Nyayasudha

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य
श्रीमद्ब्रह्मसूत्रानुव्याख्यानस्य टीका
श्रीजयतीर्थमुनिविरचिता
श्रीमन्न्यायसुधा
ॐ॥ श्रियः पत्ये नित्यागणितगुणमाणिक्यविशद
प्रभाजालोल्लासोपहतसकलावद्यतमसे।
जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे
नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये॥१॥
येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः
प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्वं परम्।
ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गग–
स्तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम्॥२॥
व्याप्तिर्यस्य निजे निजेन महसा पक्षे सपक्षे स्थिति
र्व्यावृत्तिश्च विपक्षतोऽथ विषये सक्तिर्नवै बाधिते।
नैवास्ति प्रतिपक्षयुक्तिरतुलं शुद्धं प्रमाणं स मे
भूयात् तत्वविनिर्णयाय भगवानानन्दतीर्थो मुनिः॥३॥
भवति यदनुभावादेडमूकोऽपि वाग्मी
जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः।
सकलवचनचेतोदेवता भारती सा
मम वचसि निधत्तां सन्निधिं मानसे च॥४॥
रमानिवासोचितवासभूमिः
सन्न्यायरत्नाविलजन्मभूमिः।
वैराग्यभाग्यो मम पद्मनाभ
तीर्थामृताब्धिर्भवताद् विभूत्यै॥५॥
पदवाक्यप्रमाणज्ञान् प्रतिवादिमदच्छिदः।
श्रीमदक्षोभ्यतीर्थाख्यानुपतिष्ठे गुरून् मम॥६॥
श्रीमदानन्दतीर्थार्यसन्मनःसरसीभुवि।
अनुव्याख्याननिलने चञ्चरीकति मे मनः॥७॥
न शब्दाब्धौ गाढा नच निगमचर्चासु चतुरा
नच न्याये प्रौढा नच विदितवेद्या अपि वयम्।
परं श्रीमत्पूर्णप्रमतिगुरुकारुण्यसरणिं
प्रपन्ना मान्याः स्मः किमपि च वदन्तोऽपि महताम्॥८॥
( मङ्गलश्लोकव्याख्यानम् )
भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रमसाधुनिबन्धान्धतमसावगुण्ठितत्वेनाप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिर्यथाचार्याभिप्रायमस्य भाष्यं विधाय अनुभाष्यमपि करिष्यन् विलीनप्रकृतितया स्वयमन्तरायविधुरोऽप्यनवरतमीश्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परादिनाऽवगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति नारायणमिति॥
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्
श्रीमद्ब्रह्मसूत्रानुव्याख्यानम्
ॐ॥ नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः।
अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि॥१॥
अत्र नारायणं सन्नमामीत्यन्वयः। उत्तमपुरुषप्रयोगादेवाहमिति लभ्यते। समिति भक्त्याद्यतिशयसाहित्यलक्षणां प्रणामस्य सम्यक्तामाह। तथाविध एव हि नारायणप्रणामो भवत्यभिमतसिद्धेरङ्गम्। निखिलेत्यादीनां तु प्रणामकर्मणा नारायणेन विशेषणतया सम्बन्धः। प्रयोजनं च स्तुतिपदानां विशेष्यप्रशंसैव। तत्राऽर्थिकपुनरुक्तेः स्तुतित्वमेव समाधानमवधातव्यम्।
॥ नारायणस्य नम्यत्वोपपादनम्॥
अथवा कुतो नारायणस्य नम्यत्वम्? तथात्वेऽपि कुतोऽन्यासु देवतासु सतीषु तस्यैव नमनमित्यत्रोक्तम् अशेषविशेषतोऽपि वन्द्यमिति। विशिष्यते वस्त्वेभिरिति विशेषा असाधारणधर्माः, अशेषाश्च ते विशेषाश्च। अपिरभिव्याप्तौ। यावन्तो वन्द्यत्वनिमित्तभूता धर्माः, तेभ्यो विशेषेभ्योऽपि हेतुभ्यो वन्द्यम्। तथाऽशेषाद् वन्द्यत्वेन समाशङ्कितात् पद्मापद्मभवादेर्जगतो विशेषोऽतिशयोऽशेषविशेषः सर्वोत्तमत्वम्, ततो हेतोः सतीष्वन्यासु देवतासु वन्द्यमिति।
एतदुभयं कथं नारायणस्येत्यतोऽभिहितम् निखिलेत्यादि। त्रिविधा हि देवता वन्द्या भवति विशिष्टा, अधिकृता, इष्टा चेति। नहि देवतावन्दनं व्यसनितया क्रियते, किन्तु विघ्नविघातादिप्रयोजनापेक्षितया। विशिष्टैव देवता तस्येष्टे। अधिकृता च स्वविषयग्रन्थप्रबोधादिकं सम्पादयति। वन्दनं खलु भक्त्याद्युपेतमेव सफलम्। तच्चेष्टायामेव देवतायामुपपद्यत इति।
तत्र वैशिष्ट्योपपादनाय निखिलपूर्णगुणैकदेहम्, निर्दोषम्, अस्योद्भवादिदमिति विशेषणत्रयम्। निखिला निःशेषाः, पूर्णाः प्रत्येकमप्यनवधिकाः, गुणा आनन्दादयः, एकशब्दः केवलार्थः, त एव देहो यस्य न पुनः प्राकृतादिरिति तथोक्तः। निष्क्रान्तो दोषेभ्यः पारतन्त्र्यादिभ्य इति निर्दोषः । अस्य प्रत्यक्षादिप्रमाणसिद्धतया बुद्धिसन्निहितस्य स्वव्यतिरिक्तप्रपञ्चस्योद्भव उत्पत्तिरादिरस्येत्युद्भवादि जन्माद्यष्टकम्, तद् यथासम्भवं ददातीत्युद्भवादिदः, तम्। अस्येति सम्बन्धमात्रे षष्ठी। अशेषविशेषतोऽपीत्येतदस्योद्भवादिदमित्यनेनापि सम्बद्ध्यते, वियदधिकरणादिव्युत्पाद्यसमस्तावान्तरभेदसहितोद्भवादिदमिति।
अधिकृतत्वप्रदर्शनाय आप्यतममप्यखिलैः सुवाक्यैरिति। अपिशब्दो वन्द्यत्वे हेतुसमुच्चयार्थः। अभिव्याप्तौ वा। अपौरुषेयत्वेन तन्मूलत्वेन वाऽनाशङ्कितदोषत्वादिना शोभनानि वाक्यानि वेदादीनि ब्रह्मसूत्रादीनि च सुवाक्यानि, तैरखिलैराप्याप्यतमम्, अतिशयेन प्रतिपाद्यम्।
यदि व्याचिख्यासितेन ब्रह्ममीमांसाशास्त्रेण तन्निर्णेतव्यार्थेन वेदादिना च प्रतिपाद्य इति नारायणो वन्दनीयः, हन्त तर्हि तत एव धर्मादिकं प्राणादिकं वा वन्दनीयं स्यात्। न स्यात्। तस्य नारायणप्रतिपत्त्यङ्गतया वेदाद्येकदेशप्रतिपाद्यत्वात्। अस्य पुनरनन्यार्थतयाऽखिलवेदादिवेद्यत्वात्। तथाविधमेव चाधिकृतमुच्यत इत्याशयवता “आप्यतमम्” इति “अखिलैः” इति चोक्तम्। इष्टत्वप्रदर्शनम् सदा प्रियतमं ममेति। अत्रापि पूर्ववत् सदापदस्य तमपश्च प्रयोजनमवधेयम्।
॥ नारायणस्य लक्षणानि॥
यद्वा, नानिर्धारितस्वरूपस्य प्रणामो युक्तः। नचान्तरेण लक्षणं वस्तुनिर्धारणमित्यतो विभवादनेकानि नारायणस्य लक्षणान्यनेनोच्यन्ते। तत्र निखिलेत्यनेन निखिलगुणत्वम्, पूर्णगुणत्वम्, स्वतो गुणैकदेहत्वं चेति विवक्षाभेदेन त्रीणि लक्षणान्युदितानि। निर्दोषमित्यनेनैकम्। आप्यतममित्यनेन वेदादिमुख्यार्थत्वम्, अखिलवेदाद्यर्थत्वं चेति द्वयम्। अस्येत्यनेनाष्टौ। अशेषेत्यनेन मुख्यवन्द्यत्वमुक्तम्, अशेषाद् विशेषेण वन्द्यमिति। सदेत्यनेन परमप्रेमयोग्यत्वम्। तस्याननुभाविकत्वादसम्भवमाशय सदा ममेत्युक्तम्। अन्येषामपि ज्ञानोत्तरकालमिदमानुभाविकं मम तु सदेति। अपिशब्दो लक्षणसमुच्चये।
॥ नारायणस्य शास्त्रैकसमधिगम्यत्वम्॥
अथवा, निखिलेत्याद्युक्तलक्षणोपपन्नतया नारायणः केन प्रमाणेन प्रतिपत्तव्य इत्यतः सुवाक्यैराप्यमित्युक्तम्। ननु वेदाद्येकदेशेऽन्यथाऽप्युच्यते। न। तत्प्रतीतेरपरामर्शपूर्वकत्वादित्याशयेनाखिलैः इत्युदितम्। तर्हि धर्माद्यसिद्धिः स्यात् , तस्य प्रमाणान्तरागोचरत्वात्। मैवम्। अमुख्यया वृत्त्या धर्मादेरपि वेदादिवेद्यत्वादित्याशयवताऽऽप्यतममित्यभिहितम्। अपिशब्दो वक्ष्यमाणप्रमाणसमुच्चयार्थः। सकलजगन्निमित्तकारणत्वादिहेतुभिरप्युक्तलक्षणो नारायणः प्रत्येतव्य इत्यभिप्रेत्योक्तम् अस्येति।
॥ नारायणस्य जगज्जन्मादिकारणत्वेऽनुपपत्तिपरिहारः॥
यद्वा, नारायणस्य देहसद्भावे दुःखादिदोषानुषङ्गः। तदभावे ज्ञानादिगुणाभावः। उभयथाऽपि जगज्जन्मादिकारणत्वासम्भव इत्याशयोक्तम् निखिलपूर्णगुणैकदेहम्, निर्दोषमिति। देहवत्त्वाज्ज्ञानादिगुणपूर्णः, तस्यापि निखिलपूर्णगुणमात्रत्वेन दुःखादिदोषरहितश्चेति।
॥ नारायणशब्दार्थकथनम्॥
अथवा, नायं नारायणशब्दो डित्थादिशब्द इव भगवति साङ्केतिकः, घटादिशब्द इव वा रूढिमात्रप्रवृत्तः, किन्तु विशिष्टगुणानप्याचष्ट इति ज्ञापयन् तदर्थमनेन कथयति। एतदपि स्तुत्यर्थमित्यवगन्तव्यम्। तथाहि अरा दोषाः, तद्विरुद्धत्वाद् गुणा नाराः, तदयनत्वान्नारायणः। अराणामयनं न भवतीति वा। उपकारित्वादिना नराणामिमे नारा वेदादयः, प्रतिपाद्यतया तदयनत्वाद् वा। नराणामिदं नारमुद्भवादि, दातृतया तस्यायनत्वाद् वा। नरसमूहो नारम्, वन्द्यतया तदयनत्वाद् वा। नराणामधिपतिर्नारो मुख्यवायुः, परमप्रेमास्पदतया तस्यायनत्वाद् वेति यथाक्रममवगन्तव्यम्।
॥ सङ्क्षेपतः अध्यायचतुष्टयार्थकथनम्॥
अथवा श्रोतृबुद्ध्यनुकूलनाय सकलशास्त्रार्थं सङ्क्षेपतोऽनेनाऽचष्टे। विदितसङ्क्षेपा हि प्रपञ्चं जिज्ञासवो भवन्ति। तत्र सदा वन्द्यमिति प्रथमसूत्रार्थोक्तिः। मनोवृत्तेस्तत्प्रवणता हि वन्दनम्। जिज्ञासाऽपि तद्विशेष एव। तस्य जीवादिव्यावृत्तये यद् ब्रह्मेत्युक्तं तस्यार्थः निखिलेति। तदुपपादनाय द्वितीयसूत्रे लक्षणमभिहितम्। तदाह अस्येति।तृतीयसूत्रेण तत्र शास्त्रं प्रमाणमभिधाय तस्याध्यायशेषेण तद्विषयतोपपादिता। तत्कथनम् आप्यतममिति।
प्रथमाध्यायार्थे शङ्कितदोषनिरासो द्वितीयेऽभिहितः। तमाह निर्दोषमिति।
एवं ब्रह्मस्वरूपे सिद्धेऽधिकारिणस्तत्प्रसादसाधनोपायभूततत्साक्षात्कारजननाय वैराग्यभक्तिभ्यामखिलवेदार्थश्रवणादि तृतीये निरूपितम्। तस्यायं सङ्ग्रहः अशेषविशेषतोऽपि प्रियतमम्, आप्यतममिति। ल्यब्लोपनिमित्ता पञ्चमी। अशेषान् विषयविशेषान् विहाय ज्ञातव्यतममिति। “इयदामननात्” इत्याद्यर्थसूचनम् ममेति।
प्रसन्नं च तत्, यादृशं पुमर्थं प्रयच्छति तत्स्वरूपनिरूपणं चतुर्थेऽभिहितम्। तदभिधानम् आप्यतममिति। आप्तिमात्रस्य नित्यसिद्धत्वात् तमपा तां विशिनष्टीति।
॥ गुरुप्रणामः, ग्रन्थारम्भप्रतिज्ञा च॥
नारायणप्रणामस्येव गुरुप्रणामस्याप्यभिमतसिद्ध्यङ्गतया कार्यारम्भेऽवश्यमनुष्ठेयत्वात् तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं समर्थयमानः प्रतिजानीते तमेवेति।
तमेव शास्त्रप्रभवं प्रणम्य
जगद्गुरूणां गुरुमञ्जसैव।
विशेषतो मे परमाख्यविद्या
व्याख्यां करोम्यन्वपि चाहमेव॥२॥
तं पूर्वप्रणतं नारायणमेव,अन्वपि पुनरपि प्रणम्य भक्त्याद्युपेततालक्षणेन प्रकर्षेण नत्वाऽहं परमाख्यविद्याया ब्रह्ममीमांसारूपाया व्याख्यां करोमीति सम्बन्धः। वर्तमानसामीप्याद् वर्तमानव्यपदेशः। सङ्क्षेपतो व्याख्यानस्य प्रक्रान्तत्वाद् वा।
ननु प्रणतस्य पुनः प्रणामः किमर्थः? नहि प्रणामावृत्तिर्विघ्नविघातादिहेतुरित्यत्र नियामकमस्ति। भावे वा पूर्वश्लोक एव बहुशः सन्नमामीति वक्तव्यम्। मैवम्। गुरुत्वेनात्र प्रणामाचरणात्।
कथं नारायणस्य गुरुत्वमित्यत आह शास्त्रप्रभवमिति। शास्त्रशब्देन प्रकृतत्वाद् ब्रह्ममीमांसाशास्त्रम्, वेदादिकं चोच्यते। प्रभवत्युत्पद्यते प्रथममुपलभ्यते वा यस्मात् स प्रभवः। यथासम्भवं शास्त्रस्य प्रभवः शास्त्रप्रभवः, तम्। यो हि यच्छास्त्रे प्रवर्तते तस्य तत्प्रभवो गुरुरिति प्रसिद्धमेव।
प्रकृतशास्त्रसम्प्रदायप्रवर्तकत्वाच्च नारायणस्य गुरुत्वमित्याह जगद्गुरूणामिति। जगत एतच्छास्त्रप्रवक्तॄणां ब्रह्मादीनामञ्जसा मुख्यतया, नतु वयोधिकत्वादिमात्रेण गुरुम्। अस्य शास्त्रस्य प्रवक्तारमिति यावत्। प्रकारान्तरेण गुरुत्वं नारायणस्य समर्थयते विशेषत इति। गुरुमिति वर्तते। विशेषत इति साक्षादुपदेष्टृत्वेन, नतु जगत इव परम्परया।
अत्र यदि शास्त्रप्रभवमित्याद्येवोच्येत, तदा पृथक्प्रणामेन देवताया गुरोश्च पार्थक्यशङ्का स्यात्। तदर्थं तमेवेत्युक्तम्। नचैवं पृथक्प्रणामानुपपत्तिः। निमित्तद्वयसमावेशे नैमित्तिकविलोपनियमाभावात्। शिष्यशिक्षायै चैतद् ग्रन्थे निवेशनम्। शिष्याणां चास्ति गुरुदेवताभेदः। तदपेक्षयैव जगद्गुरूणामित्युक्तम्। अन्यथा “विशेषतो मे” इत्युक्तमयुक्तं स्यात्।
॥ ब्रह्मसूत्राणां व्याख्येयत्वसमर्थनम्॥
स्यादेतत्। “अथातो ब्रह्मजिज्ञासा” इत्यादिकं ग्रन्थं व्याख्यातुमयं देवतादिप्रणामः। नचायं व्याख्यातव्यः, अर्थविवक्षापूर्वकस्यैव पौरुषेयवाक्यस्य व्याख्यातव्यत्वात्। नहि मातृकामात्रव्याख्याने प्रेक्षावान् प्रवर्तते। नचास्यार्थविवक्षापूर्वकत्वे मानमस्ति। प्रणयनमात्रस्य व्यभिचारित्वात्। प्रेक्षावत्प्रणयनस्य चानिश्चयात्। निश्चये वा विषहरमन्त्रस्येव जपादिनाऽभ्युदयसिद्धये निर्माणोपपत्तेः। गृहीतसङ्गतेरर्थप्रतिभासो हि विषहरमन्त्रेऽपि समानः। नचार्थविवक्षापूर्वकत्वमात्रेणोपादेयतया व्याख्यानं युक्तम्, विप्रलम्भकादिवाक्यव्याख्यानप्रसङ्गात्। किन्नाम। याथार्थ्ये च सति। नचास्य याथार्थ्ये मानमस्ति। तद्भावेऽपि तथाविधवाक्यान्तरपरित्यागेनास्यैव व्याख्याने कारणं वक्तव्यमित्याशङ्कानिरासाय परमाख्यविद्येत्युक्तम्।
अयमभिसन्धिः अस्ति तावदस्मिन् ग्रन्थे “द्वे विद्ये वेदितव्ये…, परा चैवापरा च” इत्यादौ परविद्याख्या। तत्र विद्याशब्देनार्थविवक्षा, याथार्थ्यं चास्यावगम्यते। यथार्थज्ञानतत्साधनयोः विद्याशब्दस्य योगरूढिभ्यां प्रवृत्तत्वात्। “सञ्ज्ञायां समजनिषद” इत्यत्र सञ्ज्ञायामित्यनुवृत्तेः। परशब्देन च यथार्थाद् वाक्यान्तरादुत्कर्षः। तदेवमागमेनास्य सर्वोत्तमप्रामाण्यप्रतीतेर्गहनार्थत्वाच्च उपपन्नमन्यपरित्यागेनास्यैव व्याख्यानमिति।
तथाऽप्यन्यैरेव व्याख्यातत्वान्न पुनरिदं व्याख्यातव्यमित्यतो व्याख्यामित्युक्तम्। विशिष्टा आख्या व्याख्या। अनेन परकृतानामपव्याख्यानतामभिप्रैति। तथाच तत्रतत्र प्रदर्शयिष्यति। तथाऽपि स्वप्रणीतभाष्येणैव कृतव्युत्पादनमिदं शास्त्रमिति किमनेन व्युत्पादनेनेत्यतः अन्वपि चेत्याह। चशब्देनानुव्याख्याने प्रयोजनसद्भावं समुच्चिनोति। तच्च वक्ष्यते। (१५) प्रयोजनसद्भावे भाष्यदिशा शिष्या एव अनुव्याकरिष्यन्तीत्यतः अहमेवेत्यभिहितम्। एवशब्देनान्येषामसामर्थ्यं सूचयति।
॥ ब्रह्मसूत्राणामागमेन प्रामाण्योपपदानम्॥
यदुक्तं नारायणोऽस्य शास्त्रस्य प्रभव इति, तदयुक्तम्, व्यासोपज्ञताप्रसिद्धिविरोधात्। नच नारायण एव व्यासः, जननविरोधात्। कृतकृत्यस्य प्रयोजनाभावेन शास्त्रप्रणयनासम्भवाच्च। यच्चास्य श्रौत्या परविद्याख्यया सर्वोत्तमप्रामाण्यसिद्धिरिति, तदप्ययुक्तम्, परशब्दस्यानेकार्थत्वेन विद्याशब्दस्य चार्थविवक्षाविरहिण्यपि मन्त्रे प्रयोगदर्शनेन परविद्याख्यायाः सर्वोत्तमप्रामाण्यानिश्चायकत्वात्। किञ्चेयं परविद्याख्यैतद्विषयेत्यत्रापि न नियामकमस्तीत्यत आह प्रादुर्भूत इति।
प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः।
अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम्॥३॥
अत्र कृतकृत्योऽपि हरिरात्मकृपास्पदैर्विरिञ्चभवपूर्वकैरमरैरर्थितो व्यासः प्रादुर्भूतो नतु जातः ग्रन्थमिमं चक्र इत्यनेन नारायणस्य शास्त्रप्रभवत्वेऽनुपपत्तिः परिहृता। दृश्यन्ते हि केवलं कृपापारवश्येन परोपकाराय प्रवर्तमानाः सुतरां तैरर्थिताः। अत एव परप्रयोजनमप्यात्मगामीव मन्यमानस्य भगवतः शास्त्रप्रणयनमिति ज्ञापयितुमात्मनेपदप्रयोगः। अत्रच “नारायणाद् विनिष्पन्नम्” इत्याद्यागमः प्रमाणम्। परविद्याख्ययाऽस्य सर्वोत्तमप्रामाण्यसिद्धिं व्युत्पादयितुं परविद्याख्यमित्यनूद्यानुत्तमं शास्त्रमिति व्याख्यातम्। नास्त्युत्तमं शास्त्रमस्मादित्यनुत्तमम्। शिष्यते यथास्थितं प्रतिपाद्यते तत्वमनेनेति शास्त्रम्।
इदमुक्तं भवति “द्वे विद्ये वेदितव्ये…, परा चैवापरा च” इति विद्याद्वयमुद्दिश्य “तत्रापरा” इत्यादिना साङ्गान् वेदानपरविद्यात्वेनोक्त्वा “अथ परा यया तदक्षरमधिगम्यते” इति परविद्या प्रदर्शिता। सा तावद् वेदादिशास्त्रप्रकरणात् परमाक्षराधिगतिकरणत्वलिङ्गाच्च शास्त्रमेव भवितुमर्हति। अन्यथा सकृदुक्तविद्याशब्दस्यानेकार्थत्वकल्पनाप्रसङ्गाच्च। शास्त्रं चाप्रमाणं चेति विप्रतिषिद्धम्। तस्य च परत्वं नामान्यन्न सम्भवतीत्यनुत्तमत्वमेव। तदपि सन्निधानात् प्रमाणत्वेनैव। शब्दान्तरसमभिव्याहारवशेन सामान्यशब्दस्य विशेषार्थस्य कल्पनीयत्वात्। तद्यथा परमधार्मिक इत्यभिहिते परमत्वं धर्मेणेति ज्ञायते। तच्चानुत्तमं शास्त्रमिदमेव विवक्षितम्। निर्णेतव्यार्थानामृगादिपदोपलक्षितानामशेषशास्त्राणामपरविद्यात्वेनोक्तत्वात्। अन्यस्याप्रसङ्गात्, परत्वासम्भवाच्च। सम्भवति त्वस्य परत्वमनुग्राहकत्वात्।
एतेन “उपनिषदः परविद्या” इति व्याख्यानमपि परास्तम्। ऋगादिग्रहणेन तासामपि गृहीतत्वात्। ब्राह्मणपरिव्राजकन्यायश्चागतिका गतिः।
“तज्जन्यं ज्ञानं परविद्या” इत्यपि न युक्तम्। अधिगतिकरणत्वानुपपत्तेः। अनेकार्थताकल्पनाप्रसङ्गाच्च। अतोऽनया परविद्याख्ययाऽस्य शास्त्रस्य सर्वोत्तमप्रामाण्यसाधनमुपपन्नमिति।
यद्यपि विद्याशास्त्रशब्दौ शिष्याचार्यव्यापारानुबन्धिनौ, तथाऽप्युभयानुगततत्वज्ञानकरणत्वमात्रमुपादाय द्वयोरैकार्थ्यमुक्तमित्यवगन्तव्यम्।
“ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः।
ता एव परमा विद्या यदा विष्णोस्तु वाचकाः”
इति भगवत्पादीयं व्याख्यानमप्येतमेवार्थं सूचयति। ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृता हि वेदादयो विष्णोरवाचकाः, तदुपकृताश्च तस्य वाचका भवन्तीति। तथाऽपि केवलस्य न परविद्यात्वं लभ्यत इति चेत्, मा लाभि। वेदादीतिकर्तव्यतारूपस्यास्य पृथक्प्रामाण्यानभ्युपगमात्।
॥ ब्रह्मसूत्राणामनुमानतः प्रामाण्योपपदानम्॥
एवं तावदागमेनास्य शास्त्रस्यानुत्तमं प्रामाण्यं प्रसाध्याधुनाऽनुमानतोऽपि तत् सिषाधयिषुरादौ तावत् प्रामाण्यमात्रेऽनुमानं वक्तुमाह गुरुरिति।
गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः।
यतस्तदुदितं मानमजादिभ्यस्तदर्थतः॥४॥
यतो यत्कारणं बादरायणो गुरूणां जगतस्तत्वोपदेशकानां ब्रह्मादीनां गुरुरुपदेष्टा, यतश्च शास्त्राणां वेदानां भारतादीनां च यथासम्भवं प्रभवः, गुरूणामशेषार्थप्रतिपादकानां सविस्तराणां वेदादिशास्त्राणां गुरुर्मुख्यप्रभवो नतु सम्प्रदायमात्रप्रवर्तक इति वा, यतश्चाजादिभ्यः श्रोतृभ्यः, तेषामर्थो मोक्षस्तदर्थः तस्मै तदर्थतः, तदुदितं तेन बादरायणेनोपदिष्टमिदं शास्त्रमतो मानं भवितुमर्हति।
अत्र गुरुर्गुरूणामित्यादिहेतूनां वक्तृश्रोतृप्रसङ्गानामानुकूल्यान्येव साक्षात् साध्यानि, मानमिति तु परमसाध्यनिर्देश इति ज्ञातव्यम्। तथाहि विवक्षितार्थतत्वज्ञानम्, करणपाटवम्, विवक्षा चेति त्रयं वक्तुरानुकूल्यं नाम। तत्वज्ञानयोग्यता, वक्तृप्रीतिविषयता चेति द्वयं श्रोतुः। श्रोतृप्रयोजनोद्देशः प्रसङ्गस्य।
॥ शास्त्रस्य वक्त्रानुकूल्यश्रोत्रानुकूल्यप्रसङ्गानुकूल्यसाधनम्॥
तत्र गुरूणां गुरुरिति वक्तुर्बादरायणस्य विवक्षितार्थतत्वज्ञानसाधने हेतुः। यो हि यस्य तत्वोपदेष्टा स ततोऽधिकतत्वज्ञानवानुपलब्धः। अयं च सर्वज्ञकल्पानां ब्रह्मादीनां तत्वोपदेष्टा “ब्रह्मरुद्रादिदेवेषु” इत्याद्यागमादवगतः। अतः सर्वज्ञो भवितुमर्हतीति। गुरूणां शास्त्राणां गुरुः प्रभव इत्यनेनापि तत्वज्ञानं करणपाटवं च साध्यते। यो हि यावदर्थप्रतिपादकस्याऽगमस्य प्रभवः स तावन्तमर्थं तत्वतो जानन्नवगतः। अयं चाशेषार्थप्रतिपादकस्याऽगमस्य प्रभवः “अनुक्तं पञ्चभिर्वेदैः”, “उत्सन्नान् भगवान् वेदान्” इत्यादिवचनादवगतः। ततो भवितव्यमनेन सर्वज्ञेन।
यश्च बहोरागमस्य प्रभवः सोऽसति निमित्तान्तरे पटुकरणो दृष्टः। अयं चापारस्य वेदादेः प्रभवः कथमपटुकरणो भवेदिति। तदुदितमिति वचनेन कार्येण वक्तुर्विवक्षा कारणभूतोपपादिता।
गुरूणामिति श्रोतॄणां तत्वज्ञानयोग्यतोपपादने हेतुः। नहि स्वयं तत्वज्ञानायोग्यः परेषां तत्वोपदेष्टा दृष्टः। अजादिभ्य इति वक्तृप्रेमास्पदत्वोपपादनम्। ब्रह्मादयो हि परमेश्वरप्रेमविषयाः सुप्रसिद्धाः। तदर्थत इति प्रसङ्गानुकूल्योपपादनम्। अत्र सर्वत्राकारणकार्योत्पत्त्यादिप्रसङ्गो विपक्षे बाधकस्तक उन्नेयः।
॥ शास्त्रप्रभवत्वादिहेतूनां साक्षात् प्रामाण्यसाधकत्वे उत्तरवाक्यासङ्गत्यादिप्रसङ्गः॥
नन्वत्र गुरुर्गुरूणामित्यादीनां शास्त्रप्रामाण्येन यथाश्रुत एव साध्यसाधनभावो व्याख्यायताम्। किं मध्ये साध्यान्तराध्याहारकल्पनया? यद्यपि यथाश्रुतानामेषां व्यधिकरणता, तथाऽपि तदुदितमिति वचनाद् विभक्तिविपरिणामेन एकाधिकरणता भविष्यति। यद्यपि चैते प्रत्येकं बौद्धागमादौ मानतां व्यभिचरन्ति, तथाऽपि मिलितानां हेतुताऽस्तु। भारताद्यशेषसच्छास्त्रप्रभवप्रणीतत्वांशस्य सपक्षाप्रवेशित्वेनासाधारण्यं स्यादिति चेत्, न। तेष्वेव हेतुवृत्तिसम्भवात्। तत्प्रामाण्यस्य महाजनपरिग्रहादिना निश्चितत्वात्।
एवन्तर्हि भारतादिप्रणयनविशिष्टेन तेषामप्रणीतत्वाद् बादरायणेन ब्रह्मादीन् प्रति तन्मोक्षार्थमुपदिष्टत्वमात्रं हेतुः स्यादिति चेत्, बाढम्। तावन्मात्रस्यैव व्यभिचाराभावात्। तथासति गुरुर्गुरूणां प्रभवः शास्त्राणामिति व्यर्थमापद्यत इति चेत्, न। तस्य हेतुशरीराप्रवेशिनोऽपि दृष्टान्तोपदर्शनादिना सार्थक्योपपत्तेरिति।
सत्यम्। तथाऽपि नैतदेवं विज्ञातुं शक्यम्। तथासत्युत्तरवाक्ये वक्त्राद्यानुकूल्यस्य साध्यसम्बन्धव्युत्पादनमसङ्गतं स्यात्। तदनुमानान्तरं भविष्यतीति चेत्, न। तथात्वे प्रामाण्यं त्रिविधमिति वक्ष्यमाणविरोधात्। विजातीयसंवादत्वेनानयोरैक्यविवक्षया त्रित्वोक्तिरस्त्विति चेत्, एवन्तर्हि वक्ष्यमाणश्रुतियुक्तिसंवादोऽपि सजातीयसंवादतयैक एव स्यात्, अर्धजरतीयानुपपत्तेः। तथाच पुनस्त्रित्वानुपपत्तिरेव।
भवेदयं ग्रन्थकृतोऽभिप्रायः। तेनापीदं प्रयत्नगौरवं कस्मादाश्रितमिति चेत्, न। उक्तसाधनोपपन्नत्वेऽपि अस्तु भारतादीनां प्रामाण्यम्, मा भूच्चास्येति शङ्कायां वक्त्राद्यानुकूल्यसाधनस्यावश्याश्रयणीयत्वात्। अन्यथाऽप्रयोजकत्वापत्तेरिति।
॥ अनुकूलवक्त्रादिमत्तया आप्तवाक्यत्वं प्रसाध्य, तेन प्रामाण्यसाधनात् न सोपाधिकत्वप्रसङ्गः॥
ननुतर्ह्यनेनेदमुदितं भवति एतच्छास्त्रं प्रमाणम्, अनुकूलवक्त्रादिमत्त्वात्; भारतादिवत्। वक्त्राद्यानुकूल्यं चोक्तहेतुसिद्धमिति। एतदनुपपन्नम्। आप्तवाक्यतायास्तत्रोपाधित्वात्। नच प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्त्याप्तवाक्यत्वमिति साध्याव्यापकत्वान्नायमुपाधिरिति वाच्यम्। वाक्यत्वावच्छिन्नसाध्यव्यापकत्वेनोपाधित्वोपपत्तेः। तथाऽप्यपौरुषेये वेदे तदभावादनुपाधित्वमिति चेत्, न। वेदापौरुषेयत्वस्यासम्मतत्वात्। सम्मतत्वे वा साधनावच्छिन्ने पौरुषेयवाक्यत्वावच्छिन्ने वा साध्ये अस्योपाधित्वोपपत्तेरिति। मैवम्। अभिप्रायानवगमात्। नहि वयं वक्त्राद्यानुकूल्येन शास्त्रप्रामाण्यं साक्षात् साधयितुमुद्यताः, येनात्रोपाध्युद्भावनं सङ्गच्छेत। अपितर्हि? अनुकूलवक्त्रादिमत्त्वस्याऽप्तवाक्यतया व्याप्तत्वात् तेन तां प्रसाध्य तया प्रामाण्यं शास्त्रस्य साध्यत इत्याशयवानाह वक्तृश्रोतृप्रसक्तीनामिति।
वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता।
आप्तवाक्यतया तेन …………..॥५॥
यद् यत्र वाक्ये वक्तृश्रोतृप्रसक्तीनामनुकूलता, तत्राऽप्तिः। यद् वक्त्राद्यानुकूल्योपेतं तदाप्तवाक्यमिति यावत्। यत एवं व्याप्तिः, यतश्चास्य शास्त्रस्यास्त्यनुकूलवक्त्रादिमत्त्वम्, तेन सिद्धयाऽऽप्तवाक्यतया मानमिदं शास्त्रमिति पूर्वेण सम्बन्धः।
एतदुक्तं भवति विमतमाप्तवाक्यम्, अनुकूलेन वक्त्रा अनुकूलान् श्रोतॄन् प्रति तदीयहितसाधनबोधनायोपदिष्टत्वात्; सम्प्रतिपन्नवत्। विमतं प्रमाणम्, आप्तवाक्यत्वात्; सम्प्रतिपन्नवदिति। वक्तुरानुकूल्याभावाज्जैनाद्यनाप्तवाक्यम्। श्रोत्रानुकूल्यविरहाद् बौद्धादि। प्रसङ्गानुकूलतावैधुर्यात् नर्मादि।
॥ खण्डनोक्तस्य आप्तिलक्षणदूषणस्य निरासः, आप्तिस्वरूपनिर्धारणं च॥
ननु “कोऽयमाप्तो नाम यद्वाक्यत्वं साध्यते। यथादृष्टार्थवादीति चेत्, न। भ्रान्तिदृष्टार्थवादिन्यपि प्रसङ्गात्। प्रमाणदृष्टेति विशेषणेऽपि प्रमाणदृष्टस्य प्रमादादिनाऽन्यथाकथकेऽपि प्रसङ्गात्। प्रमाणेन यथा दृष्टं तथा वादीति चेत्, न। एकदेशे तथाभूतवादित्वेऽप्यंशान्तरे अतथाभूतवादिन्यपि प्रसङ्गात्। यावत् प्रमाणदृष्टं तावतो वक्तेति चेत्, न। प्रायेणातथाभूतत्वादेव लक्ष्याणां तदव्याप्तेः। नहि केनापि यावत् प्रमाणप्रमितं तावदभिधीयते। यावत् प्रमाणदृष्टं तावत एव वक्तेति चेत्, न। अज्ञातसन्दिग्धानुवादवाक्यप्रयोक्तुरनाप्तत्वप्रसङ्गात्। भीमाग्रजस्यापि कदाचिच्चाटुवादित्वसम्भवेनानाप्तत्वापत्तेश्च। निर्दोष आप्त इति चेत्, न। आप्तानामपि क्वचिद् रागादिदोषसम्भवात्। यत्र विषये निर्दोषस्तत्राऽप्त इति चेत्, न। यत्तच्छब्दयोर्विशेषविषयत्वेनासाधारण्यादव्याप्तेः” इति।
मैवम्। विवक्षितार्थतत्वज्ञानम्, अविप्रिलप्सा, विवक्षा, करणपाटवं चेतीयमाप्तिः। तद्वानाप्त इत्यङ्गीकारात्। आप्तत्वाभिमतेऽपि कदाचिदिदं नास्तीति चेत्, मा भूत्। तदाऽसावनाप्त इत्यङ्गीकारात्। कालादिभेदेनाविरोधात्।
एवंसति यो यत्रैवम्भूतः स तत्राऽप्त इत्युक्तं स्यादिति चेत्, अस्तु। को दोषः? यत्तच्छब्दार्थयोरननुगम इति चेत्,। कोऽयमननुगमो नाम? किं सार्वत्रिकव्यवहारानौपयिकत्वम्, उतैकस्यानेकवृत्तित्वाभावः? नाऽद्यः, यो यस्य सुतः स तदीयं धनमर्हतीत्यादौ सार्वत्रिकव्यवहारहेतुतोपलम्भात्। न द्वितीयः, अदोषत्वात्। यथाचाननुगतस्यापि नाव्याप्तिः, सार्वत्रिकव्यवहारहेतुता च तथा सामान्यपरीक्षायां वक्ष्यामः। (७२४, ७२८,७३०)
एतेन निर्दोषः, प्रमितस्यैव वक्तेति लक्षणद्वयमपि समाहितं वेदितव्यम्। अनुवादस्य वादविषयत्वेन तत्प्रयोक्तुरप्याप्तत्वाविरोधात्। एवञ्च वक्तुरानुकूल्यमाप्त्येकदेश एव। विप्रिलप्सा च श्रोतृप्रसङ्गाननुकूलतैकनिबन्धना तदभावे निवर्तत इति वक्त्राद्यानुकूल्यवत्ताया आप्तवाक्यतया सुस्थः प्रतिबन्धः।
नन्वाप्तवाक्यता स्वकपोलकल्पितेषु मालतीमाधवादिषु प्रामाण्यं व्यभिचरति। नहि नाटकादिप्रबन्धं विरचयन्नपि कदाचिदुक्तलक्षणोपपन्नो न भवति भवभूतिरिति चेत्, न। यो यत्रैवम्भूत इत्यनेनैव उक्तोत्तरत्वात्। आप्तिमूलवाक्यस्याऽप्तवाक्यतया विवक्षितत्वाच्च।
अबोधकं विपरीतबोधकं वा वाक्यमप्रमाणमित्युच्यते। तत्राबोधकं वक्तुरपटुकरणतया भवति। विपरीतबोधकं च विपरीतज्ञानादिनेत्याप्तिपूर्वकवाक्यत्वस्य प्रामाण्येन प्रतिबन्धसिद्धिः। अन्यथा कारणेन विना कार्योत्पत्तिप्रसङ्गादिति।
॥ अनुकूलवक्त्रादिमत्त्वेनाऽप्तवाक्यत्वम्, तेन प्रामाण्यमिति
परम्परया प्रामाण्यसाधने प्रयोजनादिकथनम्॥
ननुचानुकूलवक्त्रादिमत्तया प्रामाण्यसाधनमेवात्र व्याख्यायताम्। किमाप्तवाक्यतासाधनं मध्ये व्याख्यायते? व्याप्तिपक्षधर्मतयोस्तुल्यत्वात्। नहि यद् यद्व्यापकस्य व्यापकं तत् तस्याव्यापकमिति सम्भवति। अनूकूलवक्त्रादिमत्तया आप्तवाक्यतासाधने वक्त्रानुकूल्यस्याऽप्त्येकदेशत्वेन साध्याविशिष्टता च स्यात्। वक्तृश्रोतृप्रसक्तीनामिति वाक्यं तु शङ्कितस्योपाधेः साधनव्यापकताप्रदर्शनार्थं भविष्यति।
मैवम्। “आप्तवाक्यतया तेन’ इत्युत्तरवाक्यवैयर्थ्यप्रसङ्गात्। उपाधेः साधनव्यापकताया वक्तृश्रोतृप्रसक्तीनामित्यनेनैवोपपादितत्वात्। नह्युपाधिं दूषयता साधनव्यापकतां व्युत्पाद्य साधनेन उपाधेः पक्षे साधनं विधाय तेन साध्यं साधनीयमिति कुलधर्मः। उपाधेः साधनाभेदं प्रदर्श्य तेन साध्यं साध्यत इति चेत्, न। आप्तेर्वक्तृमात्रधर्मस्य साधनाभेदानुपपत्तेः।
साध्याविशिष्टता तु नास्त्येव। वक्त्रादीनामानुकूल्येन वक्तुराप्तिसाधने खल्वंशतः सा स्यात्। अनुकूलवक्त्रादिमत्तया आप्तवाक्यता साध्यत इति चोक्तम्। तथाऽपि साध्यसाधनयोराप्त्येकदेशानुप्रवेशोऽस्तीति चेत्, सत्यम्। तथाऽपि विशिष्टभेदेनादोषत्वात्। अन्यथा यो धूमवानसावग्निमानिति व्याप्यव्यापकभावोऽपि न स्यात्। विशेष्यांशस्योभयत्रानुप्रवेशात्। कृतकत्वानित्यत्वयोः सत्तानुप्रवेशेऽपि परैर्व्याप्यव्यापकभावस्याङ्गीकृतत्वाच्च। यदा तु निर्दोषः, प्रमितस्यैव वक्ता आप्त इत्याश्रितम्, तदा साध्याविशिष्टतायाः शङ्कैव नास्ति।
ग्रन्थकृताऽपि कस्मादियं परम्पराऽऽश्रितेति चेत्, न। वक्त्राद्यानुकूल्येन प्रामाण्यं साधयताऽप्य न्ततोऽस्यार्थस्याऽश्रयणीयत्वात्। अन्यथाऽस्तु वक्त्राद्यानुकूल्यम्, वक्तुर्विप्रिलप्सामूलत्वेनाप्रामाण्यं च भवत्वित्याशङ्कायाः को निवारयिता?
