयोद्वृत्तमिवार्णवाम्भः ।। 7.56 ।।
रथीति।। रथी रथारूढो निषङ्गी तूणीरवान्। `तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः’ इत्यमरः। कवची वर्मधरो धनुष्मान् धनुर्धरो दृप्तो रणदृप्त एकवीरोऽसहायशूरः सोऽजो राजन्यकं राजसमूहम्। `गोत्रोक्ष-‘(पा.4।2।39) इत्यादिना वुञ्प्रत्ययः। महावराहो वराहावतारो विष्णुः कल्पक्षये कल्पान्तकाल उद्वृत्तमुद्वेलमर्णवाम्भ इव। निवारयामास ।। 7.56 ।।
स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ ।
आकर्णकृष्टा सकृदस्य योद्धुर्मौर्वीव बाणान्सुषुवे रिपुघ्नान् ।। 7.57 ।।
स इति।। सोऽजः। आजौ संग्रामे दक्षिणं हस्तं तूणमुखेन निषङ्गविवरेण वाममतिसुन्दरम्। `वामं सव्ये प्रतीते च द्रविणे चातिसुन्दरे’ इति विश्वः। व्यापारयन्नलक्ष्यत,शरसंधानादयस्तु दुर्लक्ष्या इत्यर्थः। सकृदाकर्णकृष्टा। योद्धुरस्याजस्य मौर्वी ज्या रिपून्घ्नन्तीति रिपुघ्नाः। तान्। `अमनुष्यकर्तृके च'(पा.3।2।53) इति क्प्रत्ययः। बाणान्सुषुव इव सुषुवे किमु। इत्युत्प्रेक्षा ।। 7.57 ।।
स रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेखा भ्रुकुटीर्वहद्भिः ।
तस्तार गां भल्लनिकृत्तकण्ठैर्हूंकारगर्भैर्द्विषतां शिरोभिः ।। 7.58 ।।
स इति।। शोऽजः रोषेण दष्टा अत एवाधिकलोहिता ओष्ठा येषां तानि तैः। व्यक्ता ऊर्ध्वा रेखा यासां ता भ्रुकुटीर्भ्रूभङ्गान्वहद्भिः। भल्लनिकृत्ता बाणविशेषच्छिन्नाः कण्ठा येषां तैः। हूंकारगर्भैः सहूंकारैः। हूंकुर्वद्भिरित्यर्थः। द्विषतां शिरोभिर्गां भूमिं तस्तार छादयामास ।। 7.58 ।।
सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च ।
सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह्रुर्युधि सर्व एव ।। 7.59 ।।
सर्वैरिति।। द्विरदप्रधानैर्गजमुख्यैः सर्वैर्बलाङ्गैः सेनाङ्गैः। `हस्त्यश्वरथपादातं सेनाङ्गं स्याञ्चतुष्टयम्’ इत्यमरः। कङ्कटभेदिभिः ककवचभेदिभिः। `उरश्छदःकङ्कटकोऽजगरः कवचोऽस्त्रियाम्’इत्यमरः। सर्वायुधैश्च बाह्यबलमुक्त्वान्तरमाह-सर्वप्रयत्नेन च सर्व एव भूमिपाला युधि तस्मिन्नजे प्रजह्रुः। तं प्रजह्रुरित्यर्थः। सर्वत्र सर्वकारकशक्तिसंभवात्कर्मणोऽप्यधिकरणविवक्षायां सप्तमी। तदुक्तम्-`अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः। सर्वदा सर्वथाभावात्क्वचित्किंचिद्विवक्ष्यते’ ।। 7.59 ।।
सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः ।
नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ।। 7.60 ।।
स इति।। परेषां द्विषामस्त्रव्रजैश्छन्नरथः सोऽजः। नीहारैर्हिमैर्मग्नो दिनपूर्वभागः प्रातःकालः किंचित्प्रकाशेनेषल्लक्ष्येण विवस्वतेव। ध्वजाग्रमात्रेण लक्ष्यो बभूव। ध्वजाग्रादन्यन्न किंचिल्लक्ष्यते स्मेत्यर्थः ।। 7.60 ।।
प्रियंवदात्प्राप्तमसौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः ।
गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलौल्यः ।। 7.61 ।।
प्रियंवदादिति। अधिराजसूनुर्महाराजपुत्रः कुसुमास्त्रकान्तो मदनसुन्दरः स्वप्ननिवृत्तलौल्यः स्वप्नवितृष्णः। जागरूक इत्यर्थः। असौ कुमारोऽजः प्रियंवदात्पूर्वोक्ताद्गन्धर्वात्प्राप्तं गान्धर्वं गन्धर्वदेवताकम्। `सास्य देवता’ (पा.4।2।24) इत्यण्। प्रस्वापयतीति प्रस्वापनं निद्राजनकमस्त्रं राजसु प्रायुङ्क्त प्रयुक्तवान् ।। 7.61 ।।
ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् ।
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ।। 7.62 ।।
तत इति।। ततो धनुष्कर्षणे चापकर्षणे मूढहस्तमव्यापृतहस्तम्। एकस्मिन्नंसे पर्यस्तं स्रस्तं शिरस्त्राणां शीर्षण्यानां जालं समूहो यस्य तत्। ध्वजस्तम्भेषु निषण्णा अवष्टब्धा देहा यस्य तत्। नरदेवानां राज्ञां सेनैव सैन्यम्। चतुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः। निद्राविधेयं निद्रापरतन्त्रं तस्थौ ।। 7.62 ।।
ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः ।
तेन स्वहस्तार्जितमेकवीरः पिबन्यशो मूर्तमिवाबभासे ।। 7.63 ।।
तत इति।। ततः कुमारोऽजः प्रिययेन्दुमत्योपात्तरस आस्वादितमाधुर्ये। अतिश्लाघ्य इति भावः। अधरोष्ठे जलजं शङ्खं निवेश्य। `जलजं शङ्खपद्मयोः’इति विश्वः। दध्मौ मुखमारुतेन पूरयामास। तेनौष्ठनिविष्टेन शङ्खेनैकवीरः स स्वहस्तार्जितं मूर्तं मूर्तिमद्यशः पिबन्निवाबभासे । यशसः शुभ्रत्वादिति भावः ।। 7.63 ।।
शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशुः स्वयोधाः ।
निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ।। 7.64 ।।
शङ्खेति।। शङ्खस्वनस्याजशङ्खध्वनेरभिज्ञतया प्रत्यभिज्ञातत्वान्निवृत्ताः प्रक्पलाय्य संप्रति प्रत्यागताः स्वयोधाः सन्नशत्रुं निद्राणशत्रुं तमजम्। निमीलितानां मुकुलितानां पङ्कजानां मध्ये स्फुरन्तं प्रतिमा चासौ शशाङ्कश्च तं प्रतिमाशशाङ्कं प्रतिबिम्बचन्द्रमिव ददृशुः ।। 7.64 ।।
सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् ।
यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ।। 7.65 ।।
सशोणितैरिति।। संप्रति राघवेण रघुपुत्रेण। पूर्वं रघुणेति भावः। हे राजानः। वो युष्माकं यशो हृतं,जीवितं तु कृपया न हृतम्। न त्वशक्त्येति भावः। इत्येवंरूपा वर्णाः। एतदर्थप्रतिपादकं वाक्यमित्यर्थः। सशोणितैः शोणितदिग्धैः शिलीमुखाग्रैर्बाणाग्रैः साधनैस्तेनाजेन प्रयोजककर्त्रा। पार्थिवानां राज्ञां केतुषु ध्वजस्तम्भेषु निक्षेपिताः प्रयोज्यैरन्यैर्निवेशिताः लेखिता इत्यर्थः। क्षिपतेर्ण्यन्तात्कर्मणि क्तः ।। 7.65 ।।
स चापकोटीनिहितैकबाहु शिरस्त्रनिष्कर्षणभिन्नमौलिः ।
ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे ।। 7.66 ।।
स इति।। चापकोट्यां निहित एकबाहुर्येन सः। शिरस्त्रस्य निष्कर्षणेनापनयनेन भिन्नमौलिः श्लथकेशबन्धः। `चूडाकिरीटं केशाश्च संयता मौलयस्त्रयः’इत्यमरः। ललाटे बद्धाः श्रमवारिबिन्दवो यस्य सः सोऽजो भीतां प्रियामिन्दुमतीमेत्यासाद्य वचो बभाषे ।। 7.66 ।।
किमित्याह-
इतः परार्भकहार्यशस्त्रान्वैदर्भि! पश्यानुमता मयासि ।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः ।। 7.67 ।।
स इति।। हे वैदर्भि इन्दुमति! इत इदानीमर्भकहार्यशस्त्रान् बालकापहार्यायुधान् पराञ्शत्रून्पश्य। मयाऽनुमतासि। द्रष्टुमिति शेषः। एभिर्नृपैरेवंविधेन निद्रारूपेणाहवचेष्टितेन रणकर्मणा मम हस्तगता। हस्तगतवद्दुर्ग्रहेत्यर्थः। त्वं प्रार्थ्यसे। अपजिहीर्ष्यस इत्यर्थः। `एवंविधेन’इत्यत्र स्वहस्तनिर्देशेन सोपहासमुवाचेति द्रष्टव्यम् ।। 7.67 ।।
तस्याः प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखमाबगभासे ।
निःश्वासबाष्पापगमात्प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः ।। 7.68 ।।
तस्या इति।। प्रतिद्वन्द्विभवाद्रिपूत्थाद्विषादाद्दैन्यात् सद्यो विमुक्तं तस्या मुखम्। निःश्वासस्य यो बाष्प ऊष्मा। `बाष्पो नेत्रजलोष्मणोः’ इति विश्वः। तस्यापगमाद्धेतोरात्मीयं प्रसादं नैर्मल्यं प्रपन्नः प्राप्तः। आत्मा स्वरूपं दृश्यतेऽनेनेत्यात्मदर्शो दर्पण इव। आबभासे ।। 7.68 ।।
हृष्टापि सा विजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत् ।
स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ।। 7.69 ।।
हृष्टेति।। सेन्दुमती हृष्टापि पत्युः पौरुषेण प्रमुदितापि ह्रिया बिजिता यतोऽतः प्रियमजं साक्षात् स्वयं नाभ्यनन्दन्न प्रशशंस। किंतु नवैरम्भः षृषतैः पयोबिन्दुभिरभिवृष्टाऽभिषिक्ता स्थल्वकृत्रिमा भूमिः। `जानपदकुण्डगोणस्थल-‘(पा.4।1।49)इत्यादिनाऽकृत्रिमार्थे ङीष्। अभ्रवृन्दं मेघसंघं मयूरकेकाभिरिव सखीनां वाग्भिरभ्यनन्दत् ।। 7.69 ।।
इति शिरसि स वामं पादमाधाय राज्ञा-
मुदवहदनवद्यां तामवद्यादपेतः ।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा
समरविजयलक्ष्मीः सैव मूर्ता बभूव ।। 7.70 ।।
इतीति।। नोद्यते नोच्त इत्यवद्यं गर्ह्यम्। `अवद्यपण्य-‘(पा.3।1।101)इत्यादिना निपातः। `कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः’ इत्यमरः। तस्मादपेतः। निर्दोष इत्यर्थः। सोऽज इति राज्ञां शिरसि वामं पादमाधायानवद्यामदोषां तामिन्दुमतीमुदवहदुपानयत्। आत्मसाञ्चकारेत्यर्थः। अयमर्थः `तमुद्वहन्तं पथि भोजकन्याम्'(7।35)इत्यत्र न श्लिष्टः। तस्याजस्य रथतुरगाणां रजोभी रूक्षाणि परुषाण्यलकाग्राणि यस्याः सा सेन्दुमत्येव मूर्ता मूर्तिमती समरविजयलक्ष्मीर्बभूव। एतल्लाभादन्यः को विजयलक्ष्मीलाभ इत्यर्थः।। 7.70 ।।
प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं
विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् ।
तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू-
न्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ।। 7.71 ।।
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतावजस्वयंवराभिगमनोनाम सप्तमः सर्गः ।
प्रथमेति।। प्रथममजागमनात्प्रागेव परिगतो ज्ञातोऽर्थो विवाहविजयरूपो येन स प्रथमपरिगतार्थो रघुर्विजयिनं विजययुक्तं श्लाघ्यजायासमेतं संनिवृत्तं प्रत्यागतं तमजमभिनन्द्य। तस्मिन्नज उपहितकुटुम्बः सन्। `सुतविन्यस्तपत्नीकः'(प्राय.3।451) इति याज्ञवल्क्यस्मरणादिति भावः। शान्तिमार्गो मोक्षमार्ग उत्सुकोऽभूत्। तथा हि-कुलधुर्ये कुलधुरंधरे सति सूर्यवंश्या गृहाय गृहस्थाश्रमाय न भवन्ति ।। 7.71 ।।
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां रघुवंशव्याख्यायां संजीविनीसमाख्यायां सप्तमः सर्गः ।
अष्टमः सर्गः।
हेरम्बमवलम्बेऽहं यस्मिन्पातालकेलिषु ।
दन्तेनोदस्यति क्षोणीं विश्राम्यन्ति फणीश्वराः ।।
अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः ।
वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ।। 8.1 ।।
अथेति।। अथ पार्थिवो रघुर्ललितं सुभगं विवाहकौतुकं विवाहमङ्गलं विवाहहस्तसूत्रं वा बिभ्रत एव। `कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले’ इति शाश्वतः। तस्याजस्य। अपरामिन्दुमतीमिव। वसुधामपि हस्तगामिनीमकरोत्। अस्मिन्सर्गे वैतालीयं छन्दः ।। 8.1 ।।
दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् ।
तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ।। 8.2 ।।
दुरितैरिति।। नृपसूनवो राजपुत्रा यद्राज्यं दुरितैरपि विषप्रयोगादिनिषिद्धोपायैरपि आत्मसात् स्वाधीनम्। `तदधीनवचने'(पा.5।4।54) इति सातिप्रत्ययः। कर्तुं प्रयतन्ते हि। प्रवर्तन्त एवेत्यर्थः। `हि’ शब्दोऽवधारणे। `हि हेताववधारेण’ इत्यमरः। उपस्थितं स्वतःप्राप्तं तद्राज्यम्। अजः पितुराज्ञेति हेतोरग्रहीत् स्वीचकार। भोगतृष्णया तु नाग्रहीत् ।। 8.2 ।।
अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम् ।
विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ।। 8.3 ।।
अनुभूयेति।। मेदिनी भूमिर्महिषी च ध्वन्यते। वसिष्ठेन संभृतैः सलिलैस्तेनाजेन सहाभिषेचनमनुभूय विशदोच्छ्वसितेन स्फुटमुद्बृहणेन। आनन्दनिर्मलोच्छ्वसितेन चेति ध्वन्यते। कृतार्थतां गुणवद्भर्तृलाभकृतं साफल्यं कथयामासेव। न चैतावता पूर्वेषामपकर्षः;प्रशंसापरत्वात्। `सर्वत्र जयमन्विच्छेत् पुत्रादिच्छेत्पराजयम्’ इत्यङ्गीकृतत्वाञ्चज ।। 8.3 ।।
स बभूव दुरासदः परैर्गुरुणाऽथर्वविदा कृताक्रियः ।
पवनाग्निसमागमो ह्ययं सहतिं ब्रह्म यदस्त्रतेजसा ।। 8.4 ।।
स इति।। अथर्वविदाऽथर्ववेदाभिज्ञेन गुरुणा वसिष्ठेन कृतक्रियः। अथर्वोक्तविधिना कृताभिषेकसंस्कार इत्यर्थः। सोऽजः परैः शत्रुभिर्दुरासदो दुर्धर्षो बभूव। तथा हि-अस्त्रतेजसा क्षत्रतेजसा सहितं युक्तं यद्ब्रह्म ब्रह्मतेजोऽयं पवनाग्निसमागमो हि तत्कल्प इत्यर्थः। `पवनाग्नि’इत्यत्र पूर्वनिपातशास्त्रस्यानित्यत्वात् `द्वन्द्वे घि'(पा.2।232)इति नाग्निशब्दस्य पूर्वनिपातः। तथा च काशिकायाम्-`अयमेकस्तु लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्’इति। क्षात्रेणैवायं दुर्धर्षः किमयं पुनर्वसिष्ठमन्त्रप्रभावे सतीत्यर्थः। अत्र मनुः-`नाक्षत्रं ब्रह्म भवति क्षत्रं नाब्रह्म वर्धते। ब्रह्मक्षत्रे तु संयुक्ते हहामुत्र च वर्धते।।’ इति ।। 8.4 ।।
रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः ।
स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ।। 8.5 ।।
रघुमिति।। प्रजा नवेश्वरं तमजं निवृत्तयौवनं प्रत्यावृत्तयौवनं रघुमेवामन्यन्त। न किंचिद्भेदकमस्तीत्यर्थः। कुतः? हि यस्मात् सोऽजस्तस्य रघोः केवलामेकां श्रियं न प्रतिपेदे। किंतु सकलान्गुणान् शौर्यदाक्षिण्यदीनपि प्रतिपेदे। अतस्तद्गुणयोगात्तंद्बुद्धिर्यथेत्यर्थः ।। 8.5 ।।
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् ।
पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ।। 8.6 ।।
अधिकमिति।। द्वयमेव शुभंयुना शुभवता। `शुभंयुस्तु शुभान्वितः’ इत्यमरः। `अहंशुभमोर्युस्(पा.5।2।140) इति युस्प्रत्ययः। द्वितयेन संगतं युतं सदधिकं शुशुभे। किं केनेत्याह-पदमिति। पैतृकं पितुरागतम्। `ऋतष्ठञ्’ (पा.4।3।78)इति ठञ्प्रत्ययः। ऋद्धं समृद्धं पदं राज्यमजेन अस्याजस्य नवं यौवनं विनयेनेन्द्रियजयेन च। `विजयो हीन्द्रियजयस्तद्युक्तः शास्त्रमर्हति’ इति कामभ्दकः। राज्यस्थोऽपि प्राकृतवन्न दृप्तोऽभूदित्यर्थः ।। 8.6 ।।
सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहरणां वधूमिव ।। 8.7 ।।
सदयमिति।। सहाभुजः सोऽजोऽचिरोपनतां नवोपगतां मेदिनीं भुवम्। नवं पाणिग्रहणं विवाहो यस्यास्तां नवोढां वधूमिव। सहसा बलात्कारेण चेत्। `सहो बलं सहा मार्गः’ इत्यमरः। इयं मेदिनीर्वा। उद्वेगं भयं व्रजेदिति हेतोः। सदयं सकृपं बुभुजे भुक्तवान्। `भुजोऽनवने'(पा.1।3।66) इत्यात्मनेपदम् ।। 8.7 ।।
अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ।। 8.8 ।।