यद्यपि प्रामाण्यं स्वत एवेति बादरायणीयं मतम्। यद् वक्ष्यति “न विलक्षणत्वात्” इति। जैमिनिरपि”तत् प्रमाणं बादरायणस्यानपेक्षत्वात्” इति। तथाऽप्यप्रामाण्यशङ्कानिरासार्थोऽयं प्रयत्न इत्यविरोधः।
॥ ब्रह्मसूत्राणां श्रुतियुक्तिसंवादित्वात् प्रामाण्यम्॥
एवं विजातीयसंवादेनास्य शास्त्रस्य प्रामाण्यमुपपाद्य तदनुत्तमतासिद्धये सजातीयद्वयसंवादमप्याह श्रुतीति।
……………… श्रुतिमूलतया तथा॥५॥
युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत्।
दृश्यते ब्रह्मसूत्राणामेकधाऽन्यत्र सर्वशः॥६॥
तथाचशब्दौ समुच्चयार्थौ। मानमित्यस्यानुकर्षणार्थौ वा। यथाऽऽप्तवाक्यतया, तथा श्रुतिमूलतयाऽपीत्युपमार्थो वा तथाशब्दः।
यद्यपि श्रुतियुक्तिमूलशब्दौ श्रुतियुक्तिभ्यामर्थमुपलभ्य रचितस्य वाचकौ, तथाऽप्यत्र समानार्थतासाम्येन गौण्या वृत्त्या श्रुतियुक्तिसंवादितार्थौ व्याख्येयौ। भगवतो बादरायणस्य स्वतः सर्वज्ञत्वेन मुख्यार्थासम्भवात्। यदिच श्रुतियुक्तिसंवादित्वादित्येवावक्ष्यत्, तदा यादृच्छिकसंवादिताऽपि व्यज्ञास्यत। सा मा विज्ञायीति गौणप्रयोगः। एवं हि प्रयोगेऽङ्गाङ्गिभावोऽप्यधिको विज्ञायते। स च पक्षधर्मतोपपादको भविष्यति।
ततश्चायमर्थः यत् श्रुतिसंवादि तत् प्रमाणम्, यथा मन्वादिवाक्यम्। श्रुतिसंवादि चेदं शास्त्रम्, तदर्थविचारपरत्वात्; विसंवादे तदनुपपत्तेः। तच्च “पुनस्तस्यार्थवित्तये” इत्याद्यागमसिद्धम्। यच्च युक्तिसंवादि तत् प्रमाणम्; यथा धूमवन्तं पर्वतमुद्दिश्य पर्वतोऽयमग्निमानित्युक्तं वाक्यम्। युक्तिसंवादि चेदम्, मीमांसारूपत्वात्, मीमांसायाश्च युक्त्यनुसन्धानात्मकत्वात्; तस्मात् प्रमाणम्। अन्यथा श्रुतेर्युक्तेश्चाप्रामाण्यप्रसङ्गः। अर्धवैशसासम्भवादिति।
किमतो यद्येवमित्यत आह एव प्रामाण्यमिति। एवशब्दो ब्रह्मसूत्राणामित्यनेन सम्बद्ध्यते। त्रिविधमिति क्रियाविशेषणम्।
॥ ब्रह्मसूत्रशारीरकशब्दयोरर्थकथनम्, मायावाद्युक्तार्थनिराकरणं च॥
ब्रह्म वेदः, तदर्थः परब्रह्म वा। तस्य सूत्राणि ब्रह्मसूत्राणि। सकलवेदार्थभूतस्य परब्रह्मणो विष्णोः स्वरूपनिर्णयार्थानि सूत्राणीति यावत्। सूत्रशब्दार्थश्च “अल्पाक्षरम्” इत्याद्यागमादवगन्तव्यः।
एतेनैतच्छास्त्रवाचिनः “शारीरकशब्दस्य शरीरमेव शरीरकम्, तत्र भवः शारीरको जीवः, तमधिकृत्य कृतोऽयं ग्रन्थः शारीरकः” इति व्याख्यानं निरस्तं भवति। ब्रह्मसूत्रशब्दार्थेन विरुद्धत्वात्। “त्वम्पदाभिधेयस्य तत्पदाभिधेयब्रह्मरूपता मीमांसा” इति व्याख्यानादविरोध इति चेत्, न। असम्भवात्। नहि जन्मादिसूत्राण्यभेदपराणि। प्रत्युत तन्निरासपराणीति वक्ष्यते।
अतः शारीरकः परमात्मैव। यथोक्तम् “शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसञ्ज्ञितः” इति। तस्य सकलगुणपूर्णत्वादिमीमांसैव शारीरकमीमांसा। तथाचोक्तं पुराणे “सर्वदोषविहीनत्वम्” इत्यादि।
॥ आप्तवाक्यत्वश्रुतिसंवादित्वयुक्तिसंवादित्वरूपहेतुत्रयावसितप्रमाण्यकत्वाद्
ब्रह्मसूत्राणामेव निरवधिकं प्रामाण्यम्॥
यत एवं ब्रह्मसूत्राणां प्रामाण्यं त्रिविधं दृश्यते, आप्तवाक्यत्वादिप्रमाणत्रयेण दृश्यत इति यावत्। अतस्तन्महदनुत्तमं मन्तव्यम्। आप्तवाक्यत्वादिलिङ्गत्रयावसितं प्रामाण्यमन्यत्रापि चेत्, स्यात्, तदा कथमेषां तदनुत्तममित्यतो ब्रह्मसूत्राणामेवेत्युक्तम्। तत् कथमित्यत आह एकधेति। सर्वश इति वचनादेकधेत्युपलक्षणम्।
तथाहि क्वचिदेकधा, यथाऽऽप्तिमूलतया लौकिकविषये पितृवाक्ये। श्रुतिसंवादेन धर्मादिविषये प्रतिवाद्युदीरितवचने। तदुक्त एव पर्वतोऽग्निमानिति वाक्ये युक्तिसंवादेन। क्वचिद् द्वेधा यथाऽऽप्तिश्रुतिभ्यां मन्वादिवाक्ये। आप्तियुक्तिभ्यां पर्वतोऽग्निमानित्यादौ पितृवाक्ये। श्रुतियुक्तिभ्यामीश्वरः सर्वज्ञ इति प्रतिवाद्युदीरितवचसीति। जैमिन्यादिवाक्ये त्रेधाऽप्यस्तीति चेत्, सत्यम्। यथा ब्रह्मसूत्रेषु न तथा। निरवधिकं हि तत्राऽप्त्यादिकम्। एतदर्थमपि महदित्येतत् त्रिविधमित्यनेनापि योजनीयम्।
ननु प्रमाणैकत्वानेकत्वयोः प्रमेयतादवस्थ्यात् कथमेतत्? इत्थम् नहि प्रमाणमात्रं निःशङ्कप्रवृत्तावुपयुज्यते। किन्नाम। प्रमाणतया प्रमितमेव। तच्च यावद्यावदधिकं प्रमीयते तत्तदनुसारिणीमविशङ्कां क्षिप्रप्रवृत्तिं प्रसूत इत्यनुभवसिद्धम्। ततः प्रामाण्यमेव स्वकार्यातिशयवशेनातिशयवदुच्यते। एवं विषयप्रयोजनातिशयवशेनाप्यतिशयो द्रष्टव्यः।
तदेवं श्रुत्यनुमानाभ्यामिदमेव शास्त्रं प्रमाणतमम्, नान्यदेतादृशमस्तीत्युपसंहरति अत इति।
अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते।
इष्यते प्रामाणिकैरिति शेषः। तथाचान्यपरिहारेणास्यैव व्याख्यानं युक्तमिति हृदयम्। ननु भारतं सर्वशास्त्रेषूत्तममुच्यते। सत्यम्। विचार्येषु शास्त्रेषु तदित्यविरोधः।
॥ भाष्यकारीयप्रामाण्यादिव्युत्पादनस्य वैयर्थ्यशङ्कापरिहारः॥
ननुचास्य शास्त्रस्याऽरम्भणीयत्वं सूत्रकार एव प्रथमसूत्रे समर्थयते। तद्व्याख्यानेनैव सर्वं सम्पद्यते। किमनेन? प्रथमसूत्र एव कथं प्रवृत्तिरिति चेत्, प्रथमभाष्येऽपि कथम्? सन्देहात् प्रवृत्तस्य पुनरुक्तप्रमाणैर्निर्णय इति चेत्, समं प्रथमसूत्रेऽपि। मैवम्। विषयादिसम्पादनेनैव तत्। नच तावताऽऽरम्भणीयत्वम्। प्रामाण्ये हि सति काकदन्तपरीक्षाग्रन्थवैलक्षण्यार्थं विषयादिव्युत्पादनमुपयुज्यते। अतः सूत्राक्षिप्तमेवेदं शिष्याणां बुद्धिशुद्धये भाष्यकृतोक्तमिति।
॥ भाष्योक्तार्थस्पष्टीकरणार्थत्वादनुव्याख्यानस्यावैयर्थ्यम्,
स्पष्टीकरणस्यानेकप्रकारकत्वप्रदर्शनं च॥
तथाऽपि नेदं व्याख्यातव्यं व्याख्यातत्वादित्यत्र “अन्वपि च” इति यत् प्रयोजनान्तरमस्तीति सूचितं तद्विवरणार्थमाह स्वयमिति।
स्वयं कृताऽपि तद्व्याख्या क्रियते स्पष्टतार्थतः॥७॥
यद्यपि तेषां ब्रह्मसूत्राणां व्याख्या स्वयं मयैव भाष्ये कृता, तथाऽपि पुनरत्र स्पष्टतैवार्थः प्रयोजनं यस्य स्पष्टतार्थः, तस्मै स्पष्टतार्थतः, भाष्येऽस्पष्टीकृतमर्थं स्पष्टीकर्तुं क्रियते।
स्पष्टीकरणं चानेकविधम् क्वचिदनुक्तांशस्योक्तिः, क्वाप्यतिसङ्क्षिप्तस्य विस्तरणम्, क्वचिदतिविस्तृततया बुद्ध्यनारूढस्य सङ्क्षेपः, क्वापि विक्षिप्तस्य एकीकरणम्, कुत्राप्युक्तस्योपपादनम्, क्वचिदपव्याख्याननिरासेन दृढीकरणमित्यादि तत्रतत्र द्रष्टव्यम्।
॥ सङ्क्षेपेण विस्तरेण च प्रमेयप्रतिपादनस्य महाफलहेतुत्वम्॥
नन्वेकत्रैव सर्वं वक्तव्यं वक्तव्यम्, किं प्रस्थानभेदेन? मैवम्। यतः सङ्क्षेपविस्तराभ्यामुक्तं श्रोतॄणां सुग्रहं सुप्रयोजनं च भवति। यथोक्तम्
“सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः।
बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात्” इति।
॥ अनुव्याख्यानस्य भाष्योक्तार्थस्पष्टीकरणपरत्वप्रदर्शनम्॥
तत्र भाष्याद्यपद्यार्थोऽत्र श्लोकत्रयेण विवृतः। तथाहि सर्वगुणोदीर्णतोक्त्या प्राप्ता गुणगुणिभेदशङ्का निखिलेत्यादिना निराकृता। ज्ञेयत्वगम्यत्वयोरितरसाधारण्यात् कथं विशेषणत्वमित्याशङ्का आप्यतममित्यनेन परिहृता। अपिशब्दो विशेषणान्तरसमुच्चयार्थः, तद्विवरणम् अस्येत्यादि।
शास्त्रप्रभवमित्यादिभिर्बहुभिः प्रकारैर्यद् गुरुत्वोपपादनं तेन गुरूंश्चेति बहुवचनान्तं पदं विवृतम्। गुरुदेवतयोर्भेदेऽपिपदेनारुचिः सूचिता। तद्विवृतिस्तमेवेति। सम्प्रशब्दाभ्यां नत्वेति विशेषितम्। निरुपपदसूत्रग्रहणेन यद् ब्रह्मसूत्राणां सर्वोत्तमप्रामाण्यं सूचितं तदुपपादनं परमाख्येति।
यद् “द्वापरे” इत्यादिभाष्यं तदसङ्गतम्, सूत्रार्थवचनं प्रतिज्ञाय तदुत्पत्तिक्रमकथनस्योपयोगादर्शनात्। मैवम्। यस्मादाप्तिमूलत्वादियुक्त्याऽपि ब्रह्मसूत्राणां सर्वोत्तमं प्रामाण्यं समर्थयितुमेतदिति दर्शयति गुरुर्गुरूणामित्यादिनेति।
॥ मङ्गलवादः॥
तथाऽपि नेदं शास्त्रं व्याकर्तव्यम्, मङ्गलाचरणरहितत्वात्। मङ्गलाचरणपुरःसराणि खलु कर्माणि निरन्तरायं परिसमाप्यन्ते, प्रचीयन्ते च। नचाकृतमङ्गलाचरणानामपि कार्यपरिसमाप्त्यादिदर्शनात् कृतमङ्गलाचरणानामपि तदभावोपलम्भात्, न तद्धेतुत्वमस्येति साम्प्रतम्। तथासति कारीर्यादेरपि वृष्ट्यादिहेतुत्वाभावापत्तेः।
स्यादेतदेवम्, यदि कारीर्यादेर्वृष्ट्यादिहेतुत्वं निष्प्रमाणकं स्यात्। नचैवम्। श्रुतिनिश्चिते तु साध्यसाधनभावे तदभावेऽपि भावोऽनेककारणकत्वस्य कल्पको भवति। दर्शपूर्णमासाभ्यामिव त्रैवर्णिकपरिचर्यादिनाऽपि स्वर्गप्राप्तेः। भावेऽप्यभावस्तु कर्तृकरणादिवैगुण्यनिमित्तो भवति। नहि सामग्रीवैकल्येन साध्यं व्यभिचरन् हेतुरहेतुः स्यात्। कर्त्रादिसाद्गुण्ये वा प्रबलप्रतिबन्धकसद्भावः कल्प्यते। नहि प्रतिबद्धं कार्यमजनयत् कारणमकारणं भवति। वह्नेरपि स्फोटं प्रत्यकारणत्वप्रसङ्गात्। नचैवं सामग्रीवैगुण्यशङ्कया प्रतिबन्धकशङ्कया वाऽस्याननुष्ठानम्। औत्सर्गिकी खलु प्राणभृतां प्रवृत्तिः। निवृत्तिस्त्वपवादात्। अन्यथैवंविधशङ्कायाः सर्वत्र सौलभ्येन सकलप्रवृत्तिविलयापातादिति।
सममेतत् सकलं प्रकृतेऽपि। मङ्गलाचरणस्याविघ्नपरिसमाप्त्यादिहेतुत्वस्याप्यविगीतशिष्टाचारानुमितश्रुतिसिद्धत्वात्। न तावत् प्रेक्षावत्प्रवृत्तिर्विफला सम्भाविनी। नापि प्रयोजनान्तरार्था, दृष्टपरित्यागादृष्टकल्पनाप्रसङ्गात्। कार्यमारिप्सुः खलु तत्परिसमाप्त्यादिकं कामयत इत्यनुभवसिद्धम्। नच फलान्तरानुसन्धाने प्रमाणमस्ति। नचैतेषामियं साध्यसाधनभावप्रतीतिर्भ्रान्तिः। तथासत्यविगानानुपपत्तेः। नच प्रत्यक्षादेरत्रावकाश इति श्रुतिरेव शिष्टाचारमूलं कल्प्यते।
नच विघ्नहेतुसद्भावानिश्चयादिदमननुष्ठेयम्। तत्सन्देहेऽप्यनुष्ठानस्य “पाक्षिकोऽपि दोषः परिहर्तव्यः” इति न्यायप्राप्तत्वात्। नच भगवतः सूत्रकारस्य विघ्ना एव न सन्तीति तत्परिहारार्थाननुष्ठानं न दोषायेति युक्तम्, शिष्यार्थमपि कर्तव्यत्वात्। यतो मङ्गलाचरणपुरःसराणि शास्त्राणि वीर्यवन्ति भवन्त्यायुष्मत्पुरुषकाणि च। अन्यथा भारतादावपि न कुर्यात्। एतेन, सूत्रकृता कृतमेव मङ्गलाचरणम्। किन्नाम। ग्रन्थादौ न निवेशितमित्यपि निरस्तम्। ग्रन्थे निवेशनस्यापि शिष्टाचारप्राप्तत्वात्, शिष्यार्थत्वाच्च। अत एवान्यत् किमपि विघ्नविघाताद्यर्थमनुष्ठितं सूत्रकारेणेति निरस्तम्।
अत्रोच्यते कर्तव्यमेव कार्यारम्भे मङ्गलाचरणम्। कृतं च भगवता सूत्रकारेण। निवेशितं च ग्रन्थादौ। यदयमोङ्काराथशब्दावादितः कृतवान्। तयोर्माङ्गिलकत्वात्। यथोक्तम्
“ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गिलकावुभौ” इति।
॥ सौत्रोङ्काराथशब्दयोर्मङ्गलार्थत्वम्॥
नन्वेतदनुपपन्नम्। तथासत्येतयोर्विघ्नविघातादिहेतुत्वेन समस्तशास्त्राङ्गतया प्रथमसूत्रावयवत्वाभावप्रसङ्गात्। तथात्वे च प्रथमसूत्रं न्यूनमापद्येत। अधिकार्यादिप्रतिपादकस्यान्यस्याभावात्। तत्प्रतिपादनस्य चाऽवश्यकत्वात्। अन्यथाऽधिकारिविषयवैधुर्येण शास्त्रस्यानारम्भणीयत्वशङ्का न निराकृता स्यादित्यनर्थकं सूत्रमापद्येतेत्यत आह तत्रेति।
तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते।
तरन्त्यनेनानिष्टनिचयमित्योङ्कारस्तारः। तारश्चाथश्च, तयोर्मूलत्वं क्रमेणाऽदित्वम्। आदौ प्रयुक्तावोङ्काराथशब्दाविति यावत्। तत्र प्रथमसूत्रेऽवयवतया, सर्वशास्त्रस्य चाङ्गतया चेष्यतेऽङ्गीक्रियते सूत्रकृतेति शेषः।
एतदुक्तं भवति प्रथमसूत्रेऽधिकार्यादिप्रतिपादनायोपात्तावोङ्काराथशब्दौ शङ्खवीणावेणुध्वनिवत् श्रुतितो माङ्गिलकत्वात् कृत्स्नशास्त्रस्यानन्तरायपरिसमाप्त्यादिकं कुर्वाते। अन्यार्थानीयमानपूर्णकलशदर्शनवदिति।
ताराथावित्येतावता पूर्णे यन्मूलत्वमित्याह तत् सूत्रकाराङ्गीकारलिङ्गसूचनम्। यत् पर्यायान्तरं विहायानयोरेव, क्रमान्तरं विहायाऽदावेवोपादानम्, तेन जानीमो ज्ञापकतयाऽऽदिसूत्रस्य, कारकतया समस्तशास्त्रस्य चोपयोगित्वेनैतौ सूत्रकृता विवक्षिताविति। नचैतद् यादृच्छिकम्। सकलसूत्रकारैरेवमेव प्रयुक्तत्वात्। नचानेकेषां प्रेक्षावतां यदृच्छयैकविधा प्रवृत्तिरुपलब्धेति। अनेन “अथशब्दो मङ्गलार्थः” इत्यादि भाष्यं विवृतं भवति।
॥ अथशब्दस्य मङ्गलार्थत्वे मायावाद्युक्तदूषणपरिहारः॥
अत्र यत् परेषां दूषणम्”मङ्गलस्य च वाक्यार्थे समन्वयाभावात्” इति। तथाहि “पदार्थ एव हि वाक्यार्थे समन्वीयते। स च वाच्यो वा लक्ष्यो वा। नचेह मङ्गलमथशब्दस्य वाच्यं लक्ष्यं वा। किन्तु मृदङ्गध्वनिवदथशब्दकार्यम्। नच कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शाब्दे व्यवहारे दृष्टः”, अस्तु वा मङ्गलस्य पदार्थत्वम्। तथाऽपि न वाक्यार्थे समन्वयः। तथाहि “न तावन्मङ्गलं ब्रह्मजिज्ञासायाः कर्तृकरणकर्मभावेन वाक्यार्थेऽन्वेति। कर्त्राद्यन्यतमभावे प्रमाणाभावात्, कारकान्तराणां विद्यमानत्वाच्च। नापि सामानाधिकरण्येनान्वयः। जिज्ञासा मङ्गलमिति प्रशंसापरतया अर्थवादत्वप्रसङ्गात्” इति। तदेतेनापास्तं भवति। अस्माभिरप्यानन्तर्याभिधेयोऽथशब्दः श्रुत्या मङ्गलप्रयोजन इत्यङ्गीकारात्।
॥ ओङ्कारस्य जिज्ञासासूत्रावयवत्वप्रतिपादनम्, तस्यासंहिततया निर्देशे निमित्तकथनं च॥
नन्वत्र सूत्रादावोङ्कार एव न विद्यते। तत् कथमुच्यते ताराथमूलत्वमिति? यद्यपि शिष्टैरध्येतृभिरुच्चार्यमाणोऽध्यक्षसिद्धः, तथाऽपि नायं सूत्रावयवः। लक्षणान्तराभावे सति असंहिततया सम्पाठे अखिलैः पठ्यमानत्वात्। वेदाध्ययनोपक्रमेऽध्येतृभिरुच्चार्यमाणोङ्कारवत्। अन्यथाऽथशब्दवत् संहिततया निर्दिश्येत।
नच दृष्टान्तः साध्यविकलः। अध्ययनोपक्रमविरतिवैचित्र्येण तत्तत्स्थानपरित्यागेनान्यान्यस्थाने अखिलैः पठ्यमानस्य वेदवाक्यानवयवतायाः सुप्रसिद्धत्वात्। अन्यथाऽध्ययनोपक्रमविरतिवैचित्र्येऽपि “ओमिति ब्रह्म” इत्यादिवन्नियतस्थानतया पाठप्रसङ्गात्। पक्षसपक्षयोरादावुच्चारणं तु प्राङ्मुखत्वादिवदध्ययननियमान्तर्गतमध्येतृभिरनुष्ठीयत इत्यस्तु। एवञ्चायमोङ्कारः सूत्रकृता मङ्गलार्थतया सूत्रादावुपनिबद्ध इत्यनुपपन्नमित्यत आह सर्वत्र इति।
सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः॥८॥
अखिलैः सूत्रपाठकैः यत् पृथगसंहिततयोङ्क्रियते तत्, सर्वत्र सूत्रेष्वनुगतत्वेनाभिलषितेन निमित्तेनोपपद्यते।
एतदुक्तं भवति सर्वाणि हि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वादवान्तरब्रह्मविद्याः। “स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते” इति श्रौतार्थवादसामर्थ्यात् सर्वास्वपि ब्रह्मविद्यास्वाद्यन्तयोरोङ्कारस्योहः कर्तव्य इति गम्यते। नचोह्यमानं वाक्यात् पृथगिति शक्यते वक्तुम्। मन्त्रेष्वप्यूह्यमानस्यामन्त्रावयवत्वप्रसङ्गात्। ततश्च प्रतिसूत्रमाद्यन्तयोरुच्चारणे गौरवं स्यादित्यादावेवोङ्कारोऽधिकृतत्वेनोच्चार्यते। तस्य संहिततया निर्देशे प्रथमसूत्रावयव एवायं विज्ञायेत। तन्मा विज्ञायीति शिष्टैः पृथगोङ्क्रियते। नच व्याख्यानतोऽप्यधिकारो ज्ञायत इति व्यर्थं पृथक्करणमिति वाच्यम्। अन्तरङ्गज्ञापकाभाव एव बहिरङ्गस्यान्वेषणीयत्वादिति। तदनेनासंहिततया निर्देशे निमित्तान्तरं वदता हेतोरन्यथासिद्धिरुक्ता भवति।
ननुच श्रौतार्थवादबलेनाऽद्यन्तयोरोङ्कारस्योहो वा प्राङ्मुखत्वादिवद् बहिर्भूतस्यैवोच्चारणं वा विधेयत्वेन कल्प्यमिति सन्दिह्यते। सत्यम्। सन्देहेऽपि तया प्रणाड्याऽनुमानस्य सन्दिग्धान्यथासिद्ध्याऽप्याभासत्वमेव। वक्ष्यमाणन्यायेनोङ्कारार्थस्य प्रथमसूत्रवाक्यार्थे समन्वयेन निश्चयोपपत्तौ बाधितविषयं चानुमानमिति।
अथवा दृष्टान्तदूषणमनेन क्रियते। तथाहि अखिलैर्वेदपाठकैः पृथग् रूपान्तरेण स्थानव्यत्यासेन यदोङ्क्रियते, तदुक्तन्यायेनाऽदावुच्चारणेनैव लब्धेन सर्वत्रानुगतत्वेन कारणेनैवोपपद्यत इति। अनेन दृष्टान्ते साधकस्य हेतोरन्यथासिद्धिरुक्ता। तथाच दृष्टान्तस्य साध्यविकलतेति। एवमनुमाने निरस्ते निरपवादेनाऽदावुच्चारणेनोङ्कारस्य प्रथमसूत्रावयवतासिद्धावुक्तमुपपन्नम्।
॥ प्रयोजनाद्यभिधानस्य शास्त्रप्रवृत्तिजनकत्वम्॥
तदेवं सिद्धे शास्त्रव्याख्येयत्वे प्रेक्षावत्प्रवृत्तिविषयस्यैवाऽरम्भणीयत्वात् प्रयोजनाभिधेयसम्बन्धवत्येव च प्रेक्षावतां प्रवृत्तेः, आरम्भणीयतासिद्धये प्रेक्षावतः प्रवर्तयितुं प्रयोजनाद्यभिसम्बन्धं प्रतिपादयतः प्रथमसूत्रस्य व्याख्यां “ओतत्ववाची” इत्यादिनाऽऽरभते।
॥ जिज्ञासासूत्रे प्रयोजनाद्यभिधानस्य सार्थक्योपपादनम्॥
ननु ब्रह्मज्ञानस्य मोक्षहेतुता यदि शास्त्रप्रवृत्तेः प्रागेव प्रमाणान्तरसिद्धा, व्यर्थं तदा तदभिधानं शास्त्रे। प्रमाणान्तरसिद्धे क्वचिदुपदेशानपेक्षणात्। अथेहैव तन्निश्चयः, तदा प्रवृत्तौ प्रयोजनादिनिश्चयः, निश्चिते च प्रयोजनादौ प्रवृत्तिरित्यन्योन्याश्रयत्वम्। अथ प्रथमसूत्रात् तन्निश्चयः। तत्रैव कथं प्रवृत्तिः? तदर्थं च प्रयोजनान्तराभिधानेऽनवस्था। एवमेव तत्र प्रवृत्तावुत्तरत्रापि तथात्वप्रसङ्गादनर्थकं सूत्रे प्रयोजनाद्यभिधानमिति।
उच्यते त्रिविधा हि पुंसां चित्तवृत्तिः अनुभव इच्छा प्रयत्नश्च। तत्र साधनगोचराविच्छाप्रयत्नौ प्रवृत्तिरित्युच्येते। नत्वनुभवो नापि फलगोचरेच्छा। येन तयोरपि प्रयोजननिश्चयापेक्षा स्यात्। नह्युपेक्षणीयं निष्प्रयोजनमिति नानुभूयते। नापि सुखं प्रयोजनान्तररहितमिति नेष्यते। नच मुमुक्षुणा अनपेक्षिते स्वर्गे यागादिकं तत्साधनतया नानुभूयते। पुरुषार्थसाधने तु इच्छालक्षणा, प्रयत्नलक्षणा वा प्रवृत्तिस्तथा न स्वरससिद्धा। नहि कश्चित् क्षुत्प्रहाणादिकमननुसन्धाय भोक्तुमिच्छति, प्रयतते वा। तस्माद् यो यत्र प्रवर्तनीयः स तत्प्रयोजनादिकं दर्शयित्वैव इति सार्थकं सूत्रे प्रयोजनाद्यभिधानम्।
॥ अभिहितेऽपि प्रयोजनादिके तन्निश्चायकाभावात् प्रवृत्त्यसम्भवशङ्का॥
उक्तं च प्रयोजनादिकं श्रोता कथं श्रद्दधीत, अश्रद्दधानश्च कथं प्रवर्तेतेति शङ्का पुनरवशिष्यते।
॥ प्रयोजनाद्यभिधानस्य आप्तवाक्यतया तन्निश्चायकत्वमङ्गीकृत्य शङ्कापरिहारकथनम्॥
तत्रैके समाधानमाहुः अवगतसूत्रकाराप्तभावस्तावत् तद्वचनादेव श्रद्धास्यति। यद्यप्याप्तत्वावधारणे प्रयोजनाद्यनभिधानेऽपि तत्सामान्यनिश्चयो भवत्येव, प्रयोजनादिमदिदं शास्त्रम्, आप्तोक्तत्वादिति। तथाऽपि नासौ प्रवृत्त्यङ्गम्। नहि प्रयोजनादिमदित्येव प्रवर्तते। किन्नाम। अस्मदभिमतप्रयोजनादिमदिति। स च प्रयोजनादिविशेषो वचनादेवावसीयत इति सार्थकं तदभिधानम्।
॥ अनिश्चितेऽप्याप्तत्वे न प्रवृत्त्यनुपपत्तिरिति विधान्तरेण समाधानकथनम्॥
आप्तत्वानिश्चयेऽप्यर्थसन्देहादेव कृष्यादाविव प्रवृत्त्युपपत्तिः। ननु सन्देहः प्रयोजनाद्यवचनेऽपि साधकबाधकप्रमाणाभावे सति सुलभ एव। विशेषस्मृतिश्च तदर्थित्वविशेषाद् भविष्यति। मैवम्। यो हि यद्वचनात् प्रवर्तते, स तद्वचनादेव विशेषस्मृतिमपेक्षते। नतु स्वातन्त्र्येण। नहि रोगार्तो ममेदं रोगनिवृत्तिसाधनं नवेति यत्रतत्रोच्छृङ्खलः स्वयमुत्प्रेक्ष्य प्रवर्तते। किन्नाम। अनवधृताप्तभावस्यापि वैद्यस्यैव वचनात्। अन्यथा स्वयं प्रयोजनाभिधानमनधिगच्छन्ननर्थमप्याशङ्केत। किं निष्प्रयोजनमिदम्, काकदन्तपरीक्षाग्रन्थवत्; उताशक्यसाधनप्रयोजनम्, मृतिहरहिममहीधरोत्तरसानुसिद्धसञ्जीवनीकथनवत्; उत मदनभिमतप्रयोजनम्, आर्यावर्तवासिनं प्रति दाक्षिणात्यस्य मातुलकन्यापरिणयनप्रकारोपदेशवत्; अथवाऽभिमतस्यापि प्रयोजनस्य सत्यपि लघीयस्युपायान्तरे गरीयानयमुपायः, पिपासुं प्रति गीर्वाणतरङ्गिणीसमीपकूपखननोपदेशवदित्यादि। एतासु चानर्थसम्भावनासु न प्रवर्तेत। नच प्रयोजनाद्यभिधानेऽप्येतासामवकाशः। लोकव्यवहारोच्छेदप्रसङ्गात्। नहि कश्चिद् वैद्यवचनादावेवमाशय निवर्तते। तस्मादुपपन्नमुभयथाऽपि प्रयोजनाद्यभिधानमिति।
॥ न्यायवाचस्पत्युक्तपरिहारद्वयस्याप्यनुपपन्नत्वम्॥
तदेतदनुपपन्नम्। तथाहि यदि तावदाप्तवाक्यतया सूत्रमिदं प्रयोजनादेर्निश्चायकं स्यात्, तदा आगमतया न्यायसूत्रत्वहानिः। किञ्चाऽप्तत्वं सूत्रकृतो येन वेदादिना प्रमाणेनावगन्तव्यम्, तेनैव प्रयोजनाद्यभिसम्बन्धोऽपि शास्त्रस्यावगम्यत इति व्यर्थं तदभिधानमापद्येत।

आप्तत्वानिश्चयेऽप्यर्थसन्देहात् प्रवृत्तिरिति चातिस्थवीयः। नहि कश्चित् प्रयोजनादिसन्देहे अतिमहायाससाध्ये प्रवर्तते, प्रागुक्तानर्थपरम्पराश्च कथं न शङ्केत?
॥ प्रवृत्त्यनुपपत्तिशङ्कायाः, जिज्ञासासूत्रस्य शास्त्रान्तरङ्गत्वाभावशङ्कायाः,
प्रयोजनाद्यभिधानेऽनवस्थाप्रसङ्गस्य च निस्तारः॥
तस्मान्नेदं प्रयोजनाद्युपदेशमात्रम्, किन्तु श्रौतस्य प्रयोजनादेः न्यायेनोपपदानार्थमित्येव परिहारः। आप्तत्वं तु न्यायस्योपोद्बलकमात्रमिति भाष्यकारीयं तद्व्युत्पादनमपि नानर्थकम्। अत एवास्य सूत्रस्य न शास्त्रबहिर्भावः। अध्ययनविध्यादिवदस्याप्यत एव आरम्भणीयत्वसिद्धेर्नानवस्थादिदोषोऽपीति।
॥ जिज्ञासाधिकरणनिवर्त्यसंशयादिप्रदर्शनम्॥
कः पुनरस्य सूत्रस्य प्रसङ्गः? उच्यते प्रारिप्सिततया हि बुद्धिसन्निहितं शास्त्रं सूत्रकारस्य। तत्र संशयः किमिदमारम्भणीयं नवेति। उपलभ्यन्ते खलूभयविधान्यपि वाक्यानि। वाक्यं चेदम्। नच विशेषो दृश्यते, येनान्यतरपक्षनिश्चयः स्यात्।
॥ संशयिचिन्ता॥
ननु कस्यायं संशयः? न तावत् सूत्रकारस्य। अवगतविशेषत्वात्। अन्यथा निर्णायकसूत्रप्रणयनानुपपत्तेः। नापि परस्य। परेणाद्यापि शास्त्रस्यानुपलब्धत्वात्। अनुपलब्धे च समानधर्मदर्शनाद्ययोगेन संशयोत्पादानुपपत्तेः। मैवम्। यदीदं शास्त्रं परेणोपलभ्येत तदोक्तसन्देहकारणोपपत्तौ प्रयोजनार्थित्वेन विशेषस्मृतिमतैवं सन्दिह्येतेति सूत्रकृत एव परकीयसम्भावितसंशयाहरणोपपत्तेः।
॥ जिज्ञासाधर्मिककर्तव्यत्वाकर्तव्यत्वकोटिकः संशयः॥
नन्विदं युक्त्यनुसन्धानात्मकविचारमीमांसामननापरनामकजिज्ञासाङ्गभूतन्यायनिबन्धनं जिज्ञासायाः कर्तव्यतायामारम्भणीयं भविष्यति। नहि विचारः कर्तव्यः तद्द्वारभूतन्यायनिबन्धनं च नाऽरम्भणीयमिति सम्भवति। निःसाधनस्य विचारस्यैवानुत्थानात्। अन्यथा तु नेति जिज्ञासैव विचारणीया। सत्यम्। एतच्छास्त्रव्युत्पादनीयन्यायकरणिकायां जिज्ञासायामुभयविधव्यापारदर्शनाद् विशेषादर्शनाच्च संशयः किं कर्तव्या, नवेति। ननुच “तद् विजिज्ञासस्व” इति जिज्ञासायाः श्रुतिविहितत्वात् कथं विशेषादर्शनम्? मैवम्। विना विचारेण श्रुत्यर्थस्याद्याप्यनिर्णीतत्वेन संशयास्पदत्वात्।
॥ पूर्वपक्षिणा अधिकारिविषयसम्बन्धशून्यत्वात् जिज्ञासाया अकर्तव्यतासाधनम्॥
तत्र तावज्जिज्ञासा न कर्तव्येति प्राप्तम्। कुतः? विषयप्रयोजनसम्बन्धाधिकारिलक्षणानुबन्धविधुरत्वात्। कर्तव्यता खलु विषयादिमत्तया व्याप्ता। कृष्यादिकं हि सति विषयभूते भूम्यादौ, प्रयोजने च सस्याधिगमादौ, अधिकारिणि च कृषीवलादौ कर्तव्यमुपलब्धम्। सा च व्यापिका व्यावर्तमाना इतो व्याप्यामपि कर्तव्यतां व्यावर्तयतीति प्रतिबन्धसिद्धिः।
विषयादिसद्भावो हि जिज्ञासायाः कारणम्। नच कारणाभावे कार्यमुत्पत्तुमर्हति। विषयशून्यत्वाद्धि समनस्केन्द्रियसन्निकृष्टस्य स्फीतालोकमध्यवर्तिनो घटस्य न जिज्ञासा क्रियते। प्रयोजनविकलत्वात् खलु सन्दिग्धमपि वायसदशनादिकं न जिज्ञास्यते। सम्बन्धवैधुर्याद्धि सप्रयोजनं सविषयमपि शब्दज्ञानमर्थयमानो न वैद्यके प्रवर्तते। अधिकारविरहाच्च न मुमुक्षोर्वात्स्यायने प्रवृत्तिः।
॥ अचेतनस्य जिज्ञासाविषयत्वनिराकरणम्॥
विषयादिवैधुर्यमेवात्र कथमिति चेत्, इत्थम् न तावदनात्मविषयेयं जिज्ञासा। तस्य तृणादिलक्षणस्य प्रत्यक्षादिनैव निश्चितत्वात्। सन्दिग्धश्चार्थो न्यायविषयो भवति। यथोक्तम् “अविज्ञाततत्वेऽर्थे कारणोपपत्तितस्तत्वज्ञानार्थमूहस्तकः” इति। निष्पादितक्रिये च कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायातिपातः। नाप्यसौ जिज्ञासितः कस्मैचन प्रयोजनाय कल्पते। एवंविधे चाधिकारी दूरोत्सारितः। यतोऽर्थी समर्थो विद्वानधिक्रियते। नचैतादृशेऽर्थेऽर्थिता सम्भवति। धर्मादिलक्षणस्त्वनात्मा शास्त्रान्तरादिनैव निर्णीतः।
॥ जीवस्य जिज्ञासाविषयत्वनिराकरणम्॥
आत्मा च शरीरेन्द्रियादिसङ्घातव्यतिरिक्तो नास्त्येव। शरीरादिकं च यथायथं प्रत्यक्षादिनैव निश्चितम्। नन्वात्मा शरीरादिव्यतिरिक्तोऽहमित्यसन्दिग्धाविपर्यस्तः साक्षात् प्रतीत्यैव निश्चीयत इति चेत्, एवन्तर्हि तत एव न जिज्ञास्यः। अत एवानादितस्तदीयतत्वज्ञाने विद्यमानेऽपि इष्टानिष्टप्राप्तिपरिहारयोरदर्शनान्नासौ जिज्ञासितः कस्यचित् प्रयोजनस्येष्टे। नन्वयं कर्ता भोक्ता दोषसंसर्गी चाहम्प्रत्यये प्रकाशते, तद्विपरीतस्तु श्रुतिप्रतिपादितः प्रतिपत्तव्यः, अतो जिज्ञास्य इति चेत्, एवन्तर्हि जरद्गवादिवाक्यवत् पावकशैत्यानुमानवच्च प्रतीतिविरोधेन श्रुतिजिज्ञासयोराभासतापातः।
अत एव न परात्मा जिज्ञास्यः। तस्य प्राणादिलिङ्गैरवगतत्वात्। सैव जिज्ञासेति चेत्, न। तस्या लौकिकप्रवेदनीयत्वेन शास्त्राव्युत्पादनीयत्वात्। न खलु बालकः स्तनपानेष्टसाधनत्वानुमाने शास्त्रव्युत्पादनमपेक्षते। यत् क्वचिच्छिास्त्रेऽपि लौकिकप्रवेदनीयार्थव्युत्पादनम्, अनुवादोऽसौ, न पुनः स एव प्रधानव्यापारः।
॥ ईश्वरस्याभावादेव तद्विषयत्वानुपपत्तिः॥
ईश्वरविषया जिज्ञासा भविष्यतीति चेत्, न। तस्यैवाभावात्। नचैवमीश्वरादिपदानामानर्थक्येन अपदत्वप्रसङ्ग इति वाच्यम्। तेषां कथञ्चिज्जीवविषयतोपपत्तेः। सोऽपि हि स्वशरीरेन्द्रियादीनामीष्टे। प्रतीतार्थत्वोपपत्तावप्रतीतार्थत्वकल्पनायां गौरवप्रसङ्गात्। जीवस्य चाहमिति स्वप्रकाशतया, स्वप्रकाशज्ञानाश्रयतया, मानसप्रत्यक्षवेद्यतया वा सिद्धत्वेन न जिज्ञासाविषयत्वमित्युक्तम्।
॥ ईश्वरसद्भावाङ्गीकारेऽपि न जिज्ञासाविषयत्वम्॥
किञ्चेश्वरः प्रमितः, नवा? नोभयथाऽपि जिज्ञासा सम्भवति। नेति पक्षेऽनुग्राह्यप्रमाणाभावेन जिज्ञासायास्तकत्वव्याघातात्। “कारणोपपत्तितः” इति ह्युक्तम्। प्रमाकरणस्य प्रमाणस्य उपपत्तिरनुग्रहः, तत्करणेनेत्यर्थः। नच बुद्धावनारूढं शक्यं जिज्ञासितुम्। प्रमितत्वे तु निश्चितत्वादेव। नचैवं सकलतर्कानुपपत्तिप्रसङ्गेन व्याघातः। सामान्यतः प्रतीतौ विशेषे तदवकाशात्। नचात्र तथात्वं पश्यामः।
॥ ईश्वरस्य प्रत्यक्षानुमानावेद्यत्वात्,
आगमस्य सिद्धार्थबोधकत्वेन तदविषयत्वात् मीमांसानुपपत्तिः॥
किञ्चेश्वरे प्रमाणं भवन् न तावत् प्रत्यक्षम्, तस्याऽपाततस्तदभावावेदकत्वात्। नाप्यनुमानम्, तत्प्रतिबद्धलिङ्गाभावात्। आगमस्तु कार्यनिष्ठो न निष्पन्नस्वरूपमीश्वरं शक्नोत्यवगमयितुम्। नचान्यत् प्रमाणमस्ति यन्मीमांसयाऽनुगृह्येत।
॥ आगमस्य ईश्वरविषयत्वाङ्गीकारेऽपि तस्याप्रमाणत्वेनानुपपत्तितादवस्थ्यम्॥
किञ्चाऽगमोऽपि भवन् वेद एव वक्तव्यः। अन्यस्यानाशङ्कनीयत्वात्, पारतन्त्र्याच्च। वेदस्य पौरुषेयत्वापौरुषेयत्वयोः कारणाभावेन प्रामाण्यमेव दुर्लभम्। स्वतः प्रामाण्याङ्गीकारे तु वेदविरुद्धानामपि शाक्यादिवचसां तथात्वापातेन पुनर्वेदाप्रामाण्यतादवस्थ्यम्।
॥ शब्दमात्रस्य प्रामाण्ये दुर्लभे तद्विशेषस्य वेदादेः सुतरामप्रमाण्यम्॥
किञ्च शब्दस्यैव प्रामाण्यं दुर्घटम्, अर्थसंस्पर्शशून्यत्वात्, वाक्यार्थप्रत्यायनप्रकारानिरूपणाच्च। कुतस्तद्विशेषस्य वेदस्य।
॥ अभ्युदयमोक्षयोः अन्यथासिद्धत्वेन न जिज्ञासासाध्यत्वम्॥
प्रयोजनं चेश्वरजिज्ञासाया अभ्युदयो वा स्यात्, मोक्षो वा। नाऽद्यः, तस्य धर्मादिलघूपायसाध्यस्य शास्त्रान्तरप्रयोजनत्वात्। न द्वितीयः, तस्यापि “अपाम सोमम्” इत्याद्यागमेन लघूपायान्तरसाध्यतावगमात्। नचैकस्यैव कर्मणोऽभ्युदयनिःश्रेयसहेतुत्वं विरुद्धम्। फलाभिसन्ध्यादिभावाभावाभ्यां विशेषोपपत्तेः।
॥ जिज्ञासाया ज्ञानप्रसादद्वारा मोक्षसाधनत्वनिराकरणम्॥
जिज्ञासा च मोक्षसाधनं भवन्ती किं साक्षात्, उत ज्ञानद्वारेण? नाऽद्यः, दृष्टादृष्टत्यागकल्पनाप्रसङ्गात्। न द्वितीयः, “कर्मणा ज्ञानमातनोति” इत्यागमेन ज्ञानस्य लघूपायान्तरसाध्यताध्यवसायात्। ज्ञानस्यापि साक्षान्मोक्षहेतुत्वाभ्युपगमेऽदृष्टकल्पनैव। नचेश्वरप्रसादद्वारा। ज्ञानस्य प्रसादहेतुतायाः क्वाप्यदृष्टत्वात्। “तत् कर्म हरितोषं यत्” इत्यादिना तत्प्रसादस्य कर्माद्यल्पोपायसाध्यताप्रतीतेश्च।
॥ बन्धस्याज्ञानकल्पितत्वेन ज्ञाननिवर्त्यत्वात्
तन्निवृत्तेरीश्वरप्रसादसाध्यत्वाभावः॥
किञ्चायमात्माविद्याकल्पितो बन्धः तद्विद्ययैव निवृत्तिमर्हति। शुक्तिकाविद्याकल्पितं रजतमिव शुक्तिविद्यया। तत् कुतो बन्धनिवृत्तिलक्षणे मोक्षे परमेश्वरप्रसादस्योपयोगः? कुतस्तरां तज्ज्ञानस्य? कुतस्तमां च तज्जिज्ञासायाः?
॥ बन्धस्य सत्यत्वाङ्गीकारे तन्निवृत्त्यनुपपत्तिः॥
अथ परमार्थ एवायं बन्धः, तर्हि न ज्ञानेन निवर्तेत। नच सत्यस्य अनादेरात्मस्वरूपमात्रानुबन्धिनो बन्धस्याऽत्मस्वरूपस्येव केनापि निवृत्तिर्युक्ता।
॥ मुक्तेः प्रयोजनत्वनिराकरणम्॥
अपिच मुक्तस्य शरीरेन्द्रियविषयादिसंसर्गे मुक्तत्वव्याघातः। दुःखादिप्रसङ्गश्च। कारणसामग्रीसद्भावात्। तथाचाभ्युदयतुल्यतयोक्तदोषः। शरीराद्यभावे च तत्साध्यसुखाभावेन कस्यापि तत्रार्थितानुपपत्तेरनधिकारिकं शास्त्रमापद्येत। को हि स्वस्थात्मा सहसा सुखतत्साधने हातुमुत्सहते?
॥ सिद्धान्तः॥
तदेवं विषयाद्यनुबन्धविधुरत्वान्न जिज्ञासा कर्तव्या, तद्विधयोऽपि न प्रमाणम्, शास्त्रं चेदमनारम्भणीयमिति प्राप्ते सूत्रयामास भगवानाचार्यः “ॐ अथातो ब्रह्मजिज्ञासा” इति।
ॐ अथातो ब्रह्मजिज्ञासा ॐ॥१॥
॥ जीवजडातिरिक्तस्य अनन्तगुणपूर्णस्य चेश्वरस्य जिज्ञासाविषयत्वम्॥
यत्तावदुक्तं विषयाभावान्न जिज्ञासा कर्तव्येति, तदनुपपन्नम्। अनात्मजीवात्मनोर्विषयत्वानुपपत्तावपीश्वरस्य तदुपपत्तेः। अत्र यदुक्तं जीवव्यतिरिक्त ईश्वर एव नास्तीति तत्परिहाराय सूत्रकृतोङ्कारब्रह्मशब्दौ प्रयुक्तौ। तेनायमर्थः सूचितः “ओमित्येतदक्षरमुद्गीथमुपासीत”, “तद् विजिज्ञासस्व तद् ब्रह्म” इत्यादिश्रुतावोङ्कारब्रह्मशब्दौ जिज्ञास्ये वस्तुनि श्रूयेते। ताभ्यां च तत् सकलजीवजडात्मकात् प्रपञ्चाद् विलक्षणमवगम्यत इति।
तदयुक्तमिवाऽभाति। ओमादिपदस्य अलौकिकार्थेऽनवगतसङ्गतित्वात्। नहि पदं चक्षुरादिवदप्रतीत एवार्थे प्रतीतिं जनयति, येनापूर्वमर्थं पदप्रयोगादेव प्रतीमः। स्वर्गापूर्वदेवताद्यर्थोऽपि न पदप्रयोगादेव सिद्धः। किन्तु सन्निहितानेकवाक्यार्थसामर्थ्याल्लभ्यत इत्यत आह भाष्यकारः ओतत्ववाचीति।
॥ ओङ्कारब्रह्मशब्दव्याख्यानम्॥
ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम्।
स एव ब्रह्मशब्दार्थः ……………………॥९॥
हिशब्दो हेत्वर्थे। ओङ्कारस्तावदोतत्वस्य गतत्वस्य प्रविष्टत्वस्य वा वाचकः। गत्याद्यर्थस्यावतेः खलु रूपमेतत्, “अवतेष्टिलोपश्च” इति सूत्रात्। “ओमिति पुनः कस्य वक्ता” इति प्रश्नपूर्वकं “अवतिर्नामाऽयं धातुर्गतिकर्मा प्रवेशनकर्मा च” इत्यन्यत्राप्येवमेव निरुक्तत्वात्। तथाच यद्यसौ कर्मणि तदा कर्तुः, यदिवा कर्तरि तदा कर्मणोऽपेक्षायामुपपदाद्यभावेऽपि योग्यतया श्रुत्यन्तरादिबलाद् वाऽसावोङ्कारस्तस्य जिज्ञास्यस्य गुणैरानन्दाद्यनन्तकल्याणगुणैः, गुणान् वा ओततां वक्ति। पक्षद्वयेऽप्यनन्तानवद्यकल्याणगुणपूर्णतैवोङ्कारस्यार्थः। ब्रह्मशब्दस्यापि स एवार्थः। बृहतेर्वृद्ध्यर्थस्य खल्वेतद् रूपम्। तथाच पूर्ववद् योग्यतया
“अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः”
इत्यादिश्रुत्यन्तरबलाद् वा गुणानां सम्बन्धः।
एतदुक्तं भवति यौगिका हि शब्दा नावश्यमर्थप्रत्यायने सङ्गतिग्रहणमपेक्षन्ते। किन्नाम। निगमनिरुक्तव्याकरणबलेनावयवार्थावगमे सति तत्संसर्गसम्भावनायां प्रसिद्धम्, अन्यथाऽपूर्वमेवार्थमवगमयन्ति। वाक्यरूपत्वात् तेषाम्। यथाऽऽह “श्रोत्रियंश्छन्दोऽधीते, वाक्यार्थे पदप्रयोगः” इति। नच वाक्यं सङ्गतिग्रहणापेक्षमर्थमवबोधयति। अधिगतार्थत्वप्रसङ्गात्, अशक्यत्वाच्च। तदेतावोङ्कारब्रह्मशब्दावपि यौगिकौ जिज्ञास्यमनन्तगुणपरिपूर्णं प्रतिपादयन्तौ जीवजडयोस्तदयोगात् तद्व्यतिरिक्तमेव किञ्चिद् गमयतः। तच्चाविदितत्वात् सम्भवति जिज्ञासाविषयः। नच तत्रापि गुणपूर्णता विरुद्धा। प्राक् प्रतीतेर्निराश्रयस्य विरोधिप्रत्ययस्यानुत्थानात्। प्रतीत्या चैवमेव सिद्धत्वादिति।
॥ मायावादिकृतोङ्कारब्रह्मशब्दव्याख्यानस्य प्रत्याख्यानम्॥
यत् पुनः “अकारवाच्येन तत्पदार्थेनोकारवाच्यस्य त्वम्पदार्थस्याभेदो मकारेणोच्यते, ब्रह्मशब्देन च सकलवस्त्वात्मकत्वलक्षणपूर्णताऽभिधीयते” इति व्याख्यानम्, तदप्रामाणिकं प्रमाणविरुद्धं च।
यत्तु “आप्तेरादिमत्त्वाद् वा” इत्याद्योङ्कारस्य, “नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम्” इत्यादि ब्रह्मशब्दस्य व्याख्यानम्, तज्जीवादिव्यतिरिक्तवस्तुसाधनाविरोधीति स्फुटमेवेत्याशयवता न व्याख्यानान्तरं दूषितम्, अनुमतं च।
॥ “गुणोतताम्” इत्यस्य साधुत्वसमर्थनम्॥
ननु गुणोततामिति कथम्। “वृद्धिरेचि” इति भवितव्यम्। मैवम्। “ओमाङोश्च” इति चशब्देन अन्यत्रापि पररूपत्वानुशासनात्। अथवा ऊयते रूपमेतत्। नन्वसौ तन्तुसन्ताने पठ्यते। अनेकार्थत्वाद् धातूनामित्यदोषः। कथन्तर्ह्योतत्ववाचीति गुणः। तत्रावतिरूपाङ्गीकारात्। वैचित्र्यं तु धातुद्वयजत्वसूचनार्थम्। अथवाऽऽकारोपसर्गपूर्वकोऽसावित्यदोषः।
॥ विष्णोरेव ओङ्कारब्रह्मशब्दवाच्यत्वम्॥
अस्तु वोङ्कारब्रह्मशब्दाभ्यां जीवजडातिरिक्तस्य जिज्ञास्यस्य सिद्धिः। तथाऽपीश्वरस्य किमायातमित्यत आह नारायणेति।
…………………नारायणपदोदितः॥९॥
स एवेत्यनुवर्तते। नहि नाम्नि विप्रतिपत्तिरित्याशयः।
॥ सौत्रोङ्कारब्रह्मशब्दयोः नारायणात्मानन्तेश्वरादिशब्दानामुपलक्षणत्वम्॥
अथवा सूत्रकारोक्तावोङ्कारब्रह्मशब्दावुपलक्षणमात्रम्। “नारायणं महाज्ञेयम्” इत्यादिश्रुतौ जिज्ञास्ये नारायणशब्दोऽपि श्रूयते। नारायणपदोदितश्चार्थः स एव यो गुणपूर्णत्वाख्यः। अतो नारायणशब्देनापि जिज्ञास्यं जीवादिव्यतिरिक्तं सिद्ध्यतीत्यनेनोच्यते। एतदप्युपलक्षणम्। आत्मानन्तेश्वरादिशब्दा अपि ज्ञातव्याः। तेषामपि “आत्मानमेव लोकमुपासीत” इत्यादौ जिज्ञास्ये श्रवणात्। गुणपूर्णत्वाभिधायित्वाच्च।
॥ ओङ्कारादिशब्दानां जीवादिवाचित्वाङ्गीकारे बाधकोपन्यासः॥
नचालौकिकार्थकल्पने गौरवप्रसङ्गाद् वरं कथञ्चिदेषां शब्दानां जीवादिविषयताङ्गीकरणमिति वाच्यम्। यौगिकशब्दप्रयोगान्यथानुपपत्तेरुक्तत्वेन कल्पनाभावात्। अन्यथा वाक्यादप्यलौकिकार्थप्रत्ययो न स्यात्। लौकिकार्थ एव कथञ्चिदर्थानुगमस्य वक्तुं शक्यत्वात्।
किञ्च क्वचिन्मुख्यार्थ एव शब्दोऽनुपपत्त्या क्वचिदमुख्यार्थोऽनुगम्यते। न पुनरमुख्यार्थ एव। तथाच श्रौतं ब्रह्मादिशब्दं जीवादिविषयमङ्गीकुर्वाणेनापि निरवग्रहपूर्णतायुक्तं किञ्चिदभिधेयं मुख्यमङ्गीकरणीयमेव। ततश्चानेन किं कृतं स्यात्? जीव एवैते मुख्यार्थाः, तदनुपलब्धिस्त्वविद्यावरणनिमित्तेति चेत्, न। यतोऽत्राऽचार्यः स्वयमेव प्रतिवक्ष्यतीति। (१०७)
॥ वेदानामीश्वरविषयत्वोपपादनम्॥
यदत्रोक्तमीश्वरः प्रमितो नवेति। तत्र प्रमित इत्युत्तरम्। तत्पक्षदोषश्च परिहरिष्यते। (३०) तथाच शास्त्रस्य विषयसम्बन्धः समाहितो भवति। यत् पुनरत्रोक्तं केन प्रमाणेनेति तत्र वेदेनेति वदामः। वेदस्येश्वरविषयता कुत इत्यतोऽप्योङ्कारः सूत्रकृता ब्रह्मणि प्रयुक्तः। तत् कथमस्यार्थस्योपपादकमित्याशय इदमत्राऽकूतं सूत्रकारस्येत्याह व्याहृतीनां चेति।
स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः।
भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि।
स एव सर्ववेदार्थो …………………॥१०॥
॥ व्याहृतीनां ओङ्कारव्याख्यानरूपत्वप्रतिपादनम्॥
स एवार्थ इति सम्बन्धः। ओङ्कारस्तावद् भगवत ईश्वरस्य वाचकः, “ओमिति ब्रह्म” इत्यादिश्रुतेः। अतः स एव व्याहृतीनां च भूरादीनामर्थ इति गम्यते, “प्रणवार्था व्याहृतयः” इत्याद्यागमेन तिसॄणां व्याहृतीनां वर्णत्रयात्मकोङ्कारव्याख्यानतयाऽवगतत्वात्। व्याख्यानव्याख्येययोश्चैकविषयता सुप्रसिद्धेति। एवकारो व्याहृतीनामग्न्विायुसूर्यदेवताकत्वप्रसिद्ध्या तत्प्रतिपादकत्वभ्रमं निवारयति। अग्न्यादीनामधिदेवतात्वेनापि प्रसिद्ध्युपपत्तेः। अन्यथोक्तव्याख्यानव्याख्येयभावानुपपत्तिप्रसङ्गः।
॥ व्याहृत्यर्थकथनम्॥
केन निमित्तेन व्याहृतीनां च स एवार्थ इत्यत आह भूमत इति। भूमा पूर्णत्वम्, ततो भूः। भवतेर्बहुत्वार्थस्य क्विपि रूपमेतत्। भावनात्, जगत उत्पादनाद् भुवः। भवतेरेवान्तर्णीतण्यर्थस्य कप्रत्यये रूपम्। सुत्वात् सुखत्वात् स्वः। स्वशब्दो हि सुखवाची प्रसिद्धः। चकारौ निमित्तान्तरसमुच्चये। यथोक्तम् “पूर्णो भूतिवरोऽनन्तसुखो यद् व्याहृतीरितः” इति। एतैरेव निमित्तैः व्याहृतीनामर्थो न पुनर्लोकत्रयात्मकत्वेन। तस्य प्रमाणविरुद्धत्वात्। “भूरिति वा अयं लोकः” इत्यादिश्रुतिरपि लोकत्रयान्तर्गतभगवद्विषयैवेत्येवशब्दार्थः।
॥ गायत्र्याः व्याहृतिव्याख्यानरूपत्वम्, भर्गसवितृशब्दार्थकथनं च॥
किमतो नहि व्याहृतय एव वेद इति चेत्, व्याहृत्यर्थतया तावत् परमेश्वरस्य गायत्रीप्रतिपाद्यता अवगम्यते। त्रिपदाया गायत्र्या व्याहृतित्रयव्याख्यानत्वस्याऽगमसिद्धत्वात्। ननु गायत्र्यां “यो भर्गो नोऽस्माकं धियः प्रचोदयात् प्रेरयेत् तस्य सवितुर्देवस्य तद् वरेण्यं रूपं धीमहि चिन्तयामः’ इति भर्गनामकः सविता प्रतिपाद्यो दृश्यते। तत् कथं भगवत्परत्वमित्यत आह स एव भर्गशब्दार्थ इति। भरणगमनयोगादिति शेषः। उपलक्षणं चैतत्। जगत्प्रसवहेतुत्वात् सवितेत्यपि द्रष्टव्यम्। नतु सूर्यः। तथात्वे गायत्र्या व्याहृत्यर्थत्वानुपपत्तेः। “ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः” इत्याद्यागमविरोधाच्चेत्येवार्थः।
॥ पुरुषसूक्तस्य गायत्रीव्याख्यानरूपत्वम्, पुरुषशब्दनिर्वचनं च॥
अस्तु गायत्र्यर्थो नारायणः। किमेतावताऽपि? गायत्र्यर्थत्वात् पुरुषसूक्तार्थोऽपि स एवेति सिद्ध्यति। वर्गत्रयात्मकस्य तस्य त्रिपदागायत्रीव्याख्यानत्वेन “तद्भेदः पौरुषं सूक्तम्” इत्याद्यागमसिद्धत्वात्। ननु पुरुषसूक्ते पुरुषस्य, पशोः, हिरण्यगर्भस्य वा प्रतिपादनात् कथं नारायणः प्रतिपाद्यत इत्यत आह सोऽयमिति। पूर्णत्वादिनेति शेषः। तथाच श्रुतिः “स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्” इति। अन्यथोक्तयुक्तिविरोधः। वक्ष्यते चैतत्।(११३८११४२, २५८)
॥ वेदानां पुरुषसूक्तव्याख्यानत्वात् ओङ्कारार्थो विष्णुरेव सर्ववेदार्थ इत्युपपादनम्॥
सिद्धे च पुरुषसूक्तार्थत्वे विष्णोः किं स्यात्? सर्ववेदार्थत्वमेव सिद्धम्।”वेदाः पुरुषसूक्तगाः” इत्यागमेन सर्ववेदानां पुरुषसूक्तार्थतयाऽवगतत्वादित्याह स एवेति। एवशब्दः कार्यादिव्यावृत्त्यर्थः। “सर्वे वेदा यत् पदमामनन्ति” इत्यादिश्रुतिसिद्धमपि भगवतः सर्ववेदार्थत्वं न्यायेन उपपादयितुमयं प्रयत्नः सूत्रकारस्य।
॥ वेदस्य ओङ्कारव्याख्यानरूपत्वं उक्तपरम्परयैव न साक्षादित्युपपादनम्॥
स्यादेतत्। ईश्वरः सर्ववेदार्थः, तद्व्याख्येयोङ्कारार्थत्वात्; यो यद्व्याख्येयार्थः स तदर्थः, यथा सम्प्रतिपन्न इति वा, सर्वो वेद ईश्वरपरः, तत्परोङ्कारव्याख्यानत्वादिति वा साक्षादेवानुमानं किं न व्याख्यायते? “तद् यथा सर्वाणि पर्णानि शङ्कुना सन्तृण्णान्येवमोङ्कारेणैव सर्वा वाक् सन्तृण्णा” इत्यादिश्रुत्या हेत्वर्थसमर्थनं भविष्यति, किमनेन परम्पराव्याख्यानेन? सत्यम्। तथाऽपि वाक्यान्तरबलेन न सर्वा वागोङ्कारव्याख्यानं साक्षात्, किन्नाम, उक्तप्रकारेण परम्परयैवेति ज्ञापयितुमित्थं व्याख्यानमित्यदोषः।
॥ ईश्वरस्य वेदसमधिगम्यत्वम्॥
ननुचेश्वरे प्रमाणं पृष्टवत ओङ्कारब्रह्मशब्दावेव कस्मान्नोक्तौ? किं वेदानुमानेन? नच पदस्याप्रमाणतेति वाच्यम्। यौगिकपदप्रामाण्यस्योक्तत्वात्। मैवम्। मीमांसानुग्राह्यप्रमाणस्य पृष्टत्वात्। नचोङ्कारादिमात्रं तथा विवक्षितम्। किन्नाम। समस्तो वेद एवेति।
॥ ईश्वरस्य सर्ववेदप्रतिपाद्यत्वप्रतिपादनात् शास्त्रस्य तद्विषयतोपपत्तिः॥
किमतो यद्येवमीश्वरः सर्ववेदार्थ इति चेत्, विषयसम्बन्धसम्भवाज्जिज्ञासायाः कर्तव्यता शास्त्रस्य चाऽरम्भणीयत्वं सिद्धमित्याशयवान् साकाङ्क्षस्य वाक्याभासस्याप्रतिपादकत्वादाकाङ्क्षिताध्याहारं सूचयन् सूत्रवाक्यार्थमाह जिज्ञास्य इति।
……………. जिज्ञास्योऽयं विधीयते॥१०॥
अयम्, इत्युक्तविधया जीवजडात्मकात् प्रपञ्चादत्यन्तविविक्तत्वेन निश्चिततया विषयभूतः, सर्ववेदार्थतया शक्यप्रतिपादनश्चेत्यर्थः।
॥ मीमांसाया वेदेतिकर्तव्यतारूपत्वात् तयोरेकविषयकत्वकथनम्॥
ननु वेदानामीश्वरप्रतिपत्तिजनकत्वाद् भवतु तद्विषयत्वम्। शास्त्रं तु तेषामीश्वरप्रतिपादनानुसरणोपायन्यायविषयं कथमीश्वरपरमुच्यते? मैवम्। वेदानामीश्वरमवबोधयतामितिकर्तव्यता हि मीमांसा। तेनोपकारकत्वाद् भवति तद्विषया। तद्द्वारा शास्त्रमपि। नहि बीजस्याङ्कुरं जनयतः सहकारिणो जलादेरङ्कुरो न कार्यम्।
॥ मीमांसाया ईश्वरविषयकत्वेऽनुपपत्तिपरिहारः॥