अहमिति।। प्रकृतिषु प्रजासु मध्ये सर्वोऽपि जनः। अथवा,-प्रकृतिष्वित्यस्याहमित्यनेनान्वयः। व्यवधानं तु सह्यम्। सर्वोऽपि जनः प्रकृकतिष्वहमेव महीपतेर्मतो महीपतिना मन्यमानः। `मतिबुद्धिपूजार्थेभ्यश्च'(पा.3।2।188)इति वर्तमाने क्तः,`क्तस्य च वर्तमाने'(पा.2।3।67)इति षष्ठी। इत्यचिन्तयदमन्यत। उदधेर्निम्रगाशतेष्विवास्य नृपस्य कर्तुः। `कर्तृकर्मणोः कृति'(पा.2।3।65)इति कर्तरि षष्ठी। क्वचिदपि जनविषये विमाननाऽवगणना तिरस्कारो नाभवत्,यतो न कंचिदवमन्यतेऽतः सर्वोऽप्यहमेवास्य मत इत्यमन्यतेत्यर्थः ।। 8.8 ।।
न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव ।
स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ।। 8.9 ।।
नेति।। स नृपो भूयसा बाहुल्येन खरस्तीक्ष्णो न। भूयसा मृदुरतिमृदुरपि न। कुंतु पुरस्कृतमध्यमक्रमः सन्,मध्यमपरिपाटीमवलम्ब्येत्यर्थः। पवमानो वायुः पृथिवीरुहांस्तरूनिव नृपाननुद्धरन्ननुत्पाटयन्नेव नमयामास। अत्र कामन्दकः-`मृदुश्चेदवमन्येत तीक्ष्णादुद्विजते जनः। तीक्ष्णश्चैव मृदुश्चैव प्रजानां स च संमतः ।।’ इति ।। 8.9 ।।
अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया ।
विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ।। 8.10 ।।
अथेति।। अथ रघुरात्मजं पुत्रमात्मवत्तया। निर्विकारमनस्कतयेत्यर्थः। `उदयादिष्वविकृतिर्मनसः सत्त्वमुच्यते। आत्मवान्सत्त्ववानुक्तः’ इत्युत्पलमालायाम्। प्रकृतिष्वमात्यादिषु प्रतिष्ठितं रूढमूलं वीक्ष्य ज्ञात्वा विनाशो धर्मो येषां तेषु विनाशधर्मसु। अनित्येष्वित्यर्थः। `धर्मादनिच्केवलात्'(पा.5।4।124) इत्यनिच्प्रत्ययः समासान्तः। त्रिदिवस्थेषु स्वर्गस्थेष्वपि विषयेषु शब्दादिषु निःस्पृहो निर्गतेच्छोऽभवत् ।। 8.10 ।।
अथेति।। अथ रघुरात्मजं पुत्रमात्मवत्तया। निर्विकारमनस्कतयेत्यर्थथः। `उदयादिष्वविकृतिर्मनसः सत्त्वमुच्यते। आत्मवान्सत्त्ववानुक्तः’इत्युत्पलमालायाम्। प्रकृतिष्वमात्यादिषु प्रतिष्ठितं रूढमूलं वीक्ष्य ज्ञात्वा विनाशो धर्मो येषां तेषु विनाशधर्मसु। अनित्येष्वित्यर्थः। `धर्मादनिच्केवलात्'(पा.5।4।124)इत्यनिच्प्रत्ययः समासान्तः। त्रिदिवस्थेषु स्वर्गस्थेष्वपि विषयेषु शब्दादिषु निःस्पृहो निर्गतेच्छोऽभवत् ।। 8.10 ।।
कुलधर्मश्चायमेवेत्याह-
गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः ।
पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ।। 8.11 ।।
गुणवदिति।। दिलीपवंशजाः परिणामे वार्धके गुणवत्सुतेषु रोपितश्रियः स्थापितलक्ष्मीकाः प्रयताश्च सन्तः। तरुवल्कान्येव वासांसि तेषां संयमिनां यतीनां पदवीं प्रपेदिरे। यस्मात्तस्मादस्यापीदमुचितमित्यर्थः ।। 8.11 ।।
तमरण्यसमाश्रयोमन्मुखं शिरसा वेष्टनशोभिना सुतः ।
पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः ।। 8.12 ।।
तमिति।। अरण्यसमाश्रयोन्मुखं वनवासोद्युक्तं पितरं तं रघुं सुतोऽजः। वेष्टनशोभिनोष्णीषमनोहरेण शिरसा पादयोः प्रणिपत्य। आत्मनोऽपरित्यागमयाचत। मां परित्यज्य न गन्तव्यमिति प्रार्थितवानित्यर्थः ।। 8.12 ।।
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः ।
न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ।। 7.13 ।।
रघुरिति।। आत्मजप्रियः पुत्रवत्सलो रघुः। अश्रूणि मुखे यस्य तस्याश्रुमुखस्याजस्य तदपरित्यागरूपमीप्सितमभिलषितं कृतवान्। किंतु सर्पस्त्वचमिव व्यपवर्जितां त्यक्तां श्रियं पुनर्न प्रतिपेदे न प्राप ।। 8.13 ।।
स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ।। 8.14 ।।
स इति।। स रघुः किलान्त्यमाश्रमं प्रव्रज्यामाश्रितः पुरान्नगराद्बहिरावसथे स्थाने निवसन्नविकृतेन्द्रियः। जितेन्द्रियः सन्नित्यर्थथः। अत एव स्नुषयेव वध्वेव पुत्रभोग्यया न स्वभोग्यया। श्रिया समुपास्य शुश्रूषितः। जितेन्द्रियस्य तस्य स्नुषयेव श्रियापि’ पुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किंचिदपेक्षितमासीदित्यर्थः।। अत्र यद्यपि `ब्राह्मणाः प्रव्रजन्ति’ इति श्रुतेः। `आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्'(6।38) इति मनुस्मरणात्। `मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम्। बाहुजातोरुजातानामयं धर्मो न विद्यते।।’ इति निषेधाञ्च ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरित्याहुः। तथापि `यदहरेव विरजेत्तदहरेव प्रव्रजेत्’ इत्यादिश्रुतेस्त्रैवर्णिकसाधारण्यात्। `त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः’ इति सूत्रकारवचनात्। `ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद्गृहात्'(मनु.10।117) इति स्मरणात्। `मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम्। बाहुजातोरुजातानां त्रिदण्डं न विधीयते।।’ इति निषेधस्य त्रिदण्डविषयत्वदर्शनाञ्च। कुत्रचिद्ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित्त्रैवर्णिकाधिकारं प्रतिपेदिरे। तथा सति `स किलाश्रममन्त्यमाश्रितः'(8।14)इत्यत्रापि कवनाप्ययमेव पक्षो विवक्षित इति प्रतीमः। अन्यथा वानप्रस्थाश्रमतया व्याख्याते `विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्'(8।25) इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात्; अग्निसंस्काररहितस्य वानप्रस्थास्यैवाभावात् इत्यलं प्रासङ्गिकेन ।। 8.14 ।।
प्रशमस्थइतपूर्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् ।
नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ।। 8.15 ।।
प्रशमेति।। प्रशमे स्थितः पूर्वपार्थिवो रघुर्यस्य तत्। अभ्युद्यतोऽभ्युदितो नूतनेश्वरोऽजो यस्य तत्। प्रसिद्धं कुलं निभृतेन्दुनाऽस्तमयासन्नचन्द्रेणोदितार्केण प्रकटितसूर्येण च नभसा तुलां सादृश्यं समारुरोह प्राप। न च `नभसा तुलाम्’ इत्यत्र `तुल्यार्थैः-‘(पा.2।3।72) इत्यादिना प्रतिषेधस्तृतीयायाः। तस्य सदृशवाचि`तुला’ शब्दविषयत्वात्। `कृष्णस्य तुला नास्ति’ इति प्रयोगात्; अस्य च सादृश्यवाचित्वात् ।। 8.15 ।।
यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः ।
अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ।। 8.16 ।।
यतीति।। यतिर्भिक्षुः। पार्थिवो राजा। तयोर्लिङ्गधारिणौ रघुराघवौ रघुतत्सुतौ। अपवर्गमहोदयार्थयोर्मोक्षाभ्युदयफलयोः। धर्मयोः। निवर्तकप्रवर्तकरूपयोरित्यर्थः। भुवं गतौ भूलोकमवतीर्णावंशाविव। जनैर्ददृशाते दृष्टौ ।। 8.16 ।।
अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः ।
अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः ।। 8.17 ।।
अजितेति।। अजोऽजिताधिगमायाजितपदलाभाय नीतिविशारदैर्नीतिज्ञैर्मन्त्रिभिर्युयुजे संगतः । रघुरप्यनपायिपदस्योपलब्धये मोक्षस्य प्राप्तये यथार्थदर्शिनो यथार्थवादिनश्चाप्ताः। तैर्योगिभिः समियाय संगमः। उभयत्राप्युपायचिन्तार्थमिति शेषः ।। 8.17 ।।
नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनमाददे युवा ।
परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ।। 8.18 ।।
नृपतिरिति।। युवा नृपति रजः प्रकृतीः प्रजाः कार्यार्थिनीरवेक्षितुम्। दुष्टादुष्टपरिज्ञानार्थमित्यर्थः। व्यवहारासनं धर्मासनम्। आददे स्वीचकार। प्रवयाः स्थविरो नृपती रघुस्तु। `प्रवयाः स्थविरो वृद्धः’इत्यमरः। धारणां चित्तस्यैकाग्रतां परिचेतुमभ्यसितुम्। उपांशु विजने। `उपांशु विजने प्रोक्तम्’ इति हलायुधः। कुशैः पूतं विष्टरमासनमाददे। `यमादिगुणसंयुक्ते मनसः स्थइतिरात्मनि। धारणा प्रोच्यते सद्भिर्योगशास्त्रविशारदैः ।।’ इति वसिष्ठः ।। 8.18 ।।
अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् ।
अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ।। 8.19 ।।
अनयदिति।। एकोऽन्यतमः। अज इत्यर्थः। अनन्तरान्स्वभूम्यनन्तरान्नृपतीन्यातव्यपार्षिणिग्राहादीन् प्रभुशक्तिसंपदा कोशदण्डमहिम्ना वशं स्वायत्ततामनयत्। `कोशो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता’ इति मिताक्षरायाम्। अपरो रघुः प्रणिधानयोग्यया समाध्यभ्यासेन। `योगाभ्यासार्कयोषितोः’ इति विश्वः। शरीरगोचरान्देहाश्रयान्पञ्च मरुतः पाणादीन्वशमनयत्। `प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। शरीरस्थाः’ इत्यरमः ।। 8.19 ।।
अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् ।
इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ।। 8.20 ।।
अकरोदिति।। अचिरेश्वरोऽजः क्षितौ द्विषतामारम्भाः कर्माणि तेषां फलानि भस्मसादकरोत् कार्त्स्न्येन भस्मीकृतवान्। `विभाषा साति कार्त्स्न्ये'(पा.5।4।52)इति सातिप्रत्ययः। इतरो रघुर्ज्ञानमयेन आत्मज्ञानप्रचुरेण वह्निना पावकेन करणेन स्वकर्मणां भवबीजभूतानां दहने भस्मीकरणे ववृते। स्वकर्माणि दग्धुं प्रघृत्त इत्यर्थः। `ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जन इति गीतावचनात्’।। 8.20 ।।
पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्षअय तत्फलम् ।
रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ।। 8.21 ।।
पणबन्धेति।। `पणबन्धः संधिः’ इति कौटिल्यः। अजः पणबन्धमुखान् संध्यादीन्षङ्गुणान्। `संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः। षङ्गुणाः’ इत्यमरः। तत्फलं तेषां गुणानां फलं समीक्ष्यालोच्य। उपायुङ्क्त। फलिष्यन्तमेव गुणं प्रायुङ्क्तेत्यर्थः। `प्रोपाभ्यां युजेरयज्ञपात्रेषु'(पा.1।3।64)इत्यात्मनेपदम्। समस्तुल्यतया भावितो लोष्टो मृत्पिण्डः काञ्चनं सुवर्णं च यस्य स समलोष्टकाञ्चनः निःस्पृह इत्यर्थः। `लोष्टानि लेष्टवः पुंसि’ इत्यमरः। रघुरपि गुणत्रयं सत्त्वादिकम्। `गुणाः सत्त्वं रजस्तमः’ इत्यमरः। प्रकृतौ साम्यावस्थायमेव तिष्ठतीति प्रकृतिस्थं पुनर्विकारशून्यं यथा तथाऽजयत् ।। 8.21 ।।
न नवः प्रभुरा फळलोदयात्स्थिरकर्मा विरराम कर्मणः ।
न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनात् ।। 8.22 ।।
नेति।। स्थिरकर्मा फलोदयकर्मकारी नवः प्रभुरज आ फलोदयात् फलसिद्धिपर्यन्तं कर्मण आरम्भान्न विरराम न निवृत्तः। जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्'(वा.1079) इत्यपादानात्पञ्चमी। `व्याङ्परिभ्यो रमः'(पा.1।3।83)इति परस्मैपदम्। स्थिरधीर्निश्चलचित्तो नवेतरो रघुश्चापरमात्मदर्शनात् परमात्मसाक्षात्कारपर्यन्तं योगविधेरैक्यानुसंधानान्न विरराम ।। 8.22 ।।
इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
प्रसितावुदयापवर्गयोरुभयीं सिद्धिमुभाववापतुः ।। 8.23 ।।
इतीति।। इत्येवं प्रतिषिद्धः प्रसरः स्वार्थप्रवृत्तिर्येषां तेषु शत्रुषु चेन्द्रियेषुप च जाग्रतावप्रमत्तावुदयापवर्गयोरभ्युदयमोक्षयोः प्रसितावासक्तौ। `तत्परे प्रसितासक्तौ’इत्यमरः। उभघावजरघू उभयीं द्विविधामभ्युदयमोक्षरूपाम्। `उभादुदात्तो नित्यम्'(पा.5।2।44) इति तपप्प्रत्ययस्यायजादेशः। `टिड्ढा-‘(पा.4।1।15)इति ङीप्। सिद्धिं फलमवापतुः। उभावुभे सिद्धी यथासंख्यमवापतुरित्यर्थः।। 8.23 ।।
अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः ।
तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ।। 8.24 ।।
अथेति।। अथ रघुः समदर्शनः सर्वभूतेषु समदृष्ठिः सन्नजव्यपेक्षयाऽजाकाङ्क्षानुरोधेन काश्चित्समाः कतिचिद्वर्षाणि। `समा वर्षं समं तुल्यम्’ इति विश्वः। गमयित्वा नीत्वा योगसमाधिनैक्यानुसंधानेन। `संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः’इति वसिष्ठः। अव्ययमविनाशिनं तमसः परमविद्यायाः परम्। मायातीतमित्यर्थः। पुरुषं परमात्मानम्। आपात् प्राप। सायुज्यं प्राप्त इत्यर्थः।। 8.25 ।।
श्रउतदेहविसर्जनः पितुश्चिरमश्रूणि विमुच्य राघवः ।
विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित् ।। 8.25 ।।
श्रुतेति।। अग्निचिदग्निं चितवानाहितवान्। `अग्नौ चेः'(पा.3।2।91) इति क्विप्प्रत्ययः। राघवोऽजः पितुः श्रुतदेहविसर्जन आकर्णितपितृतनुत्यागः संश्चिरमश्रूणि बाष्पान्विमुच्य विसृज्यास्य पितुरनग्निम्। अग्निसंस्काररहितमित्यर्थः। नैष्ठिकं निष्ठायामन्ते भवं विधिमाचारंमन्त्येष्टिं यतिभिः संन्यासिभिः सार्धं सह विदधे चक्रे। `अनग्निं विधिम्’इत्यत्र शौनकः-`सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च। न तस्य दहनं कार्यं नैव पिण्डोदकक्रिया। निदध्यात्प्रणवैनैव बिलेभिक्षोः कलेवरम्। प्रोक्षणं खननं चैव सर्वं तेनैव कारयेत् ।।’इति ।। 8.25 ।।
अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् ।
न हि तेन तथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ।। 8.26 ।।
अकरोदिति।। पितृकार्यस्य तातश्राद्धस्य कल्पविद्विधानज्ञः सोऽजः पितृभक्त्या पितरि प्रेम्णा करणेन न पितुः परलोकसुखापेक्षया। मुक्तत्वादिति भावः। तस्य रघोरौर्ध्वदैहिकम्। देहादूर्ध्वं भवतीति तत्तिलोदकपिण्डदानादिकमकरोत्। `ऊर्ध्वं देहाञ्च’ इति वक्तव्याट्टक्प्रक्ययः। अनुशतिकादित्वादुभयपदवृद्धिः। ननु कथं भक्तिरेव श्राद्धादिफलप्रेप्सापि कस्मान्नाभूदित्याशङ्क्याह-न हीति। तेन पथा योगरूपेण मार्गेण तनुत्यजः शरीरत्यागिनः पुरुषास्तनयेनावर्जितं दत्तं पिण्डं काङ्क्षन्तीति तथोक्ता न हि भवन्ति ।। 8.26 ।।
स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ।
शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ।। 8.27 ।।
स इति।। परार्ध्यगतेः प्रशस्तगतेः प्राप्तमोक्षस्य पितुरशोच्यतामशोचनीयत्वमुद्दिश्याभिसंधाय। शोको न कर्तव्य इत्युपदिश्येत्यर्थः। सदर्थविदिभिः परमार्थज्ञैर्विद्वद्भिः शमिताधिर्निवारितमनोव्यथः। `पुंस्याधिर्मानसी व्यथा’ इत्यमरः। सोऽजोऽधिज्यकार्मुकः अधिज्यमारोपितमौर्वीकं कार्मुकं यस्य स तथोक्तः सन्। जगत् कर्मभूतमप्रतिशासनं द्वितीयाज्ञारहितम्। आत्माज्ञाविधेयमित्यर्थः। कृतवांश्चकार ।। 8.27 ।।
क्षितिरिन्दुमती च भामिनी पतिमासाद्यत तमग्र्यपौरुषम् ।
प्रथमा बहुरत्नसूरभूदपरा वीरमजीजनत्सुतम् ।। 8.28 ।।
क्षितिरिति।। क्षितिर्मही भामिनी कामिनीन्दुमती च। `भामिनी कामिनी च’ इति हलायुधः। अग्र्यपौरुषं महापराक्रममुत्कृष्टभोगशक्तिं च तमजं पतिमासाद्य प्राप्य। तत्र प्रथमा क्षितिः। बहूनि रत्नानि श्रेष्ठवस्तूनि सूत इति बहुरतन्सूरभूत्। `रत्नं स्वजातिश्रेष्ठेऽपि’ इत्यमरः। अपरेन्दुमती वीरं सुतमजीजनज्जनयति स्म। जायतेर्णौ लुङि रूपम्। सहोक्त्या सादृश्यमुच्यते।। 8.28 ।।
किंनामकोऽसावत आह-
दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।
दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ।। 8.29 ।।
दशेति।। दश रश्मिशतानि यस्य स दशरश्मिशतः सूर्यः स उपमा यस्याः सा दशरश्मिशतोपमा द्युतिर्यस्य तम्। यशसा करणेन दशस्वपि दिक्ष्वाशासु श्रुतं प्रसिद्धम्। दशकण्ठारे रावणारे रामस्य गुरुं पितरं यं सुतम्। आख्यया नाम्ना दशपूर्वो `दश’ शब्दपूर्वो रथो रथशब्दस्तम्। दशरथमित्यर्थः। बुधा विद्वांसो विदुर्वदन्ति। `विदो लटो वा'(पा.3।4।83)इति झेर्जुसादेशः ।। 8.29 ।।
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः ।
अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः ।। 8.30 ।।
ऋषीति।। श्रुतयागप्रसवैरध्ययनयज्ञसंतानैः करणैः यथासंख्यमृषीणां देवगणानामिन्द्रादीनां स्वधाभुजां पितॄणामनृणत्वमृणविमुक्तत्वम्। उपेयिवान् प्राप्तवान्। `एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा’ इति श्रुतेः। स पार्थिवोऽजः परिधेः परिवेषात्। `परिवेषस्तु परिधिः’इत्यमरः। मुक्तो पार्थिवोऽजः परिधेः परिवेषात्। `परिवेषस्तु परिधिः’इत्यमरः। मुक्तोनिर्गतः। कर्मकर्ता। उष्णदीधितिः सूर्य इव। बभौ दिदीपे। इत्युपमा ।। 8.30 ।।
बलमार्तभयोपशान्तये विदुषां सत्कृतये बहु श्रुतम् ।
वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना ।। 8.31 ।।
बलमिति।। तस्य विभोरजस्य केवलं वसु धनमेव परप्रयोजनं परोपकारकं नाभूत्। किंतु गुणवत्तापि गुणत्वमपि परप्रयोजना परेषामन्येषां प्रयोजनं यस्यां सा। विधेयांशत्वेन प्राधान्याद्गुणवत्ताया विशेषणं विस्वित्यत्र तूहनीयम्। तथा हि-बलं पौरुषमार्तानामापन्नानां भयस्योपशान्तये निषेधाय। न तु स्वार्थं परपीडनाय वा। बहु भूरि श्रुतं विद्या विदुषां सत्कृतये सत्काराय। न तृत्सेकाय बभूव तस्य धनं परोपयोगीति किं वक्तव्यम्। बलश्रुतादयोऽपि गुणाः परोपयोगिन इत्यर्थः ।। 8.31 ।।
स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः ।
नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ।। 8.32 ।।
स इति।। अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः। `नित्यमसिच्प्रजामेधयोः'(पा.5।4।122) इत्यसिच्प्रत्ययः। न केवलं स्त्रैण इति भावः। शोभना प्रजा यस्यासा सुप्रजाः सुपुत्रवान्। पुत्रन्यस्तभार इति भावः। सोऽजः कदाचिद्देव्या महिष्येन्दुमत्या सह नगरोपवने। नन्दने नन्दनाख्येऽमरावत्युपकण्ठवने शचीसखः। शच्या सहेत्यर्थः। मरुतां देवानां पालयितेन्द्र इव। विजहार चिक्रीड।। 8.32 ।।
अथ रोधसि दक्षिणोदधेः श्रितगोकर्णनिकेतमीश्वरम् ।
उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः ।। 8.33 ।।
अथेति।। अथ दक्षिणस्योदधेः समुद्रस्य रोधसि तीरे श्रितगोकर्णनिकेतमधिष्ठितगोकर्णाख्यस्थानमीश्वरं शिवमुपवीणयितुं वीणयोप समीपे गातुम्। `सत्यापाश-‘(पा.3।1।25)इत्यादिना `वीणा’शब्दादुपगानार्थे णिच्प्रत्ययः। ततस्तुमुन्। नारदो देवर्षी रवेः सूेर्यस्य संबन्धिना। उदयावृत्तिपथेनाकाशमार्गेण ययौ जगाम। सूर्योपमानेनास्यातितेजस्त्वमुच्यते ।। 8.33 ।।
कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् ।
अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः ।। 8.34 ।।
कुसुमैरिति।। आपार्थिवैरभौमैः। दिव्यैरित्यर्थः। कुसुमैर्ग्रथितां रचिताम्। तस्य नारदस्यातोद्यस्य वाद्यस्य वीणायाः शिरस्यग्रे निवेशिताम्। `चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्’इत्यमरः। स्रजं मालां वेगवान्मारुतः। अधिवासे वासनायां स्पृहयेव। स्रजा स्वाङ्गं संस्कर्तुमित्यर्थः। `संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्’इत्यमरः। अहरत्किल। `किल’इत्यैतिह्ये ।। 8.34 ।।
भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः ।
ददृशे पवनावलेपजं सृजती बाष्पमिवाञ्जनाविलम् ।। 8.35 ।।
भ्रमरैरिति।। कुसुमानुसारिभिः पुष्पानुयायिभिर्भ्रमरैरलिभिः परिकीर्णा व्याप्ता मुनेर्नारदस्य परिवादिनी वीणा `वीणा तु वल्लकी। विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी।।’ इत्यमरः। पवनस्य वायोरवलेपोऽधिक्षेपस्तज्जमञ्जनेन कज्जलेनाविलं कलुषं बाष्पमश्रु सृजतीव मुञ्चतीव। ददृशे दृष्टा। भ्रमराणां साञ्जनबाष्पबिन्दुसादृश्यं विवक्षितम्। `वा नपुंसकस्य'(पा.7।1।79) इति वर्तमाने `आच्छीनद्योर्नुम्'(पा.7।1।80)इति नुम्विकल्पः ।। 8.35 ।।
अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् ।
नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितिम् ।। 8.36 ।।
अभिभूयेति।। साऽमरस्रग्दिव्यमाला। मधुगन्धयोर्मकरन्दसौरभयोरतिशयेनाधिक्येन। वीरुधां लतानाम्। `लता प्रतानिनी वीरुत्’इत्यमरः। ऋतोः प्राप्तामार्तवीमृतुसंबन्धिनीं विभूतिं समृद्धिमभिभूय तिरस्कृत्य नृपतेरजस्य दयिताया इन्दुमत्या उर्वोर्विशालयोः स्तनयोर्ये कोटी चूचुकौ तयोः सुस्थितिं गोप्यस्थाने पतितत्वात्प्रशस्तं स्थानम् । आप प्राप्ता ।। 8.36 ।।
क्षणमात्रसखीं सुजातयोः स्तनयोस्तामत्रलोक्य विह्वला ।
निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ।। 8.37 ।।
क्षणमिति।। सुजातयोः सुजन्मनोः। सुन्दरयोरित्यर्थः। स्तनयोः क्षणमात्रं सखीं सखीमिव स्थिताम्। सुजातत्वसाधर्म्यात्स्रजः स्तनसखीत्वमिति भावः। तां स्रजमवलोक्येष्द्दृष्ट्वा विह्वला परवशा नरोत्तमप्रियेन्दुमती। तमसा राहुणा। `तमस्तु राहुः स्वर्भानुः’ इत्यमरः। हृतचन्द्रा कौमुदी चन्द्रिकेव। निमिमील मुमोह,ममारेत्यर्थः। `निमीलो दीर्घनिद्रा च’ इति हलायुधः। कौमुद्या निमीलनं प्रतिसंहारः ।। 8.37 ।।
वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ।। 8.38 ।।
वपुषेति।। करणैरिन्द्रियैरुज्झितेन मुक्तेन। `करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि’इत्यमरः। वपुषा निपतन्ती सेन्दुमती पतिमजमप्यपातयत् पातयति स्म। तथा हि-निषिच्यत इति निषेकः। तैलस्य निषेकस्तैलनिषेकः। क्षरत्तैलमित्यर्थः। तस्य बिन्दुना सह दीपार्चिर्दीपज्वाला मेदिनीं भुवमुपैति ननूपैत्येव। `ननु’अत्रावधारणे। `प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु’इत्यमरः। इन्दुमत्या दीपार्चिरुपमानम्। अजस्य तैलबिन्दुः। तत एव तस्या जीवितसमाप्तिस्तस्य जीवितशेषश्च सूच्यते ।। 8.38 ।।
उभयोरपि पार्श्ववर्तिनां तुमुलेनार्तिरवेण विजिताः ।
विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ।। 8.39 ।।
उभयोरिति।। उभयोर्दम्पत्योः पार्श्ववर्तिनां परिजनानां तुमुलेन संकुलेनार्तरवेण करुणस्वनेन वेजिता भीताः कमलाकरालयाः सरःस्थिता विहगा हंसादयोऽपि तत्रोपवने समदुःखा इव तत्पार्श्ववर्तिनां समानशोका इव चुक्रुशुः क्रोशन्ति स्म ।। 8.39 ।।
नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता ।
प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ।। 8.40 ।।
नृपतेरिति।। नृपतेरजस्य तमोऽज्ञआनं व्यजनादिभिः साधनैर्नुनुदेऽपसारितम्। `आदि’शब्देन जलसेककर्पूरक्षोदादयो गृह्यन्ते। सा त्विन्दुमती तथैव संस्थिता मृता। तथा’ हि-प्रतिकारविधानं चिकित्सायुषो जीवितकालस्य शेषे सति विद्यमाने। `आयुर्जीवितकालो ना’ इत्यमरः। फलाय सिद्धये कल्पत आरोग्याय भवति,नान्यथा। नृपतेरायुःशेषसद्भावात्प्रतीकारस्य साफल्यम्। तस्यास्तु तदभावाद्वैफल्यमित्यर्थः ।। 8.40 ।।
प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात् ।
स निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम् ।। 8.41 ।।
प्रतीति।। अथ सत्त्वस्य चैतन्यस्य विप्लवाद्विनाशाद्धेतोः। `द्रव्यासुव्यवसायेषु सत्त्वम्’ इत्यमरः। प्रतियोजयितव्या तन्त्रीभिर्योजनीया। न तु योजिततन्त्रीत्यर्थः। या वल्लकी वीणा। तस्याः समाऽवस्था दशा यस्यास्तामङ्गनां वनितां नितान्तवित्सलोऽतिप्रेमवान् सोऽजः परिगृह्य हस्ताभ्यां गृहीत्वोचितं परिचितमङ्कमुत्सङ्गं निनाय नीतवान्। वल्लकीपक्षे तु-सत्त्वं तन्त्रीणामवष्टम्भकः शलाकाविशेषः ।। 8.41 ।।
पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया ।
समलक्ष्यत बिभ्रदाविलां मृगलेखेमुषसीव चन्द्रमाः ।। 8.42 ।।
पतिरिति।। पतिरङ्कनिषण्णयोत्सङ्गस्थितया करणानामिन्द्रियाणामपायेनापगमेन हेतुना विभिन्नवर्णया विच्छायया तया। उषसि प्रातःकाल आविलां मलिनां मृगलेखां मृगरेखारूपं लाञ्छनं बिभ्रद्धारयंश्चद्रमा इव। समलक्ष्यतादृश्यत। इत्युपमा ।। 8.42 ।।
विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ।। 8.43 ।।
विललापेति।। सोऽजः सहजां स्वाभाविकीमपि धीरतां धैर्यमपहाय विप्रकीर्य बाष्पेण कण्ठगतेन गद्गदं विशीर्णाक्षरं यथा तथा ध्वनिमात्रानुकारिगद्गदशब्दैर्विललाप प्ररिदेवितवान्। `विलापः परिदेवनम्’ इत्यमरः। अभितप्तमग्निना संतप्तमयो लोहमचेतनमपि मार्दवं मृदुत्वमवैरत्वं च भजते प्राप्नोति। शरीरिषु देहिषु। अभिसंतप्तेष्विति शेषः। विषये कैव कथा वार्ता? अनुक्तसिद्धमित्यर्थः ।। श्र.43 ।।
कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि ।
न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ।। 8.44 ।।
कुसुमानीति।। कुसुमानि पुष्पाण्यपि। `अपि’ शब्दो नितान्तमार्दवद्योतनार्थः। गात्रसंगमाद्देहसंसर्गादायुरपोहितुमपहर्तुं प्रभवन्ति यदि। हन्त विषादे। `हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः’इत्यमरः। प्रहरिष्यतो हन्तुमिच्छतो विधेर्दैवस्यान्यत् कुसुमातिरिक्तं किमिव वस्तु। `इव’शब्दो वाक्यालंकारे। कीदृशमित्यर्थः। साधनं प्रहरणं न भविष्यति न भवेत्? सर्वमपि साधनं भविष्यत्येवेत्यर्थः ।। 8.44 ।।
अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।
हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ।। 8.45 ।।
अथवेति।। अथवा पक्षान्तरे। प्रजान्तकः कालो मृत्युः मृदु कोमलं वस्तु मृदुनैव वस्तुना हिंसितुं हन्तुमारभत उपक्रमते। अत्रार्थे हिमसेकेन तुषारनिष्यन्देन विपत्तिर्मृत्युर्यस्याः सा तथा नलिनी पद्मिनी मे पूर्वं प्रथमं निदर्शनमुदाहरणं मता,द्वितीयं निदर्शनं पुष्पमृत्युरिन्दुमतीति भावः ।। 8.45 ।।
स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् ।
विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ।। 8.46 ।।
स्रगिति।। इयं स्रक् जीवितमपहन्तीति जीवितापहा यदि। हृदये वक्षसि। `हृदयं वक्षसि स्वान्ते’ इत्यमरः। निहिता सती मां किं न हन्ति? ईश्वरेच्छया क्वचित् प्रदेशे विषमप्यमृतं भवेत् क्वचिदमृतं वा विषं भवेत् । दैवमेवात्र कारणमित्यर्थः ।। 8.46 ।।
अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा ।
यदनेन तरुर्न पातितः क्षपिता तद्विटपाश्रिता लता ।। 8.47 ।।
अथवेति।। अथवा मम भाग्यस्य विप्लवाद्विपर्ययात् एषः। स्रगित्यर्थः। विधेयप्राधान्यात्पुंलिङ्गनिर्देशः। वेधसा विधात्राऽशनिर्वैद्युतोऽग्निः कल्पितः। `दम्भोलिरशनिर्द्वयोः’इत्यमरः। अपूर्वत्वमेव स्पष्टयति-यद्यस्मात्कारणात्। अनेनाप्यशनिना प्रसिद्धाशनिना तरुस्तरुस्थानीयः स्वयमेव न पातितः। किंतु तस्य तरोर्विटपाश्रिता लता वल्ली क्षपिता नाशिता ।। 8.47 ।।
कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि ।
कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे? ।। 8.48 ।।
कृतवतीति।। मयि चिरं भूरिशोऽपराद्धेऽप्यपराधं कृतवत्यपि। राधेः कर्तरि क्तः। यदा यस्माद्धेतोः। यदेति हेत्वर्थः। `स्वरादौ पठ्यते यदेति हेतौ’ इति गणव्याख्यानात्। अवधीरणामवज्ञां न कृतवत्यसि नाकार्षीः। तत्कथमेकपदे तत्क्षणे। `स्यात्तत्क्षण एकपदम्’इति विश्वः। निरागसं नितरामनपराधमिमं जनम्। `इमम्’इति स्वात्मनिर्देशः। मामित्यर्थः। आभाष्यं संभाष्यं न मन्यसे न चिन्तयसि? ।। 8.48 ।।
ध्रुवमस्मि शठः शुचिस्मिते! विदितः कैतववत्सलस्तव ।
परलोकमसंनिवृत्तये यदनापृच्छ्य गतासि मामितः ।। 8.49 ।।
ध्रुवमिति।। हे शउचिस्मिते धवलहसिते! शठो गूढविप्रियकारी कैतवेन कपटेन वत्सलः कैतवस्निग्धा इति ध्रुवं सत्यं तव विदितस्त्वया विज्ञातोऽस्मि। `मतिबुद्धि-‘(पा.3।2।188) इत्यादिना कर्तरि क्तः। `क्तस्य च वर्तमाने’ (पा.2।3।67)इति कर्तरि षष्ठी। कुतः? यद्यस्मात्,मामनापृच्छ्यानामन्त्र्य। इतोऽस्माल्लोकात्। परलोकमसंनिवृत्तयेऽपुनरावृत्तये गतासि ।। 8.49 ।।
दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना ।
सहतां हतजीवितं मम प्रबलामात्मकृतेन वेदनाम् ।। 8.50 ।।
दयितामिति।। इदं मम हतजीवितं कुत्सितं जीवितं तावदादौ दयितामिन्दुमतीमन्वगादन्वगच्छद्यदि अन्वगादेव। `यदि’ अत्रावधारणे। पूर्वं मूर्च्छितत्त्वादिति भावः। तर्हि तया दयितया विना किं किमर्थं विनिवृत्तं प्रत्यागतम्? प्रत्यागमनं न युक्तमित्यर्थः। अत एवात्मकृतेन स्वदुश्चेष्टितेन निवृत्तिरूपेण प्रबलामधिकां वेदनां दुःखं सहतां क्षमताम्। स्वयंकृतापराधेषु सहिष्णुतैव शरणमिति भावः ।। 8.50 ।।
सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते ।
अथ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् ।। श्र.51 ।।
सुरतेति।। सुरतश्रमेण संभृतो जनितः स्वेदलवोद्गमोऽपि ते तव मुखे ध्रियते वर्तते। अथ च त्वमात्मना स्वरूपेणास्तं प्राप्ताः। अतः कारणाद्देहभृतां प्राणिनामिमां प्रत्यक्षामसारतामस्थिरतां धिक् ।। 8.51 ।।
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम्? ।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ।। 8.52 ।।
मनसेति।। मया मनसापि तव विप्रियं न कृतपूर्वम्। पूर्वं न कृतमित्त्यर्थः। सुप्सुपेति समासः। किं केन निमित्तेन मां जहासि त्यजसि? नन्वहं क्षितेः शब्दपतिः शब्दत एव पतिः। न त्वर्थत इत्यर्थः। भावनिबन्धनाऽभिप्रायनिबन्धना स्वाभावहेतुका मे रतिः,प्रेम तु त्वय्येव। अस्तीति शेषः ।। 8.52 ।।