ननु मीमांसाऽपि सम्भावनादिविषया कथमीश्वरविषया भवति? मैवम्। द्विविधं खलु कर्म कारकं भवति। किञ्चिदव्यवधानेन व्यापारजन्यातिशययोगि। यथोद्यमननिपतनव्यापारजन्योर्ध्वाधोदेशसंयोगविभागातिशयविशिष्टः कुठारः कर्तृव्यापारस्याव्यवधानेन कर्म भवति। किञ्चिदुद्देश्यफलसम्बन्धितया करणव्यापारव्यवधानेन। यथा द्वैधीभाववान् वृक्षः। तत्र कर्तृव्यापारस्य करणव्यापारव्यवधानेन वृक्षकर्मतेव मीमांसाव्यापारस्यापि प्रमाणादिसम्भावनाद्वारेणेश्वरावबोध एवोद्देश्य इति भवति तत्कर्मता।
॥ मीमांसाया वेदेतिकर्तव्यतारूपत्वोपपादनम्॥
स्यादेतदेवम्। यदि वेदेतिकर्तव्यता विचारः स्यात्। नचैवम्। विनाऽपि विचारेण शब्दोपलब्धिसमयग्रहणतत्स्मरणसहकृताच्छब्दादेवार्थावगमदर्शनात्। नच मन्तव्यम्, शक्तितात्पर्याज्ञानविपर्ययदोषाच्छब्दः संशयविपर्ययावुत्पादयति, तत्र दोषापनयनेन संशयादिव्युदासाय शक्तितात्पर्यविचारोऽङ्गं भवतीति। यतस्तत्रापि शब्दो विना विचारेण तत्वज्ञानस्येष्टे। किन्नाम। प्रतिबन्धमात्रं विचारेणापनीयते। नहीतिकर्तव्यतैवम्। तत् कथं वेदेतिकर्तव्यता जिज्ञासा? कथन्तरां चेश्वरविषया? कथन्तमां च शास्त्रस्य तद्विषयता? इति।
अत्रोच्यते सत्यमेवम्। तथाऽपि प्रतिबन्धनिवृत्तौ सत्यामेव निर्णय इति प्रतिबन्धकनिरासहेतोरपि विचारस्योपचारेण निर्णयहेतुत्वादुपपन्नमीश्वरविषयत्वम्।
॥ वेदप्रतिपाद्यस्यापीश्वरस्य वादिभिरन्यथाप्रतिपादनात् तत्स्वरूपनिर्णयाय मीमांसा कर्तव्या॥
एतेनैतदपि निरस्तम् ईश्वरस्य वेदप्रमाणकत्वे तत एव निश्चितत्वात् किं मीमांसयेति। युक्तिवाक्याभासजनितविप्रतिपत्तिप्रतिबन्धस्योक्तत्वात्।
तथाहि वेदप्रामाण्यमेवानङ्गीकुर्वाणाः केचिदीश्वर एव नास्तीति प्रतिपन्नाः। अपरे तु तदङ्गीकृत्यापि तद्वाचिनां पदानां जीवादिविषयतां व्याकुर्वन्तस्तदभावमास्थिताः। अन्ये तु पुनरस्तीश्वरः किन्तु परमार्थतो निर्गुण एवेति सङ्गिरन्ते। एके तु सगुणोऽपि न जगतः कारणम्, अपितूदासीन एवेत्यातिष्ठन्ते। केचित् कारणत्वेऽप्युपादानमित्यभ्युपयन्ति। निमित्तमात्रत्वेऽपि कतिपयगुणं गुणेभ्यो भिन्नमन्ये मन्यन्ते। इतरे तु भिन्नाभिन्नमुपगतवन्तः। केचिद् विग्रहवन्तमित्येवमाद्यास्वनेकासु विप्रतिपत्तिषु सतीषु तत्वज्ञानकरणादपि वेदात् तदनुत्पत्तौ तदपनोदनद्वारेण वेदेतिकर्तव्यतारूपा जिज्ञासा कर्तव्येति।
॥ ब्रह्मजिज्ञासेत्यस्य कर्मषष्ठीत्वसमर्थर्नम्, ब्रह्मणोऽप्राधान्यशङ्कानिरासश्च॥
तत्र तावद् ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति षष्ठीसमासः, न पुनर्धर्माय जिज्ञासेतिवच्चतुर्थीसमासः। “तादर्थ्यसमासे प्रकृतिग्रहणं कर्तव्यम्” इति वार्तिककृता प्रकृतिविकारभाव एव चतुर्थीसमासस्य नियमितत्वात्। तथैवोदाहरणम् “यूपाय दारु यूपदारु” इति। प्रकृतिविकारभावरहितेषु चाश्वघासादिष्वश्वघासादयः षष्ठीसमासा भवन्तीति प्रतिविहितम्। नचात्र प्रकृतिविकारभावोऽस्ति।
षष्ठीसमासेऽपि केचिच्छेषे षष्ठीति प्रतिपन्नाः। केचित् कर्मणीति। तत्र कर्मणि षष्ठीपरिग्रहाय जिज्ञास्य इत्युक्तम्। कृत्यानां कर्मणि स्मरणात्। अन्यथा “जिज्ञासाऽस्य” इत्यवक्ष्यत्। जिज्ञासा खलु कर्मापेक्षा, विना कर्मणा न ज्ञातुं शक्या, नतु सम्बन्धिनं विनेति कर्मणः प्राधान्यात् तदेव वक्तव्यम्। सम्बन्धिसामान्योक्तावर्थात् कर्मापि लभ्यत इति चेत्, न। साक्षात् प्रतीतपरित्यागेनार्थलभ्यस्वीकारस्य वैयर्थ्यात्।
एवंसति लक्षणादिजिज्ञासाऽपि प्रतिज्ञाता स्यादिति चेत्, न। तस्या विनाऽप्यभिधानेन लाभात्। नहि लक्षणादिजिज्ञासामन्तरेण ब्रह्मजिज्ञासाऽस्ति। अन्यथाऽनेकविषयत्वेन शास्त्रभेदप्रसङ्गः। निर्विषयताशङ्कापनोदार्थं प्रयुक्तं पदमिदं कर्माभिधाय्येव युक्तम्। “तद् विजिज्ञासस्व” इत्यादिश्रुत्यर्थानुगतं चैवंसति सूत्रं स्यात्।
ननुच “प्रतिपदविधाना षष्ठी न समस्यत” इति कर्मणि षष्ठ्याः समासः प्रतिषिद्ध्यत इति चेत्, न। “कृद्योगलक्षणा च षष्ठी समस्यते” इति प्रतिप्रसवात्।
अथवा ब्रह्मणः कर्मत्वेनाप्राधान्यशङ्कां निवर्तयितुं जिज्ञास्य इति कर्मप्राधान्यं सूचितम्। ज्ञानविधौ हि ब्रह्मणोऽप्राधान्यं स्यात्। तज्ज्ञानोद्देशेन जिज्ञासाविधाने कुतोऽप्राधान्यम्?
॥ उत्सर्गप्राप्तभवतिपदाध्याहारे सूत्रस्य विधायकत्वाभावप्रसङ्गात्
सूत्रे कर्तव्यपदस्याध्याहार्यत्वकथनम्॥
विधीयत इत्यनेन कर्तव्येति पदाध्याहारं सूचयति। ननु भवतीति स्वतः सिद्धम्। मैवम्। तथासत्यनुवादत्वप्रसङ्गात्।
॥ विवरणोक्तानां ब्रह्मजिज्ञासाया गतार्थताशङ्कातत्परिहाराणां निराकरणम्॥
“अत्रैके चोदयन्ति सिद्धैव ननु ब्रह्मजिज्ञासा। “अथातो धर्मजिज्ञासा” इति सकलवेदार्थविचारस्योदितत्वात्। ब्रह्मज्ञानस्य चोदनालक्षणत्वेन धर्मस्वरूपत्वादभ्यधिकाशङ्काभावादिति। तत्र केचिदभ्यधिकाशङ्कां दर्शयन्तो ब्रह्मजिज्ञासां पृथगारभन्ते। अपरे तु कार्यनिष्ठ एव वेदभागो विचार्यत्वेन तत्र प्रक्रान्तः, विचारितश्च, न वस्तुतत्वनिष्ठ इत्यतो वस्तुतत्वनिष्ठं वेदभागं विचारयितुमारभ्यते इत्याहुः”
सेयं गतार्थताशङ्का तत्समाधानं च नोपपद्यते। सर्ववेदानामीश्वरैकनिष्ठत्वेन सर्ववेदार्थस्यात्रैव जिज्ञास्यत्वात्। धर्मजिज्ञासाशास्त्रं तु वेदैकदेशामुख्यार्थधर्मविचाराय प्रवृत्तमित्याशयेन वा “स एव भर्गशब्दार्थः” इत्याद्युक्तम्। तत्र सर्ववेदार्थ इत्यनेन गतार्थताशङ्कानिरासः, स एव नतु कार्यशेषतयेत्याद्यं समाधानम्, सर्वेति द्वितीयं च निरस्तम्। तदुपपादनाय पूर्ववाक्यम्। जिज्ञास्य इति साध्यनिर्देशः। वक्ष्यति चैतद् विस्तरेण “कार्यता च” इत्यादिना। (१३३)
॥ अतःशब्दव्याख्यानम्, मोक्षस्य जिज्ञासाप्रयोजनत्वकथनम्॥
ब्रह्मजिज्ञासाया निष्प्रयोजनत्वं शङ्कितमपाकर्तुमतःशब्दं व्याचष्टे ज्ञानीति।
ज्ञानी प्रियतमोऽतो मे तं विद्वानेव चामृतः।
वृणुते यं तेन लभ्य इत्याद्युक्तिबलेन हि।
जिज्ञासोत्थज्ञानजात् तत्प्रसादादेव मुच्यते॥११॥
तं विद्वानित्यनेन “तमेवं विद्वानमृत इह भवति” इति वाक्यम्, एवशब्देन “नान्यः पन्था अयनाय” इत्युत्तरवाक्यमवधारणार्थं च सङ्गृहीतम्। चशब्दो वाक्यसमुच्चये। वृणुते यमित्यनेन “यमेवैष वृणुते” इति वाक्यं सङ्गृहीतम्। आदिपदेन “आत्मा वा अरे द्रष्टव्यः” इत्यादेः सङ्ग्रहः। हिशब्दो हेतौ। एवशब्दः प्रत्येकमभिसम्बद्ध्यते।
यस्मात् तस्य ब्रह्मणो नारायणस्य प्रसादात् परमानुग्रहादेव मुच्यते संसारात् नतु कर्मादिनेति “तमेवम्” “यमेवैष वृणुते” इति श्रुतिबलेन गम्यते। यद्यपि “तमेवम्” इति परमपुरुषप्रसादो न श्रूयते। तथाऽपि “यमेवैष वृणुते” इति वाक्यानुरोधेन तत्राप्यनुसन्धेयः। निमित्तेन नैमित्तिकोपलक्षणात्। मुमुक्षुसम्बन्धिसाधनावधारणाय तु न साक्षादुक्तः। वरणं तु प्रसाद उच्यते। “अपाम सोमम्” इत्याद्यास्तु श्रुतयः सावकाशत्वादन्यथा योज्याः।
ईश्वरपरमप्रसादश्च तज्ज्ञानादेव भवति। न पुनः कर्मादिनेति “ज्ञानी प्रियतमः”, “तमेवं विद्वान्” इत्युक्तिबलेनावगम्यते। “विद्वान्” इत्यस्यापि प्रसादातिशयद्वारेणेत्यर्थपर्यवसानस्योक्तत्वात्। कर्मादेरनुग्रहमात्रहेतुत्वेनापि तद्वचनं सार्थकम्।
ईश्वरज्ञानं च तज्जिज्ञासयैव नान्येनेति “आत्मा वा अरे द्रष्टव्यः” इति परमात्मदर्शनानुवादेन तत्साधनतया “श्रोतव्यः” इत्यादिना श्रवणादिविधायकोक्तिबलेन प्रतीयते। कर्मणां त्वन्तःकरणशुद्धिद्वारेण ज्ञानाङ्गत्वोपपत्तेस्तद् वाक्यं सार्थकं भविष्यति। अतो ब्रह्मजिज्ञासा कर्तव्येति सम्बन्धः।
॥ मोक्षस्य ईश्वरपरमप्रसादसाध्यत्वम्॥
इदमुक्तं भवति यद्यपि न जिज्ञासायाः स्वर्गादिरूपोऽभ्युदयः प्रयोजनं सम्भवति, तथाऽपि मोक्षो भविष्यति। तस्यानन्यसाध्यत्वात्। मोक्षसाधनं हि साक्षाद् भगवानेव। “बन्धको भवपाशेन भवपाशाच्च मोचकः” इत्यादिवचनात्।
साधनं च द्विविधम् सिद्धमसिद्धं च। तत्रासिद्धमुत्पाद्यं फलकामेन। यथा यागादि। सिद्धं तु सव्यापारीकरणीयम्। यथा कुठारादि। सिद्धं च साधनं भगवानिति मुमुक्षुणा सव्यापारीकरणीयः। व्यापारश्च प्रसन्नतैव। निगडादिमोचकेषु राजादिषु तथा दर्शनात्, “यस्य प्रसादात् परमार्तिरूपादस्मात् संसारान्मुच्यते नापरेण” इत्यादिश्रुतेश्च। व्यापारप्राधान्योक्तिश्च “इन्द्रियार्थसन्निकर्षः प्रत्यक्षम्” इत्यादाविवौपचारिकी।
॥ परमप्रसादस्य अतिपरिपक्वभक्तिसाध्यत्वम्, भक्तिस्वरूपकथनं च॥
मोचकश्चेश्वरप्रसादस्तद्भक्त्येकसाध्यः। “भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित्” इत्यादिवचनात्। स्वर्गादिहेतुप्रसादमात्रं कर्मादिसाध्यम्। “कर्मणा त्वधमः प्रोक्तः प्रसादः” इत्यादिस्मृतेः। प्रसादो नामेच्छाविशेषः, गुणान्तरं वा, न नः काचित् क्षतिः।
परमेश्वरभक्तिर्नाम निरवधिकानन्तानवद्यकल्याणगुणत्वज्ञानपूर्वकः, स्वात्मात्मीयसमस्तवस्तुभ्योऽनेकगुणाधिकः, अन्तरायसहस्रेणाप्यप्रतिबद्धो निरन्तरप्रेमप्रवाहः। यमधिकृत्य “यत्र नान्यत् पश्यति”, “सा निशा पश्यतो मुनेः” इत्यादिश्रुतिस्मृतयः।
॥ अतिपरिपक्वभक्तेः भगवत्साक्षात्कारजन्यत्वम्, साक्षात्कारस्य तदनुग्रहसाध्यत्वम्र्॥
नचासौ तत्साक्षात्कारणमन्तरेणोत्पद्यते। लोके तथाऽदर्शनात्। नचाव्यक्तस्वभावो भगवान् सहस्रेणापि प्रयत्नानां शक्यः साक्षात्कर्तुम्, विना तदनुग्रहात्। प्रसन्नस्त्वनन्ताचिन्त्यशक्तियोगादात्मानं दर्शयतीति युज्यते।
॥ भगवदनुग्रहस्य निदिध्यासनसाध्यत्वं च॥
दर्शनसाधनं चानुग्रहः स्वयोग्यगुणोपेतस्य निर्दोषस्य भगवद्विग्रहविशेषस्याऽदरनैरन्तर्याभ्यां विषयवैराग्यतद्भक्तिसहिताद् बहुकालोपचितान्निदिध्यासनापरनामकाद् विचिन्तनादृते न लभ्यते।
॥ निदिध्यासनस्य जिज्ञासासाध्यत्वमुपपाद्य तस्याः कर्तव्यतासमर्थनम्॥
नच निदिध्यासनं वाक्यार्थग्रहणलक्षणे श्रवणे कृतेऽपि विना मननापरनाम्ना विचारेणोपपद्यते। संशयविपर्ययोस्तादवस्थ्यात्। नहि तयोः सतोरादरनैरन्तर्याद्युपपद्यते। अतो जिज्ञासा निदिध्यासनपरमेश्वरानुग्रहतद्दर्शनपरमभक्तिपरमानुग्रहद्वारा मोक्षसाधनत्वात् कर्तव्येति।

॥ अभ्यासपाटवापन्नध्यानस्यापरोक्षाकारत्ववादिनां रामानुजीयानां
दर्शनस्य मोक्षसाधनत्वप्रतिपादकश्रुतिविरोधः॥
ये तु ध्यानमेव परमपाटवापन्नमपरोक्षाकारमिति मन्यन्ते, तेषां दर्शनश्रुतय उपचरितार्थाः प्रसज्येरन्।
॥ नैयायिकेन मोक्षस्य ज्ञानस्वभावलभ्यत्वोपपादनम्॥
स्यादेतत्। अतःशब्दस्तावत् प्रकृतस्य हेतुभावे वर्तते। तत्र ब्रह्मजिज्ञासायाः प्रयोजनाकाङ्क्षायामधिकारिविशेषणतयाऽथशब्देन प्रकृतो मोक्षः सम्बद्ध्यते। ज्ञातुमिच्छा जिज्ञासा। नचात्रावयवार्थेन जिज्ञासाशब्दोऽर्थवान्। इच्छायाः स्वातन्त्र्याविषयत्वेन विधातुमशक्यत्वात्। अत एवेष्यमाणज्ञानोपलक्षणाऽप्ययुक्ता। तस्माज्ज्ञानेच्छान्तर्णीतो विचारो जिज्ञासापदेन लक्ष्यते। मुख्यप्रयोगातिक्रमेण लाक्षणिकाश्रयणे चेदं प्रयोजनम् यद् विचारस्य ज्ञानद्वारैव मोक्षसाधनत्वज्ञापनम्। अन्यथा योग्यताविरहेणान्वयाभावप्रसङ्गात्। यदिच जिज्ञासाशब्दो मीमांसाशब्दवद् विचार एवोपसङ्ख्यायते, तदाऽप्यन्वव्यतिरेकाभ्यां विचारस्य ज्ञानसाधनता ज्ञास्यते। एवञ्च विचारो यतो ज्ञानसाधनम्, ज्ञानं च मोक्षसाधनमतोऽसौ कर्तव्य इति लभ्यते। मोक्षादेरन्यलभ्यत्वस्य शङ्कितत्वात् सावधारणताऽपि। ईश्वरप्रसादस्य तु ज्ञापकं न किञ्चिदत्र पश्यामः।
नच ज्ञानस्य मोक्षसाधनता न युक्ता। येनेश्वरप्रसादो मध्येऽध्याह्रियते। आत्मयाथात्म्याज्ञानादनात्मनि शरीरादावात्मत्वारोपे सति हि तदनुकूलप्रतिकूलयो रागद्वेषौ भवतः। ताभ्यां प्रयुक्तः पुण्यपापलक्षणां प्रवृत्तिमाचिनुते। ततश्च सुरनरतिर्यगादिनानायोनिषु नवीनशरीरेन्द्रियादिसंयोगलक्षणं जन्मास्य भवति। तस्माच्च दुःखानुभव इत्यनादिरयं कार्यकारणप्रवाहः संसार इत्युच्यते। आत्मतत्वज्ञानाच्चाज्ञानविपर्ययौ निवर्तेते। तत्वज्ञानस्य समानाश्रयविषयाज्ञानमिथ्याज्ञाननिवर्तनस्वाभाव्यात्। शुक्तिकातत्वज्ञानस्य तदज्ञानरजतारोपनिवर्तकत्वदर्शनात्। मिथ्याज्ञाननिवृत्तौ च रागद्वेषानुदयः, कारणाभावात्। तयोरभावे च न प्रवृत्तेरुत्पत्तिः। तत एव प्रागुपचितायाश्र्चोपभोगेन प्रक्षयः। प्रवृत्त्यभावे च जन्मान्तराभावः, हेत्वभावादेव। वर्तमानशरीरादेश्च आरम्भकक्षये सति निवृत्तिः। जन्माभावे च न निर्बीजस्य दुःखस्योत्पाद इत्येवमात्यन्तिकी दुःखनिवृत्तिर्मुक्तिः।
तथाच ज्ञानस्वभावलभ्यायां मुक्तौ किमीश्वरप्रसादेन? नह्यन्धकारनिबन्धनदुःखनिवृत्तये प्रदीपमुपाददानाः कस्यचित् प्रभोः प्रसादमपेक्षन्ते। स्वभावो हि प्रदीपस्यायं यत् समानाधिकरणान्धकारनिवर्तकत्वम्। तथाच न्यायसूत्रम् “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः” इति।
यत्तु मोक्षस्येश्वराधीनत्ववचनं तज्ज्ञानादिजन्मनीश्वरस्य निमित्ततापरमित्यविरुद्धम्। तदर्थं च तदुपास्त्यादेरुपयोगः। तदेवं ज्ञानस्वभावेनाज्ञानादिनिवृत्तौ कारणाभावे कार्यानुदयस्येश्वरप्रसादानपेक्षत्वादयुक्तमिदमतःशब्दव्याख्यानमित्यत आह द्रव्यमिति।
॥ प्रकृत्यादिबन्धस्य ईश्वराधीनत्वमुपपाद्य बन्धनिवृत्तेस्तत्प्रसादैकसाध्यत्वसमर्थनम्॥
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया॥१२॥
नर्ते त्वत् क्रियते किञ्चिदित्यादेर्न हरिं विना।
ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्यापि हि क्वचित्॥१३॥
द्रव्यशब्देन प्रकृत्यादितत्वमुच्यते। कर्मेति धर्माधर्मौ। स्वभावः प्रकृत्यादीनां परिणामादिः। जीव इत्यभिमानी। एवेति यदनुग्रहत इत्यतः परं द्रष्टव्यम्। अनेन सर्वोत्पत्तिमदुपादाननिमित्तानां सत्ताऽपि परमेश्वराधीनेत्युच्यते। “न ऋते त्वत् क्रियते किञ्चन” इति श्रुत्या सर्वार्थक्रियायास्तदधीनत्वम्। इत्यादेरागमादवगम्यत इति शेषः। ज्ञानस्वभावतोऽपीत्यपिशब्देनाङ्गीकारवादोऽयमिति सूचयति। हिशब्दो हेतौ। यस्मादेवं तस्मादुपपन्नं पूर्वव्याख्यानमिति।
ततश्चायमर्थः स्यादेतदेवम्, यद्यज्ञानमात्रनिबन्धनोऽयं बन्धो जीवस्य स्यात्। नचैवम्। श्रुतिस्मृतीतिहासपुराणेषु परमेश्वरेच्छानिमित्तत्वावगमात्। अद्वैतिनामविद्याधीनजीवब्रह्मविभागवत्, ताकिकादीनां च गुणवत्त्वाधीनद्रव्यत्ववदनादेरपीश्वराधीनत्वोपपत्तेः।
उपपादयिष्यते हि ज्ञानानन्दादिस्वरूपोऽयं जीव इति “पुंस्त्वादिवत्” इत्यादिना। तद्भावानुपलब्धिश्चानुभवसिद्धा। तेनावगम्यतेऽस्ति किमप्यावरकम्। येनाऽवृतः स्वप्रकाशचैतन्यरूपोऽपि नाऽत्मनस्तत्त्वं वेद। नच कामकर्मादिकमेव तथा भवितुमर्हति। तस्यापि सादिनः कारणापेक्षत्वात्। नच पूर्वपूर्वस्मादुत्तरोत्तरमिति युक्तम्। सुप्तिप्रलययोस्तद्वृत्त्यभावेन निष्कलङ्कचैतन्यबलात् स्वरूपावभासप्रसक्तेः। अतः कामकर्माद्यतिरिक्तम्, माया, अविद्या, प्रकृतिरित्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्यमङ्गीकरणीयम्। “अनादिमायया सुप्तः” इत्यादिश्रुतिस्मृतयश्चात्र भवन्ति। नच मायाऽपि कथं स्वप्रकाशमावृणोतीति युक्तम्। आवरकतयैव तस्याः प्रमितत्वात्। वक्ष्यते चात्रोपपत्तिः। (११३)
नच जडस्य स्वतः किञ्चित्करत्वं युक्तम्। “द्रव्यं कर्म च” इत्यादिवाक्यविरुद्धं च। अतः परमेश्वर एव सत्त्वादिगुणमय्या विद्याविरोधित्वेनाविद्यया स्वाधीनया प्रकृत्या, अचिन्त्याद्भुतया स्वशक्त्या च जीवस्य स्वप्रकाशमपि स्वरूपचैतन्यमाच्छादयतीति युक्तम्। स एव च स्वाधिष्ठानलब्धपरिणाममहदहङ्कारादिप्रकृत्यंशैः संयोज्य कर्तृत्वभोक्तृत्वस्वातन्त्र्यं कारकफलस्वाम्यं चास्य अविद्यमानमेव उपदर्श्य रागाद्युत्पादनद्वारा दुःखमनुभावयति।
तदेवं बन्धस्येश्वराधीनत्वात् स एव मोचकोऽङ्गीकार्यः, अपरस्य स्वातन्त्र्याभावात्। प्रसन्न एवासौ स्वकीयां मायां व्यावर्तयतीति तत्प्रसादार्थं सर्वोऽप्ययं साधनसन्दर्भ इत्युक्तम्। ततः, यद्यपि न सूत्राक्षरेभ्यो भगवत्प्रसादो लभ्यते, तथाऽप्यनुपपत्त्याऽङ्गीकरणीय इति युक्तं व्याख्यानम्। वक्ष्यति चैतत् सूत्रकारः “ततो ह्यस्य बन्धविपर्ययौ” इति। (३२५)
॥ मोक्षस्य ज्ञानस्वभावलभ्यत्वपक्षेऽपि ईश्वरप्रसादस्याभ्युपगमनीयत्वोपपादनम्॥
एवमुक्तेन न्यायेन न ज्ञानस्यैवायं स्वभावो यत् साक्षान्मोक्षसाधनत्वम्। अस्तु वा, तथाऽपीश्वरप्रसादोऽपेक्षितः। सकलकारकाणां तदधीनसत्ताप्रवृत्तित्वेन तदिच्छां विना कस्यापि कार्यस्य अनुदयादिति। अङ्गीकारवादस्य चेदं प्रयोजनं यत् पूर्वस्यैवार्थस्य समर्थनम्। तथाहि येन ज्ञानस्य मोक्षहेतुत्वमङ्गीकृतं न तेनापीश्वरेच्छा त्यक्तुं शक्यते। कारकप्रेरकत्वादिनाऽवश्याभ्युपगमनीयत्वात्। तथाच किमनेन ज्ञानेनाप्रमितेन? प्रमित ईश्वर एवाङ्गीकार्य इति।
॥ मोक्षस्य ईश्वराधीनत्वप्रतिपादकश्रुतीनां नैयायिकोक्तार्थान्तरपरत्वनिराकरणम्॥
यदुक्तं न कार्यो मोक्षः किन्तु प्राचीनेषु मिथ्याज्ञानादिषु निवृत्तेषु कारणाभावादेवोत्तरप्रवाहानुत्पादमात्रम्, तत्र का नाम परमेश्वरापेक्षा? तद्वचनानि तु ज्ञानोत्पत्त्यादिनिमित्ततापराणीति, तदनुपपन्नम्। ज्ञानप्रदानाद्यतिरिक्तस्यापीश्वरप्रयोजनस्याऽगमेषूक्तेरित्याह अज्ञानामिति।
अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः।
आनन्ददश्च मुक्तानां स एवैको जनार्दनः॥१४॥
इत्युक्तेः…………………………।
मोक्षदः प्रागुक्तप्रकृतिबन्धात्।
॥ अनादेः प्रकृतिबन्धस्य विवरणकृदुक्तः निवृत्तिप्रकारः॥
नन्वनादेः प्रकृतिबन्धस्य कथं निवृत्तिरिति चेत्, अत्राऽह कश्चित् न सादित्वमनादित्वं वा विनाशाविनाशयोर्निमित्तम्। किन्तु विरोधिसन्निपातासन्निपातावेव।
किञ्च लोके तावदनादिः प्रागभावो निवर्तते। सुगतानां तत्वपरिभावनाप्रकर्षेणानादिवासनासन्तानानां निवृत्तिरिष्टा। नैय्यायिकानामप्यनादिमिथ्याज्ञानप्रवाहः, परमाणुश्यामता च निवर्तते। साङ्ख्यानामप्यविवेको निवर्तते विवेकेन। मीमांसकानामिदानीन्तनधर्मतत्वज्ञानप्रागभावोऽनादिः निवर्तते। अनादिभावरूपस्य न निवृत्तिरिति चेत्, न। अनिर्वचनीयत्वादज्ञानस्य। अनादिर्न निवर्तत इति सामान्यव्याप्तिः। ज्ञानेनाज्ञाननिवृत्तिरिति विशेषव्याप्तिः। अतः सैव बलवती।
ननु स्वोपादानगतोत्तरावस्था विनाशः। तत् कथमनादेर्निरुपादानस्य विनाशः? न। स्वाश्रयगतोत्तरावस्थेत्येतावत्त्वात्। अन्यथा परमाणुश्यामत्वादीनामनिवृत्तिप्रसङ्गात्। अभाववैलक्षण्यादात्मवदज्ञानस्यानिवृत्तिरिति चेत्, न। सद्वैलक्षण्यात् प्रागभाववन्निवृत्तिः किं न स्यात्? कस्तर्हि निर्णयः? ज्ञानाज्ञानकृतो विशेषान्वय इत्युक्तमिति।
॥ विवरणमतनिरासः॥
तदयुक्तम्। तथाहि यत्तावन्न सादित्वमनादित्वं वेत्यादि। तत्र किं निवर्तकाभाव उपाधिरनेनोच्यते, किंवा निवर्तकसद्भावेन सत्प्रतिपक्षता? नाऽद्यः, साधनव्यापकत्वात्। न द्वितीयः, असिद्धेः। नह्यज्ञानस्यानादितया निवृत्त्यनुपपत्तिं ब्रुवाणस्तन्निवर्तकमभ्युपैति। किन्त्वनादित्वेन तदभावमप्यनुमिनोति।
यदपि प्रागभावे व्यभिचारोद्भावनम्, तदपि भावत्वेन हेतुविशेषणादयुक्तम्। यदपि सुगतानामित्यादि, तदत्यन्तमसङ्गतम्। नहि वासनानामनादित्वं वैनाशिका अभ्युपयन्ति। नच तद्व्यतिरिक्तं सन्तानम्। येन तत्र व्यभिचार उद्भाव्येत। नच नैयायिकादयो मिथ्याज्ञानस्यानादितां तद्व्यतिरिक्तं वा प्रवाहमङ्गीकुर्वते। परमाणुश्यामताऽपि सादिरेव। नहि परमाणुपाकस्येदम्प्रथमता तत्सिद्धान्तः।
यदप्यज्ञानस्यानिर्वचनीयत्वमुक्तम्। तत्रानिर्वचनीयत्वं सदसद्विलक्षणत्वं चेत्, किमनेन प्रकृतानुपयुक्तेन? प्रतिपक्षोऽयमिति चेत्, न। परस्यासिद्धेरव्याप्तेश्च। भावाभावविलक्षणत्वमनिर्वचनीयत्वम्, तेन विशेषणासिद्धिरुच्यत इति चेत्, न। स्वोक्तिविरोधात्। स्वयमेव ह्यनादिभावरूपं यद् विज्ञानेन विलीयत इत्यज्ञानलक्षणमभिधाय भावरूपाज्ञानसाधनाय प्रमाणान्युपन्यस्तानि। अभाववैलक्षण्यमात्रं तत्र विवक्षितमिति चेत्, न। तस्यैव हेतुविशेषणत्वोपपत्तेः।
नन्वत्रोक्तम् सद्वैलक्षण्यात् प्रागभाववन्निवृत्तिः किं न स्यादिति। सत्यमुक्तम्। दुरुक्तं तत्। प्रागभावस्यापि सत्त्वाङ्गीकारात्। अथ सद्विलक्षणत्वं नाम भावविलक्षणत्वं विवक्षितम्, तदा अभाववैलक्षण्याङ्गीकारविरोधेनासिद्धिप्रसङ्गः, अत्यन्ताभावे व्यभिचारश्च। तस्यापि निवृत्तिसाधने तन्निवृत्तावेव व्यभिचारः। किञ्चाऽत्मनि भावत्वं नास्तीति तत्रानैकान्त्यं दुष्परिहरम्। तथाऽप्यारोपितं भावत्वं तत्रास्तीति चेत्, तदविद्यायामपि समानमित्यसिद्धिः।
यदपि व्याप्त्योः सामान्यविशेषभावकथनं तस्योपयोगो वक्तव्यः। तेन बलाबलनिश्चय इति चेत्, स किं सामान्यविशेषभावमात्रेण, उताव्यभिचारादिसम्पत्तौ सत्याम्। आद्ये धूमवानग्निमानिति सामान्यव्याप्तेः पर्वतो निरग्न्कि इति विशेषव्याप्तिर्बलवती प्रसज्येत। द्वितीये किं सामान्यविशेषभावेन? व्यभिचारादिकमेव व्युत्पाद्यताम्। किंवाऽनेन प्रबलत्वेन दुर्बलत्वेन च?
विशेषव्याप्त्या सामान्यव्याप्तिर्बाध्यत इति चेत्, किं सङ्कोचनं बाध्यत्वम्, उत व्यभिचारप्रदर्शनम्, अथ उपाध्युद्भावनम्? नाऽद्यः, यदनादि तदज्ञानातिरिक्तं न निवर्तत इति सङ्कोचनीयम्। नपुनर्यदनादित्वरहितं तदेव ज्ञाननिवर्त्यमिति सङ्कोच्यमित्यत्र नियामकाभावात्। सामान्यविशेषभावे तूक्तम्।
न द्वितीयः, व्यभिचारस्थलस्यादर्शितत्वात्। व्याप्तिबलेनाज्ञानस्य ज्ञाननिवर्त्यत्वे सिद्धेऽनादित्वस्य तत्रैव व्यभिचार इति चेत्, तर्ह्येतदेवोच्यताम्। किं सामान्यविशेषभावेन। अनादित्वेन अज्ञानस्यानिवर्त्यत्वे सिद्धेऽज्ञानत्वस्य तत्रैव व्यभिचार इति किं न स्यात्?
अस्तु तर्हि प्रतिपक्ष एवेति चेत्,। किं व्याप्तिमात्रेण, उत पक्षधर्मतोपेतया व्याप्त्या? न प्रथमः, व्याप्तिमात्रस्याप्रतिपादकत्वात्। अन्यथा पक्षधर्मतावैयर्थ्यात्। द्वितीये संसारकारणमज्ञानं ज्ञाननिवर्त्यं भवितुमर्हति, अज्ञानत्वात्; शुक्तिकाज्ञानवदित्युक्तं स्यात्। अत्रापि किं सामान्यविशेषभावेन?
किञ्च शुक्तिकाज्ञानं नाम किं ज्ञानाभावः, अथ भावरूपमज्ञानम्? आद्ये दृष्टान्तस्य साधनवैकल्यम्। नहि शब्दसाम्यमात्रेण दृष्टान्तदार्ष्टान्तिकभावोऽस्ति। तथात्वे गोत्वेन वागादीनामपि शृङ्गित्वसाधनप्रसङ्गात्। द्वितीये किं तत् सादि, उतानादि? आद्ये कथमयं विशेषः स्यात्? द्वितीये तदपि पक्षतुल्यम्।
न तृतीयः, अज्ञानेतरत्वस्य समव्याप्त्यभावात्, पक्षेतरत्वाच्च। एतेन ज्ञानाज्ञानकृतो विशेषान्वय इति निरस्तम्। यदपि निरुपादानस्य विनाशानुपपत्तिमाशयोक्तम् स्वाश्रयगतोत्तरावस्था विनाश इति। तदनुपपन्नम्। अनुपादानभूताश्रयोत्तरावस्था चेदाश्रितविनाशः स्यात्, तदा भूतलादपसारिते घटे घटविनाशः स्यात्। परमाणुश्यामताप्रतिबन्दी तु तस्या अपि सोपादानत्वेनैव निरस्तेति।
॥ अनादित्वनिवर्त्यत्वयोः व्याप्तिभङ्गः॥
अत्रोच्यते यत्तावदविद्याया अनादित्वेनानिवृत्तिरिति सोऽयं प्रसङ्गः, स्वतन्त्रानुमानं वा? नाऽद्यः, अविद्यानादित्वस्य श्रुतियुक्तिसिद्धत्वेन विपर्ययापर्यवसानात्। न द्वितीयः, “विश्वमायानिवृत्तिः”, “मायामेतां तरन्ति ते”, “तरन्त्यविद्याम्” इत्यादिश्रुतिस्मृतिविरुद्धत्वात्। अनादेरपि निवृत्तौ बाधकाभावेनाप्रयोजकत्वाच्च।
आत्मनोऽपि निवृत्तिप्रसङ्गो बाधक इति चेत्, न। व्याप्त्यभावात्। निवर्तकभावाभावाभ्यां विशेषोपपत्तेः। प्रमितनिवर्तकानभ्युपगमस्यानुचितत्वात्। अनादित्वेन निवर्तकाभावानुमानस्य बाधितत्वात्। एतेन निवर्तकाभावस्योपाधित्वम्, तद्विपर्ययस्य प्रतिपक्षत्वं च समाहितम्।
॥ अनादिप्रकृतिबन्धनिवृत्तेः स्वरूपध्वंसादिरूपत्वम्॥
नन्ववयवतत्संयोगविनाशाभ्यां द्रव्यनाशो दृष्टः, तत् कथमत्र विनाश इति चेत्, कुतोऽयमुभयाभ्युपगमः? एकैकपरिहारेणापि विनाशदर्शनादिति चेत्, तर्हि सादेरेवमस्तु। अनादेस्तृतीयोऽपि प्रकारोऽनुसर्तव्यः। प्रमितत्वादेव विनाशस्य। अनादेः कीदृशो विनाश इति चेत्, स्वरूपध्वंस एव। स्वोपादानगतोत्तरावस्था, स्वोपादानमात्रत्वापत्तिरित्यादि कार्यविषयम्।
नन्वविद्या चेन्निवर्तेत, तर्ह्येकमुक्तौ सर्वमुक्तिः स्यात्। न स्यात्। प्रतिजीवमविद्याभेदाङ्गीकारात्। अत्र विशेषः “स्वगुणाच्छादिका त्वेका” इत्यागमादनुसन्धेयः।
॥ बन्धस्य ज्ञाननिवर्त्यत्वनिराकरणम्, परमेश्वरप्रसादनिवर्त्यत्वकथनं च॥
स्यादेतत्। ब्रह्मविदामप्यविद्याऽनुवर्तते। तेन न श्रुतिस्मृतीनां प्रामाण्यम्। ब्रह्मसाक्षात्कारोऽविद्यानिवर्तको न विवेकमात्रमिति चेत्, न। तद्वतामपि संसारानुवृत्तिदर्शनात्। साक्षात्कृतब्रह्मणां सद्यः शरीरादिपाते वातपुत्रीयाः पौरुषेया ब्रह्मोपदेशाः प्रसज्येरन्निति।
मैवम्। न स्मरति भवानुक्तार्थस्य। प्रसन्नः परमेश्वर एव बन्धविध्वंसं करोतीत्युक्तम्। नच साक्षात्कारस्तत्प्रसादसाधनम्। येन सोऽपि कथं तेषां नेति पर्यनुयुज्येत। भक्तेः परावस्था हि तद्धेतुरुक्ता, तत्सम्पत्तिश्च कार्यगम्या। परचित्तवृत्तीनामप्रत्यक्षत्वात्। प्रारब्धकर्मप्रतिबद्धो भगवत्प्रसाद इति तु मन्दम्। अचेतनानां कर्मणां स्वतन्त्रभगवत्प्रसादप्रतिबन्धकत्वायोगात्। तान्यपि तदिच्छाविशेषानुगृहीतानीति चेत्, भगवदिच्छयोर्विरोधप्रसङ्गात्। मोचकप्रसाद एवैवंरूप इति चेत्, तर्हि स एव अपरिपूर्ण इत्येवाऽगतम्। अन्यथा कथं प्रारब्धानामप्युपमर्दं वक्ष्यति? (११६९) प्रारब्धप्रतिबन्धादिवादास्तु उपचरितार्था एव। वस्तुतस्तु भगवानेव अनादेरपि बन्धस्य निवर्तक इति साधूक्तम्”ज्ञानिनां मोक्षदश्च सः” इति।
॥ मुक्तिप्रदानातिरिक्तानन्ददानोक्तिसमर्थनम्॥
ननुचाऽनन्दः स्वरूपमेव। स चाविद्यावृतोऽविद्यानिवृत्तौ स्वतः सिद्ध एव। अनुभवोऽप्येवमेव। विषयित्वमप्यनुभवस्वभावो नत्वागन्तुको धर्मः। ततो मोक्षदानात् कथं पृथगानन्दादिदानम्?
उच्यते परमेश्वरशक्तिरेव जीवस्वरूपावरणं मुख्यम्। अविद्या तु निमित्तमात्रम्। ततोऽविद्यायां निवृत्तायामपि नाशेषानन्दाभिव्यक्तिर्यावदीश्वर एव स्वकीयां बन्धकशक्तिं न ततो व्यावर्तयति। अत एवाऽनन्दह्रासवृद्धी वक्ष्येते इति। (३४१४)
॥ बन्धस्य मिथ्यात्वप्रतिपादकाध्यासभाष्यस्याभाष्यत्वापादानम्॥
एवं तावत् स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये परेषां भाष्यं दूषयति “बन्धमिथ्यात्वम्” इत्यादिना। मायावादिना हि कर्तृत्वभोक्तृत्वदोषसंसर्गक्रियाकारकफललक्षणस्य बन्धस्य आत्मन्यारोपितत्वेन मिथ्यात्वं स्वभाष्यादौ वर्णितम्। तदनुपपन्नम्। बन्धमिथ्यात्वस्यासूत्रितत्वात्। असूत्रितार्थवर्णने च भाष्यलक्षणाभावेनाभाष्यत्वप्रसङ्गात्।
“सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः।
स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः”
इति हि भाष्यलक्षणमाचक्षते।
॥ पञ्चपादिकोक्ता अध्यासभाष्यस्य शास्त्रप्रयोजनोपपादकत्वरूपसङ्गतिः॥
अत्राऽह द्विविधो हि सूत्रार्थः श्रौत आर्थश्च। तत्र “अथातो ब्रह्मजिज्ञासा” इति सूत्रेऽनुवादत्वपरिहाराय, शास्त्रे पुरुषप्रवृत्तिसिद्धये च कर्तव्येति पदमध्याहार्यम्। जिज्ञासापदं चानुष्ठानयोग्यस्य अन्तर्णीतस्य विचारस्योपलक्षणमिति स्थिते साधनचतुष्टयसम्पन्नस्य ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रवाक्यस्य श्रौतोऽर्थः सम्पद्यते। अर्थादधिकारिविशेषणमोक्षसाधनं ब्रह्मज्ञानमिति सिद्ध्यति। सन्निधानाच्च वेदान्तवाक्यविचार इति श्रुत्यर्थाभ्यां साधनचतुष्टयसम्पन्नस्य मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति सूत्रवाक्यस्य तात्पर्येण प्रतिपाद्योऽर्थोऽवगतः। एवञ्च शास्त्रे प्रेक्षावत्प्रवृत्त्यङ्गतयाऽर्थतः सूत्रितस्य प्रयोजनादेरुपपादकं बन्धमिथ्यात्वमिति तदपि सूत्रार्थ एव।
ब्रह्मज्ञानं हि सूत्रितमनर्थहेतुनिबर्हणम्। अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वं भोक्तृत्वं च। तद् यदि वस्तुकृतं स्यात्, न ज्ञानेन निबर्हणीयम्। यतो ज्ञानमज्ञानस्यैव निवर्तकम्। तद् यदि कर्तृत्वं भोक्तृत्वमज्ञानहेतुकं स्यात् ततो ब्रह्मज्ञानमनर्थहेतुनिबर्हणमुच्यमानमुपपद्येत। तेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूत्रयताऽविद्याहेतुकं कर्तृत्वं भोक्तृत्वं प्रदर्शितं भवति।
॥ अध्यासभाष्यस्य विषयोपपादकत्वरूपसङ्गतिः॥
विचारविषयतया च ब्रह्म सूत्रितम्। आत्मा च ब्रह्म। तस्य चाहं कर्ता भोक्तेति प्रतीयमानं रूपं यदि पारमार्थिकं स्यात्, तदाऽसन्दिग्धतया विचारविषयता न स्यात्। तद् यदि कर्तृत्वादिरूपमविद्यारोपितम्, पारमार्थिकं तु निष्क्रियं निष्कलं ब्रह्मरूपं स्यात्, ततोऽस्य सन्दिग्धतया विषयतोच्यमानोपपद्यते। तेनाऽत्मस्वरूपं विचारविषयं सूत्रयता सूत्रकृतैव कर्तृत्वाद्यतदाकारस्य मिथ्यात्वं सूत्रितं भवति। कर्तृत्वादेर्बन्धस्य मिथ्यात्वं च यावता विना नोपपद्यते तदपि सूत्रितमेव।
नचैवमनेकार्थतादोषः। श्रौतार्थिकत्वभेदस्योक्तत्वात्, सूत्रत्वाच्च। अलङ्कार एव ह्ययं सूत्रस्य यदनेकार्थत्वम्। यथाऽऽहुः
“अल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखम्।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः” इति।
विश्वतोमुखमित्यनेकार्थतामाह। अन्यत्रापि
“लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च।
सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः” इति।
यावान् सूचितः स सर्वोऽप्येषामर्थ इति सूचितार्थानि। अतो यः कश्चिदर्थः शब्दसामर्थ्येन, अर्थवशाद् वा प्रतीयते स सर्वस्तदर्थ एवेति भवत्ययमर्थकलापस्तन्महिमाधिगतः। तदेवं विध्यपेक्षितेषु अधिकारिविषयप्रयोजनानुबन्धेषुु सूत्राक्षिप्तप्रयोजनविषययोरुपपादकं बन्धमिथ्यात्वं प्रतिपादयद् “युष्मदस्मत्प्रत्ययगोचरयोः” इत्यादिभाष्यं सूत्रार्थसङ्गतमेव।
॥ अध्यासभाष्यस्य पञ्चपादिकोक्ता सर्वशास्त्रोपोद्घातरूपसङ्गतिः॥
स्यादेतत्। प्रथमप्रतिपन्नं श्रौतार्थमुल्लघ्य चरमप्रतिपन्नमार्थिकार्थमेवोपपादयन् कथमकुशलो न स्यादिति।
अत्रोच्यते स्यादेतदेवम्, यदि युष्मदस्मदित्यादिभाष्यं प्रथमसूत्राक्षिप्तार्थस्यैव उपपादकं स्यात्। नचैवम्। किन्नाम। सकलतन्त्रार्थोपोद्घातोऽपि प्रयोजनमस्य भाष्यस्य। तथाह्यस्य शास्त्रस्य ऐदम्पर्यम् सुखैकतानसदात्मकूटस्थचैतन्यैकरसता संसारित्वाभिमतस्याऽत्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति। तच्चाहं कर्ता सुखी दुःखीति प्रत्यक्षाभिमतेनाबाधितकल्पेनावभासेन विरुद्ध्यते। अतस्तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपमविद्यानिमित्तमात्मन इति यावन्न प्रतिपाद्यते तावज्जरद्गवादिवाक्यवदनर्थकं प्रतिभाति। अतस्तन्निवृत्त्यर्थमविद्याविलसितमब्रह्मस्वरूपत्वमात्मन इति प्रथममेव प्रेक्षावत्प्रवृत्तये प्रतिपादनीयम्। तदनेन भाष्येणोच्यत इति।
॥ शास्त्रप्रयोजनस्यान्यथैवोपपत्तिं प्रदर्श्य प्रथमसङ्गतिनिराकरणम्॥
तदेतदादिभाष्यस्य सङ्गतित्रयमप्यसङ्गतम्। तथाहि यत्तावदुक्तं सूत्रितप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिति। तदसत्। यत् खलु प्रमितमप्यनुपपद्यमानं स्वोपपत्तये यदपेक्षते तत् तदाक्षिपति नान्यत्। यथा जीवतो देवदत्तस्य गृहेऽभावो बहिर्भावम्, न पुनः शब्दानित्यत्वम्। तत् कस्य हेतोः? यतो गृहे अभावो बहिर्भावेनैवोपपद्यमानस्तमपेक्षते। एवञ्च प्रयोजनतयोक्ता मुक्तिर्यदि बन्धमिथ्यात्वमपेक्षेत, तदा तदाक्षिपेत्। नचैतदस्तीत्याह बन्धमिथ्यात्वमिति।
……..बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते।
एवशब्देनान्यथैवोपपन्नतां सूचयति। कथम्? उक्तमेतद् यद् ज्ञानात् प्रसन्नः परमेश्वर एव बन्धनिवृत्तिं करोतीति। उपपद्यते च सत्यस्यापि प्रभुप्रसादान्निवृत्तिरिति वक्ष्यते। (१२०)
॥ ब्रह्मज्ञानस्य साक्षाद् बन्धनिवर्तकत्वेन प्रमितत्वाभावः॥
ननु दर्शनेन बन्धनिवृत्तिरुभयी दृष्टा। यथा सत्यस्यापि निगडादिबन्धस्य दर्शनजन्येन राजप्रसादेन। यथाच मिथ्याभूतस्य स्वाप्ननिगडबन्धस्य प्रबोधेनैव साक्षात्। तत्र ब्रह्मज्ञानात् संसारबन्धनिवृत्तिः सूत्रिता कं पक्षमवलम्बतामिति सन्दिह्यते। तथाचान्यथाऽप्युपपत्तिः स्यान्नान्यथैवोपपत्तिरिति।
मैवम्। विशेषोक्त्या निर्णयोपपत्तेरित्येतदर्थोपपादनाय “अज्ञानाम्” इत्युक्तमत्राप्यनुषञ्जनीयम्। “तरति शोकमात्मवित्” इति सामान्यवचनं विशेषवचनेन बाध्यते। “दृष्ट्वैव तं मुच्यते” इति श्रुतिः दर्शनमोक्षावान्तरा किञ्चिन्न सहत इति चेत्, न। अवधारणस्यायोगव्यवच्छेदपरत्वोपपत्तेः। दर्शनजन्यादेवेश्वरप्रसादान्न पुनः कर्मादिहेतुकादित्यन्ययोगव्यवच्छेदपरत्वोपपत्तेश्चेति।
॥ ब्रह्मज्ञानस्य साक्षाद् बन्धनिवर्तकत्वेऽप्यनुपपद्यमानत्वाभावः॥
अस्तु वा ज्ञानाद् बन्धनिवृत्तिः, तथाऽपि बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते। कथम्? नहि दृष्टसामर्थ्याज्ज्ञानाद् बन्धनिवृत्तिः, येन बन्धमिथ्यात्वमपेक्षेत। किन्त्वागम एव ज्ञानाद् बन्धनिवृत्तिं श्रावयति। प्रमिते च साध्यसाधनभावे का नामानुपपत्तिर्यच्छमनायोपपादकं मृग्यम्।
॥ श्रुतेऽपि ज्ञानस्य बन्धनिवर्त्यत्वे तदुपपत्त्यर्थमेव बन्धमिथ्यात्वकल्पनमिति
विवरणकृता दृष्टान्तमुपदर्श्य समर्थनम्॥
“ननु यथाऽऽग्नेयादीनां षण्णां यागानामपूर्वकरणभावे श्रुतेऽपि कालान्तरभाविप्रधानापूर्वसाधनत्वोपपत्त्यर्थं क्रमभावियागजन्यानि मध्यवर्तीन्यवान्तरापूर्वाणि कल्प्यन्ते, यथावा श्रुतस्यैव यागस्य स्वर्गसाधनत्वस्योपपत्तयेऽपूर्वं कल्प्यते, तथा श्रुतोपपत्त्यर्थमेव बन्धमिथ्यात्वकल्पनमिति”
॥ नियामकसद्भावात् पूर्णमासत्रये दर्शत्रये च अवान्तरापूर्वकल्पनस्य युक्तत्वम्,
नियामकाभावात् मिथ्यात्वकल्पनस्यायुक्तत्वं च॥
मैवम्। वैषम्यात्। युक्तं हि तत्रापूर्वकल्पनम्, यत् कालान्तरभावि न तत् कारणमिति नियमात्। नचेह तथाऽस्ति। इहापि ज्ञानमज्ञानस्यैव निवर्तकमिति नियमोऽस्तीति चेत्, न। सत्यस्यापि ज्ञानेन निवृत्तौ बाधकाभावेन तदनिश्चयात्। नच दर्शनादर्शनमात्रं व्याप्तेर्नियामकमिति वक्ष्यामः। (६९३) नियतपूर्वक्षणवर्तित्वशून्यमपि कारणमस्त्विति व्याहता शङ्कैव नोदेति। यन्निवृत्तये बाधकमुपन्यसनीयम्।
॥ सत्यस्य निवृत्त्यभ्युपगमे बाधकमाशय तत्परिहारः॥
सत्यस्यापि निवृत्तावात्माऽपि निवर्तेतेति चेत्, न। व्याप्त्यभावात्। विपक्षे बाधकाभावाच्च। अनादेश्चाज्ञानस्य निवृत्तावात्मनोऽपि निवृत्तिः किं न स्यात्? मिथ्याभूतमज्ञानमनाद्यपि निवर्तते, न सत्य आत्मेति चेत्, क्वेदमुपलब्धं भवता यत् सत्यं न निवर्तत इति? निवृत्तावनादित्वमप्रयोजकीकृत्य मिथ्यात्वं प्रयोजकीकुर्वताऽज्ञानस्य येन केनापि निवृत्तिः कस्मान्नेष्यते? किं ज्ञाननियमेन? ज्ञानमेव अज्ञानविरोधीति चेत्, हन्त तर्हि विरोधिसद्भाव एव निवृत्तौ प्रयोजक इति कुत आत्मनिवृत्तिः?