कुसुमोत्स्वचितान्वलीभृतश्चलयन्भृङ्गरुचस्तवालकान् ।
करभोरु! करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः ।। 8.53 ।।
कुसुमेति।। कुसुमैरुत्खचितानुत्कर्षेण रचितान् वलीभृतो भङ्गीयुक्तान्। कुटिलानित्यर्थः। भृङ्गरुचो नीलांस्तवालकांश्चलयन्कम्ययन् मारुतः हे करभोरु करभसदृशोरु!`मणिबन्धादाकनिष्ठं करस्य करभो बहिः’ इत्यमरः। मे मनस्त्वदुपावर्तनशङ्कि तव पुनरागमने शङ्कावत्करोति। त्वदुज्जीवने शङ्कां कारयतीत्यर्थः ।। 8.53 ।।
तदपोहितुमर्हसि प्रिये! प्रतिबोधेन विषादमाशु मे ।
ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः ।। 8.54 ।।
तदिति।। हे प्रिये! तत्तस्मात्कारणादाशु विषादं दुःखम्। नक्तं रात्रावोषधिस्तृणज्योतिराख्या लता ज्वलितेन प्रकाशेन तुहिनाद्रेर्हिमाचलस्य गुहागतं तमोऽन्धकारमिव। प्रतिबोधेन ज्ञानेनापोहितुं निरसितुमर्हसि ।। 8.54 ।।
इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।
निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ।। 8.55 ।।
इदमिति।। इदमुच्छ्वसितालकं चलितचूर्णकुन्तलं विश्रान्तकथं निवृत्तसंलापं तव मुखम्। निशि रात्रौ सुप्तं निमीलितं विरतोऽभ्यन्तराणामन्तर्वर्तिनां षट्पदानां स्वनो यत्र तत्। निःशब्दभृङ्गमित्यर्थः। एकपङ्कजमद्वितीयं पद्ममिव। मां दुनोति परितापयति ।। 8.55 ।।
शशिनं पुरनेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् ।
इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ।। 8.56 ।।
शशिनमिति।। शर्वरी रात्रिः शशिनं चन्द्रं पुनरेति प्राप्नोति। द्वन्द्वीभूटचरतीति द्वन्द्वचरः तं पतत्रिणं चक्रवाकं दयिता चक्रवारी पुनरेति। इति हेतोस्तौ चन्द्र-चक्रवाकौ विरहान्तरक्षमौ विरहावधिसहौ। `अन्तरमवकाशावधिपरिधानन्तर्द्धिभेदतादर्थ्ये’ इत्यमरः। अत्यन्तगता पुनरावृत्तिरहिता त्वं कथं न मां दहेर्न संतापयेः? अपि तु दहेरेवेत्यर्थः ।। 8.56 ।।
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् ।
तदिदं विषहिष्यते कथं वद वामोरु! चिताधिरोहणम् ।। 8.57 ।।
नवेति।। नवपल्लवसंस्तरे नूतनप्रवालास्तरणेऽप्यर्पितं स्थापितं मृदु ते तव यदङ्गं शरीरं दूयेत परिपप्तं भवेत्। वामौ सुन्दरौ ऊरू यस्याः सा हे वामोरु। `वामं स्यात्सुन्दरे सव्ये’ इति केशवः। `संहितशफलक्षण-‘ इत्यादिनोङ्प्रत्ययः। तदिदमङ्गं चितायाः काष्ठसंचयस्याधिरोहणं कथं विषहिष्यते वद ।। 8.57 ।।
इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ।
गतिविभ्रमसादनीरवा न शुचा नानु मृतेन वक्ष्यते ।। 8.58 ।।
इयमिति।। इयं प्रथमाऽऽद्या रहःसखी। सुरतसमयेऽप्यनुयानादिति भावः। गतिविभ्रमसादेन नीरवा विलासोपरमेण निःशब्दा रशना मेखलाऽप्रतिबोधमपुनरुद्बोधं यथा तथा शायिनीम्। मृतामित्यर्थः। त्वामनु त्वया सह। `तृतीयार्थे'(पा.1।4।85)इत्यनुशब्दस्य कर्मप्रवचनीयत्वात् द्वितीया। शुचा शोकेन मृतेव न लक्ष्यत इति न। लक्ष्यत एवेत्यर्थः। संभाव्यनिषेधनिवर्तनाय द्वौ प्रतिषेधौ ।। 8.58 ।।
कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम् ।
पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः ।। 8.59 ।।
त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया ।
विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः ।। 8.60 ।।
कलमिति।। त्रिदिवेति।। युग्मम्। उभयोरेकान्वयः। अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणम्। कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं गमनम्। पृषतीषु हरिणीषु विलोलमीक्षितं चञ्चला दृष्टिः। पवनेन वायुना धूतलतास्वीषत्कम्पितलतासु विभ्रमा विलासाः। इत्यमी पूर्वोक्ताः कलभाषणादयो गुणाः। एषु कोकिलादिस्थानेष्विति शेषः। त्रिदिवोत्सुकयापीह जीवन्त्येव स्वर्गं प्रति प्रस्थितयापि त्वया मामवेक्ष्य विरहासहं विचार्य सत्यं निहिताः। मत्प्राणधारणोपायतया स्थापिता इत्यर्थथः। तव विरहे गुरुव्यथमतिदुःखं मे हृदयं मनोऽवलम्बितुं स्थापयितुं न क्षमा न शक्ताः। ते तु तत्संगम एव सुखकारणः,नान्यथा। प्रत्युत प्राणानपहरन्तीति भावः ।। 8.59-60 ।।
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ ।
अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ।। 8.61 ।।
मिथुनमिति।। ननु हे प्रिये! सहकारस्तरुविशेषः फलिनी प्रियंगुलता चेमौ त्वया मिथुनं परिकल्पितं मिथुनत्वेनाभ्यमानि। अनयोः फलिनी-सहकारयोर्विवाहसत्क्रियां विवाहमङ्गलमविधायाकृत्वा गम्यत इत्यसांप्रतमुक्तम्। मातृहीनानां न किंचित्सुखमस्तीति भावः ।। 8.61 ।।
कुसुमं कृतदोहदस्त्वया यदशोकोऽयतमुदीरयिष्यति ।
अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम्? ।। 8.62 ।।
कुसुममिति।। वृक्षादिपोषकं दोहदम्। त्वया कृतं दोहदं पादताडनरूपं यस्य सोऽयमशोको यत्कुसुममुदीरयिष्यति प्रसविष्यते। तवालकानामाभरममाभरणभूतं तत्कुसुममुदीरयिष्यति प्रसविष्यते। तवालकानामाभरणमाभरणभूतं तत्कुसुमं कथं नु केन प्रकारेण निवापमाल्यतां दाहाञ्जलेरर्ध्यतां नेष्यामि? `निवापः पितृदानं स्यात्’ इत्यमरः ।। 8.62 ।।
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् ।
अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि! शोच्यसे ।। 8.63 ।।
स्मरतेति।। अन्यदुर्लभम्। किंतु स्मर्तव्यमेवेत्यर्थः। सशब्दं ध्वनियुक्तं नूपुरं मञ्जीरं यस्य तं चरणेनानुग्रहं पादेन ताडनरूपं स्मरतेव चिन्तयतेव कुसुमान्येवाश्रूणि तद्वर्षिणाऽमुना पुरोवर्तिनाऽशोकेन। हे सुगात्रि!`अङ्गगात्रकण्ठेभ्यश्च’ इति वक्तव्यान्ङीप्। त्वं शोच्यसे ।। 8.63 ।।
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया ।
असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि! सुप्यते? ।। 8.64 ।।
तवेति।। तव निःश्वसितानुकारिभिर्बकुलैर्बकुसुमैर्मया समं सार्धमर्धचितामर्धं यथा तथा रचितां विलासमेखलामसमाप्यापूरयित्वा। किंनरस्य देवयोनिविशेषस्य कण्ठ इव कण्ठो यस्यास्तत्संबुद्धिर्हे किन्नरकण्ठि!`अङ्गगात्रकण्ठेभ्यश्च’ इति ङीप्। किमिदं सुप्यते निद्रा क्रियते? `वचिस्वपि-‘(पा.6।1।15)इत्यादिना संप्रसारणम्। अनुचितमिदं स्वपनमित्यर्थः ।। 8.64 ।।
समदुःखसुखः सखीजनः प्रतिपञ्चन्द्रनिभोऽयमात्मजः ।
अहमेकरसस्तथापि ते व्यवसायः प्रतिपात्तिनिष्ठुरः ।। 8.65 ।।
समेति।। सखीजनः समदुःखसुखः,त्वद्दुःखेन दुःखी,त्वत्सुखेन सुखीत्यर्थः। अयमात्मजो बालः,प्रतिपञ्चन्द्रनिभः। दर्शनीयो वर्धिष्णुश्चेत्यर्थः। `प्रतिपत्’शब्देन द्वितीया वक्षअयते; प्रतिपदि चन्द्रस्यादर्शनात्। अहमेकरसोऽभिन्नरामः। `शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः’ इत्यमरः। तथापि। जीवितसामग्रीसत्त्वेऽपीत्यर्थः। ते तव व्यवसायोऽस्मत्परित्यागरूपो व्यापारः प्रतिपत्त्या निश्चयेन निष्ठुरः क्रूरः। `प्रतिपत्तिः पदप्राप्तौ प्रकृतौ गौरवेऽपि च। प्रागल्भ्ये च प्रबोधे च’ इति विश्वः। स्मर्तुं न् शक्यः किमुताधिकर्तुमिति भावः ।। 8.65 ।।
धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः ।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ।। 8.66 ।।
धृतिरिति।। अद्य मे धृतिर्धैर्यं प्रतीतिर्वाऽस्तं नाशमिता। रतिः क्रीडाच्युता गता। गेयं गानं विरतम्। ऋतुर्वसन्तदिर्निरुत्सवः। आभरणानां प्रयोजनं गतमपगतम्। शेतेऽस्मिन्निति शयनीयं तल्पम्। `कृत्यल्युटो बहुलम्’ (पा.3।3।113)इत्यधिकरणार्थेऽनीयर्प्रत्ययः। परिशून्यम्। त्वां विना सर्वमपि निष्फलमिति भावः ।। 8.66 ।।
गृहीणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ।। 8.67 ।।
गृहीणीति।। त्वमेव गृहिणी दाराः। अनेन सर्वं कुटुम्बं त्वदाश्रयमिति भावः। सचिवो बुद्धिसहायो मन्त्री। सर्वो हितोपदेशस्त्वदायत्त इत्यनेनोच्यते। मिथो रहसि सखी नर्मसचिवः। सर्वोपभागस्त्वदाश्रय इत्यमुना प्रकटितम्। ललिते मनोहरे कलाविधौ वादित्रादिचतुःषष्टिकलाप्रयोगे प्रियशिष्या। प्रियत्वं प्राज्ञत्वादित्यभिसंधिः। सर्वानन्दोऽनेन त्वन्निबन्धन इत्युद्वाटितम्। अतस्त्‌वां समष्टिरूपां हरताऽत एव करुणाविमुखेन कृपाशून्येन मृत्युना मे मत्संबन्धि किं वत्सु न हृतं वद। सर्वमपि हृतमित्यर्थः ।। 8.67 ।।
मदिराक्षि! मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे ।
अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ।। 8.68 ।।
मदिरेति।। माद्यत्यनयेति मदिरा लोकप्रसिद्धा। तथापि `नार्यो मदिरलोचनाः’ इत्यादिप्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे आक्षिणी यस्यास्तत्संबुद्धिर्हे मदिराक्षि! मदाननेनार्पितं रसवत् स्वादुतरं मधु मद्यं पीत्वा बाष्पदूषितमश्रुतप्तं परलोकोपनतं परलोकप्राप्तं मे जलाञ्जलिं तिलोदकाञ्जलिं कथं न्वननन्तरं पास्यसि? तदनन्तरमिदमनर्हमित्यर्थः। यथाह भट्टमल्लः-`अनुपानं हिमजलं यवगोधूमनिर्मिते। दध्नि मद्ये विषे द्राक्षे पिष्टे पिष्ठमयेऽपि च।।’ इति । तञ्चेहैव युज्यते। इदं तूष्णं लोकान्तरोपयोगि चेत्यायुर्वेदविराधात्कथमनुपास्यसीति भावः ।। 8.68 ।।
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् ।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ।। 8.69 ।।
विभव इति।। विभव ऐश्वर्ये सत्यपि त्वया विनाऽजस्यैतावदेव सुखं गण्यताम्। यावत्त्या सह भुक्ते ततोऽन्यन्न किंचिद्भविष्यतीत्यर्थथः। कुतः? विलोभनान्तरैरन्यैर्विशेषेण लोभजनकवस्तुभिरैश्वर्यादिभिरहृतस्यानाकृष्टस्य मम सर्वे विषया भोगादयः। त्वदाश्रयास्त्वदधीनाः। त्वां विना मे न किंचिद्रोचत इत्यर्थः ।। 8.69 ।।
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।
अकरोत्पृथिवीरुहानपि स्रुतशाखारसबाष्पदूषितान् ।। 8.70 ।।
विलपन्निति।। कोसलानामधिपोऽज इति करुणः शोकरसः स एवार्थस्तेन ग्रथितं संबद्धं यथा तथा प्रियां प्रतीन्दुमतीमुद्दिश्य विलपन्,पृथिवीरुहान् वृक्षानपि स्रुताः शाखारसा मकरन्दा एव बाष्पास्तैर्दूषितानकरोत्। अचेतनानप्यरोदयदित्यर्थः ।। 8.70 ।।
अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् ।
विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे ।। 8.71 ।।
अथेति।। अथ स्वजनो बन्धुवर्गः। तस्याजस्याङ्कत उत्सङ्गात् कथंचिदपिनीय। तद्दिव्यकुसुममेवान्त्यं मण्डनमलंकारो यस्यास्ताम्। तां सुन्दरीमगुरूणि चन्दनान्येधांसीन्धनानि यस्य तस्मा अनलायाग्नये विससर्ज विसृष्टवान्। `क्रियाग्रहणमपि कर्तव्यम्’ इति क्रियामात्रप्रयोगे संप्रदानत्वाञ्चतुर्थी ।। 8.71 ।।
प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् ।
न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ।। 8.72 ।।
प्रमदामिति।। नृपतिरजः सन्नपि विद्धानपि शुचा शोकेन प्रमदामनुप्रमदया सह संस्थितो मृत इति वाच्यदर्शनान्निन्दादर्शनाद्देव्येन्दुमत्या सह शरीरमग्निसादग्न्यधीनं न चकार। `तदधीनवचने'(पा.5।4।54) इति सातिप्रत्ययः। जीविताशया प्राणेच्छया तु नेति ।। 8.72 ।।
अथ तेन दशाहतः परे गुणशेषामपदिश्य भामिनीम् ।
विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ।। 8.73 ।।
अथेति।। अथ विदुषा शास्त्रज्ञेन तेनाजेन। गुणा एव शेषा रूपादयो यस्यास्तां गुणशेषां भामिनीमिन्दुमतीमपदिश्योद्दिश्य। दशानामह्रां समाहारो दशाहः। `तद्धितार्थ-‘(पा.2।1।51) इत्यादिना समासः। समाहारस्यैकत्वादेकवचनम्। `राजाहःसखिभ्यष्टच्'(पा.5।4।51) इति टच्। `रात्राह्राहाः पुंसि'(पा.2।4।29) इति पुंवत्। ततस्तसिल्। तस्माद्दशाहतः पर ऊर्ध्वं कर्तव्या महर्द्धयो महासमृद्धयो विधयः क्रियाः पुरः पुर्या उपवन उद्यान एव समापिताः संपूर्णमनुष्ठिताः। `दशाहतः’ इत्यत्र `विप्रः शुद्ध्योद्दशाहेन द्वादशाहेन भूमिपः'(5।83) इति मनुवचनविरोधो नाशङ्कनीयः; तस्य निर्गुणक्षत्रियविषयत्वात्। गुणवत्क्षत्रियस्य तु दशाहेन शुद्धिमाह पराशरः-`क्षत्रियस्तु दशाहेन स्वधर्मनिरतः शुचिः’इति। सूच्यतेऽस्यापि गुणवत्त्वं `विदुषा’ इत्यनेन ।। 8.73 ।।
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः ।
परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु ।। 8.74 ।।
स इति।। तयेन्दुमत्या विना। क्षणदाया रात्रेरपायेऽपगमे यः शशाङ्कश्चन्द्रः स इव दृश्यत इति क्षणदापायशशाङ्कदर्शनः। प्रातःकालिकचन्द्र इव दृश्यमान इत्यर्थः। दृश्यत इति कर्मार्थे ल्युट्। सोऽजः पौरवधूमुखाश्रुषु स्वशुचः स्वशोकस्य परिवाहं जलोच्छ्वासमिवावलोकयन्। `जलोच्छ्वासाः परीवाहाः’इत्यमरः। स्वदुःखपूरातिशयमिव पश्यन् पुरीं विवेश। `वधू’ग्रहणात्तस्यामिन्दुमत्यां सख्याभिमानादजसमानदुःखसूचकपरीवाहोक्तिर्निर्वहति ।। 8.74 ।।
अथ तं सवनाय दीक्षितः प्रणिधानाद्गुरुराश्रमस्थितः ।
अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ।। 8.75 ।।
अथेति।। अथ सवनाय यागाय दीक्षितो गुरुर्वसिष्ठ आश्रमे स्वकीयाश्रमे स्थितः सन्। तमजमभिषङ्गजडं दुःखमोहितं प्रणिधानाञ्चित्तैकाग्र्याद्विजज्ञिवाञ्ज्ञातवान्। `क्वसुश्च'(पा.3।2।107) इति क्वसुप्रत्ययः। इति वक्ष्यमाणप्रकारेण शिष्येणान्वबोधयत्किल। बुधेर्ण्यन्ताण्णिचि लङ् ।। 8.75 ।।
वसिष्ठशिष्य आह-
असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् ।
न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं पथश्च्युतम् ।। 8.76 ।।
असमाप्तेति।। यतो हेतोर्मुनिरसमाप्तविधिरसमाप्तक्रतुस्ततस्तव तापकारणं दुःखहेतुं कलत्रनाशरूपं विद्वाञ्जानन्निपि । `विदेः शतुर्वसुः'(पा.7।1।36) इति वस्वादेशः। `न लोक-‘(पा.2।3।69)इत्यादिना षष्ठीप्रतिषेधः। पथश्च्युतं स्वभावाद्भ्रष्टं भवन्तं प्रकृतौ स्वभावे स्थापयितुम्। समाश्वासयितुमित्यर्थः। स्वयं नोपस्थितो नागतः ।। 8.76 ।।
मयि तस्य सुवृत्त! वर्तते लघुसंदेशपदा सरस्वती ।
श्रृणु विश्रुतसत्त्वसार! तां हृदि चैनामुपधातुमर्हसि ।। 8.77 ।।