॥ सत्यस्य ज्ञानेन निवृत्तौ विवरणोक्तं बाधकम्, तत्परिहारश्च॥
ननु ज्ञानेन सत्यं निवर्तमानं किं विषयगतं निवर्तते, उताऽश्रयगतम्, अथोभयगतम्? नाऽद्यः, यतश्चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं स्वविषयं वा स्वविषयसमवेतं वा रसादिकं विरोधिनं वा पीतिमादिगुणं न निवर्तयति। न द्वितीयः,घटादिज्ञानेनाऽत्मगतधर्माद्यनिवृत्तेः। न तृतीयः, आत्मनः शरीरविषयज्ञानेन शरीरात्मसम्बन्धानिवृत्तेरिति।
मैवम्। उक्तोत्तरत्वात्। यदि ज्ञानमाश्रयगतं निवर्तयेत्, तदा धर्मादिकमपि निवर्तयेदित्यत्र व्याप्त्यभावात्। विपक्षे बाधकाभावाच्च। घटादिज्ञानं धर्माद्यविरोधि। आत्मयाथात्म्यज्ञानं तु बन्धविरोधीति वैषम्याच्च। आत्मयाथात्म्यज्ञानस्यैवाऽपादनविषयतायामिष्टापादनम्। चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं तु मिथ्याज्ञानमेव। नापि तत्र पीतिमगुणोऽस्ति। एकमेव हि चित्रं नाम रूपमाश्रयव्याप्यवृत्तीति पदार्थविदः।
॥ ज्ञाननिवर्त्यस्य बन्धस्याज्ञानेन विनाऽनुपपद्यमानत्वेऽपि न तेन मिथ्यात्वाक्षेपः॥
अस्तु वा ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिः, तथाऽपि बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते। किन्तु बन्धस्याज्ञानतत्कार्ययोरन्यतरत्वमेवेति तदेव वर्णनीयम्। अध्यासवर्णनस्य का सङ्गतिः? अज्ञानस्य मिथ्यात्वं तु कफोणिगुडायितम्। निराकरिष्यमाणत्वात्। (१०९)
॥ सत्यस्यापि विषस्य गरुडध्यानान्निवृत्तिदर्शनात् ज्ञाननिवर्त्यत्वहेतोरनैकान्तिकता॥
अपिच सत्यस्यापि विषस्य गरुडध्यानेन निवृत्तिदर्शनाद् बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते। विषं न सत्यमिति चेत्, न। तथासति नीलविशिष्टद्रव्यादेरपि तवासत्यत्वेन तन्निवृत्त्यापादनस्यानुपपत्तिप्रसङ्गात्। सत्यम्। तदपि मम मिथ्या। पराङ्गीकारेण त्वापादनमिति चेत्, तर्हि तदेव न ज्ञानान्निवृत्तमिति न मिथ्याभूतस्यापि ज्ञानान्निवृत्तिः। मिथ्याभूतं विरोधिज्ञाननिवर्त्यमिति चेत्, न। विशेषणवैयर्थ्यात्। अविरोधादेवाऽत्मनोऽनिवृत्तिसम्भवात्। मिथ्यात्वमङ्गीकृत्यापि विरोधोऽङ्गीकार्यः, ततो वरं स एव प्रयोजक इत्यङ्गीकारो लाघवात्। ज्ञानविरोधित्वं मिथ्याभूतस्यैवेति चेत्, न। प्रमाणाभावात्। दर्शनादिति चेत्, तर्ह्यागमेन सत्यस्यापि भवत् केन वार्यते? नच दर्शनमात्रं व्याप्तेर्नियामकम्।
॥ ध्यानस्य ज्ञानरूपत्वव्युत्पादनम्॥
ध्यानं मानसी क्रिया न ज्ञानमिति चेत्, न। यदि क्रिया परिस्पन्दः स तर्ह्यतीन्द्रियाश्रितोऽतीन्द्रिय इत्यपरोक्षावभासविरोधो रूपरहितत्वेन तदवभासविरोधश्च। यदिच मानसी सृष्टिरिति मतम्, अनुमतमेतत्। श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानमित्यङ्गीकारात्। अतीन्द्रियोपादानकस्यापि द्रव्यस्यैन्द्रियकत्वं त्र्यणुकादेरिवोपपद्यते। नीरूपाद् वायो रूपवतस्तेजसो जन्म वेदान्तिनां प्रसिद्धमेव। ताकिकादीन्स्त्वारम्भवादनिराकरणेन तोषयिष्यामः। (६६४)
एवञ्च ध्यायतेश्चिन्तार्थताऽपि स्मृतिसिद्धा सिद्धा। अत एव “क्रियामानसवत्” इति सूत्रविरोधोऽपि परिहृतः। विधिजन्यपुरुषेच्छाप्रयत्ननिरपेक्षमेव सर्वत्र ज्ञानस्य पुष्कलकारणम्। अनिच्छतोऽप्यनिष्टज्ञानदर्शनात्। तत् कथमिदं ज्ञानमिति चेत्, न। विधेः साध्यसाधनभावमात्रज्ञापनेन चरितार्थत्वात्। इच्छाप्रयत्नयोश्च संस्कारोद्बोधे कृतार्थत्वान्मानसवस्त्ववलोकने व्यापाराभावात्। चक्षुश्चलननिरासवत् मनोविक्षेपनिरासे वा तदुपयोगः।
॥ सत्यस्यापि पापस्य सेतुदर्शनादिना निवृत्तिः॥
किञ्च सेतुदर्शनादिना पापादिनिवृत्तिः सुप्रसिद्धा। मध्येऽदृष्टकल्पनायां तु न प्रमाणमस्ति। अन्यथा प्रकृतेऽप्यदृष्टकल्पनाप्रसङ्गात्। अदृष्टसाध्यत्वे मोक्षस्यानित्यताप्रसक्तिरिति चेत्, ज्ञानजन्यत्वेऽपि साम्यात्। ज्ञानजन्यत्वेऽपि प्रध्वंसत्वान्नानित्यत्वमिति चेत्, समानमेतददृष्टसाध्यत्वेऽपीति।
॥ बन्धध्वंसरूपाया मुक्तेः प्रतियोगिसत्यताव्याप्तत्वेन न बन्धमिथ्यात्वसापेक्षता॥
अपिच बन्धविध्वंसलक्षणत्वाद् बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते। किन्नाम। सत्यत्वमेव। नहि मिथ्याभूतस्य शशविषाणादेर्ध्वंसोऽस्ति। ननु यथा मिथ्याभूताच्छशविषाणदेर्व्यावृत्तौ ध्वंसः सत्ये पर्यवस्यतीति भवतोच्यते, तथा सत्याच्चिदात्मनोऽपि व्यावृत्तौ मिथ्याभूते पर्यवस्यतीति मयाऽपि वक्तुं शक्यत एव। सत्यमापाततस्तथा। तथाऽपि सौत्री अर्थापत्तिः सन्देहास्कन्दिता कुण्ठितैव। अनिर्वाच्यनिरासेन निश्चयमपि भवतो जनयिष्यामः। (६५७३, ८७४)
बन्धबाध एव मुक्तिरिति चेत्, नैवं श्रुतिसूत्रे वदतः। “तरति शोकम्”इत्यादौ विपरीताभिधानात्। “विमुक्तश्च विमुच्यते” इति श्रुतार्थापत्तिस्तु भाष्यकृतैवान्यथोपपादिता।
॥ प्रकारान्तरेण प्रथमसङ्गतिनिराकरणम्॥
अपिचैवमुक्तिः”ब्रह्मज्ञानं जीवगतं बन्धं निवर्तयति” इति सौत्री प्रयोजनोक्तिः, बन्धमिथ्यात्वं नापेक्षते। यदि जीवज्ञानं जीवगतस्य बन्धस्य निवर्तकमिति प्रयोजनोक्तिः सूत्रे स्यात्, तदा कथञ्चिदपेक्षेतापि बन्धमिथ्यात्वम्। नचैवं सूत्रकृदाह। नहि शुक्तिकायामारोपितं रजतं घटज्ञानान्निवर्तते। ब्रह्मज्ञानं नाम त्वम्पदार्थस्य जीवस्य तत्पदार्थेन ब्रह्मणैक्यानुभव इति तु स्वगोष्ठीनिष्ठं प्रलापमात्रम्। निराकरिष्यमाणत्वात्। (११६)
अपिच यदि बन्धमिथ्यात्वम्, यदिच ज्ञानमात्राद् बन्धबाधः, तदा ज्ञाने सति किमपि मुक्तिर्नैव अपेक्षत इति सद्य एव साक्षात्कृतब्रह्मणां शरीरादिनिवृत्तिः प्रसज्येतेत्यर्थापत्तेस्तकविरोधः। एतच्च तृतीये प्रपञ्चयिष्यामः।(०००) एवं सूत्रितप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिह वर्णितमित्येतन्निराकृतम्।
॥ द्वितीयसङ्गतिनिराकरणम्॥
अथवा विषयोक्त्याक्षिप्तमित्येतदनेन निराचष्टे। एवमुक्तिः सौत्री ब्रह्मणो विषयत्वोक्तिर्बन्धमिथ्यात्वं नैवापेक्षते। यदिहि सूत्रे जीवात्मनो विषयतयोक्तिः स्यात्, तदा सा तस्य सन्दिग्धतासिद्धये कर्तृत्वादिबन्धमिथ्यात्वं कथञ्चिदपेक्षेतापि। ब्रह्मैव ह्यत्र विषयतयोच्यते। नह्यन्यस्य सन्दिग्धतया अन्यस्य विचारविषयतोपपद्यते, अतिप्रसङ्गात्। आत्मैव ब्रह्मेत्येतां तु दुराशामपाकरिष्यामः। (११६, २६४, ५७१, ५७५, ८८१, ९०१, १०१९, १२८१, १२३१)
॥ तृतीयसङ्गतिनिराकरणम्॥
यद्वा सकलतन्त्रार्थोपोद्घातः प्रयोजनं युष्मदस्मदित्यादिग्रन्थस्येत्येतदनेनापाकरोति। तथाहि एवमुक्तिः सकलजगज्जन्मादिनिमित्तत्वलक्षणं समस्तजीवजडात्मकात् प्रपञ्चादत्यन्तव्यावृत्तं ब्रह्मैव अशेषवेदप्रतिपाद्यमित्येवं “तत्तु समन्वयात्” इत्यादिकोक्तिः, जीवगतबन्धमिथ्यात्वं नैवापेक्षते। एषा हि ब्रह्मण्येव प्रमाणाभासप्रतिपन्नस्य जीवाभेदादेरेव मिथ्यात्वमपेक्षते। यदिहि जीवस्य ब्रह्मतायां सकलवेदान्तपर्यवसानं प्रतिपादयितुमिदं शास्त्रं प्रवृत्तं स्यात्, तदा विरोधशान्त्यै बन्धमिथ्यात्वापेक्षा। नचैवम्। यथाचैतत् तथा वक्ष्यामः। (१८५, २२७ )
॥ “मुक्तिरपेक्षते’ इत्यस्यानुपन्नतामाशय परिहारकथनम्॥
नन्वपेक्षायाः पुरुषधर्मत्वात् कथमेतत्? इत्थम् प्रतीयमानोऽर्थोऽर्थान्तरविषयां पुरुषस्यापेक्षामुपजनयन् सापेक्ष इत्युपचर्यते। यद्वा प्रमितस्यानुपपद्यमानस्यार्थस्यैवोपपादकाक्षेपशक्तिरपेक्षाऽत्र उच्यत इति। एवञ्च ज्ञानाद् बन्धनिवृत्तेर्बन्धमिथ्यात्वेन विनाऽनुपपद्यमानत्वाभावान्न तदाक्षेपकत्वमित्युक्तम्।
॥ प्रत्यक्षादिविरुद्धत्वाद् बन्धमिथ्यात्वस्य अर्थापत्तेर्बाधितविषयत्वम्॥
दूषणान्तरं चार्थापत्तेराह मिथ्यात्वमपीति।
मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः॥१५॥
न केवलं बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते, किन्नाम बन्धस्य मिथ्यात्वं नास्त्यपीति सम्बन्धः।
नन्वेतदनुपपन्नम्। प्रमाणं हि स्वमहिम्नैवार्थं व्यवस्थापयति। न पुनः प्रागर्थसिद्धिमपेक्षते। तथात्वे वा प्रमाणवैयर्थ्यम्, पूर्वप्रमाणस्यापि तथात्वेनानवस्था च स्यात्। अतः प्रागाक्षेप्यासिद्धिरर्थापत्तेः भूषणमेव। प्रवृत्तायां त्वर्थापत्तौ नाक्षेप्यासिद्धिः प्रमितत्वादेव।
एवन्तर्हि परिचितचरपुरुषस्य दिवाऽभुञ्जानस्य पीनत्वमनुपपद्यमानं रसायनसिद्धिं योगर्द्धिं वा कस्मान्नाक्षिपेत्? तदसिद्धिरपि प्रागर्थापत्तिप्रवृत्तेरलङ्कार एव। उत्तरकालं तु नास्त्येवेति चेत्, न। वैषम्यात्। नहि रसायनसिद्ध्याद्यसिद्धतया नार्थापत्तिप्रमेयम्। अपितर्हि? परिचितचरे पुरुषे प्रमाणबाधिततया। असिद्धं साधयति प्रमाणं नतु प्रमाणविरुद्धमिति हि प्रसिद्धम्।
एषा खल्वर्थापत्तिसामग्री यदाक्षेपकस्य प्रमितत्वम्, अनुपपद्यमानत्वं च; आक्षेप्यस्याप्युपपादकत्वम्, प्रमाणाविरुद्धत्वं च। अत एवाप्रमितत्वम्, अनुपपत्त्यभावः, अन्यथाऽप्युपपत्तिः, अन्यथैवोपपत्तिः, प्रमाणविरुद्धार्थत्वं चेत्यर्थापत्तिदूषणानीति।
सत्यम्। वयमपि हि बन्धमिथ्यात्वमहं कर्ता भोक्ता सुखी दुःखीत्यादिप्रत्यक्षविरुद्धत्वादेव नार्थापत्तिप्रमेयमिति ब्रूमः। तदिदमुक्तम् प्रत्यक्षविरोधत इति। प्रत्यक्षविरोधतोऽपीति वा योजना। तेन प्रमाणान्तरविरोधं समुच्चिनोति। चेष्टादिलिङ्गैः, “अहमित्येव यो वेद्यः” इत्याद्यागमैश्चाऽत्मनः कर्तृत्वाद्युपेतस्यैव प्रमितत्वात्। अथवाऽर्थापत्तेराभासत्वेनानाक्षिप्तबन्धमिथ्यात्वं वर्णयत् परेषां भाष्यमनुपयुक्तमित्युक्तम्। (४१) अयुक्तमपि प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वादित्यनेनोच्यते।
ननु प्रत्यक्षं बन्धस्वरूपमात्रं गोचरयति। नतु तस्मिन् मिथ्यात्वाभावम्। अतोऽर्थापत्तेर्भाष्यकारीयस्य वा तन्मिथ्यात्वव्युत्पादनस्य कथं प्रत्यक्षविरोधः? मैवम्। प्रत्यक्षं खलु बन्धं गोचरयदस्तीति नास्तीति वा गोचरयेत्। उभयोदासीनस्य ज्ञानस्यादर्शनात्। आद्येऽस्तित्वं मिथ्यात्वाभावश्चेत्यनर्थान्तरमिति कथं न प्रत्यक्षविरोधः? द्वितीयेऽनुभवविरोधः, तद्व्युत्पादनवैयर्थ्यप्रसङ्गश्च।
॥ भामतीकृता नेह नानेत्यादिवाक्यबलात्
प्रत्यक्षस्यातत्वावेदकत्वप्रतिपादनम्॥
“स्यादेतदेवम्। यदीदं प्रत्यक्षं तत्वावेदकं भवेत्। नचैतदस्ति। समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसम्, उदासीनम्, एकमेवाद्वितीयं खल्वात्मतत्वं “नेह नानाऽस्ति किञ्चन” इत्यादिश्रुतिस्मृतीतिहासपुराणेषु गीयते। नचैतान्युपक्रमादिवशादीदृगात्मतत्वमभिदधति तत्पराणि सन्ति शक्यानि केनाप्युपचरितार्थानि कर्तुम्। तद्विरुद्धं च प्रादेशिकम्, अनेकविधदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयत् प्रत्यक्षं कथमुपप्लवो न भवेत्?”
॥ पञ्चपादिकाकृता अहङ्कारोपरागात् तन्निष्ठकर्तृत्वादिकस्य आत्मन्यारोपितत्वमुपपाद्य
प्रत्यक्षस्यातत्वावेदकत्वसमर्थनम्॥
“येयं चैतन्यस्य स्वत एव स्थितलक्षणब्रह्मरूपतावभासं प्रतिबद्ध्य जीवत्वापादिकाऽविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिरनादिरनिर्वाच्याऽविद्या, तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिरपरोक्षोऽहङ्कारः। स च चिदात्मनो बुद्ध्या निष्कृष्य वेदान्तवादिभिरन्तःकरणम्, मनः, बुद्धिः, अहम्प्रत्ययीति च विज्ञानशक्तिविशेषमाश्रित्य गीयते, परिस्पन्दशक्त्या च प्राण इति। तदुपरागनिमित्तं मिथ्यैवऽत्मनः कर्तृत्वादिकं प्रतिभाति, स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा”
तदेवमहं कर्ता भोक्ता सुखी दुःखीत्यादिप्रत्यक्षे श्रुत्यादिविरोधेन पूतिकूष्माण्डीकृते बन्धमिथ्यात्वव्युत्पादनमुपपन्नतरमित्यत आह मिथ्यात्वं यदीति।
॥ परोक्तश्रुत्यर्थस्य उपपत्तिविरुद्धत्वप्रदर्शनपूर्वकं अनूदितमतनिरासः॥
मिथ्यात्वं यदि दुःखादेस्तद् वाक्यस्याग्रतो भवेत्।
भवेदेतत् “नेह नाना” इत्यादिवाक्यविरोधेन प्रत्यक्षमाभासीकृत्य बन्धमिथ्यात्ववर्णनम्, बालजनमनोहरा चैषा प्रक्रिया, यदि तद् वाक्यमुक्तविधात्मतत्वपरं स्यात्। नचैवम्। तथाहि किमापाततः प्रतिपन्न एव वाक्यार्थः, अथवा
“उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये”
इत्याद्युक्तलिङ्गानुगुणः, तदविरुद्धश्च? नाऽद्यः, मीमांसावैयर्थ्यापत्तेः। द्वितीये तु कथमिदं वाक्यमुक्तलक्षणात्मतत्वपरं स्यात्? उपक्रमादिलिङ्गेषु बलवत्योपपत्त्या विरुद्धत्वात्। अत एव हि”असतः सदजायत” इत्यादिवाक्यप्रतिपन्नोऽप्यर्थः “कुतस्तु खलु सोम्यैवं स्यात् कथमसतः सज्जायेत” इत्युपपत्तिविरुद्धस्त्यज्यते। वक्ष्यति च भगवान् सूत्रकारोऽभिमान्यधिकरणे “मृदब्रवीत्” इत्यादिवाक्यात् प्रतीतमप्यर्थमुपपत्तिविरुद्धं परित्यज्यार्थान्तरम्। (५४३,५४८)
॥ श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वाङ्गीकारे तस्या एव मिथ्यात्वप्रसङ्गः॥
कथमत्रोपपत्तिविरोध इति चेत्, एवम् यदि दुःखादेरात्मातिरिक्तस्य समस्तस्य मिथ्यात्वं श्रुत्यादिबलेन स्यात्, तत् तर्हि तस्य श्रुत्यादिवाक्यस्य तावन्मिथ्यात्वं भवेत्। आत्मातिरिक्तत्वात्। अन्यथा स्वस्मिन्नेवास्य प्रामाण्यं प्रतिहतमिति न कञ्चिदर्थं प्रतिपादयेत्। यदिचेदं वाक्यं मिथ्या स्यात्, तथाऽपि न दुःखादेर्मिथ्यात्वं प्रतिपादयेत्। मिथ्याभूतस्य वन्ध्यासुतवचसः साधकत्वादर्शनात्। तदेवमस्य वाक्यस्य मिथ्यात्वामिथ्यात्वयोर्बन्धमिथ्यात्वप्रतिपादनासामर्थ्यात् प्रत्यक्षबाधकत्वानुपपत्तेर्न दुःखादिबन्धमिथ्यात्वसिद्धिरिति।
॥ बन्धस्यास्वाभाविकत्वं सिद्धान्ते, मिथ्यात्वं मायावाद इति तत्ववादमायावादयोर्वैलक्षण्यम्॥
तत्वविदो वदन्ति सर्वोऽपि हि बन्धो बुद्धीन्द्रियशरीरविषयतद्धर्मलक्षणोऽस्माभिरप्यात्मन्यारोपित एवेत्यङ्गीक्रियते। यथोक्तं भाष्यकृता “प्रमादात्मकत्वाद् बन्धस्य” इति। अतः किन्निबन्धनो बन्धमिथ्यात्वनिरासे निर्बन्धः?
सत्यम्। तथाऽप्यस्त्यत्र दर्शनभेदः। एवं खल्वध्यात्मविदां दर्शनम् क्रियाज्ञाने प्रति कारकान्तराप्रयोज्यत्वादिलक्षणं कर्तृत्वं भोक्तृत्वं च परमेश्वरायत्तमात्मनि स्वतो विद्यत एव। क्रियावेशादिरूपाया विक्रियाया विनाशाद्यहेतुत्वस्य वक्ष्यमाणत्वात्। (८१७) तस्यापरायत्तत्वावभासोऽविद्यानिमित्तको भ्रमः। अविद्यादिकं च स्वरूपेणाऽत्मसम्बन्धित्वेन च सदेव। एवं बुद्धीन्द्रियशरीरविषयाः स्वरूपसन्त एवेश्वरवशा अप्यविद्यादिवशादात्मीयतयाऽध्यस्यन्ते। परायत्ताऽऽत्मीयताऽप्यस्त्येव। तांश्चाऽत्मनो विविक्तानपि विस्पष्टतयाऽनुपलभमानस्तद्धर्मान् दुःखादीन् सत्यानेवाऽत्मीयत्वेन पश्यंस्तत्कृते नीचोच्चत्वलक्षणे विकृती सत्ये एव प्रतिपद्यते। ततो रागद्वेषाभ्यां प्रयुक्तस्तद्विनिवृत्तये यत् करोति तदप्येतादृगेव आतनोतीत्यनेकयोनिषु बम्भ्रमीति। न क्वाप्यात्यन्तिकं तदुपशमं लभते विना परमपुरुषाराधनादिति।
मायावादिनस्तु दुःखादिकं स्वरूपेणापि मिथ्येति मन्यन्ते। यदवोचत् “सत्यानृते मिथुनीकृत्य” इति। अतस्तन्निराकरणनिर्बन्धो युक्त एवेत्येतत् परिभावयितुं बन्धमिथ्यात्वमिति सम्मुग्धे प्रस्तुतेऽपि दुःखादेरिति निष्कृष्योक्तम्। स्वातन्त्र्यादेः “नान्योऽतोऽस्ति कर्ता” इत्यादिश्रुतिबाधितत्वात्। नहि सर्वमिथ्यात्वश्रुतेरिवास्याः कश्चिद् विरोधोऽस्ति। वक्ष्यति चैतत् तत्रतत्र सूत्रकारः। (५९०, ६५५)
॥ मायावाद्युक्तस्याध्याससाधकप्रमाणस्य प्रत्याख्यानम्॥
यदपि परेणाऽत्मानात्मनोरितरेतराध्याससमर्थनाय “तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिकाः प्रवृत्ताः, सर्वाणि च शास्त्राणि” इत्यादिना प्रमाणान्तरमादर्शितम्, तदनेनैव निरस्तम्। अत्रहि प्रमातृप्रमाणप्रमेयकर्तृकर्मकार्यभोक्तृभोग्यभोगलक्षणव्यवहारत्रयस्य शरीरेन्द्रियादिष्वहम्ममाध्यासपुरःसरत्वप्रदर्शनेन व्यवहारकार्यलिङ्गकमनुमानम्, व्यवहारान्यथानुपपत्तिर्वाऽध्यासे प्रमाणमुक्तम्। नचानेनान्तःकरणशरीरेन्द्रियविषयाणां तद्धर्माणां दुःखादीनां च मिथ्यात्वं सिद्ध्यति। स्वरूपसतामपि तादात्म्यतत्सम्बन्धित्वाभ्यामारोपेणैव व्यवहारोपपत्तेः। नचाऽरोपितत्वमात्रेण मिथ्यात्वम्। आत्मनोऽप्यन्तःकरणादिष्वारोपितत्वेन मिथ्यात्वप्रसङ्गात्। अङ्गीकृतश्चान्तःकरणादिषु परेणाऽत्माध्यासः। यथोक्तम् “तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यति” इति। चेतनस्याचेतने स्वरूपाध्यासाभावात् संसृष्टतयैवाध्यासात् तन्मात्रेणैव सकललौकिकवैदिकव्यवहारोपपत्तेर्न मिथ्यात्वमिति चेत्, सममचेतनस्यापि।
॥ “आत्मानात्मनोरितरेतराध्यासेऽपि अनात्मन एव मिथ्यात्वम्, नाऽत्मनः’
इत्येतस्य विववणमतस्य दूषणम्॥
यदत्र केनचित् प्रलपितम् “इतरेतराध्यासेऽपि देहेन्द्रियादिप्रपञ्चस्य बाधनं श्रुतियुक्तिभिरुपपादयिष्यते। चिदात्मा तु श्रुतिस्मृतीतिहासपुराणतदविरुद्धन्यायनिर्णीतोऽबाधितः” इति। तदसत्। प्रपञ्चबाधकश्रुत्यादेः निराक्रियमाणत्वात्। युक्तीनां च निराकरिष्यमाणत्वात्। (६६, ७९७, ८७२) श्रुत्यादिसिद्धत्वे च मिथ्यात्वस्य “तमेतमविद्याख्यम्” इत्यादि व्यर्थमापद्येत। न खलु कोऽपि वादी वदति “केनापि रूपेण शरीरादिकमात्मनि नाध्यस्तम्” इति। येनाध्यासमात्रमुपपाद्येत। तादात्म्याध्यासं च निराकरिष्यत्याचार्यः। विना च तेन व्यवहारमुपपादयिष्यति। (९८३)
॥ पञ्चपादिकोक्तकर्तृत्वारोपप्रक्रियाभङ्गः॥
यदप्यहङ्कारस्थं कर्तृत्वादिकं तदुपरागादात्मनि चकास्तीति। तदयुक्तम्। अहम्प्रत्ययस्याऽत्मविषयत्वात्। ननु तथासति सुप्तावप्यहमुल्लेखः स्यात्। तदाऽत्मनः स्वप्रकाशतया प्रकाशमानत्वात्। नचाविद्याकार्यस्यापि तदानीं प्रतीतिप्रसङ्गः। सुप्तावविद्यायाः समुत्खातितनिखिलपरिणामत्वेन तदभावादिति। मैवम्। सुप्तावप्यहमवभासस्येष्टत्वात्। तथासति स्मर्येत ह्यस्तन इवाहङ्कारः। अनुभूते स्मृतिनियमाभावेऽपि स्मर्यमाणात्ममात्रत्वादिति चेत्, न। सुखमहमस्वाप्समिति सुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात्। तदा विशेषतः स्मर्येतेति चेत्, किं स्पष्टं स्मरणमापाद्यते, उत विषयविशेषोपरक्तम्? आद्ये त्विष्टापादनम्। न द्वितीयः, अविषयजन्यत्वात् सौषुप्तिकसुखस्य। नचायमस्ति नियमो यत् स्मर्यमाणमशेषसम्बन्धिविशेषसहितं स्मर्यत इति। अत एव मुख्यसुखतदनुभवे बाधकाभावाद् दुःखाभावविषयकत्वकल्पनं परामर्शस्यापास्तम्।
यत्तु “अथातोऽहङ्कारादेशोऽथात आत्मादेशः” इत्यात्माहङ्कारयोर्भेदवचनम्, तद् भाष्यकृतैव अन्यथा व्याख्यातम्। वक्ष्यति च सूत्रकारः “सैव हि सत्यादयः” इति। कथमन्यथाऽहङ्कारस्य सर्वगतत्वमुपपद्येत, “महाभूतान्यहङ्कारः” इत्यादिस्मृतिसिद्धस्त्वहङ्कारो यद्यप्यात्मनो भिन्नः, तथाऽपि नासावहं कर्तेत्युल्लेखविषयः। तथासति “अहं ब्रह्मास्मि” इत्यादावपि तथात्वप्रसङ्गात्। अत्रापि यः स्थाणुः स पुरुष इतिवद् व्याख्यानमिति चेत्, न। तदा “आत्मानमेवावेत्”, “अहं ब्रह्मास्मि” इति निरवद्यस्य ब्रह्मणोऽप्यहमुल्लेखदर्शनात्। “मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते” इति स्वप्रपन्नमायानिरसनसमर्थस्येश्वरस्यापि “अहं सर्वस्य प्रभवः” इत्याद्युल्लेखोपलम्भाच्च।
स्पष्ट एव शब्दतोऽप्यनयोर्भेदः। यत् प्रकृतिपरिणामवाचि मकारान्तमव्ययमहम्पदं न जातु तदात्मनि प्रयुज्यते, यच्चाऽत्मवाचि दकारान्तास्मच्छब्दजं तन्न कदाचिदपि मायापरिणामे प्रयुज्यत इति। तदेवं सर्वमिथ्यात्वपरत्वे श्रुतेरेव मिथ्यात्वप्रसङ्गेनासाधकत्वापत्तौ दुःखादिबन्धमिथ्यात्वासिद्ध्या न प्रत्यक्षमतत्वावेदकमिति।
॥ “तद् वाक्यस्याग्रतो भवेत्’ इत्युक्तिसमर्थनम्॥
नन्वग्रत इति कथम्? “नेह नाना” इति वाक्येनाऽत्मातिरिक्तं सकलमपि मिथ्येत्येकैव बुद्धिरुत्पद्यते। नच बुद्धेर्विरम्य व्यापारोऽस्ति। यावत्स्वविषयगोचराया एव तस्याः समुत्पादात् तदतिरिक्तव्यापाराभावादिति। सत्यम्। वाक्येन सकृदेव जातायाः सकलमिथ्यात्वविषयाया बुद्धेः प्रामाण्यावधारणाय परीक्षकबुद्धय एव तद्विषयं बुद्ध्या विभज्य क्रमेणावगाहन्त इत्यदोषः। समानमेतद् “यावज्जीवमहं मौनी’ इत्यादिवाक्यप्रामाण्यचिन्तायामिति।
॥ श्रुत्यादेर्मिथ्यात्वे साधकत्वानुपपत्तिः॥
ननु श्रुत्यादेर्मिथ्यात्वेऽपि साधकत्वं सम्भवति। मया मिथ्याभूतस्यैव साधकत्वाभ्युपगमादित्यत आह मिथ्या या इति।
मिथ्या याः साधकत्वं च न सिद्धं प्रतिवादिनः॥१६॥
याः श्रुत्यादिवाचो मिथ्या तासामिति योजना। विभक्तिप्रतिरूपकं वा “मिथ्यायाः’ इत्यव्ययम्।
अयमभिसन्धिः “नेह नाना” इत्यादिवाक्यैः किं पुमान् निश्चिताद्वैतो बोध्यते, उत तद्विपरीतः? नाऽद्यः, वैयर्थ्यात्। द्वितीयस्तु सत्यस्यैव साधकत्वमिति मन्यमानो यदीदं वाक्यं सकलमिथ्यात्वं प्रतिपादयेत्, तदा सकलान्तर्गतत्वात् स्वयमपि मिथ्या स्यात्। यथा “शब्दोऽनित्यः” इति शब्दोऽनित्यः। यदिचैतद् वाक्यं मिथ्या स्यात्, न कस्याप्यर्थस्य साधकं स्यादित्यनिष्टप्रसङ्गं पश्यन् कथं त्वदभ्युपगममात्रेण स्वतर्कस्य विरुद्धतां प्रतिपद्येतेति।
ननु वाक्यस्य साधकत्वं नाम पदार्थसंसर्गप्रमितिजनकत्वम्। तत् क्वचित् पददोषेण विहन्यते। क्वचित् सङ्गत्यग्रहणात्, क्वापि तद्विस्मरणात्, कदाचिदाकाङ्क्षादिविरहात्, कुत्रचिद् विपरीतप्रतिपादनेन। तदत्रापि “नेह नाना” इत्यादिवाक्ये साधकत्वाभावमापादयता पददोषाद्यन्यतममेव आपादकमुपादेयम्, किं मिथ्यात्वेन? तत् किमविद्यमानस्यापि वाक्यस्य निर्दोषपदावयवत्वादिकं विद्यत इति वक्तुमुद्यतो भवान्? एवञ्च वदता भवता कस्मिंश्चन विप्रतिपन्नेऽर्थे वन्ध्यासुतवचनं प्रमाणयन्तं प्रतिवादिनं प्रति नूनं पददोषादिकमेवोपपाद्य साधकत्वं दूषयिष्यते। स्वरूपस्यैवाभावेन असाधकत्वे सिद्धे किं तत्र चरमभाविन्या पददोषादिचिन्तया? नहि शब्देऽविद्यमानत्वेनैव चाक्षुषत्वस्यानित्यत्वसाधकत्वाभावे सिद्धे व्याप्तिचिन्ता क्रियत इति चेत्, समं प्रकृतेऽपि।
ननु मा भूत् प्रतिवाद्यपेक्षया तर्कस्य विरुद्धता। वाद्यपेक्षया तु भविष्यति। मैवम्। वादिनाऽपि हि श्रुतिवाक्येनाऽत्मातिरिक्तस्याखिलस्य मिथ्यात्वं प्रतिपद्य मिथ्याभूतस्यापि साधकत्वमिति प्रतिपत्तव्यम्। सोऽपि हि प्राक् सकलमिथ्यात्वबोधात् प्रतिवादितुल्य एव। तथाच श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वे मिथ्याभूतस्यैव साधकत्वं प्रतीत्य तद्विरोधेन तर्को निरसनीयः, तन्निरासे च श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वमित्यन्योन्याश्रयमनुत्तीर्णः कथमसावपि तर्कस्य विरुद्धतां प्रतिपद्येत?
॥ मायावादिना ज्ञानद्वयसमाहारात्मकविशिष्टज्ञानेन मिथ्याभूतस्य साधकत्वसाधनम्॥
अथ मतम् प्रत्यक्षादिकस्य साधकत्वं तावदनुभवसिद्धम्। तन्मिथ्यात्वं च श्रुतिभिर्युक्तिभिश्च अवगम्यते। मिथ्याभूतस्य साधकत्वमित्येषोऽर्थः कुतः सिद्ध इति मा वोचः। एकज्ञानजनितसंस्कारसहकृतस्येतरप्रमाणस्यैव सुरभि चन्दनमितिवद् विशिष्टप्रत्ययजनकत्वोपपत्तेः। अथवोभयप्रतिसन्धातुरात्मनो विद्यमानत्वाद् दर्शनस्पर्शनाभ्यामेकार्थग्रहणवद् विशिष्टप्रतिपत्तिर्भविष्यति। एवञ्च प्रमाणेनैव मिथ्याभूतस्यैव साधकत्वे सिद्धे विरुद्धस्तर्को न मदभ्युपगममात्रेणेत्येतद् दूषयितुं विकल्पेन पृच्छति तच्चेति।
॥ मिथ्याभूतस्य साधकत्वसाधने चक्रकापत्त्यादिदोषप्रसङ्गः॥
तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया।
सता चेद् द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम्॥१७॥
तदिति मिथ्याभूतस्यैव साधकत्वम्। आत्मातिरिक्तस्य मिथ्यात्वमिवेति चशब्दः। सता वा प्रमाणेनेति सम्बन्धः। यदिदं मिथ्याभूतस्यैव साधकत्वं साधयितुं त्वया प्रमाणद्वयसमाहारात्मकं प्रमाणमुपन्यस्यते, तन्मिथ्या, सद् वेति प्रश्र्नार्थः।
सत्त्वपक्षं दूषयति सता चेदिति। यद्यपि परेणाङ्गीचिकीर्षितत्वेन प्राधान्यान्मिथ्यात्वविकल्पः प्रथमं प्रश्र्नावसरे निर्दिष्टः, तथाऽपि मिथ्यासत्ययोः सत्यमर्थतः प्रधानमिति तत्क्रमेण दूषणम्। सता चेदित्यतः परं आत्मरूपेण तदन्येन वेति विकल्पः। प्रथमपक्षे वक्ष्याम (५८) इत्याद्यपक्षदूषणप्रतिज्ञानं चाध्याहार्यम्। आत्मेतरेण सतेति द्वितीयपक्षदूषणम् द्वैतसिद्धिः स्यादिति। तथाचाद्वैतप्रतिपादकश्रुतेरुपपत्तिविरोध इति हृदयम्। न पुनरपसिद्धान्तमात्रे तात्पर्यम्। प्रक्रमाननुरूपत्वात्। श्रुतेरुपपत्तिविरोधेनाद्वैतप्रतिपादकत्वाभावस्य प्रक्रान्तत्वात्।
मिथ्यात्वपक्षे दोषमाह न सिद्धं चेति। चशब्दोऽवधारणे, तुशब्दार्थो वा। सतोऽन्यन्मिथ्याभूतं तु साधनं न सिद्धमेव। मिथ्याभूतस्य प्रमासाधनत्वं न सिद्धमेवेति यावत्।
इदमुक्तं भवति यो हि यन्मिथ्या न तत् साधकमिति व्याप्तिमङ्गीकृत्य श्रुतेर्मिथ्यात्वेऽसाधकत्वं प्रसञ्जयति, स मिथ्याभूतस्यैव साधकत्वमित्यर्थसाधनायोपन्यस्तप्रमाणस्यापि मिथ्यात्वेऽसाधकत्वमापादयिष्यत्येव। तथाचास्य प्रमाणस्य साधकत्वे सिद्धे मिथ्याभूतस्यैव साधकत्वमित्यर्थसिद्धिः, ततश्च तर्कस्य विरुद्धतासिद्धिः, ततश्चास्य प्रमाणस्य साधकत्वसिद्धिरिति चक्रकप्रसङ्गेन नैकस्यापि सिद्धिरिति।
॥ मायावादिना श्रुतेः स्वव्यतिरिक्तआत्मान्याशेषप्रपञ्चमिथ्यात्वप्रतिपादकत्वमङ्गीकृत्य
उपपत्तिविरोधपरिहारोद्यमः, तन्निरासश्च॥
ननुच श्रुतिः स्वव्यतिरिक्तस्य दुःखादेर्मिथ्यात्वं प्रतिपादयन्ती कथमुपपत्तिविरुद्धेति चेत्, कुतोऽयं श्रुत्यर्थसङ्कोचः? साधकत्वानुपपत्तिप्रमाणबलादिति चेत्, तर्हि प्रमितं विहाय मिथ्यात्ववादिनी कथं दुःखादिमिथ्यात्वमपि प्रतिपादयेत्। तस्यापि प्रत्यक्षसिद्धत्वात्।
ननुच श्रुतिविरोधेन प्रत्यक्षमाभासीकर्तुं मयोपक्रान्तम्। तेनैव श्रुतिविरोधाभिधाने कथमितरेतराश्रयत्वं न स्यात्? श्रुतेरप्रामाण्ये बाधकाभावात् प्रत्यक्षप्रामाण्यम्। ततश्च तद्विरुद्धत्वेन श्रुतेरप्रामाण्यमिति। हन्त! तवापि कथमितरेतराश्रयत्वं न स्यात्? श्रुतिप्रामाण्ये तद्विरोधेन प्रत्यक्षाप्रामाण्यम्। ततश्च बाधकाभावेन श्रुतिप्रामाण्यसिद्धिरिति। श्रुतेः प्रबलत्वान्नैवमिति चेत्, न। तस्य दूष्यत्वात्। साधयिष्यते च प्रत्यक्षप्राबल्यम्। (११६,८८३)
॥ परोक्तश्रुत्यर्थस्य उपपत्तिविरुद्धत्वव्युत्पादने निमित्तम्॥
ननुचात्र श्रुतेः प्रत्यक्षविरोधमेवोपन्यस्य तत्प्राबल्यव्युत्पादनं कुतो न कृतम्? किमुपपत्तिविरोधव्युत्पादनेन? उच्यते परेण ह्यत्राद्वैतपरत्वे तात्पर्यलिङ्गानुगुणत्वं महता प्रबन्धेनोपपादितम्। अतस्तद्विरोध एव परस्य विचाराकौशलप्रकटनाय व्युत्पादितः। उपक्रमादिविरोधस्य चैतदुपलक्षणम्। तं च व्युत्पादयिष्यामः। (८८४८९१)
॥ “स्वाप्नार्थादेर्मिथ्यात्वेऽपि साधकत्वदर्शनात् तर्कस्याऽभासता’
इत्याशङ्कायाः परिहारः॥
ननु मा भूत् तर्कस्य विरुद्धता, तथाऽपि मिथ्याभूतोऽपि स्वाप्नोऽर्थः शुभाशुभयोः, रेखारोपितो वर्णोऽर्थस्य, प्रतिबिम्बं च बिम्बस्य, स्फटिकलौहित्यं चोपधानसन्निधानस्य, वर्णदैर्घ्यादिकं चार्थभेदस्य, सवितृसुषिरप्रभृति चारिष्टस्य साधकमुपलब्धमिति प्रशिथिलमूलत्वेनाऽभासत्वम्।
मैवम्। यतोऽत्र, यत् साधकं न तन्मिथ्या, यच्च मिथ्या न तत् साधकम्। तथाहि स्वप्नस्य तावज्ज्ञानार्थरूपस्य सत्यतां वक्ष्यति। (९२२) रेखाऽपि वर्णे पदमिवार्थे सङ्केतिता तं स्मारयतीति न किञ्चिदत्र मिथ्याऽस्ति। अत एव रेखामुपलभ्य वर्णमुच्चारयन्ति। प्रतिबिम्बस्य तु सत्यता परेणाप्यङ्गीकृता। विच्छेदस्यापि सत्यतामुपपादयिष्यामः। (१००९) स्फटिकलौहित्यमप्येतेनैव व्याख्यातम्। दैर्घ्यादयोऽपि ध्वनिष्विव वर्णेष्वपि स्वाभाविका एव। अन्यथा स्वरेष्विव व्यञ्जनेष्वपि ध्वानोपधानवशेन दीर्घादिप्रतिभासप्रसङ्गात्। न तथाविधध्वनिव्यग्यं व्यञ्जनमिति चेत्, न। तथात्वे वर्णेष्वेव विशेषोऽङ्गीकार्यः स्यात्। स एव दैर्घ्यादिपदाभिधेयो भविष्यति। सवितृसुषिरप्रभृतिज्ञानमेवारिष्टसूचकम्। वक्ष्यते चैतत्। (४१२४१३) एवमन्यदप्यूहनीयमिति।
॥ सिद्धान्तरीत्या “नेह नानास्ति” इत्यादिश्रुत्यर्थकथनम्, तत्समर्थनं च॥
तस्मात् पदवाक्यप्रमाणविदामग्रेसरेण परमास्तिकेन भगवता भाष्यकारेणोक्तो भगवति स्वरूपभेदाभाव एव श्रुत्यर्थोऽवधेयः।
नन्वत्राप्यनुपपत्तिरेव। यतो “नाना” इति नानाभूतः प्रपञ्चोऽभिधीयते, नतु भेदः। तथात्वे नानात्वमिति स्यात्। मैवम्। “मुक्तोपसृप्यव्यपदेशात्” इत्यादाविव भावप्रधाननिर्देशोपपत्तेः। भवितृप्राधान्येऽपि ब्रह्मणि नानाभूतावयवगुणकर्मादिनिषेधे नानात्वमेव निषिद्धं भवति। “सविशेषणे हि विधिनिषेधौ विशेषणमुपङ्क्रामतः” इति न्यायात्। उभयनिषेधे गौरवात्। विशेषणस्य प्रथमप्राप्तत्वात्। अन्यथा तदुपादानवैयर्थ्यात्। “न जीर्णमलवद्वासाः स्नातकः स्यात्” इत्यादौ दर्शनाच्च। अत एवोक्तम्”विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे” इति। यत् क्वचिद् विशिष्टविधिनिषेधाङ्गीकरणं तदगतिकतयैव। सविशेषत्वं च ब्रह्मणो वक्ष्यामः। (१९९)
नन्वेवंसत्यप्राप्तप्रतिषेध इति चेत्, न। आभासप्राप्तत्वात्। तथाच “न स्थानतोऽपि” इत्याद्यधिकरणपूर्वपक्षे दर्शयिष्यामः। परस्यैव स्वर्गापूर्वादिनिषेधोऽप्राप्तत्वादनुपपन्नः। “एकमेवाद्वितीयम्” इत्यादौ सजातीयविजातीयस्वगतनानात्वनिषेधं व्याकुर्वता भवताऽपि समाधातव्यमेतत्।
॥ मायावादिना श्रुत्यादेः सत्यत्वपक्षेऽपि असाधकत्वप्रसङ्गमभिधाय
प्रमाणसदसत्त्वस्य कथोपयोगित्वप्रत्याख्यानम्॥
ननु यथा भवतो मिथ्याभूतस्य साधकत्वं न सम्मतम्, तथा मम सत्यस्य साधकत्वं न सम्मतम्। चैतन्यातिरिक्तस्य सत्यतानभ्युपगमात्। चैतन्यस्य च क्रियावेशशून्यस्य साधकत्वायोगात्। तत्र यथा मिथ्याभूतस्य साधकत्वानभ्युपगमेन श्रुतेर्मिथ्यात्वेऽसाधकत्वप्रसङ्गान्न बन्धमिथ्यात्वसाधकतेत्युक्तं भवता, एवं मयाऽपि सत्यस्य साधकत्वमनभ्युपगच्छता वक्तुं शक्यत एव प्रत्यक्षस्य सत्यत्वे साधकत्वं न स्यात्, मिथ्यात्वं तु त्वयैव नोपेयते, ततश्च प्रत्यक्षस्यापि बन्धसत्यत्वसाधकत्वाभावात् “मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः” इत्यनुपपन्नमिति। एवञ्च प्रथममेव मतिकर्दमे कथारम्भणमशक्यमापद्येत। तेनाविचार्यैव तावत् प्रमाणसदसत्त्वं विचार आरब्धव्य इति।
॥ मायावादिभिरपि सत्यस्य साक्षिणः अज्ञानसाधकत्वमङ्गीकृतमित्युल्लिख्य
सत्यस्य साधकत्वमुभयसम्प्रतिपन्नमित्युपपादनम्॥
मैवम्। दुःखादिसत्यताग्राहिणः प्रत्यक्षस्य सत्यत्वेऽप्यविरोधात्। सतः साधकत्वं मया न स्वीकृतमित्युक्तमिति चेत्, तत्राऽह साधकत्वमिति।
साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता।
स्वीकृतं हि………………………….॥१८॥
तेन मायावादिना। भावरूपाज्ञानस्येति शेषः। हिशब्दो हेतौ। प्रसिद्धिद्योतको वा।
मायावादिना खलु भावरूपाज्ञानं सिषाधयिषता “प्रत्यक्षं तावदहमज्ञो मामन्यं च न जानामीत्यपरोक्षावभासदर्शनात्” इत्यादिना तत्साधनाय साक्षिप्रत्यक्षं प्रमाणमङ्गीकृतम्। “आश्रयप्रतियोगिज्ञानभूतमपि साक्षिचैतन्यम्” इत्याद्युत्तरवाक्येन प्रत्यक्षस्य साक्षित्वावगमात्। एवञ्च साक्षिणा अज्ञानसिद्धिमिच्छता परेण सतः साधकत्वं स्वीकृतमेव। साक्षिचैतन्यस्य सत्त्वात्। अतो मया सतः साधकत्वं नाङ्गीकृतमिति न शक्यते वक्तुम्। अस्माभिरपि दुःखादिबन्धसत्यतायां साक्षिप्रत्यक्षमेवोपन्यस्तमिति हृदयम्। (८८९)
अज्ञानवशादेव साक्षिणः साधकत्वं मयाऽङ्गीक्रियते, न स्वत इति चेत्, न। इतरेतराश्रयत्वप्रसङ्गात्। न खलु साक्ष्यवभासादन्याऽज्ञानसत्ता तवास्ति। ततोऽज्ञाने सति साक्षिणः साधकत्वसिद्धिः, तस्यां चाज्ञानसिद्धिरिति कथं नेतरेतराश्रयत्वम्? द्वयोरनादित्वान्नैवमिति चेत्, तर्ह्यज्ञानवशादिति रिक्तं वचः। नहि सर्वथा यद् यन्नापेक्षते तत् तदधीनमिति युज्यते। अपेक्षायां तु परस्पराश्रयानुत्तारः।
॥ प्रसङ्गात्, मायावादिमते निर्विशेषस्य साक्षिणः साधकत्वाङ्गीकारस्यानुपपन्नत्वव्युत्पादनम्॥
तदेवमुभयवादिसम्प्रतिपन्नं प्रमाणं स्वमतेऽस्तीति दर्शयितुं सत्यस्य साक्षिणोऽज्ञानसाधकत्वं पराभ्युपगतमुपन्यस्तम्। साम्प्रतं प्रसङ्गात् तदपि नोपपद्यत इत्याह अविशेषस्येति।
……….अविशेषस्य साध्या साधकता पुनः॥१८॥
भावरूपमज्ञानमनिच्छन्तं प्रति हि तत्र साक्षिप्रत्यक्षं प्रमाणमुपन्यस्तम्। नच तदुचितम्। साक्षिणोऽशेषविशेषविधुरत्वाङ्गीकारात्। अविशेषस्य साधकता तु परं प्रति त्वया साध्यैव। नतु सिद्धा। यत् साधकं करणं वा, फलं वा नित्यं वा ज्ञानम्, तत् सर्वं जात्यादिविशेषवत्। यच्च निर्विशेषं शशविषाणादि न तत् साधकमिति परेण नियमस्याङ्गीकृतत्वात्। नह्यसम्प्रतिपन्नसाधकभावं कस्याप्यर्थस्य साधनाय उपन्यासमर्हति, अतिप्रसङ्गात्।
ननु प्रमाणं वस्तुसिद्धावुपयुज्यते। तत्सविशेषत्वं तु किमर्थमिति चेत्, सत्यम्। निर्विशेषस्य प्रामाण्यमेव नोपपद्यत इति तदर्थमेव विशेषानुसरणम्। नहि साधकतमत्वादिविशेषाभावे प्रामाण्यं शक्यनिर्वाहम्। साक्षिण्यारोपिततयैवाज्ञानं सिद्ध्यति। न ततोऽतिरिक्तं साधकत्वं तस्येति चेत्, न तर्हि सुतरां साक्षिणाऽज्ञानसिद्धिः। प्रकाशाश्रयं तमः प्रकाशेनैव सिद्ध्यतीत्यस्यार्थस्याविशेषवादिना भवता परं प्रत्युपपादयितुमशक्यत्वात्।
किञ्चाज्ञानमारोपितमपि साक्षिणो विषयः, नवा? आद्ये विषयित्वं साक्षिण्यापतितम्। द्वितीये साक्षित्वमेवानुपपन्नम्। “साक्षाद् द्रष्टरि सञ्ज्ञायाम्” इति निर्वचनासम्भवात्। अतद्विषयेण तत्सिद्धिरलौकिकी। निर्विशेषस्याप्यज्ञानवशात् साक्षित्वमिति च निरस्तम्।
॥ निर्विशेषस्य साधकत्वसाधनेऽन्योन्याश्रयादिदोषः॥
यस्तु वैयात्याद् ब्रवीति सिद्धप्रामाण्यमिव साध्यप्रामाण्यमपि प्रमाणं प्रयोगार्हमेव। अन्यथा शब्दानित्यत्वे कृतकत्वमुपन्यस्य परेणान्यतरासिद्धावुद्भावितायां तत्साधनस्फूर्तिमताऽपि तूष्णीं भवितव्यम्। अहं चाविशेषस्य साक्षिणः साधकत्वं विप्रतिपत्तौ साधयिष्यामीति। स प्रष्टव्यः किं सविशेषेण प्रमाणेनैतत् साध्यते, उताविशेषेणेति? नाऽद्यः, तस्य तव मिथ्यात्वात्। परेण चोक्तन्यायेन तस्य साधकत्वानभ्युपगमात्। अतो द्वितीय एवाङ्गीकर्तव्य इत्याह तच्चेति।
तच्चाविशेषमानेन साध्यमित्यनवस्थितिः।
किमतः? इदं ततः तदविशेषप्रमाणं किं साक्षि, उतान्यत्? आद्येऽन्योन्याश्रयत्वम्। साक्षिणः साधकत्वसिद्धावविशेषस्यापि साधकत्वमित्येषोऽर्थः सिद्ध्यति, तत्सिद्धौ च साक्षिणः साधकत्वसिद्धिरिति। न द्वितीयः, तदभावात्। अविशेषान्तराङ्गीकारे दूषणमाह इत्यनवस्थितिरिति। तस्यापप्यविशेषस्य साधकत्वमविशेषप्रमाणेनैव साध्यमित्युपपादनमितिशब्देन सूचयति।
॥ भाष्यकारीयनपुंसकलिङ्गप्रयोगस्य प्रयोजनम्॥
ननुचाविशेषस्य साध्या साधकतेति प्रकृतम्, अतः सा चेति परामर्शो युक्तः। सत्यम्। तथाऽपि प्राग् यन्मिथ्याभूतस्यापि साधकत्वं प्रमाणविकल्पनिराकरणेन निरस्तम्, तत् सविशेषत्वादिविकल्पनिराकरणेनापि निराकरणीयमिति सूचनाय सामान्ये नपुंसकनिर्देशः। एतेन प्राग् विकल्पितः “सता आत्मभूतेन’ इति पक्षोऽपि निरस्तो वेदितव्यः।
॥ उक्तार्थोपसंहारः॥
मिथ्यात्वं यदीत्यादिनोक्तं प्रसङ्गमुपसंहरति अनङ्गीकुर्वतामिति।
अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता॥१९॥
यस्मादेवं न मिथ्याभूतस्य साधकत्वम्, तत् तस्माद् विश्वसत्यतामनङ्गीकुर्वतामात्मातिरिक्तस्य सर्वस्यापि मिथ्यात्वं प्रतिपादयतां “नेह नाना” इत्यादिवाक्यानामपि मिथ्यात्वप्रसक्त्या न वादिता न साधकता स्यात्। तद्वाक्यस्येति प्रकृतमेकवचनं समूहविषयमिति ज्ञापयितुमुपसंहारे बहुवचनम्।
॥ सर्वमिथ्यात्ववादिनां मायावादिप्रभृतीनां प्रमाणादिसत्यत्वानङ्गीकारे वादित्वाभावप्रसङ्गः॥
अथवाऽतिप्रसङ्गान्तराभिधानमेतत्। तथाहि यदि चैतन्यातिरिक्तं समस्तं मिथ्या स्यात्, तदा समस्तान्तर्गतं कथाव्यवहाराङ्गभूतं प्रमाणादिकमपि मिथ्या स्यात्। तथाच विश्वसत्यतामनङ्गीकुर्वतः, तन्मिथ्यात्वमङ्गीकुर्वतो मायावादिनो निरुपायस्य कथकता न स्यात्। कुतः? तत् तस्मादुक्तरीत्या मिथ्याभूतस्य साधनबाधनाङ्गतायोगादिति। विश्वमिथ्यात्वमङ्गीकुर्वतामपि चार्वाकाणां बौद्धानां च वादित्वोपलम्भाद् व्यभिचार इति चेत्, न। तेषामप्यापादनविषयत्वात्। तदिदमुक्तम् अनङ्गीकुर्वतां चार्वाकबौद्धमायावादिनामिति। अन्यथा त्वया तेनेत्येकवचनस्य प्रस्तुतत्वादनङ्गीकुर्वत इत्यवक्ष्यत्।
तथाऽपि प्रमाणबाधः। चार्वाकादीनां वादित्वस्य प्रत्यक्षादिसिद्धत्वात्। मैवम्। वादित्वाभावस्य अत्राऽपाद्यमानत्वात्। साधनस्य हि प्रमाणबाधो दूषणम्। नत्वापादनस्य। तस्यानिष्टविषयत्वात्। अनिष्टस्य च प्रामाणिकपरित्यागाप्रामाणिकस्वीकाररूपत्वात्। अन्यथाऽतिप्रसङ्गमात्रोच्छेदप्रसङ्गादित्याशयवानुक्तस्य प्रसङ्गत्वं स्फुटीकर्तुं विपर्ययपर्यवसानमाह तस्मादिति।
तस्माद् व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता।
व्यावहारिकमेतस्मात् सत्यमित्येव चाऽगतम्॥२०॥
यस्मादस्ति परस्य वादित्वाभिमानस्तस्मात्। अन्यथा युष्मदस्मदित्यादिपूर्वोत्तरपक्षबलाबलचिन्ता न स्यात्। व्यवह्रियतेऽनयेति व्यवहृतिः। कथाङ्गभूतप्रमाणादीति यावत्। प्रमाणादीनां कथाव्यवहारकारणत्वात्, कारणाभावे च कार्याभावस्य सुलभत्वात् सुस्थोऽतिप्रसङ्गमूलभूतः प्रतिबन्ध इति ज्ञापयितुं प्रमाणादीति रूढपदपरित्यागेन व्यवहृतिरिति यौगिकपदोपादानम्।
अस्तु कथाङ्गभूतप्रमाणादिव्यवहारस्य सत्यता, दुःखादिबन्धस्य तु किमायातमित्यत आह व्यावहारिकमिति। एतस्मात् प्रमाणादिव्यवहारस्य सत्यत्वात्। व्यावहारिकं व्यवहारविषयो दुःखादि। चशब्दो न केवलं व्यवहारो व्यावहारिकं चेति सम्बद्ध्यते। नहि प्रमेयं नास्ति, अस्ति च प्रमाणमिति सम्भवति, व्याघातादित्यर्थप्रतिपादनाय व्यावहारिकमित्युक्तम्।
॥ खण्डनकृता प्रमाणादिसत्ताभ्युपगमे कारणाभावं व्युत्पाद्य तस्य कथोपयोगित्वनिराकरणम्॥
यदत्रोक्तम्, “प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन, तत् कस्य हेतोः? किं वाग्व्यवहारस्य प्रमाणादिसत्ताभ्युपगमव्याप्तत्वेन तदभावे प्रवर्तयितुमशक्यत्वात्, अथ कथकप्रवर्तनीयवाग्व्यवहारं प्रति हेतुभावात्, उत लोकसिद्धत्वात्, अथवा तदनभ्युपगमस्य तत्वनिर्णयविजयातिप्रसञ्जकत्वात्?
॥ प्रमाणादिसत्ताभ्युपगमवाग्व्यवहारयोर्व्याप्तिनिराकरणम्॥
आद्येऽपि किं व्यवहारमात्रं प्रमाणादिसत्ताभ्युपगमव्याप्तम्, उत साधनबाधनक्षमो व्यवहारः। न प्रथमः, तदनभ्युपगच्छतोऽपि चार्वाकमाध्यमिकादेर्वाग्विस्तराणां प्रतीयमानत्वेन व्यभिचारात्। तस्यैवानिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः। तस्यापि पक्षत्वे बाधः। द्वितीये बाधतादवस्थ्यम्। मम सत्तानभ्युपगमस्यानुभवसिद्धत्वात्। हेतुश्च तवासिद्धः। सिद्धत्वे वा सिद्धं मम समीहितम्। व्यतिरेके च सद्वचनाभासलक्षणयोगित्वमुपाधिः। यतोऽभ्युपगम्यापि प्रमाणसत्तां प्रवर्तिता मतान्तरानुसारिभिर्व्यवहारा अभ्युपगतप्रमाणादिसत्त्वैर्मतान्तरानुसारिभिरपरैः साधनाद्यक्षमा इति कथ्यन्ते। तेन ज्ञायते व्यवहारस्य साधनाद्यक्षमतायां सद्वचनाभासलक्षणयोगित्वमेव प्रयोजकम्। नतु सत्तानभ्युपगम इति।
ननु यदि प्रमाणादीनि न सन्ति, तदा व्यवहार एव धर्मी कथं सिद्ध्येत्? दूषणादिव्यवस्था वा कथं स्यात्? सर्वविधिनिषेधानां प्रमाणाधीनत्वात्। मैवम्। न ब्रूमो वयं न सन्ति प्रमाणादीनीति स्वीकृत्य कथाऽऽरभ्येति। किन्नाम। सन्ति न सन्ति प्रमाणादीनीत्यस्यां चिन्तायामुदासीनैर्यथा स्वीकृत्य तानि भवता व्यवह्रियन्ते तथा व्यवहारिभिरेव कथा प्रवर्त्यतामिति।
किञ्च कीदृशीं मर्यादामवलम्ब्य प्रवृत्तायां कथायामिदं दूषणमुक्तं भवता? किं प्रमाणादीनां सत्त्वमुपगम्योभाभ्यां वादिप्रतिवादिभ्यां प्रवर्तितायाम्, उतासत्त्वमभ्युपेत्य, अथैकेन सत्त्वमपरेण चासत्त्वमङ्गीकृत्य? नाऽद्यः, अभ्युपगतप्रमाणादिसत्त्वं प्रत्येतादृक्पर्यनुयोगानवकाशात्। न द्वितीयः, स्वस्याप्यापत्तेः। न तृतीयः, तथैव कथान्तरप्रसक्तेः। तस्मात् प्रमाणादिसत्त्वासत्त्वाभ्युगमौदासीन्येन व्यवहारनियमे समयं बद्ध्वा प्रवर्तितायां कथायां भवतेदं दूषणमुक्तमिति वाच्यम्। तथाच व्याघातः।
नच वाच्यं नेदं दूषणं प्रतिवादिनं प्रत्युच्यते। किन्नाम। शिष्यादयः प्रमाणादिसत्तानभ्युपगन्तुः कथानधिकारं ज्ञाप्यन्त इति। यतः शिष्यादीन् प्रत्यपि चार्वाकादेर्दोषोऽयमित्येवाभिधातव्यम्। कथञ्च तथा स्यात्? तस्य कथाप्रवेशाप्रवेशयोस्तद्बोधाक्षमत्वात्। कथायामेव हि निग्रहः।
॥ प्रमाणादिसत्ताभ्युपगमस्य कथकप्रवर्तनीयवाग्व्यवहारं प्रति हेतुत्वनिराकरणम्॥
न द्वितीयः, स्यादप्येवं यदि कथकप्रवर्तनीयवाग्व्यवहारं प्रति हेतुत्वात् प्रमाणादीनां हेतुता तत्सत्तानभ्युपगमे निवर्तेत। नत्वेवं सम्भवति। तथासति तत्सत्तानभ्युपगन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत। हेत्वनुपपत्तेः।
अथ मन्यसे कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रमाणादीनां सत्त्वम्, सत्त्वाच्चाभ्युपगमो यत् सत् तदभ्युपगम्यत इति स्थितेरिति। मैवम्। कयाऽपि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमो भवता प्रसाध्यः। कथातः पूर्वं तु तत्वावधारणं परपराजयं वाऽभिलषद्भ्यां कथकाभ्यां यावता विना तदभिलषितं न पर्यवस्यति तावदनुरोद्धव्यम्। तच्च व्यवहारनियमसमयबन्धादेव द्वाभ्यामपि ताभ्यां सम्भाव्यत इति व्यवहारनियममेव बध्नीतः। स च प्रमाणेन तर्केण च व्यवहर्तव्यमित्यादिरूपः। नच प्रमाणादीनां सत्ताऽपीत्थमेव ताभ्यामङ्गीकर्तुमुचिता। तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युपपत्तेः। प्रमाणादिसत्तामभ्युपेत्यापि तथाविधव्यवहारनियमव्यतिरेकेण कथाप्रवृत्तिं विना तत्वनिर्णयस्य जयस्य वाऽभिलषितस्य कथकयोरपर्यवसानात्।
॥ प्रमाणादिसत्ताभ्युपगमस्य लोकव्यवहारसिद्धत्वनिराकरणम्॥
नापि तृतीयः, लोकव्यवहारोऽपि प्रमाणव्यवहारो वा स्यात्, पामरादिसाधारणव्यवहारो वा? नाऽद्यः, विचारप्रवृत्तिमन्तरेण तस्य दुर्निरूपत्वात्। तदर्थमेव च पूर्वं नियमस्य गवेषणात्। नापि द्वितीयः, शरीरात्मत्वादीनामपि तथासति भवता स्वीकर्तव्यतापातात्। पश्चात् तद्विचारबाध्यतया नाभ्युपेयत इति चेत्, तर्हि प्रमाणादिसत्ताऽपि यदि विचारबाध्या भविष्यति तदा नाभ्युपेयैव, अन्यथा तूपगन्तव्येति लोकव्यवहारसिद्धतया सत्त्वमभ्युपगम्यत इति तावन्न भवति।
॥ प्रमाणादिसत्तानभ्युपगमस्य अतिप्रसञ्जकत्वनिरासः॥
न चतुर्थः, यादृशो भवता प्रमाणादिसत्तामभ्युपगम्य व्यवहारनियमः कथायामवलम्ब्यते, तस्यैव प्रमाणादिसत्त्वासत्त्वानुसरणौदासीन्येनास्माभिरप्यवलम्बनात्। तस्य यदि मां प्रति फलातिप्रसञ्जकत्वम्, तदा त्वां प्रत्यपि समानः प्रसङ्गः”। तस्मात् प्रमाणादिसत्ताभ्युपगमस्य कथोपयोगाभावादनङ्गीकुर्वतां प्रमाणादिसत्तां न वादितेत्यनुपपन्नमिति।
॥ उक्तदूषणानामाभासतां व्युत्पाद्य टीकाकृता प्रमाणादिसत्ताभ्युपगमस्य कथोपयोगित्वप्रतिपादनम्
प्रथमपक्षोक्तदूषणानामसङ्गतत्वप्रतिपादनम्॥
तदेतत् सर्वमनेनापहसितं वेदितव्यम्। तथाहि यत्तावद् व्यवहारमात्रस्य प्रमाणादिसत्ताभ्युपगमव्याप्तत्वपक्षे दूषणमुक्तम्, तदसत्। यदि खल्वेवमस्माभिः साध्येत मायावादी प्रमाणादिसत्ताभ्युपगमवान्, व्यवहर्तृत्वात्; तद्व्यवहारो वा प्रमाणादिसत्ताभ्युपगमपुरःसरः, व्यवहारत्वात्; तत्ववादिवत्, तद्व्यवहारवच्चेति। यद्वा नायं व्यवहर्ता, प्रमाणादिसत्तानभ्युपगन्तृत्वात्; तद्व्यवहारो वा न व्यवहारः, प्रमाणादिसत्ताभ्युपगमपुरःसरताशून्यत्वादिति। तदा स्यादेव व्यभिचारदोषः। को नाम स्वस्थात्मैवमनुमिमीते?