मयीति।। हे सुवृत्त सदाचार! संदिश्यत इति संदेशः संदेष्टव्यार्थः। तस्य पदानि वाचकानि लघूनि संक्षिप्तानि संदेशपदानि यस्यां सा लघुसंदेशपदा तस्य मुनेः सरस्वती वाक् मयि वर्तते। हे विश्रुतसत्त्वसार प्रख्यातधैर्यातिशय। तां सरस्वतीं शुणु। एनां वाचं हृद्युपधातुं धर्तुं चार्हसि ।। 8.77 ।।
वक्ष्यमाणार्थानुगुणं मुनेः सर्वज्ञत्वं तावदाह-
पुरुषस्य पदेष्वजन्मनः समतीतं च भवञ्च भावि च ।
स हि निष्प्रतिधेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ।। 8.78 ।।
पुरुषस्येति।। अजन्मनः पुराणपुरुषस्य भगवतस्त्रिविक्रमस्य पदेषु विक्रमषु। त्रिभुवनेष्वपीत्यर्थः। समतीतं भूतं च भवद्वर्तमानं च भावि भविष्यञ्चेति त्रितयं स मुनिर्निष्प्रतिधेनाप्रतिबन्धेन ज्ञानमयेन चक्षुषा ज्ञानदृष्ट्या पश्यति हि। अतस्तदुक्तिषु न संशयितव्यमित्यर्थथः।। 8.78 ।।
चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा ।
प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ।। 8.79 ।।
चरत इति।। पुरा किल दुश्चरं तीव्रं तपश्चरतस्तृणबिन्दोस्तृणबिन्दुनामकात्कस्माञ्चिदृषेः परिशङ्कितो भीतः। कर्तरि क्तः। `भीत्रार्थानां भयहेतुः'(पा.1।4।25)इत्यपादानात्पञ्चमी। हरिरिन्द्रः समाधिभेदिनीं तपोविघातिनीं हरिणीं नाम सुराङ्गनामस्मै तृणबिन्दवे प्रजिघाय प्रेरितवान् ।। 8.79 ।।
स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् ।
अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा भुवि ।। 8.80 ।।
स इति।। स मुनिः। शमः शान्तिरेव वेला मर्यादा यस्याः। प्रलयोर्मिणा प्रलवकासतरङ्गेण। शमविघातकेनेत्यर्थः। `अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि’ इत्यमरः। तपसः प्रतिबन्धेन विघ्नेन यो मन्युः क्रोधस्तेन हेतुना। प्रमुखेऽग्रे आविष्कृतचारुविभ्रमां प्रकाशितमनोहरविलासां तां हरिणीं भुवि भूलोके मानुषी मनुष्यस्त्री भवेत्यशपच्छशाप ।। 8.80 ।।
भगवन्! परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे ।
इति चोपनतां क्षितिस्पृशं कृतवाना सुरपुष्पदर्शनात् ।। 8.81 ।।
भगवन्निति।। हे भगवन्महर्षे! अयं जनः। परोऽस्यास्तीति स्वामित्वेन परवान् पराधीनः। `अयम्’ इत्यात्मनिर्देशः। अहं पराधीनेत्यर्थः। मे मम प्रतिकूलाचरितमपरराधं क्षमस्वेत्यनेन प्रकारेणोपनतां शरणागतां च हरिणीमा सुरपुष्पदर्शनात् पुष्पदर्शनपर्यन्तम्। क्षितिं स्पृशतीति क्षितिस्पृक्,तां क्षितिस्पृशं मानुषीं कृतवानकरोत्। दिव्यपुष्पदर्शनं शापावधिरित्यनुगृहीतवानित्यर्थः ।। 8.81 ।।
क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा ।
उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम् ।। 8.82 ।।
क्रथेति।। क्रथकैशिकानां राज्ञां वंशे संभवो यस्याः सा हरिणी तव भहिष्यभिषिक्ता स्त्री। `कृताभिषेका महिषी’ इत्यमरः। भूत्वा चिराय दिवः स्वर्गाञ्च्युतं पतितं शापनिवृत्तिकारणं सुरपुष्परूपलब्धवती विवशा। अभूदिति शेषः। मृतेत्यर्थः।। 8.82 ।।
तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता ।
वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ।। 8.83 ।।
तदिति।। तत्तस्मात्तस्या अपायचिन्तयाऽलम्। तस्य मरणं न चिन्त्यमित्यर्थः। निषेधक्रियां प्रति करणत्वाञ्चिन्तयेति तृतीया। कुतो न चिन्त्यमत आह-उत्पत्तिमतां जन्मवतां विपद्विपत्तिरुपस्थिता सिद्धा। जातस्य हि ध्रुवो मृत्युरित्यर्थः। तथापि कलत्ररहितस्य किं जीवितेन तत्राह-त्वयेयं वसुधा भूमिरवेक्ष्यतां पाल्यताम्। हि यस्मान्नृपा वसुमत्यां पृथिव्या कलत्रिणः कलत्रवन्तः। अतो न शोचितव्यमित्यर्थः।। 8.83 ।।
उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया ।
मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ।। 8.84 ।।
उदय इति।। उदयेऽभ्युदये सति मदेन यद्वाच्यं निन्दादुःखं तदुज्झता परिहरता सत्यपि मदहेतावमाद्यता त्वया यदात्मवदध्यात्मप्रचुरं श्रुतं शास्त्रम्। तज्जनितं ज्ञानमिति यावत्। आविष्कृतं प्रकाशितम्। तच्छ्रुतं मनसो ज्वरेसंताप उपस्थित प्राप्तेऽक्लीबतया धैर्येण लिङ्गेन पुनः प्रकाश्यताम्। विदुषा सर्वास्ववस्थास्वपि धीरेण भवितव्यमित्यर्थः ।। 8.84 ।।
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ।। 8.85 ।।
रुदतेति।। रुदता भवता सा कुत एव लभ्यते? न लभ्यत एव। अनुम्रियत इत्यनुमृत्। क्विप्। तेनानुमृतानुमृतवताऽपि भवता पुनर्न लभ्यते। कथं न लभ्यत इत्याह-परलोकजुषां लोकान्तरभाजां देहिनाम्। गम्यत इति गतयो गम्यस्थानानि स्वकर्मभिः पूर्वाचरितपुण्यपापैर्भिन्नपथाः पृथक्कृतमार्गा हि। परत्रापि स्वस्वधर्मानुरूपफलभोगाय भिन्नदेहगमनान्न मृतेनापि लभ्यत इत्यर्थः ।। 8.85 ।।
अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः ।
स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ।। 8.86 ।।
अपेति।। किंतु,अपशोकमना निर्दुःखचित्तः सन् कुटुम्बिनीं पत्नीं निवापदत्तिभिः पिण्डोदकादिदानैरनुगृह्णीष्व। तर्पयेत्यर्थः। अन्यथा दोषमाह-अतिसंततमविच्छिन्नं स्वजनानां बन्धूनाम्। `बन्धुस्वस्वजनाः समाः’ इत्यमरः। अश्रु कर्तृ प्रेतं मृतं दहतीति प्रचक्षते मन्वादयः किल। अत्र याज्ञवल्क्यः (याज्ञ.प्राय.1।11)-`श्लेष्माश्रु बन्धिभिर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः। अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ।।’ इति ।। 8.86 ।।
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः ।
क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ।। 8.87 ।।
मरणमिति।। शरीरिणां मरणं प्रकृतिः स्वभावः। ध्रुवमित्यर्थः। जीवितं विकृतिर्यादृच्छिकं बुधैरुच्यते। एवं स्थिते जन्तुः प्राणी क्षणमपि। अत्यन्तसंयोगे द्वितीया। श्वसञ्जिवन्नवतिष्ठते। यद्यसौ क्षणजीवी लाभवान्ननु। जीवने यथालाभं संतोष्टव्यम्;अलभ्यलाभात्,मरणे तु न शोचितव्यम्; अस्य स्वाभाव्यादिति भावः ।। 8.87 ।।
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ।। 8.88 ।।
अवेति।। मूढचेतनो भ्रान्तबुद्धिः प्रियनाशमिष्टनाशं हृद्यर्पितं निखातं शल्यं शङ्कुमवगच्छति मन्यते। स्थिरधीर्विद्धांस्तु तदेव शल्यं समुद्धृतमुत्खातं मन्यते। प्रियनाशे सतीति शेषः। कुतः? कुशलद्वारतया। प्रियनाशस्य मोक्षोपायतयेत्यर्थः। विषयलाभविनाशयोर्यथाक्रमं हिताहितसाधनत्वामिमानः पामरणाम्। विपरीतं तु विपश्चितामिति भावः ।। 8.88 ।।
स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा ।
विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ।। 8.89 ।।
स्वेति।। स्वस्य शरीरशरीरिणौ देहात्मानावपि यदा यतः श्रुतौ श्रुत्यवगतौ संयोगविपर्ययौ संयोगवियोगौ ययोस्तौ तथोक्तौ। तदा बाह्यैर्विषयैः पुत्रमित्रकलत्रादिभिर्विरहो विपश्चितं विद्वांसं किमिवानुतापयेत्त्वं वद। न किंचिदित्यर्थः। अथवा,-`स्व’शब्दस्य शरीरेणैव संबन्धः ।। 8.89 ।।
न पृथग्जनवच्छुचो वशं वशिनामुत्तम! गन्तुमर्हसि ।
द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ।। 8.90 ।।
नेति।। वशिनामुत्तम जितेन्द्रियवर्य! पृथग्जनवत् पामरजनवत् शुचः शोकस्य वशं गन्तुं नार्हसि। तथा हि द्रुमसानुमतां तरुशिखरिणां किमन्तरं को विशेषः? वायौ सति द्वितयेऽपि द्विप्रकारा अपि। `प्रथमचरम-‘(पा.1।1।33)इत्यादिना जसि विभाषया सर्वनामसंज्ञा। ते द्रुमसानुमन्तश्चलाश्चञ्चला यदि। सानुमतामपि चलने द्रुमवत्तेषामप्यचलसंज्ञा न स्यादित्यर्थः ।। 8.90 ।।
स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् ।
तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः ।। 8.91 ।।
स इति।। सोऽज उदारमतेर्विनेतुर्गुरोर्वसिष्ठस्य वचस्तच्छिष्यमुखेरितं तथेति प्रतिगृह्याङ्गीकृत्य मुनिं वसिष्ठशिष्यं विससर्ज प्रेषयामास। किंतु तद्वचः शोकघने दुःखसान्द्रेऽस्याजस्य हृद्यलब्धपदमप्राप्तावकाशं सद्गुरोर्वसिष्ठस्यान्तिकं प्रतियातमिव प्रतिनिवृत्तं किमु-इत्युत्प्रेक्षा। तोटकवृत्तमेतत्-`इह तोटकमम्बुधिसैः प्रथितम्’ इति तल्लक्षणात् ।। 8.91 ।।
तेनाष्टौ परिगमिताः समाः कथंचिद्वालत्वादवितथसूनृतेन सूनोः ।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च ।। 8.92 ।।
तेनेति।। अवितथं यथार्थं सूनृतं प्रियवचनं यस्य तेनाजेन। सूनोः पुत्रस्य बालत्वात्। राज्याक्षमत्वादित्यर्थः। प्रियाया इन्दुमत्याः सादृश्यं वस्त्वन्तरगतमाकारसाम्यं प्रतिकृतिश्चित्रं तयोर्दर्शनैः। स्वप्नेषु क्षणिकाः क्षणभङ्गुरो ये समागमोत्सवास्तैश्च। कथंचित् कृच्छ्रेण। अष्टौ समा वत्सराः। `संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः’ इत्यमरः। परिगमिता अतिवाहिताः। उक्तं च-`वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि। तदङ्गस्पृष्टानामुपगतवतां स्पर्शनमपि प्रतीकारः कामव्यथितमनसां कोऽपि कथितः।।’ इति। प्रकृते सादृश्यादित्रितयाभिधानं तदङ्गस्पृष्टपदार्थस्पृष्टेरप्युपलक्षणम्। प्रहर्षिणीवृत्तमेतत् ।। 8.92 ।।
तस्यता प्रसह्य हृदयं किल शोकशङ्कुः
प्लक्षप्ररोह इव सौधतलं बिभेद ।
प्राणान्तहेतुमपि तं भिषजामसाध्यं
लाभं प्रियानुगमने त्वरया स मेने ।। 8.93 ।।
तस्येति।। शोक एव शङ्कुः कीलः। `शङ्कुः कीले शिवेऽस्त्रे च’ इति विश्वः। तस्याजस्य हृदयम्। प्लक्षप्ररोहः सौधतलमिव। प्रसह्य बलात्किल बिभेद। सोऽजः प्राणान्तहेतुं मरणकारणमपि भिषजामसाध्यमप्रतिसमाधेयं तं शोकशङ्कुं रोगपर्यवसितं प्रियाया अनुगमने त्वरयोत्कण्ठया लाभं मेने। तद्विरहस्यातिदुःसहत्वात्तत्प्राप्तिकारणं मरणमेव वरमित्यमन्यतेत्यर्थः ।। 8.93 ।।
सम्यग्विनीतमथ वर्महरं कुमार-
मादिश्य रक्षणविधौ विधिवत्प्रजानाम् ।
रोगापसृष्टतनुदुर्वसतिं मुमुक्षुः
प्रायोपवेशनमतिर्नृपतिर्बभूव ।। 8.94 ।।
सम्यगिति।। अथ नृपतिरजः सम्यग्विनीतं निसर्गसंस्काराभ्यां विनयवन्तं वर्म हरतीति वर्महरः कवचधारणार्हवयस्कः। `वयसि च'(पा.3।2।10)इत्यच्प्रत्ययः। तं कुमारं दशरथं प्रजानां रक्षणविधौ राज्ये विधिवद्विध्यर्हम्। यथाशास्त्रमित्यर्थः। `तदर्हम्'(पा.5।1।117) इति वतिप्रत्ययः। आदिश्य नियुज्य रोगेणोपसृष्टाया व्याप्तायास्तनोः शरीरस्य दुर्वसतिं दुःखावस्थइतिं मुमुक्षुर्जिहासुः सन्। प्रायोपवेशनेऽनशनावस्थाने मतिर्यस्य स बभूव। `प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि’ इति विश्वः। अत्र पुराणवचनम्-`समासक्तो भवेद्यस्तु पातकौर्महदादिभिः। दुश्चिकित्स्यैर्महारोगैः पीडितो वा भवेत्तु यः। स्वयं देहविनाशस्य काले प्राप्ते महामतिः। आब्रह्माणं वा स्वर्गादिमहाफलजिगीषया। प्रविशेज्ज्वलनं दीप्तं कुर्यादनशनं तथा। एतेषामधिकारोऽस्ति नान्येषां सर्वजन्तुषु। नराणामथ नारीणां सर्ववर्णेषु सर्वदा।।’ इति। अनयोर्वसन्ततिलकाच्छन्दः। तल्लक्षणम्-`उक्ता वसन्ततिलका तभजा जगौ गः’ इति ।। 8.94 ।।
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वो-
र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः ।
पूर्वाकाराधिकतररुचा संगतः कान्तयासौ
लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ।। 8.95 ।।
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतावजविलापो नामाष्टमः सर्गः ।
तीर्थ इति।। असावजो जह्नुकन्यासरय्वोस्तोयानां जलानां व्यतिकरेण संभेदेन भघवे तीर्थे गङ्गासरयूसंगमे देहत्यागात्सद्य एवामरगणनायां लेख्यं लेखनम्। `तयोरेव कृत्यक्तखलर्थाः'(पा.3।4।70)इति भावार्थे ष्यत्प्रत्ययः। आसाद्य प्राप्य। पूर्वस्मादाकारादधिकतरा रुग्यस्यास्तया कान्तया रमण्या संगतः सन्। नन्दनस्येन्द्रोद्यानस्याभ्यन्तरेष्वन्तर्वर्तिषु लीलागारेषु क्रीडाभवनेषु पुनररमत। `यथाकथंचित्तीर्थेऽस्मिन्देहत्यागं करोति यः। तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि।।’ इति स्कान्दे। मन्दाक्रान्ताच्छन्दः। तल्लक्षणम्-`मन्दाक्रान्ता जलधिषडगैम्भौ नतौ ताद्गुरू चेत्’ इति।। 8.95 ।।
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां संजीविनीसमाख्यायां रघुवंशव्याख्यायामष्टमः सर्गः ।
नवमः सर्गः।
एकलोचनमेकार्धे सार्धलोचनमन्यतः ।
नीलार्धं नीलकण्ठार्धं महः किमपि मन्महे ।।
पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः ।। 9.1 ।।
पितुरिति।। समाधिना संयमेन जितेन्द्रियः। `समाधिर्नियमे ध्याने’ इति कोशः। यमवतां संयमिनामवतां रक्षतां राज्ञां च धुर्यग्रे स्थितो महारथः। `एको दश सहस्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते।।’ इति। दशरथः पितुरनन्तरमुत्तरकोसलाञ्जनपदान्समधिगम्य प्रशशास। अत्र मनुः(7।144)-`क्षत्रियस्य परो धर्मः प्रजानां परिपालनम्’ इति। द्रुतविलम्बितमेतद्वृत्तम्। तल्लक्षणम्-`द्रुतविलम्बितमाह नभौ भरौ’ इति ।। 9.1 ।।
अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् ।
अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रुकरौजसः ।। 9.2 ।।
अधिगतमिति।। अधिगतं प्राप्तमात्मकुलोचितं स्वकुलागतं सनगरं नगरजनसहितं प्रकृतिमण्डलं जानपदमण्डलम्। अत्र `प्रकृति’शब्देन प्रजामात्रवाचिना नगरशब्दयोगाद्गोबलीवर्दन्यायेन जानपदमात्रमुच्यते। यद्यस्माद्विधिवद्यथाशास्त्रमपालयत्। ततो हेतोः। रन्ध्रं करोतीति रन्ध्रहेतुरित्यर्थः। `कृञो हेतुताच्छील्यानुलोम्येषु'(पा.3।2।20)इति टप्रत्ययः। नगस्य रन्ध्रकरो नगरन्ध्रकरः कुमारः। `कुमारः क्रौञ्चदारणः’ इत्यमरः। तदोजसस्तत्तुल्यबलस्यास्य दशरथस्य गुणवत्तरमभवत्। तत्पौरजानपदमण्डलं तस्मिन्नतीवासक्तमभूदित्यर्थः ।। 9.2 ।।
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् ।
बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ।। 9.3 ।।
उभयमिति।। मनस ईषिणो मनीषिणो विद्वांसः। पृषोदरादित्वात्साधुः। बलनिषूदनमिन्द्रम्। दण्डस्य धरो राजा मनुरिति यो दण्डधरः स एवान्वयः कूटस्थो यस्य तमर्थं पतिं दशरथं चेत्युभयमेव। समयेऽवसरे जलं धनं च वर्षतीति समयवर्षी। तस्य भावः समयवर्षिता तया हेतुना कृतकर्मणां स्वकर्मकारिणाम्। नुदतीति नुत्। `इगुपधज्ञाप्रीकिरः कः'(पा.3।2।135) इति कप्रत्ययः। श्रमस्य नुदं श्रमनुदम्। क्विबन्तत्वे नपुंसकलिङ्गेनोभयशब्देन सामानाधिकरण्यं न स्यादिति वदन्ति ।। 9.3 ।।
जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः ।
क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ।। 9.4 ।।
जनपद इति।। शमरते शान्तिपरेऽमरतेजस्यजनन्दने दशरथे पार्थिवे पृथिव्या ईश्वरे सति। `तस्येश्वरः'(पा5।1।42)इत्यण्प्रत्ययः। जनपदे देशे गदो व्याघिः। `उपतापरोगव्याधिगदामयाः’इत्यमरः। पदं नादधौ। नाचक्रामेत्यर्थः। सपत्नजः शत्रुजन्योऽभिभवः कुत एव? असंभावित एवेत्यर्थः। क्षितिः फलवत्यभूञ्च ।। 9.4 ।।
दशदिगन्तजिता रघुणा यथआ श्रइयमपुष्यदजेन ततः परम् ।
तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ।। 9.5 ।।
दशेति।। मही। दशदिगन्ताञ्जितवानिति दशदिगन्तजित्। तेन रघुणा यथा श्रियं कान्तिमपुष्यत्। ततः परं रघोरनन्तरमजेन च यथा श्रियमपुषअयत्। तथैवाहीनपराक्रमं न हीनः पराक्रमो यस्य तमन्यूनपराक्रमं तं दशरथमिनं स्वामिनमधिगम्य पुनर्न बभाविति न। बभावेवेत्यर्थः। द्वौ नञौ प्रकृतमर्थं गमयतः ।। 9.5 ।।
समतया वसुवृष्टिविसर्जनैर्नियमनादसतां च नराधिपः ।
अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ।। 9.6 ।।
समतयेति।। नराधिपो दशरथः समतया समवर्तित्वेन। मध्यस्थत्वेनेत्यर्थः। वसुवृष्टेर्धनवृष्टेर्विसर्जनैः। असतां दुष्टानां नियमनान्निग्रहाञ्च। सवरुणौ वरुणसहितौ यमपुम्यजनेश्वरौ यमकुबेरौ यमकुबेरवरुणान्। यथासंख्यमनुययावनुचकार। रुचा तेजसाऽरुणाग्रसरमरुणसारथिं सूर्यमनुययौ ।। 9.6 ।।
तस्य व्यसनासक्तिर्नासीदित्याह-
न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।
तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ।। 9.7 ।।
नेति।। उदयाय यतमानमभ्युदयार्थं व्याप्रिमाणं तं दशरथं मृगयाभिरतिराखेटव्यसनं नापाहरन्नाचकर्ष। `आक्षोटनं मृगव्यं स्यादाखोटो मृगया स्त्रियाम्’ इत्यमरः। दुष्टमासमन्तादुदमस्येति दुरोदरं द्यूतं च नापाहरत्। `दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्’ इत्यमरः। शशिनः प्रतिमा प्रतिबिम्बमाभरणं यस्य तन्मधु नापाहरत्। न वेति पदच्छेदः। `वा’शब्दः समुञ्चये। नमयौवना नवं नूतनं यौवनं तारुण्यं यस्यास्तादृशी प्रियतमा वा स्त्री नापाहरत्। जातावेकवचनम्। अत्र मनुः(7।50)`पानमक्षाः स्त्रियश्चेति मृगया च यथाक्रमम्। एतत्कष्टतमं विद्याञअचतुष्कं कामजे गणे’।। इति।। 9.7 ।।
न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।
न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरमीरिता ।। 9.8 ।।
नेति।। तेन राज्ञा प्रभवति प्रभौ सति वासवेऽपि कृपणा दीना वाङ् नेरिता नोक्ता। परिहासकथास्वपि वितथाऽनृता वाङ् नेरिता। किंचापरुषा रोषशून्येन तेन सपत्नजनेष्वपि शत्रुजनेष्वपि परुषाक्षरं निष्ठुराक्षरं यथा तथा वाङ् नेरिता। किमुतान्यत्रेति सर्वत्र `अपि’शब्दार्थः। किंत्वदीना सत्या मधुरैव वागुक्तेति फलितार्थः ।। 9.8 ।।
उदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः ।
स हि निदेशमलङ्घयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् ।। 9.9 ।।
उदयमिति।। वसुधाधिपा राजानः। उद्वहतीत्युद्वहो नायकः। पचाद्यच्। रघूणामुद्वहो रघुनायकः। तस्माद्रघुनायकादुदयं बृद्धिम्। अस्तमयं नाशं च। इत्युभयमानशिरे लेभिरे। कुतः? हि यस्मात्,स दशरथो निदेशमाज्ञामलङ्घ्यताम्। शोभनं हृदयमस्येति सुहृन्मित्रमभूत् `सुहृद्दुर्हृदौ मित्रामित्रयोः'(पा.5।4।150) इति निपातः। प्रतिगर्जतां प्रतिस्पर्धिनाम्। अय इव हृदयं यस्येति अयोहृदयः कठिनचित्तोऽभूत्। आज्ञाकारिणो रक्षति,अन्यान्मारयतीत्यर्थः ।। 9.9 ।।
अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः ।
जयमघोषयदस्य तु केवलं गजवती जवतीव्रहया चमूः ।। 9.10 ।।
अजयदिति।। अधिज्यशरासनः स दशरथ उदधिनेमिं समुद्रवेष्टानां मेदिनीमेकरथेनाजयत्। स्वयमेकरथेनाजैषीदित्यर्थथः। गजवती गजयुक्ता। जवेन तीव्रा जवाधिका हया यस्यां सा चमूस्त्वस्य नृपस्य केवलं जयमघोषयदप्रथयत्। स्वयमेकंवीरस्य चमूरुपकरणमात्रमिति भावः।। 9.10 ।।
अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः ।
विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः ।। 9.11 ।।
अवनिमिति।। वरूथिना गुप्तिमता। `वरूथो रथगुप्तिर्या तिरोधत्ते रथस्थितिम्’ इति सज्जनः। एकरथेनाद्वितीयरथेन। अवनिं जितवतो धनुर्भृतो नरवाहनसंपदः कुबेरतुल्यश्रीकस्य तस्य दशरथस्य घनरवा मेघसमघोषा अर्णवा विजयदुन्दुभितां किल ययुः। अर्णवान्तविजयीत्यर्थः ।। 9.11 ।।
शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरंदरः ।
स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ।। 9.12 ।।
शमितेति।। पुरंदर इन्द्रः शतकोटिना शतास्त्रिणा कुलिशेन वज्रेण शिखरिणां पर्वतानां शमितपक्षबलो विनाशितपक्षसारः। नवतामरसाननो नवपङ्कजाननः। `पङ्केरुहं तामरसम्’ इत्यमरः। स दशरथः शरवृष्टिमुचा स्वनवता धनुषा द्विषां शमितो नाशितः पक्षः सहायो बलं च येन स तथोक्तः। `पक्षः सहायेऽपि’इत्यमरः ।। 9.12 ।।
चरणयोर्नखरागसमृद्धिभिर्मुकुटरन्तमरीचिभिरस्पृशन् ।
नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम् ।। 9.13 ।।
चरणयोरिति।। शतशो नृपतयोऽखण्डितपौरुषं तं दशरथम्। मरुतो देवाः शतमखं यथा शतक्रतुमिव। नखरागेण चरणनखकान्त्या समृद्धिभिः संपादितर्द्धिभिर्मुकुटरत्नमरीचिभिश्चरणयोरस्पृशन्। तं प्रणेमुरित्यर्थः।। 9.13 ।।
निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् ।
समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम् ।। 9.14 ।।
निववृत इति।। स दशरथः सचिवैः संप्रयोजितैः कारिता बालसुतानामञ्जलयो यैस्तान्। स्वयमसंमुखागतानित्यर्थः। अनलकान्हतभर्तृकतयालकसंस्कारशून्यान्। सपत्नपरिग्रहाञ्छत्रुपत्नीः। `पत्नीपरिजनादनमूलशापाः परिग्रहाः’ इत्यमरः। समनुकम्प्यानुगृह्य। अलकानवमामलकानगरादन्यूनां पुरीमयोध्यां प्रति महार्णवानां रोधसः पर्यन्तान्निववृते। शरणागतवत्सल इति भावः ।। 9.14 ।।
उपगतोऽपि च मण्डलनाभितामनुभितामनुदितान्यसितातपवारणः ।
श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः ।। 9.15 ।।
उपगत इति।। अनुदित मनुच्छ्रितमन्यत्स्वच्छत्रातिरिक्तं सितातपवारणं श्वेतच्छत्रं यस्य सः। अनलसोमयोरग्निचन्द्रयोः समे द्युती तेजः कान्ती यस्य स तथोक्तः। श्रियं लक्ष्मीं रन्ध्रेऽन्यायालस्यादिरूपे छले चलां चञ्चलामवेक्ष्यावलोक्य। श्रीर्हि केनचिन्मिषेण पुमांसं परिहरति। स दशरथो मण्डलस्य नाभितां द्वादशराजमण्डलस्य प्रधानमहीपतित्वमुपगतोऽपि। चक्रवर्ती सन्नपीत्यर्थः। `अथ नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका। रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः।। आद्यक्षत्रियभेदे तु मतो मुख्यमहीपतौ।’ इति केशवः। अनलसोऽप्रमत्तोऽभूत्। `अजितमस्ति नृपास्पदम्’ इति पाठान्तरेऽजितं नृपास्पदमस्तीति बुद्ध्यानलसोऽप्रमत्तोऽभूत्। विजितनिखिलजेतव्योऽपि पुनर्जेतव्यान्तरवानिव जागरूक एवावतिष्टतेत्यर्थथः। द्वादशराजमण्डलं तु कामन्दकेनोक्तम्-`अरेर्मित्रमरेर्मित्रं मित्रमित्रमतः परम्। तथारिमित्रमित्रं च विजिगीषोः पुरःसराः।। पर्ष्णिग्रहास्ततः पश्चादाक्रन्दस्तदनन्तरम्। आसारावनयोश्चैव विजिगीषोस्तु पृष्टतः’।। `अरेश्च विजिगीषोश्च मध्यमोभूम्यनन्तरः। अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे।। मण्डलाद्बहिरेषामुदासीनो बलाधिकः। अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः।।’ इति।। `अरिमित्रादयः पञ्च विजिगीषोः पुरःसराः। पार्ष्णिग्राहाक्रन्दपार्ष्णिग्राहासाराश्च पृष्ठतः।।’ इति पृष्ठतश्चत्वारः। मध्यमोदासीनौ द्वौ विजिगीषुरेक इत्येवं द्वादश राजमण्डलम्। तत्रोदासीनमध्यमोत्तरश्चक्रवर्ती। दशरथश्चैतादृगिति तात्पर्यार्थः ।। 9.15 ।।
तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभवं च पतिव्रता ।
नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु ।। 9.16 ।।
तमिति।। पत्यौ व्रतं नियमो यस्याः सा पतिव्रता सकमला कमलहस्ता देवता लक्ष्मीरर्थिषु विषयेऽलाघवं लघुत्वरहितम्। अपराङ्मुखमित्यर्थः। ककुत्स्थकुलोद्भवं तं दशरथमात्मभवं पुरुषं विष्णुं चापहाय त्यक्त्वा। अन्यं कं नृपतिमसेवत? कमपि नासेवतेत्यर्थः। विष्णाविव विष्णुतुल्ये तस्मिन्नपि श्रीः स्थिराभूदित्यर्थः ।। 9.16 ।।
तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः ।
मगधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम् ।। 9.17 ।।
तमिति।। परिरेव देवता यासां ताः पतिदेवताः पतिव्रताः। मगधाश्च कोसलाश्च केकयाश्च ताञ्जनपदाञ्छासतीति तच्छासिनः। तेषां राज्ञां दुहितरः पुत्र्यः। सुमित्राक-कौसल्या-कैकेय्य इत्यर्थः। अत्र क्रमो न विवक्षितः। अहितरोपितमार्गणं शत्रुनिखातशरम्। `कदम्बमार्गणशराः’ इत्यमरः। तं दशरथँ शिकरिणां क्ष्माभृतां दुहितरः। आ समन्तादपगच्छन्तीति। अथवा,- `आपेनाप्संबन्धिना वेगेन गच्छन्तीत्यापगाः’ इति क्षीरस्वामी। नद्यः सागरमिव। पतिं भर्तारमलभन्त प्रापुः ।। 9.17 ।।
प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः ।
उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः ।। 9.18 ।।
प्रियतमाभिरिति।। अरीन्घ्रन्तीत्यरिहणो रिपुघ्नाः। हन्तेः क्विप्। `ब्रह्मभ्रूणवृत्रेषु क्विप्’ इति नियमस्य प्रायिकत्वात्। यथाह न्यासकारः-`प्रायिकश्चायं नियमः क्वचिदन्यस्मिन्नप्युपपदे दृश्यते मधुहा। प्रायिकत्वं च वक्ष्यमाणस्य बहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते’ इति। तेषु योगेषूपायेषु विचक्षणो दक्षः। `योगः संनहनोपायध्यानसंगतियुक्तिषु’इत्यमरः। इन्द्रेऽपि योज्यमेतत्। असौ दशरथस्तिसृभिः प्रियतमाभिः सह। प्रजा विनिनीषुर्विनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रियतमाभिः सह। प्रजा विनिनीषुर्विनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रभुमन्त्रोत्साहशक्तिभिरेव सह भुवमुपगतो हरिहय इन्द्र इव। बभौ ।। 9.18 ।।
स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः ।
स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः ।। 9.19 ।।
स इति।। महारथथः स दशरथः संयुगमूर्ध्नि रणाङ्गणे मघवत इन्द्रस्य सहायतां प्रतिपद्य प्राप्य शरैरवधूतभया निवर्तितत्रासाः सुरवधूरुच्छ्रितं स्वभुजवीर्यमगापयत्किल खलु। गायतेः शब्दकर्मत्वात् `गतिबुद्धि-‘(पा.1।4।52)इत्यादिना सुरवधूनामपि कर्मत्वम् ।। 9.19 ।।
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः ।
कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ।। 9.20 ।।
क्रतुष्विति।। क्रतुष्वश्वमेधेषु विसर्जितमौलिनाऽवरोपितकिरीटिन। `यावद्यज्ञमध्वर्युरेव राजा भवति’ इति राज्ञश्चिह्नत्यागविधानादित्यभिप्रायः। `मौलिः किरीटे धम्मिल्ले’ इति विश्वः। भुजसमाहृतदिग्वसुना भुजार्जितदिगन्तसंपदा। अनेन क्षत्रियस्य विजितत्वमुक्तम्। नियमार्जितधनत्वं सद्विनियोगकारित्वं च सूच्यते। वितमसा तमोगुणरहितेन तेन दशरथेन। तमसा च सरयू नद्यौ। तयोस्तटः कनकयूपानां समुच्छ्रयेण समुन्नमनेन शोभिनः कृताः। कनकमयत्वं च यूपानां शोभार्थं विध्यभावात्। `हेमयूपस्तु शोभिकः’ इति यादवः ।। 9.20 ।।
अजिनदण्डभृतं कुशमेखलां यतगिरं मृगश्रृङ्गपरिग्रहाम् ।
अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदीश्वरः ।। 9.21 ।।
अजिनेति।। ईश्वरो भगवानष्टमूर्तिरजिनं कृष्णाजिनं दण्डमौदुम्बरं बिभर्तीति तमजिनदण्डभृतम्। `कृष्णाजिनं दीक्षयति। औदुम्बरं दीक्षितदण्डं यजमानीय प्रयच्छति’ इति वचनात्। कुशमयी मेखला यस्यास्तां कुशमेखलाम्। `शरमयी मौञ्जी वा मेखला। तया यजमानं दीक्षियती’ति विधानात्। प्रकृते कुशग्रहणं क्वचित्प्रतिनिधिदर्शनात्कृतम्। यतगिरं वाचंयमम्। `वाचं यच्छति’ इति श्रुतेः। मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम्। `कृष्णविषणया कण्डूयते’ इति श्रुतेः। अध्वरदीक्षितां संस्कारविशेषयुक्तां तनुं दाशरथीमधिवसन्नधितिष्ठन्सन्। असमा भासो दीप्तयो यस्मिन्कर्मणि तद्यथा तथा अभासयद्भासयति स्म ।। 9.21 ।।
अवभृथप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः ।
नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ।। 9.22 ।।
अवभृथेति।। अवभृथेन प्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितो देवसभाधिष्ठानार्हः स दशरथ उन्नतं शिरो वनमुचे जलवर्षिणे। `जलं नीरं वनं सत्त्वम्’ इति शाश्वतः। मनुचेररये केवलमिन्द्रायैव नमयति स्म। न कस्मैचिदन्यस्मै मानुषायेत्यर्थः ।। 9.22 ।।
असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ।। 9.23 ।।
असकृदिति।। एकरथेनाद्वितीयरथेन तरस्विना बलवता हरिहयस्येन्द्रस्याग्रसरेण धनुर्भृता दशरथेनासकृद्बहुशो दिनकरस्याभिमुखाः। अभिमुखस्थिता इत्यर्थथः। रणरेणवः सुरद्विषां दैत्यानां रुधिरेण रुरुधिरे निवारिताः ।। 9.23 ।।
अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् ।
यमकुबेरजसेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् ।। 9.24 ।।
अथेति।। अथ यमकुबेरजलेश्वरवज्रिणां धर्मराजधनदवरुणामरेन्द्राणां समा धूर्भाो यस्य स समधुरः। माध्यस्थवितरणसंनियमनैश्वर्यैस्तुल्यकक्ष इत्यर्थः। `ऋक्पूरब्धूः-‘ (पा.5।4।74) इत्यादिना समासान्तोऽच्प्रत्ययः। तं समधुरम्। अञ्चितविक्रमं पूजितपराक्रममेकनराधिपं तं दशरथं सेवितुमिव। मधुर्वसन्तः। `अथ पुष्परसे मधुः। दैत्ये चैत्रे वसन्ते च मधुः’ इति विश्वः। नवैः कुसुमैरुपलक्षितः सन्,समाववृत्ते समागतः। `रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुम्’ इति वचनात्पुष्पसमेतो राजानं सेवितुमागत इत्यर्थः ।। 9.24 ।।
जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।
दिनमुखानि रविर्हिमनिग्रहैर्विमलयन्मलयं नगमत्यजत् ।। 9.25 ।।
जिगमिषुरिति।। धनदाध्युषितां कुबेराधिष्ठितां दिशं जिगमिषुर्गन्तुमिच्छुः। रथयुजा सारथिनारुणेन परिवर्तितवाहनो निवर्तिताश्वो रविः। हिमस्य निग्रहैर्निराकरणैर्दिनमुखानि प्रभातानि विमलयन्विशदयन् मलयं नगं मलयाचलमत्यजत्। दक्षिणां दिशमत्याक्षीदित्यर्थः ।। 9.25 ।।
कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।
इति यथाक्रममाविरभून्मधुद्रुमवतीमवतीर्य वनस्थलीम् ।। 9.26 ।।
कुसुमेति।। आदौ कुसुमजन्म। ततो नवपल्लवाः। तदनु। `अनुर्लक्षणे'(पा.1।4।84) इति कर्मप्रवचनीयत्वाद्द्वितीया। यथासंख्यं तदुभयानन्तरं षट्पदानां कोकिलानां च कूजितम्। इत्येवंप्रकारेण यथाक्रमं क्रममनतिक्रम्य द्रुमवतीं द्रुमभूयिष्ठां वनस्थलीमवतीर्य मधुर्वसन्त आविरभूत्। केषाचिद्द्रुमामां पल्लवप्राथम्यात्केषांचित्कुसुमप्राथम्यान्नोक्तक्रमस्य दृष्टविरोधः ।। 9.26 ।।
नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियभर्थिनः ।
अभिययुः सरसो मधुसंभृतां कमलिनीमलिनीरपतत्रिणः ।। 9.27 ।।
नयेति।। नयो नीतिरेव गुणः। तेन। अथवा,-नयेन गुणैः शौर्यादिभिश्चोपगचिताम्। सतामुपकारः फलं यस्यास्तां सदुपकारफलां भूपतेर्दशरथस्य श्रियमर्थिन इव। मधुना वसन्तेन संभृतां सम्यक्पुष्टां सरसः संबन्धिनीं कमलिनीं पद्मिनीमलिनीरपतत्रिणः । अलयो मृङ्गान्। नीरपतत्रिणो जलपतत्रिणो हंसादयस्च। अभिययुः ।। 9.27 ।।
कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् ।
किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ।। 9.28 ।।
कुसुममिति।। ऋतुरस्य प्राप्त आर्तवम्। `ऋतोरण्'(पा.5।1।105)इत्यण्। नवं प्रत्यग्रमशोकतरोः केवलं कुसुममेव स्मरदीपनमुद्दीपनं न। किंतु विलासिनां मदयिता मदजनको दयिताश्रवणार्पितः किसलयप्रसवोऽपि पल्लवसंतानोऽपि स्मरदीपनोऽभवत् ।। 9.28 ।।
विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः ।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ।। 9.29 ।।
विरचिता इति।। मधुना वसन्तेन विरचिता उपवनश्रियामभिनवाः पत्रविशेषकाः पत्ररचना इव स्थिता मधूनां मकरन्दानां दाने विशारदाश्चतुराः कुरबकास्तरवो मधुलिहां मधुपानां रवकारणतां ययुः। भृङ्गाः कुरबकाणां मधूनि पीत्वा जगुरित्यर्थः। दानशौण्डानर्थिजनाः स्तुवन्तीति भावः ।। 9.29 ।।
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः ।
मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ।। 9.30 ।।
सुवदनेति।। सुवदनावदनासवेन कान्तामुखमद्येन संभृतो जनितः। तत्तस्य दोहदमिति प्रसिद्धिः। तस्यासवस्यानुवादी सदृशो गुणो यस्य तदनुवादिगुणः कुसुमोद्गमः कर्ता मधुलोलुपैरायतपङ्क्तिभिर्दीर्घपङ्क्तिभिर्मधुकरैर्मधुपैः करणैः बकुलं बकुलवृक्षमाकुलमकरोत् ।। 9.30 ।।
उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके ।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ।। 9.31 ।।
उपहितमिति।। शिशिरापगमश्रिया वसन्तलक्ष्म्या किंशुके पलाशवृक्षे। `पलाशः किंशुकः पर्णः’ इत्यमरः। उपहितं दत्तं मुकुलजालं कुड्यलसंहतिः। मदेन यापितलज्जयाऽपसारितत्रपया प्रमदया प्रणयिनी प्रियतम उपहितं नखक्षतमेव मण्डनं तदिव।। अशोभत।। 9.31 ।।
व्रणगुरुप्रमदाधरदुःसहं जघननिर्विशषयीकृतमेखलम् ।
न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् ।। 9.32 ।।
व्रणेति।। व्रणैर्दन्तक्षतैर्गुरुभिर्दुर्धरैः प्रमदानामधरैरधरोष्ठैर्दुःसहं हिमस्य व्यथाकरत्वादसह्यम्। जघनेषु निर्विषयीकृता निरवकाशीकृता मेखला येन तत्। शैत्यात्त्याजितमेखलमित्यर्थः। एवंभूतं हिमं रविस्तावदा वसन्तादशेषं निशेषं यथा तथाऽपोहितुं निरसितुं नालं खलु न शक्तो हि। किंतु विरलं कृतवांस्तनूचकार ।। 9.32 ।।
अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा ।
अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ।। 9.33 ।।
अभिनयानिति।। अत्र चूतलताया नर्तकीसमाधिरभिधीयते। अभिनयानर्थव्यञ्जकान्व्यापारान्। `व्यञ्जकाभिनयौ समौ’ इत्यमरः। परिचेतुमभ्यसितुमुद्यतेव स्थिता। कुतः? मलयमारुतेन कम्पितपल्लवा। `पल्लव’शब्देन हस्तो गम्यते। सकलिका सकोरका। `कलिका कोरकः पुमान्’इत्यमरः। सहकारलता। कलिः कलहो द्वेष उच्यते। `कलिः स्यात्कलहे शूरे कलिरन्त्ययुगे युधि’इति विश्वः। कामो रागः। तज्जितामपि। जितरागद्वेषाणामपीत्यर्थः। मनोऽमदयत् ।। 9.33 ।।
प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः ।
सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ।। 9.34 ।।
प्रथममिति।। सुरभिर्गन्धो यासां तासु सुरभिगन्धिषु। `गन्धस्य-‘(पा.5।4।135) इत्यादिनेकारः। कुसुमान्यासां संजातानि कुसुमिताः। तासु वनराजिषु वनपङ्क्तिषु। अन्यभृताभिः कोकिलाभिः प्रथमं प्रारम्भेषूदीरिता उक्ता अत एव मिताः परिमिता गिर आलापाः। प्रविरला मौग्ध्यात्स्तोकोक्ता मुग्धवधूनां कथा वाच इव। शुश्रुविरे श्रुताः ।। 9.34 ।।
श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः ।
उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः ।। 9.35 ।।
श्रुतीति।। श्रुतिसुखाः कर्णमधुरा भ्रमरस्वना एव गीतयो यासां ताः। कुसुमान्येव कोमला दन्तरुचो दन्तकान्तयो यासां ताः। अनेन सस्मितत्वं विवक्षितम्। उपवनान्तलताः पवनेनाहतैः कम्पितैः किसलयैः सलयैः साभिनयैः। `लय’ शब्देन लयानुगतोऽभिनयो लक्ष्यते। उपवनान्ते पवनाहतैरिति सक्रियत्वाभिधानात्। पाणिभिरिव बभुः। अनेन तलानां नर्तकीसाम्यं गम्यते ।।
ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् ।
पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ।। 9.36 ।।
ललितेति।। अङ्गना ललितविभ्रमबन्धविचक्षणं मधुरविलासघटनापटुतरम्। सुरभिणा मनोहरेण गन्धेन पराजितकेसरं निर्जितबकुलपुष्पम्। `अथ केसरे। बकुलः’ इत्यमरः। स्मरस्य सखायं स्मरसखम्। स्मरोद्दीपकमित्यर्थः। मधुं मद्यम्। `अर्धर्चाः पुंसि च'(पा.2।4।31) इति पुंसिङ्गता। उक्तं च-`मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः। अर्धर्चादिगणे पाठान्पुंसकयोर्मधुः।।’ इति। पतिषु विषये रसखण्डनवर्जितमनुरागभङ्गरहितं यथा तथा निर्विविशुः। परस्परानुरागपूर्वकं पतिभिः सह पपुरित्यर्थः ।। 9.36 ।।
शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः ।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ।। 9.37 ।।
शुशुभिर इति।। विकचतामरसा विकसितकमलाः। मदेन कला अव्यक्तमधुरं ध्वनन्त उदकलोलविहंगमा जलप्रियपक्षिणो हंसादयो यासु ता मदकलोदकलोलविहंगमा गृहेषु दीर्घिका वाप्यः। स्मितेन चारुतराण्याननानि यासां ताः श्लथाः शिञ्जिता मुखरा मेखला यासां ताः। शिञ्जितेति कर्तरि क्तः। स्त्रिय इव शुशुभिरे ।। 9.37 ।।
उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः ।। 9.38 ।।
उपययाविति।। मधुना मधुसमयेन खण्डिता ह्रासं गमिता। क्षीयन्ते खलूत्तरायणे रात्रयः; खण्डिताख्या च नायिका ध्वन्यते। हिमकरोदयेन चन्द्रोदयेन पाण्डुर्मुखस्य प्रदोषस्य वक्रस्य च छविर्यस्याः सा रजन्येव वधूः। इष्टसमागमनिर्वृत्तिं प्रियसंगमसुखम्। अनितयाऽप्राप्तया। `इण् गतौ’ इति धातोः समागमनिर्वृतिं प्रियसंगमसुखम्। अनितयाऽप्राप्तया। `इण् गतौ’ इति धातोः कर्तरि क्तः। वनितया सदृशं तुल्यं तनुतां न्यूनतां कार्श्यं चोपययौ ।। 9.38 ।।
अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः ।
कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ।। 9.39 ।।
अपेति।। हिमकरश्चन्द्रः। अपतुषारतयाऽपगतनीहारतया विशदप्रभैर्निर्मलकान्तिभिः सुरतसङ्गपरिश्रमनोदिभिः सुरतसङ्गखेदहारिभिरंशुभिः किरणैः। मकरोर्जितकेतनम्। मकरेणोर्जितं केतनं ध्वजो यस्य तम्। लब्धावकाशत्वादुच्छ्रितध्वजमित्यर्थः। कुसुमचापं काममतेजयदशातयत्। `तिज निशाने’ इति धातोर्ण्यन्ताल्लङ्। सहकारिलाभात्कामोऽपि तीक्ष्णोऽभूदित्यर्थः ।। 9.39 ।।
हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कणकाभरणस्य यत् ।
युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ।। 9.40 ।।
हुतेति।। हुतहुताशनदीप्त्याऽऽज्यादिप्रज्वलिताग्निप्रभं यत्कुसुमम्। कर्णिकारमित्यर्थः। वनश्रिय उपवनलक्ष्म्याः कनकाभरणस्य प्रतिनिधिः। अभूदिति शेषः। दसेषु केसरेषु च पेशलम्,सुकुमारपत्रकिञ्जल्कमित्यर्थः। आहितम्। प्रियैरिति शेषः। तत्कुसुमं युवतयोऽलके कुन्तले दधुः ।। 9.40 ।।
अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ।। 9.41 ।।
अलिभिरिति।। अञ्जनबिन्दुमनोहरैः कज्जलकणसुन्दरैः कुसुमपङ्क्तिषु निपतन्ति ये तैः। अलिभिरङ्कितश्चह्नितस्तिलकः श्रीमान्नाम वृक्षः। `तिलकः क्षुरकः श्रीमान्’ इत्यमरः। वनस्थलीम्। तिलको विशेषकः। `तमालपत्रतिलकचित्रकाणि विशेषकम्। द्वितीयं च तुरीयं च न स्त्रियम्’इत्यमरः। प्रमदामिव। न शोभयति स्मेति न खलु। अपि त्वशोभयदेवेत्यर्थः। `लट् स्मे'(पा.3।2।118) इति `स्म’शब्दयोगाद्भूतार्थे लट् ।। 9.41 ।।
अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः ।
कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ।। 9.42 ।।
अमदयदिति।। तरुचारुविलासिनी तरोः पुंसश्च चारुविलासिनी नवमल्लिका सप्तलाखअया लता। `सप्तला नवमल्लिका’ इत्यमरः। मधुनो मकरन्दस्य मद्यस्य च गन्धेन सनाथया। गन्धप्रधानयेत्यर्थः। किसलयमेवाधरस्तत्र संगतया। प्रसृतरागयेत्यर्तः। कुसुमैः संभृतया संपादितया। कुसुमरूपयेत्यर्थः। स्मितरुचा हासकान्त्या मनः। पश्यतामिति शेषः। अमदयत् ।। 9.42 ।।
अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ।। 9.43 ।।
अरुणेति।। विलासिनो विलसनशीलाः पुरुषाः। `वौ कषलस-‘(पा.3।2।143) इत्यादिना घिनुण्प्रत्ययः। अरुणस्यानूरो रागमारुण्यं निषेधन्ति तिरस्कुर्वन्तीत्यरुणरागनिषेधिनः। तैः। कुसुम्भादिरञ्जनात्तत्सदृशैरित्यर्थथः। `तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति। तस्येवानुकरोतीति शब्दाः सादृश्यवाचकाः।।’ इति दण्डी। अंशुकैरम्बरैः। श्रवणेषु कर्णेषु लब्धपदैः। निवेशितैरित्यर्थः। यवाङ्कुरैश्च परभृताविरुतैः कोकिलाकूजितैश्च। इत्येतैः स्मरबलैः। कामसैन्यैः। अबलास्वेक एव रसो रागो येषां तेऽबलैकरसाः स्त्रीपरतन्त्राः कृताः ।। 9.43 ।।
उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी ।
सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ।। 9.44 ।।
उपचितेति।। शुचिभिः शुभ्रैः कणै रजोभिरुपचितावयवा पुष्टावयवा। अलिकदम्बकयोगमुपेयुषी प्राप्ता। तिलकजा तिलकवृक्षोत्था मञ्जरी। अलकेषु जय्यालकमाभरणविशेषस्तस्मिन्मौक्तिकैः सदृशकान्तिः। अलक्ष्यत। भृङ्गसङ्गिनी शुभ्रा तिलकमञ्जरी नीलालकसक्ताजालमिवालक्ष्यतेति वाक्यार्थः ।। 9.44 ।।
ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः ।
कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः ।। 9.45 ।।
ध्वजेति।। अलिव्रजाः षट्पदनिवहा धनुर्भृतो धानुष्कस्य मदनस्य कामस्य ध्वजपटं पताकाभूतम्। ऋतुश्रियो वसन्तलक्ष्म्याश्छविकरं शोभाकरं मुखचूर्णं मुखालंकारचूर्णभूतं सपवनोपवनोत्थितं सपवनं पवनेन सहितं यदुपवनं तस्मिन्नुत्थितम्। कुसुमानां केसरेषु किञ्जल्केषु यो रेणुस्तम्। अन्वयुरन्वगच्छन्। यातेर्लङ् ।। 9.45 ।।
अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया ।
अनयदासनरज्जुपरिग्रहे भुजलतां जलतामवलाजनः ।। 9.46 ।।
अनुभवन्निति।। नवो दोला प्रेङ्खा यस्मिंस्तं नवदोलमृतूत्सवं वसन्तोत्सवमनुभवन्नबलाजनः पटुरपि निपुणोऽपि प्रियकण्ठस्य जिघृक्षया ग्रहीतुमालिङ्गितुमिच्छया आसनरज्जुपरिग्रहे पीठरज्जुग्रहणे भुजलतां बाहुलतां जलतां शैथिल्यम्। डलयोरभेदः। अनयत् दोलाक्रीडासु पतनभयनाटितकेन प्रियकण्ठमाश्लिष्यदित्यर्थः ।। 9.46 ।।
त्यजत मानमालं बत विग्रहैर्न पुनरेति गतं चतुरं वयः ।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ।। 9.47 ।।
त्यजतेति।। `बत’इत्यामन्त्रणे। `खेदानुकम्पासंतोषविस्मयामन्त्रणे बत’इत्यमरः। बत अङ्गाना मानं कोपं त्यजत। तदुक्तम्-`स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये’इति। विग्रहैर्विरोधैरलम्। विग्रहो न कार्य इत्यर्थः। गतमतीतं चतुरमुपभोगक्षमं वयो यौवनं पुनर्नैति नागच्छति। इत्येवंरूपे स्मरमते स्मराभिप्राये। नपुंसके भावे क्तः। परभृताभिः कोकिलाभिर्निवेदिते सतीव वधूजनो रमते स्म रेमे। कोकिलाकूजितोद्दीपितस्मरः स्त्रीजनः कामशासनभयादिवोच्छृङ्खलमखेलदित्यर्थः ।। 9.47 ।।
अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः ।
नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः ।। 9.48 ।।
अथेति।। अथानन्तरं मधुं मथ्नातीति मधुमद्विष्णुः। संपदादित्वात्क्विप्। पधुर्वसन्तः। मध्नातीति भावः। पचाद्यच्। मनसो मथो मन्मथः कामः। तेषां संनिभः सदृशो मधुमन्मधुमन्मथसंनिभः स नरपतिर्दशरथो विलासवतीसखः स्त्रीसहचरः सन्। ऋतुः प्राप्तोऽस्यार्तवः। तमुत्सवं वसन्तोत्सवं यथा-सुखं समनुभूय मृगयारतिं मृगयाविहारं चकम आचकाङ्क्ष ।। 9.48 ।।
परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितवोधनम् ।
श्रमजयात्प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ ।। 9.49 ।।
परिचयमिति।। असौ मृगया। चललक्ष्याणि मृगगवयादीनि। तेषां निपातने परिचयमभ्यासं करोति। भयरुषोर्भयक्रोधयोस्तदिङ्गितबोधनं तेषां चललक्ष्याणामिङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति। तनुं शरीरं श्रमस्य जयान्निरासात्प्रगुणां प्रकृष्टलाघवादिगुणवतीं च करोति। अतो हेतोः सचिवैरनुमतोऽनुमोदितः सन् ययौ। सर्वं चैतद्युद्धोपयोगीत्यतस्तदपेक्षया मृगयाप्रवृत्तिः। न तु व्यसनितयेति भावः ।। 9.49 ।।
मृगवनोपगमक्षमवेषमृद्विपुलकण्ठनिषक्तशरासनः ।
गगनमश्वखुरोद्धतरेणुभिर्नृसविता स वितानमिवाकरोत् ।। 9.50 ।।
मृगेति।। मृगाणां वनं तस्योपगमः प्राप्तिः। तस्य क्षममर्हं वेषां बिभर्तीति स तथोक्तः। मृगयाविहारानुगुणवेषधारीत्यर्थः। विपुलकण्ठे निषक्तशरासनो लग्नधन्वा। ना सवितेव नृसविता पुरुषश्रेष्ठः। उपमितसमासः। स राजाऽश्वखुरोद्धतरेणुभिर्गगनं वितानं तुच्छमसदिवाकरोत्। गगनं नालक्ष्यतेत्यर्थः। `वितानं तुच्छमन्दयोः’ इति विश्वः। अथवा,-`सवितानम्’ इत्येकं पदम्। सवितानमुल्लोचसहितमिवाकरोत् । `अस्त्री वितानमुल्लोचः’ इत्यमरः ।। 9.50 ।।
ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः ।
तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ।। 9.51 ।।
ग्रथितेति।। वनमालया वनपुष्पस्रजा ग्रथितमौलिर्बद्धधम्मिल्लः । तरुणां पलाशैः पत्रैः सवर्णः समानस्तनुच्छदो वर्म यस्य स तथोक्तः। इदं च वर्मणः पलाशसावर्ण्याभिधानं मृगादीनां विश्वासार्थम्। तुरगस्य वल्गनेन गतिविशेषेण चञ्चलकुण्डलोऽसौ दशरथो रुरुभिर्भृगविशेषैश्चेष्टिताश्चरिता या भूमयस्तासु विरुरुचे विदिद्युते ।। 9.51 ।।
तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः ।
ददृशुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ।। 9.52 ।।
तन्विति।। तनुषु लतासु विनिवेशितविग्रहाः संक्रमितदेहाः। भ्रमरेषु संक्रमिता ईक्षणवृत्तयो दृग्व्यापारा यासां ता वनदेवताः सुनयनं सुलोचनं नयेन नीत्या नन्दितास्तोषिताः कोसला येन तं दशरथमध्वनि ददृशुः। प्रसन्नपावनतया तं देवता अपि गूढवृत्त्या ददृशुरित्यर्थः ।। 9.52 ।।
श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः ।
स्थिगतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनम् ।। 9.53 ।।
श्वगणीति।। स दशरथः। शुनां गणः स एषामस्तीति श्वगणिनः श्वप्राहिणः। तैः। वागुरा मृगबन्धनरज्जुः। `वागुरा मृगबन्धनी’ इत्यमरः। तया चरन्तीति वागुरिका जालिकाः। `चरति'(पा.4।4।8) इति ठक्प्रत्ययः। `द्वौ वागुरिकजालिकौ’इत्यमरः। तैशअच प्रथममास्थइतमधिष्ठितम्। व्यपगता अनला दावाग्नयो दस्यवस्तस्कराश्च। यस्मात्तथोक्तम्। `दस्युतस्करमोषकाः’ इत्यमरः। `कारयेद्वनविशोधनमादौ मातुरन्तिकमपि प्रविविक्षुः। आप्तशस्त्र्यनुगतः प्रविशेद्वा संकटे च गहने च न तिष्ठेत्।।’ इति कामन्दकः। स्थिरा दृढा पङ्कादिरहिता तुरंगमयोग्या भूमिर्यस्य तत्। निपानवदाहावयुक्तम्। `आहावस्तु निपानं स्याद्गुपकूपजलाशये’इत्यमरः। मृगैर्हरिणादिभिर्वयोभिः पक्षिभिर्गवयैर्गोसदृशैररण्यपशुविशेषैश्चोपचितं समृद्धं वनं विवेश प्रविष्टवान् ।। 9.53 ।।
अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् ।
धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ।। 9.54 ।।
अथेति।। अथानाधिर्मनोव्यथारहितो नरवरो नरश्रेष्ठः। रवेण धनुष्टङ्कारेण रोषिताः केसरिणः सिंहा येन स राजा। कनकमिव पिङ्गः पिशङ्गो यस्तडिदेवप गुणो मौर्वी तेन संयुतं त्रिदशायुधमिन्द्रचापं नभस्यो भाद्रपदमास इव। `स्युर्नभस्यप्रौष्टपदभाद्रभाद्रपदाः समाः’ इत्यमरः। अधिज्यमधिगतमौर्वीकं धनुरुपापदे जग्राह ।। 9.54 ।।
तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम् ।। 9.55 ।।
तस्येति।। स्तनप्रणयिभिः स्तनपायिभिरेणशावैर्हरिणशिशुभिः। `पृथुकः शावकः शिशु’इत्यमरः। व्याहन्यमानं तद्वत्सलतया तद्गमनानुसारेण मुहुर्मुहुः प्रतिषिध्यमानं हरिणीनां गमनं गतिर्यस्य तत्। कुशा गर्भे येषां तानि मुखानि यस्य तत् कुशगर्भमुखम्। तस्य यूथस्याग्रेसरः पुरःसरो गर्वितो दृप्तश्च कृष्णसारो यस्य तत्। मृगाणां यूथं कुलम्। `सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम्’ सारो यस्य तत्। मृगाणां यूथं कुलम्। `सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम्’इत्यमरः। तस्य दशरथस्य पुरस्तादग्र आविर्बभूव। वसन्ततिलका वृत्तम् ।। 9.55 ।।
तत्प्रार्थितं जवनवाजिगतेन राज्ञा
तूर्णीमुखोद्धृतशरेण विशीर्णपङ्क्ति ।
श्यामीचकार वनमाकुलदृष्टिपातै-
र्वातेरितोत्पलदलप्रकरैरिवार्द्रैः ।। 9.56 ।।
तदिति।। जवनो जवशीलः। `जुचंक्रम्य’-(पा.3।2।150) इत्यादिना युच्प्रत्तययः। `तरस्वी त्वरितो वेगी प्रजवी जवनो जवः’ इत्यमरः। तं वाजिनमश्वं गतेनारूडेन। तूणीषुधिः। `बह्वादिभ्यश्च'(पा.4।1।54)इति स्त्रियां ङीष्। तस्या मुखाद्विवरादुद्धृतशरेण राज्ञा प्रार्थितमभियाचितम्। `याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः’इति केशवः। अत एव विशीर्णा पङ्क्तिः संघीभावो यस्य तत्। मृगयूथं कर्तृ आद्रैर्भयादश्रुसिक्तैराकुला भयचकिता ये दृष्टिपातास्तैः। वातेरितोत्पलदलप्रकरैः पवनकम्पितेन्दीवरदलवृन्दैरिव। वनं श्यामीचकार ।। 9.56 ।।
लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् ।
आकर्णकृष्टमपि कामितया स धन्वी
बाणं कृपामृदुमनाः प्रतिसंजहार ।। 9.57 ।।
लक्ष्यीकृतेति।। हरिरिन्द्रो विष्णुर्वा तस्येव प्रभावः सामर्थ्य यस्य स तथोक्तः। धन्वी धनुष्मान् स नृपः। लक्ष्यीकृतस्य वेद्धुमिष्टस्य हरिणस्य स्वप्रेयसो देहं व्यवधायानुरागादन्तर्धाय स्थिताम्। सह चरतीति सहचरी। पचादिषु चरतेष्टित्करणान्ङीप्। यथाह वामनः-`अनुचरीति चरेष्टित्त्वात्’ इति। तां सहचरीं हरिणीं प्रेक्ष्य कामितया स्वयं कामुकत्वात्। कृपामृदुमनाः करुणार्द्रचितः सन्। आकर्णकृष्टमपि। दुष्प्रतिसंहरमपीत्यर्थः। बाणं प्रतिसंजहार। नैपुण्यादित्यर्थः। नैपुण्यं तु `धन्वी’ इत्यनेन गम्यते ।। 9.57 ।।
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः
कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः ।
त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः
प्रौढप्रियानयनविभ्रमचेष्टितानि ।। 9.58 ।।
तस्येति।। त्रासाद्भयादतिमात्रचटुलैरत्यन्तचञ्चलैः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि प्रगल्भकान्ताविलोचनविवलासव्यापारान्सादृश्यात्स्मरतः। अपरेष्वपि मृगेषु शरान्मुमुक्षोर्मोक्तुमिच्छोस्तस्य नृपस्य निबिडो दृढोऽपि मुष्टिः कर्णान्तमेत्य प्राप्य बिभिदे। स्वयमेव भिद्यते स्म। भिदेः कर्मकर्तरि लिट्। कामिनस्तस्य प्रियाविभ्रमस्मृतिजनितकृपातिरेकान्मुष्टिभेदः। न त्वनैपुण्यादिति तात्पर्यार्थः ।। 9.58 ।।
उत्तस्थुषः सपदि पल्वलपङ्कमध्या-
न्मुस्ताप्ररोहकवलावयवानुकीर्णम् ।
जग्राह स द्रुतवराहकुलस्य मार्गं
सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ।। 9.59 ।।
उत्तस्थुष इति।। स नृपः मुस्ताप्ररोहाणां मुस्ताङ्कुराणां कवला ग्रासाः तेषामवयवैः श्रमविवृतमुखभ्रंशिभिः शकलैरनुकीर्णं व्याप्तम्। आयताभिर्दीर्घाभिरार्द्रपदपङ्क्तिभिः सुव्यक्तम्। सपदि पल्वलपङ्कमध्यादुत्तस्थुष उत्थितस्य द्रुतवराहकुसस्य पलायितवराहयूथस्य मार्गं जग्राहानुससार ।। 9.59 ।।
तं वाहनादवनतोत्तरकायमीष-
द्विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीषुः ।
नात्मानमस्य विविदुः सहसा वराहा
वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ।। 9.60 ।।
तमिति।। वराहाः। वाहनादश्वादीषदवनतोत्तरकायं किंचिदानतपूर्वकायं विध्यन्तं प्रहरन्तं तं नृपम्। उद्धृतसटा ऊर्ध्वकेसराः सन्तः। `सटा जटाकेसरयोः’ इति केशवः। प्रतिहन्तुमीषुः प्रतिहर्तुमैच्छन्। अस्य नृपस्येषुभिः सहसा जघनानामाश्रयेष्ववष्टम्भेषु वृक्षेषु विद्धमात्मानं न विविदुः। एतेन वराहाणां मनस्वित्वं नृपस्य हस्तलाघवं चोक्तम् ।। (9.60 ।।
तेनाभिघातरभसस्य विकृष्य पत्री
वन्यस्य नेत्रविवरे महिषस्य मुक्तः ।
निर्भिद्य विग्रहमशोणितलिप्तपुङ्ख-
स्तं पातयां प्रथममास पपात पश्चात् ।। 9.61 ।।
तेनेति।। अभिघातो सभस औत्सुक्यं यस्य तस्य। अभिहन्तुमुद्यतस्येत्यर्थः। वन्यस्य वने भवस्य महिषस्य नेत्रविवरे नेत्रमध्ये तेन नृपेण विकृष्याकृष्य मुक्तः पत्री शरो विग्रहं महिषदेहं निर्भिद्य विदार्य। शोणितलिप्तो न भवतीत्यशोणितलिप्तः पुङ्खो यस्य स तथोक्तः सन्। तं महिषं प्रथमं पातयाभवतीत्यशोणितलिप्तः पुङ्खो यस्य स तथोक्तः सन्। तं महिषं प्रथमं पातयामास। स्वयं पश्चात्पपात। `कृञ्चानुप्रयुज्यते लिटि'(पा.3।1।40)इत्यत्रानुशब्दस्य व्यवहितविपर्यस्तप्रयोगनिवृत्त्यर्थत्वात् `पातयां प्रथममास’ इत्यपप्रयोग इति पाणिनीयाः। यथाह वार्तिककारः-`विपर्यासनिवृत्त्यर्थः व्यवहितवृत्त्यर्थं च’ इति ।। 9.61 ।।
प्रायो विषाणपरिमोक्षलघूत्तमाङ्गा-
न्खङ्गांश्चकार नृपतिर्निक्षितैः क्षुरप्रैः ।
श्रृङ्गं स दृप्तविनयाधिकृतः परेषा-
मत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ।। 9.62 ।।
प्राय इति।। नृपतिर्निशितैः क्षुरप्रैः शरविशेषैः खङ्गान् खङ्गाख्यान्मृगान्। `गण्डके खङ्गखङ्गिनौ’इत्यमरः। प्रायो बाहुल्येन विषाणपरिमोक्षेण शृङ्गभङ्गेन लघून्यगुरूण्युत्तमाङ्गानि शिरांसि येषां तांश्चकार। न त्ववधीदित्यर्थः। कुतः? दृप्तविनयाधिकृतो दुष्टनिग्रहनियुक्तः स राजा परेषां प्रतिकूलानामत्युच्छ्रितमुन्नतं श्रृङ्गं विषाणं प्राधान्यं च। `शृङ्गं प्राधान्यसान्वोश्च’ इत्यमरः। न ममृषे न सेहे। दीर्घमायुर्जीवितकालम्। `आयुर्जीवितकालो ना’ इत्यमरः। न ममृषे इति न। किंतु ममृष एवेत्यर्थः ।। 9.62 ।।
व्याघ्रनभीरभिमुखोत्पतितान्गुहाभ्यः
फुल्लासनाग्रविटपानिव वायुरुग्णान् ।
शिक्षाविशेषलघुहस्ततया निमेषा-
त्तूणीचकार शरपूरितवक्त्ररन्ध्रान् ।। 9.63 ।।
व्याघ्रानिति।। अभीर्निर्भीकः स धन्वी गुहाभ्योऽभिमुखमुत्पतितान्। वायुना रुग्णान्भग्नान्। फुल्ला विकसिताः। `अनुपलर्गात्फुल्लक्षीवकृशोल्लाघाः'(पा.3।2।55) इति निष्ठातकारस्य लत्वनिपातः। येऽसनस्य सर्जवक्षस्य। `सर्जकासनबन्धूकपुष्पप्रियकजीवकाः’ इत्यमरः। अग्रविटपास्तानिव स्थितान्। इषुधिभूतानित्यर्थः। व्याघ्राणां चित्ररूपत्वादुपमाने `फुल्ल’विशेषणम्। शरैः पूरितानि वक्त्ररन्ध्राणि येषां तान्व्याघ्रान्। शिक्षाविशेषेणाभ्यासातिशयेन लघुहस्ततया क्षिप्रहस्ततया निमेषात्तूणीचकार। तूणं शरैः पूरितवानित्यर्थथः।। 9.63 ।।
निर्घातोग्नैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान् ।
नूनं तेपामभ्यसृयापरोऽभूद्वीर्योदग्रे राजशब्दो मृगेषु ।। 9.64 ।।
निर्घातेति।। कुञ्जेषु लीनान्। `निकुञ्जकुञ्जौ वा क्लीवे लतादिपिहितोदरे’ इत्यमरः। सिंहाञ्जिघांसुर्हन्तुमिच्छुः। निर्घातो व्योमोत्थित औत्पातिकः शब्द विशेषः। तद्वदुग्रै रौद्रैर्ज्यानिर्घोषैर्मौर्वीशब्दैः क्षोभयामास। अत्रोत्प्रेक्षते-तेषां सिंहानां संबन्धिनि वीर्येणोदग्र उन्नते मृगेषु विषये यो राजशब्दस्तस्मिन्नभ्यसूयापरोऽभून्नृनम्। अन्यथा कथमेतानन्विष्य हन्यादित्यर्थः। `मृगाणाम्’ इति पाठे समासे गुणभूतत्वात् `राज’शब्देन संबन्धो दुर्घटः। शालिनीवृत्तम्-`शालिन्युक्ता स्तौ तगौ गोऽब्धिलोकैः’ इति लक्षणात् ।। 9.64 ।।
तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुस्थः कुटिलनखाग्रलग्नमुक्तान् ।
आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैरमंस्त ।। 9.65 ।।
तानिति।। काकुत्स्थो दशरतः। गजकुलेषु बद्धं तीव्रं वैरं यैस्तान्। कुटिलेषु नखाग्रेषु लग्ना मुक्ता गजकुम्भमौक्तिकानि येषां तान्सिंहान्हत्वा आत्मानं रणेषु कृतकर्मणां कृतोपकाराणां गजानामानृण्यमनृणत्वं मार्गणैः शरैः। `मार्गणो याचके शरे’ इति विश्वः। गतं प्राप्तवन्तमिवामंस्त मेने ।। 9.65 ।।
चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी ।
नृपतीनिव तान्वियोज्य सद्यः सितबालव्यजनैर्जगाम शान्तिम् ।। (.66 ।।
चमरानिति।। क्वचिञ्चमरान्परितः। `अभितः परितः समया-‘(वा1442) इत्यादिना द्वितीया। प्रवर्तिताश्वः प्रधाविताश्वः। आकर्णविकृष्टभल्लानिषुविशेषान्वर्षतीति तथोक्तः स नृपः। नृपतीनिव तांश्चमरान्सितबालव्यजनैः शुभ्रचामरैर्वियोज्य विरहय्य सद्यः शान्तिं जगाम। शूराणां परकीयमैश्वर्यमेकसह्यम्,न तु जीवितमिति भावः। औपच्छन्दसिकं वृत्तम् ।। 9.66 ।।
अपि तुरगसमीपादुत्पतन्तं मयूरं
न स रुचिरकलापं बाणलक्ष्यीचकार ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
रतिविगलितबन्धे केशपाशे प्रियायाः ।। 9.67 ।।
अपीति।। स नृपस्तुरगसमीपादुत्पतन्तमपि। सुप्रहारमपीत्यर्थः। रुचिरकलापं भासुरबर्हम्। मह्यामतिशयेन रौतीति मयूरो बर्ही। पृषोदरादित्वात्साधुः। तं चित्रेण माल्येनानुकीर्णे रतौ विगलितबन्धे प्रियायाः केशपाशे सपदि गगतमनस्कः प्रवृत्तचित्तः। `उरः प्रभृतिभ्यः कप्'(पा.1।4।151) इति कप्प्रत्ययः। न बाणलक्ष्यीचकार। न प्रजहारेत्यर्थः ।। 9.67 ।।
तस्य कर्कशविहारसंभवं स्वेदमाननविलग्नजालकम् ।
आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः ।। 9.68 ।।
तस्येति।। कर्कशविहारादतिव्यायामात्संभवो यस्य तम्। आनने विलग्नजालकं बद्धकदम्बकं तस्य नृपस्य स्वेदम्। सतुषारशीकरः शिशिराम्बुकणसहितः। भिन्ना निर्दलिताः पल्लवानां पुटाः कोशा येन सः। वनानिल आचचाम। जहारेत्यर्थः। रथोद्धतावृत्तमेतत् ।। 9.68 ।।
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बिधुरं धराधिपम् ।
परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ।। 9.69 ।।
इतीति।। इति पूर्वोक्तप्रकारेण। आत्मनो विस्मृतमन्यत्करणीयं कार्यं येन तम्। विस्मृतात्मकार्यान्तरमित्यर्थः। सचिवैरवलम्बिता धृता धूर्यस्य तम्। `ऋक्पूरब्धूः पथामानक्षे'(पा.5।4।74) इति समासान्तोऽच्प्रत्ययः। अनुबन्धसेवया संततसेवया परिवृद्धो रागो यस्य तं धराधिपम्। मृग्यन्ते यस्यां मृगा इति मृगया। `परिचर्यापरिसर्यामृगयाटाट्यादीनामुपसंख्यानम्'(वा.2215) इति शप्प्रत्ययान्तो निपातः। चतुरा विदग्धा कामिनीव। जहाराचकर्ष। `न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते।।’ इति भावः ।। 9.69 ।।
स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथम् ।
नरपतिरतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ।। 9.70 ।।
स इति।। स नरपतिः ललितानि कुसुमानि प्रवालानि पल्लवानि शय्या यस्यां ताम्। ज्वलिताभिर्महौषधिभिरेव दीपिकाभिः सनाथाम्। तत्प्रधानामित्यर्थः। त्रियामां रात्रिं क्वचिदसमेतपरिच्छदः। परिहृतपरिजनः सन्नित्यर्थः। अतिवाहयांबभूव गमयामास। पुष्पिताग्रावृत्तम् ।। 9.70 ।।
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः ।
अरमत मधुराणि तत्र श्रृण्वन्विहगविकूजितबन्दिमङ्गलानि ।। 9.71 ।।
उषसीति।। उष