किन्नाम। यदि प्रमाणादीनि सन्ति न स्युः, तर्हि साधकानि न स्युः, असतः साधकत्वानुपपत्तेः; तेषां चासाधकत्वे तत्कार्यो व्यवहारो न निष्पद्येत, तथाच वादिता न स्यात्। अस्ति चेयम्। तस्मात् तद्धेतूनां प्रमाणादीनां सत्ताऽभ्युपगन्तव्या, इत्याचार्येण प्रसङ्गत्वेनाभिमतत्वात्। व्यभिचारस्थलस्य च प्रसङ्गविषयतुल्यताऽङ्गीकृता। बाधस्तु प्रसङ्गस्यालङ्कार एवेत्युक्तम्। (५८)
साधनबाधनक्षमव्यवहारस्य प्रमाणादिसत्ताभ्युपगमव्याप्तत्वपक्षेऽप्युक्तदूषणमनेनैव निरस्तम्। मायावादिनं तद्व्यवहारं वा पक्षीकृत्य विशिष्टव्यवहारकर्तृत्वेन विशिष्टव्यवहारत्वेन वा हेतुना प्रमाणादिसत्ताभ्युपगन्तृत्वे तत्पूर्वकत्वे वा साध्यमाने तत् स्यात्। विमतो व्यवहारो न साधनादिक्षमः, प्रमाणादिसत्ताभ्युपगमपूर्वकतारहितत्वात्; इति वा साधने कथञ्चिदन्वये पूर्वोक्तोपाधिः स्यात्। नचैवमित्युक्तम्।
किञ्चायमुपाधिर्न साधनाद् भिद्यते। यदा हि प्रमाणादिसत्ता नाभ्युपगता, तदा तदसत्त्वमेवाङ्गीकृतमिति स्वरूपासिद्धत्वम्। तच्च सद्वचनाभासलक्षणविशेष एव। नन्वेतदाशयोक्तम् न ब्रूमो वयमित्यादि। दुरुक्तं तत्। सत्त्वासत्त्वे विहाय प्रमाणस्वरूपस्य बुद्धावारोपयितुमशक्यत्वेनोदासीनस्य तत्स्वीकारानुपपत्तेः। एवं च वदता यदनिर्वचनीयमभिप्रेतं तदग्रे निराकरिष्यते। (६५, ८७४)
यदप्यत्रोक्तं कीदृशीं मर्यादामित्यादि, तत्र यः प्रमाणाद्यसत्त्वमभ्युपैति, यश्च तत्सत्तां प्रतीत्यापि सत्ताद्युदासीनोऽहमिति मन्यते, तं प्रतीदं दूषणमिति वदामः। नचोक्तदोषः। नहि वयं प्रमाणादिसत्ताभ्युपगमं कथाप्रवृत्तिकारणतयाऽवश्यं ततः पूर्वभाविनं ब्रूमः। किन्नाम। यो यथाकथञ्चित् कथायां प्रवृत्तः, तं विपक्षे कथानुत्पत्तिप्रसङ्गं दण्डं प्रदर्श्य तत्कारणानां प्रमाणादीनां सत्तामङ्गीकारयामः। नचैवं कथान्तरप्रसक्त्यादिदोषः। प्रमाणादिसत्तानभ्युपगमे कथाया एवानिष्पत्तेः।
एतेन शिष्यज्ञापनमपि समाहितम्। प्रतिवादिनः कथाप्रवेशमभ्युपगम्य तत्र प्रवृत्तं प्रति प्रमितकथाकार्यबलेन कारणप्रमाणादिसत्ताया अभ्युपगन्तव्यत्वस्योक्तत्वात्।
॥ द्वितीयपक्षोक्तदूषणानामसङ्गतत्वप्रतिपादनम्॥
द्वितीयपक्षोक्तदोषोऽप्यसङ्गत एव। नहि वयं प्रमाणादिसत्ताभ्युपगममपि कथकप्रवर्तनीयवाग्व्यवहारकारणकोटौ निवेशयामः। येन तत्सत्तानभ्युपगन्तॄणां वाग्व्यवहारस्वरूपं न निष्पद्येतेति प्रसङ्गः स्यात्। अपितर्हि? प्रमाणादीनामेव कथाकारणता। सा च सत्त्वाभावे नोपपद्यत इति तत्सत्त्वमङ्गीकरणीयमिति वदामः।
यत् पुनः कथकवाग्व्यवहारं प्रतीत्याद्याशयोक्तम् “एवं वदता कथाप्रवृत्त्युत्तरकालं प्रमाणादिसत्ताऽङ्गीकारयितव्या। तथाच कथाफलस्य प्रमाणादिसत्ताभ्युपगमस्य न कथाकारणत्वम्। किन्तु प्रमाणैर्व्यवहर्तव्यमित्यादिव्यवहारनियमस्यैव” इति तदस्माभिरभ्युपगतमेव। यस्तु सत्ताभ्युपगममपि कथाकारणं ब्रूते स एवैवं पर्यनुयोज्यः।
यत् पुनः “नच प्रमाणादीनाम्” इत्यादिना कल्पनागौरवमवादि, तत्र किं प्रमाणादिसत्ताभ्युपगमे कल्पनागौरवम्, उत तत्सत्ताभ्युपगमस्य कारणकोटिप्रवेशने? नाऽद्यः, कारणत्वान्यथानुपपत्त्या तत्सत्तायाः प्रमितत्वात्। प्रमितस्य परीक्षकैरङ्गीकरणीयत्वात्। द्वितीये तु संवाद एव।
॥ तृतीयपक्षोक्तदूषणानामसङ्गतत्वप्रतिपादनम्॥
तृतीयेऽप्याद्यं तावदङ्गीकुर्मः। तत्रोक्तं दूषितप्रायम्। द्वितीयाङ्गीकारेऽपि न दोषः। देहात्मत्वादिकं तु पश्चाद् विचारबाध्यतया नाभ्युपगम्यत इति। यदत्रोक्तम् “प्रमाणादिसत्ताऽपि” इत्यादि, तेन किमुक्तं भवति? किं विचारसाध्यः प्रमाणादिसत्ताभ्युपगमो न विचारप्रवृत्तेः कारणमिति, किंवा विचाराबाध्यताया एव प्रमाणादिसत्ताभ्युपगमप्रयोजकत्वेन व्यवहारस्याप्रयोजकत्वमिति। आद्ये सम्प्रतिपत्तिः। न द्वितीयः, औत्सर्गिकं प्रामाण्यं बाधकादपोद्यत इत्यत्र दर्शने तस्यैव प्रयोजकत्वात्।
॥ चतुर्थपक्षोक्तदूषणानामसङ्गतत्वप्रतिपादनम्॥
चतुर्थपक्षोक्तदोषोऽप्यनेनैव परिहृतः। नहि वयं प्रमाणादिसत्ताभ्युपगमं कथाफलनिष्पत्तिहेतुं ब्रूमः। किन्तु प्रमाणादीन्येव। तेषां च तद्धेतुता नासतामुपपद्यत इति तत्सत्ताऽवश्यमभ्युपगमनीयेति।
॥ व्यवहारक्रियां प्रति प्रमाणादीनां कारणत्वात्, कारणस्य च सत्त्वनियमात् प्रमाणादिसत्ता
अवश्यमभ्युपगन्तव्येत्याशय खण्डनकृता उक्तसमाधानस्य निराकरणम्॥
“स्यादेतत्। नियतवाग्व्यवहारक्रियासमयबन्धेन कथां प्रवर्तयताऽपि व्यवहारसत्ताऽभ्युपगन्तव्या। नहि सत्तामनभ्युपगम्य व्यवहारक्रियाऽभिधातुं शक्या। क्रिया हि निष्पादना। असतः सद्रूपताप्रापणमिति यावत्। प्रमाणैर्व्यवहर्तव्यमिति च नियमबन्धनं प्रमाकरणभावस्य नियमान्तर्भावान्नियतपूर्वसत्त्वरूपं कारणत्वं प्रमाणानामनादाय न पर्यवस्यति। दूषणानां चास्तित्वेन भङ्गावधारणनियमबन्धने साधनाङ्गानां च व्याप्त्यादीनां सत्त्वेन तद्विषयस्य तत्वरूपताव्यवहारनियमनादौ च कण्ठोक्त्यैव तस्यतस्य सत्त्वमङ्गीकृतमिति रिक्तमिदमुच्यते प्रमाणादीनां सत्तामनभ्युपगम्य कथारम्भः शक्यत इति” एवमाशय यदुक्तम्”एभिरपि बाधकैः कथायामारब्धायामभिमतस्य प्रसाधनीयत्वेन पूर्वोक्तबाधाया न निस्तारः स्यात्” इति। तदप्यनेनैव परिहृतम्। कथास्वरूपफलनिष्पत्तये स्वेच्छास्वीकृतस्यैव व्यवहारनियमस्य प्रमाणादिसत्तास्वीकार एव पर्यवसानमिति कथायां प्रवृत्तं स्वव्याघातमप्यचेतयन्तं प्रत्यस्माभिरुच्यमानत्वात्।
॥ कथाया एवासत्त्वाङ्गीकारे चक्रकप्रसङ्गः॥
ननु कथादेः कार्यस्य सत्त्वे कथञ्चित् कारणस्य प्रमाणादेः सत्त्वमङ्गीकरणीयं स्यात्। कार्यस्यैव सत्त्वाभावे किं कारणसत्तयेति चेत्, कुतः प्रमाणात् कथादिसत्ताभावो भवता निश्चितः? श्रुत्यादेरिति चेत्, न। तस्यैवानेकातिप्रसङ्गगहननिविष्टत्वात्। तथाच सिद्धे तत्प्रामाण्ये कथादिकार्यासत्त्वसिद्धिः, ततोऽन्यथासिद्ध्या तर्कस्याऽभासतासिद्धिः, तस्यां च श्रुत्यादिप्रामाण्यसिद्धिरिति चक्रकापत्त्या नैकस्यापि सिद्धिः। असतः कारणत्वं तु सूत्रकृतैव निराकरिष्यत इत्यलं प्रसङ्गेन। (२२२६)
॥ व्यावहारिकसतः साधकत्वभङ्गः॥
स्यादेतदेवम्। यदि “नेह नाना” इत्यादिबलेनाऽत्मातिरिक्तस्य सर्वस्यासत्त्वमभ्युपगच्छामः। नचैवम्। किन्नाम। व्यावहारिकी सत्ताऽभ्युपगम्यत एव। तथाच सर्वान्तःपातिनो व्यवहारसतः प्रमाणादेः साधकत्वसम्भवान्नोक्तप्रसङ्ग इत्यत आह व्यवहारसतश्चेति।
व्यवहारसतश्चापि साधकत्वं तु पूर्ववत्।
चशब्दो हेतौ। अपिशब्दः समुच्चये। तुशब्दोऽवधारणे। व्यवहारसतोऽपि साधकत्वं पूर्वस्यासत इव प्रतिवादिनो न सिद्धमेव यतः, अतो नोक्तप्रसङ्गनिस्तार इति।
अयमर्थः यदि व्यावहारिकं सन्नाम सदेव, तदा मिथ्यात्वप्रतिपादनं व्याहतम्। फिलतं चास्मन्मनोरथद्रुमेण। व्यर्थं च व्यावहारिकपदम्। अथ तदसत्, तदा किमनेनाधिकमाचरितम्? सत्त्वाभावे साधकत्वं न स्यादित्यनिष्टप्रसङ्गस्य तदवस्थत्वादिति।
॥ मायावादिना पारमार्थिकव्यावहारिकप्रातिभासिकभेदेन सत्त्रैविध्याङ्गीकारः॥
ननुच द्विविधं सत् मुख्यम्, अमुख्यं च। तत्र यस्य सर्वप्रकारेण बाधितत्वं नास्ति तन्मुख्यं सत् पारमार्थिकमिति च गीयते। यस्य तु सत्प्रतीतिरेव सत्ता तदमुख्यं सत्। नच ततः सत्ता सिद्ध्यति। तथाहि किं सत्तावगममात्रात् तत्सत्ताऽभ्युपगम्येति मन्यसे, अबाधितात् तदवगमाद् वा? नाऽद्यः, मरुमरीचिकादौ जलरूपतासद्भावाभ्युपगमप्रसङ्गात्। द्वितीयेऽपि वादिप्रतिवादिमध्यस्थमात्रस्य तस्यापि कथाकाल एव बाधितत्वावगमाभावात्, अथवा कस्यचिदपि कालान्तरेऽपि च बाधितत्वबोधविरहात्? नाऽद्यः, अतिप्रसङ्गात्। पुरुषत्रयावगतस्याप्येकक्षणावगतस्य पुरुषान्तरेण तेनापि क्षणान्तरेऽपि बहुलं बाधदर्शनात्। नचासावर्थोऽसत्योऽपि द्वित्रादिपुरुषमात्रपूर्वजाततत्प्रतीत्यनुरोधाद् बाधदर्शने सञ्जातेऽपि तथैव सन्नित्यभ्युपगम्यते। तस्माद् द्वितीयः पक्षः परिशिष्यते। नचासावमुख्ये अस्तीति कुतः पारमार्थ्यप्राप्तिः? नच वाच्यं सत्प्रतीतेरपि प्रतीत्यन्तरमेव सत्तेत्यनवस्थेति। प्रतीतेः पारमार्थिकत्वात्। नहि तस्या बाधोऽस्ति। अस्ति चेत्, सैव प्रतीतिरबाधिता परमार्थसती। नच प्रतीतेः स्वरूपभेदोऽस्तीत्यतो विज्ञानं ब्रह्मैव परमार्थसत्।
अमुख्यं पुनर्द्वेधा मायोपाधिकम्, अविद्योपाधिकं चेति। तत्राऽद्यमम्बरादिकम्। तच्चाब्रह्मज्ञानाद् बाधवैधुर्येण हानादिव्यवहारनिर्वाहकत्वाद् व्यावहारिकमिति गीयते। कतिपयप्रतिपत्तृकतिपयकालतथात्वावगमादेव हि लौकिको व्यवहारः प्रतीयते। द्वितीयं शुक्तिरजतादि। तत्तु प्रतीतिसमयमात्रपरिवर्ति। न पुनर्हानादिहेतुरिति प्रातीतिकमुच्यते। तदेवं सत्त्रैविध्यादम्बरादिकं विश्र्वं सदपि पारमार्थिकत्वाभावान्मिथ्येति युज्यते। व्यावहारिकसत्त्वाच्च तदन्तर्गतस्य प्रमाणादेः कथाङ्गतोपपद्यते। पारमार्थिकप्रातीतिकव्यावृत्त्यर्थत्वेन व्यावहारिकपदं च सम्भवतीति।
॥ सत्त्रैविध्यनिराकरणम्॥
अत्रेदं वक्तव्यम् किं पारमार्थिकसदेव सत्, असच्च बाधकभेदेन द्विविधमिति सत्त्रैविध्यम्, उत सती एवावान्तरभेदेन? आद्ये प्रागुक्तदोषानिस्तारः। नहि सदिति ज्ञानमात्रेणासदर्थक्रियार्हम्। येन तथाविधं प्रमाणादि कथाङ्गतां गच्छेत्। तथात्वे विषमपि पीयूषतयाऽवगतं तदर्थक्रियां कुर्यात्। बाधविलम्बस्त्वप्रयोजकः। अर्थतादवस्थ्यानिवृत्तेः। एवं ज्ञानसत्यताऽपि। शुक्तिरजतादेरपि रजतोचितार्थक्रियाकारित्वप्रसङ्गात्।
यदपि तथैव लौकिको व्यवहारः प्रतीयत इति तदग्रे निराकरिष्यते। (१३१४) अर्थक्रियाऽप्यसतीति चेतरेतराश्रयादिना निरस्तम्। सतोऽर्थक्रियाऽसम्भवादसत्येव कथञ्चित् साऽङ्गीकार्येति चेत्, श्रुतिप्रामाण्यनिश्चयोत्तरकालमेवैतत्। प्राक् तन्निश्चयात् परमार्थसत एवार्थक्रियेति मन्यमानः प्रतिवादी कथं बोधनीयः? अन्योन्याश्रयादिप्रसङ्गादित्युक्तम्। (६३)
द्वितीयं दूषयति सत्त्रैविध्यं चेति।
सत्त्रैविध्यं च मानेन सिद्ध्येत् केनेति पृच्छ्यते
तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन॥।२१॥
केनेत्यस्य परमार्थसता वा, व्यावहारिकसता वा, प्रातिभासिकसता वा? आद्येऽपि किमात्मेतरेण, उताऽत्मनेत्यर्थः। पृच्छ्यतेऽस्माभिरिति शेषः। यथा मिथ्याभूतस्य साधकत्वं केन सिद्ध्येदिति पृष्टं तथेति चार्थः। व्यावहारिकसतः साधकत्वसिद्धये यदुपन्यस्तं तच्चेति वा। पृच्छाविषयत्वमेव न दोष इत्यत आह तस्यापीति। असतः साधकत्वस्येव तस्य सत्त्रैविध्यस्यापि कथञ्चन विकल्पितपक्षेषु कस्मिंश्चन पक्षे नैव सिद्धिः। कुतः? उक्तप्रकारेणैव। तथाहि न तावत् परमार्थसता आत्मेतरेण, द्वैतापत्तेः। नाप्यात्मनैव, तस्य निर्विशेषस्य साधकतायोगात्। व्यावहारिकप्रातीतिकयोस्तु स्वरूपमेवाद्यापि न सिद्धमिति।
॥ मिथ्यात्वसाधकत्वोभयनिर्वाहाय मायावादिनाऽमुख्यसतः
सदसद्वैलक्षण्यलक्षणानिर्वाच्यत्वाङ्गीकारः, तद्दूषणं च॥
नामुख्यं सत् असत्, नापि सत्। येनोक्तदोषप्रसङ्गः। किन्त्वनिर्वचनीयम्। नच तदपि दुर्वचम्। सदसद्वैलक्षण्यस्यैव तत्त्वात्। तच्चोक्तविधया व्यावहारिकप्रातिभासिकभेदाद् द्विविधम्। तत्र व्यावहारिकस्य प्रपञ्चस्य सदसद्विलक्षणस्य सद्विलक्षणत्वादुपपन्नं श्रुत्यादिना मिथ्यात्वसमर्थनम्। असद्विलक्षणत्वात् तदन्तर्गतस्य प्रमाणादेः साधकत्वं चेति।
स्यादेतदेवम्, कथञ्चिद् यदि विश्वस्य सदसद्विलक्षणत्वं स्यात्। तदेव न सिद्ध्यतीत्याह वैलक्षण्यं सदसतोरिति।
वैलक्षण्यं सदसतोरप्येतेन निषिद्ध्यते।
विश्वस्येति शेषः। सदसतोरिति सम्बन्धमात्रे षष्ठी। तथाच सदसद्भ्यामित्यर्थः। एतेन प्रमाणविकल्पनिरासेन। तथाहि विश्वस्य सदसद्वैलक्षण्यं किं सता प्रमाणेन साध्यते, उतासता, अथ सदसद्विलक्षणेन? नाऽद्यः, वादिनोऽनुपपत्तेः। न द्वितीयतृतीयौ। प्रतिवादिनोऽसम्प्रतिपत्तेरिति।
नन्वत्र सदसद्वैलक्षण्ये साधकत्वं न स्यादिति प्रसङ्गो वाच्यः। नच तत्र व्याप्तिः। मैवम्। साक्षिणि व्याप्त्यवधारणोपपत्तेः। सत्त्वाभावे साधकत्वं न स्यादिति वा प्रसङ्गं वक्ष्यामः। तत्रासत्त्वमुपाधिरिति चेत्, न। तस्य सत्त्वाभावानतिरेकात्। तद्भङ्गस्य च प्रागनिर्वचनीयसिद्धेरशक्यत्वात्।
एतेन सद्विलक्षणत्वान्मिथ्यात्वोपपादनम्, असद्विलक्षणत्वात् साधकत्वं चोपपन्नमिति परास्तम्। सद्वैलक्षण्येऽसत्त्वापत्या साधकत्वाभावस्य, असद्वैलक्षण्ये च सत्त्वापातेन मिथ्यात्वोपपादनासम्भवस्याऽपत्तेः। प्रागनिर्वाच्यसिद्धेर्व्याप्तिद्वयनिरासायोगात्। असद्वैलक्षण्यमात्रेण हानादिव्यवहारोपपत्तौ शुक्तिरजतादावपि तत्प्रसङ्गः। मायाविद्यावैलक्षण्यान्नैवमिति चेत्, न। तस्य निराकरिष्यमाणत्वात्। (४०७) वैलक्षण्यमात्रस्य प्रकृतानुपयोगादिति।
आस्तां वा सत्त्वादिविकल्पनिरासेन दूषणाभिधानम्। प्रमाणमेव प्रपञ्चानिर्वचनीयतायां नोपपद्यते। नहि “नेह नाना” इत्यादिश्रुतिः सदसद्वैलक्षण्यलक्षणानिर्वचनीयतां विश्वस्य वक्ति।
॥ विश्वस्य सदसद्विलक्षणत्वसाधकानुमानस्य प्रतिज्ञांशभङ्गः॥
अथ मन्येत विवादपदं सदसद्विलक्षणम्, ज्ञानबाध्यत्वात्; यदेवं तदेवम्, यथा शुक्तिरजतमित्यनुमानं विश्वस्य सदसद्विलक्षणत्वे मानम्। तद्बलाच्छ्रुतिरपि तत्रैव पर्यवस्यतीति। तदसत्। अनुमानस्याऽभासत्वादित्याशयवान् प्रथमप्राप्तत्वात् प्रतिज्ञां तावन्निराकरोति वैलक्षण्यं सतश्चेति।
वैलक्षण्यं सतश्चापि स्वयं सद् भेदवादिनः।
असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत्॥२२॥
चशब्दाववधारणे। अपिशब्दौ मिथः समुच्चये।
अयमर्थः किमत्र सदसच्छब्दौ भावाभाववाचिनौ, किंवा विद्यमानाविद्यमानवाचिनौ? आद्ये दूषणम् सतो भावात्मकस्य विश्वस्य, असतोऽभावाद् वैलक्षण्यमपि भावाभावभेदवादिनो मते स्वयं सदस्त्येव। एवमसतोऽभावात्मकस्य विश्वस्य सतो भावाद् वैलक्षण्यमपि भेदवादिनः स्वयं सदेव। अतस्तेन साधितेन ममानिष्टं कथं भवेत्? किन्नाम। एवं विभागेन सदसद्वैलक्षण्यसिद्ध्याऽपि प्रतिज्ञातार्थसिद्धेरर्थान्तरता परस्य स्यादिति।
यदि च प्रत्येकं भावाभाववैलक्षण्यं विवक्षितम्, तदा सतो भावस्यापि विश्वस्य सतो भावाद् वैलक्षण्यं भावभेदवादिनो मम स्वयं सदेव। भावान्तरवैलक्षण्यस्याङ्गीकारात्। असतोऽभावादपि वैलक्षण्यं सुतरां भावाभावभेदवादिनः स्वयं सदेव। एवमसतोऽभावस्य विश्वस्य, असतोऽभावाद् वैलक्षण्यमभावभेदवादिनः स्वयं सदेव। अभावान्तरवैलक्षण्याङ्गीकारात्। सतो भावाद् वैलक्षण्यमपि सुतरां स्वयं सदेवेति तेनानिष्टं कथं भवेत्?
भावाभाववैलक्षण्यं नाम तत्त्वानधिकरणत्वं विवक्षितमिति चेत्, तथाऽपि सतो भावस्यापि विश्वस्य, असतोऽभावाद् वैलक्षण्यमभावत्वानधिकरणत्वमपि स्वयं सदेव। असतोऽभावस्य विश्वस्य सतो भावाद् वैलक्षण्यमपि भावत्वानधिकरणत्वमपि मम स्वयं सदेव। भावाभावभेदवादित्वात्। यदिहि भावेऽप्यभावत्वम्, अभावेऽपि भावत्वमङ्गीकुर्यां कुतस्तदा भावाभावभेदवादः? तथाच कथं तेन साध्यमानेनानिष्टं मम भवेत्?
अथ प्रत्येकं भावाभावत्वानधिकरणत्वं विवक्षितमिति मन्येत। तदा सतो भावस्यापि विश्वस्य भावभाववैलक्षण्यं भावभावरूपत्वानधिकरणत्वं मम स्वयं सदेव। तथाऽसतोऽभावस्यापि विश्वस्य उक्तरूपं वैलक्षण्यं स्वयं सदेव। भावाभावभेदवादिनैकैकार्थस्योभयरूपतानङ्गीकारात्। भावे हि भावत्वमेव, नाभावत्वमपि। अभावे चाभावत्वमेव, न भावत्वमपीत्यतस्तेन साधितेनानिष्टं मम कथं भवेत्?
अथैकैकस्य वस्तुनो भावत्वानधिकरणत्वम्, अभावत्वानधिकरणत्वं च साध्यतया विवक्षितमिति मन्वीत। तथाऽपि सतो भावस्यापि विश्वस्यासतोऽभावाद् वैलक्षण्यमभावत्वानधिकरणत्वं मम सदेव। एवमसतोऽभावस्यापि विश्वस्य सतो भावाद् वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव। भावाभावभेदवादित्वात्। अतः कथं मम तेनानिष्टं भवेत्? अंशे सिद्धार्थतया परस्य निग्रहात्। उभयसाधनाददोष इति चेत्, न। असिद्धसन्निधानेऽपि सिद्धस्य तत्त्वानपायात्। विशिष्टसाधनान्नैवमिति चेत्, न। तथाऽपि वैयर्थ्यानिस्तारात्।
अथ भावाभिमते भावत्वानधिकरणत्वम्, अभावाभिमते चाभावत्वानधिकरणत्वं साध्यते। अतो नोक्तदोष इति चेत्, न। सतो भावस्यापि विश्वस्य सतो वैलक्षण्यं भावत्वानधिकरणत्वं मम स्वयं सदेव। कथं भावत्वभेदवादिनो नैकमेव भावत्वं सर्वभावेष्वनुगतम्? किन्नाम। प्रतिभावं भावत्वानि भिद्यन्ते। प्रतिपादयिष्यते चैतत्। (६२४,६२६) तथाच भावोऽपि भावत्वान्तरानाधरो भविष्यति। एवमसतोऽभावरूपस्यापि विश्वस्यासतो वैलक्षण्यमभावत्वानधिकरणत्वं मम स्वयं सदेव। कथम्? अभावत्वभेदवादिनाऽभावेऽप्यभावत्वान्तराभावस्वीकारात्। तथाच तेनानिष्टं कथं भवेत्? परस्यैव सिद्धार्थतानिस्तारात्।
अथ भावाभावाभिमतयोः सर्वथा भावाभावत्वे न स्त इत्यर्थो विवक्षितः, तथापि सत एव भावस्यैवासतो वैलक्षण्यमभावत्वानधिकरणत्वं स्वयं सदेव नियतं भवत्येव। एवमसत एवाभावस्यैव सतो वैलक्षण्यं भावत्वानधिकरणत्वमपि स्वयं सदेव। यतस्तस्माद् विश्वस्य तेन साधितेन भेदवादिनोऽनिष्टं कथं भवेत्?
इदमुक्तं भवति यदि प्रागभावादिकं पक्षीकृत्याभावत्वानधिकरणमिति साध्यते, तदा तस्य भावत्वं प्रतिज्ञातं स्यात्। भावस्यैवाभावत्वानधिकरणत्वनियमात्। द्वौ नञौ हि प्रकृतमर्थं सातिशयं गमयतः। एवं वियदादिकं पक्षीकृत्य भावत्वानधिकरणत्वे साध्यमाने तस्याभावत्वं प्रतिज्ञातं स्यात्। अभावस्यैव भावत्वानधिकरणत्वनियमात्। भावनिषेध एव ह्यभावः। तथाच विश्वस्य भावाभावविभागस्य च परेणाभ्युपगतत्वान्न भावाभावभेदवादिनो ममानिष्टं किञ्चित्। किन्तु भावाभावव्यतिकरमात्रम्। तत्साधनं च प्रकृतानुपयुक्तमिति।
भावाभावाभिमतयोरभावभावत्वानधिकरणत्वे वादिप्रतिवादिसम्मते भावाभावत्वानधिकरणत्वमप्यधिकं साध्यते। अतो नोक्तदोष इति चेत्, न। यतः सतो भावस्यैव विश्वस्य वियदादेरसतो वैलक्षण्यम्, अभावत्वानधिकरणत्वं स्वयं सदेव, प्रमितमेव। यतश्चासतोऽभावस्यैव विश्वस्य प्रागभावादेः सतो वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव। अतो भेदवादिनस्तेन विपरीतेन प्रतिज्ञातेन अनिष्टं कथं भवेत्? प्रतिज्ञातार्थसिद्धौ खल्वनिष्टं भवेत्। नहि प्रमाणबाधितोऽसौ सिद्ध्यति। व्यावहारिकभावत्वाभावत्वगोचरं प्रमाणं तत्वविषयेणानुमानेनैव बाध्यत इति चेत्, न। यतोऽस्माकं तावद् भावाभावत्वविषयं प्रमाणं तत्वगोचरमेव। अन्यथा चक्रकादिप्रसङ्गात्, अतिप्रसङ्गाच्चेति।
॥ सदसच्छब्दयोः विद्यमानाविद्यमानार्थकत्वपक्षदूषणम्॥
द्वितीयेऽप्येतदेवोत्तरम्। विश्वस्य सतः सत्याद् वैलक्षण्यमपि मम स्वयं सम्मतमेव। तथाऽसतोऽविद्यमानादपि वैलक्षण्यं स्वयमेव। अतस्तेन साधितेन ममानिष्टं कथं भवेत्?
भवतु विश्वस्यासतः शशविषाणादेर्वैलक्षण्यं स्वमतम्। सतो वैलक्षण्यं तु कथम्? सत्त्वाङ्गीकारादिति चेन्मैवम्। सतो विद्यमानस्याप्यसतो भेदं वदतो मम यथा विश्वस्यासतो वैलक्षण्यं स्वयमेव। तथा सतोऽपि विश्वस्य सतो वैलक्षण्यं सतां भेदवादिनः स्वयमेव। सदन्तरवैलक्षण्यात्।
सत्त्वासत्त्वानधिकरणत्वं सदसद्विलक्षणत्वमिति चेत्, तदाऽपि सतो विश्वस्यासतो वैलक्षण्यं सदसद्भेदवादिनः स्वयं सदेव। अतस्तेन साधितेन ममानिष्टं कथं भवेत्? परस्यैवांशतः सिद्धार्थता भवेत्। तर्हि सत्त्वानाधारत्वमेव साध्यत इति चेत्, न। असत एव हि सतो वैलक्षण्यं सत्त्वानधिकरणत्वं भेदवादिनो मम स्वयं सदेव नियमेन भवति। तथाच विश्वस्य तेन सत्त्वानधिकरणत्वेन साधितेनासत्त्वापत्त्या परस्यैवानिष्टं भवेत्। अनिष्टप्रसङ्गेन परं निगृहीतवतो ममानिष्टं कथं भवेत्?
अथासत्त्वानधिकरणत्वे वादिप्रतिवादिसिद्धे सत्त्वानधिकरणत्वमप्यधिकं साध्यत इति चेत्, न। अनिष्टानिस्तारात्। किञ्च न सत्त्वं नामैकमनुगतम्, किन्तु प्रतिवस्तु सत्त्वानि भिद्यन्ते। तत्र वियदादेरसद्वैलक्षण्ये सति सत्त्वानधिकरणत्वं साध्यमानं किमेकसत्त्वानधिकरणत्वम्, उतानेकसत्त्वानधिकरणत्वम्, अथ सर्वसत्त्वानधिकरणत्वम्, किंवाऽविशेषितसत्त्वानधिकरणत्वम्, अथवा सर्वथा सत्त्वानधिकरणत्वं विवक्षितम्? नाऽद्यः, विश्वस्यासतोऽपि वैलक्षण्यं तावन्मम स्वयमेव सतोऽपि वैलक्षण्यं सत्त्वानधिकरणत्वमपि स्वयमेव। कथम्? सत्त्वभेदवादिनो मम सतोऽपि सत्त्वान्तरानधिकरणत्वाङ्गीकारात्। तथाच सिद्धेन तेन साध्यमानेन ममानिष्टं कथं भवेत्? एवमेव चतुर्थनिराकरणमपि व्याख्येयम्।
न द्वितीयतृतीयौ, विश्वस्यासतो वैलक्षण्यमसत्त्वानधिकरणत्वं तावन्मम स्वयमेव। सतो वैलक्षण्यमनेकसत्त्वानधिकरणत्वम्। सर्वसत्त्वानधिकरणत्वमपि स्वयं सदेव। कथम्? भेदवादिनैकैकस्यार्थस्य अनेकसर्वसत्त्वास्वीकारात्। स्वीकारे च भेदभङ्गः स्यात्। ततश्च तेनानिष्टं कथं भवेत्?
न पञ्चमः, यतः सत एवासतो वैलक्षण्यं स्वयं सदेव, नियतमेवास्ति। यतश्चासत एव सतो वैलक्षण्यमपि नियतमेव, अतस्तेन साध्यमानेन विश्वस्य सदसत्त्वापत्त्या भेदवादिनः कथमनिष्टं भवेत्?
मया ह्येकस्यैव सदसत्त्वमङ्गीकृतम्। स्वोपाधौ प्रतिषेधाप्रतियोगित्वात् परोपाधौ च तत्प्रतियोगित्वात्। द्वयोरपि सर्वथा प्रतिषेधात् कथं सदसत्त्वप्रसङ्ग इति चेत्, तर्ह्यसत एव सतो वैलक्षण्यं स्वयं सत् नियतमेव। अतः सद्वैलक्षण्यमुक्त्वा पुनरसतोऽपि वैलक्षण्येन व्याहतेन प्रतिज्ञातेन भेदवादिनः कथमनिष्टं भवेत्? एवं सत एवासतोऽपि वैलक्षण्यं नियतमित्यसद्वैलक्षण्यमुक्त्वा पुनर्विश्वस्य सद्वैलक्षण्यप्रतिज्ञा व्याहता द्रष्टव्या। नह्यनिर्वाच्यसिद्धेः प्रागयं विप्रतिषेधो निवारयितुं शक्यः। अस्मादेव हेतोस्तत्सिद्धिरिति चेत्, तर्हि माता वन्ध्येति प्रतिज्ञा कुतो विप्रतिषिद्धा? वक्ष्यमाणहेतुनैव प्रतिज्ञातार्थसिद्धेस्तत्रापि सुवचत्वात्। “सम्भावितः प्रतिज्ञाया अर्थः साध्येत हेतुना” इति न्यायात् तत्र हेत्वाकाङ्क्षैव नास्तीति चेत्, समम्।
किञ्च सत एव विश्वस्यासतो वैलक्षण्यं स्वयं सदेव, साक्षिप्रमितमस्ति। अतस्तेन बाधितेन सर्वथा सत्त्वानधिकरणत्वेन प्रतिज्ञातेन भेदवादिनः कथमनिष्टं भवेत्? अमुख्यसत्त्वावेदकं प्रमाणं तदिति चेत्, मम तावन्मुख्यमेव तत् सत्यमित्युक्तम्। परकीयप्रमाणतर्काणामद्यापि गहने निविष्टत्वादिति।
केचित् ते तवानिष्टं कथं न भवेदिति व्याचक्षते। तत्र “न पादादौ” इति प्रतिषेधस्य “नञा निर्दिष्टमनित्यम्” इति समाधानमवधेयम्।
द्वितीये दूषणान्तरमाह यद्युच्यत इति।
यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः।
अपिशब्दो दूषणसमुच्चये। सर्वस्मादपीत्यभिविधौ वा। यदीति श्रवणात् तर्हीति ग्राह्यम्। सर्वशब्दोऽनेकार्थः। यद्यनेकस्मात् सतो वैलक्षण्यं अनेकसत्त्वानधिकरणत्वं विश्वस्य साध्यमित्युच्यते, तर्हि सतां भेदसंस्थितिः, ततश्चापसिद्धान्तः।
इदमुक्तं भवति विश्वमनेकसत्तानधिकरणमिति प्रतिजानताऽनेकसत्त्वान्यङ्गीक्रियन्ते, नवा? द्वितीयेऽनेकविशेषणवैयर्थ्यम्। आद्येऽप्येकस्मिन्नेवार्थेऽनेकानि सत्त्वानि, उताऽधारभेदेन? नाऽद्यः, वैयर्थ्यात्। द्वितीये त्विदमुपतिष्ठते सद्भेदसंस्थितिरिति। अनेकसत्त्वाधिकरणताप्रतिषेधसामर्थ्यादेकैकसत्त्वस्वीकारापत्तेरिति वा।
तृतीयस्य वेदं दूषणान्तरम्। यदि सर्वस्मात् सतो वैलक्षण्यं सर्वसत्त्वानधिकरणत्वं विश्वस्य साध्यतयोच्यते, तर्हि सद्भेदसंस्थितिः। नह्यनेकसदनङ्गीकारे सर्वशब्दस्य प्रयोजनमस्ति। सन्त्येव अनेकानि सन्ति पारमार्थिकं त्वेकमेवेति चेत्, न। तत्सिद्ध्यर्थमेवाद्यापि भवता प्रयतनात्। तदनधिकरणत्वसाधनेंऽशेऽपसिद्धान्तात्।
चतुर्थे दूषणान्तरमाह सन्मात्रत्वमिति।
सन्मात्रत्वं ब्रह्मणोऽपि तस्मात् तदपि नो भवेत्॥२३॥
अविवक्षितविशेषं सत्त्वं यस्माद् ब्रह्मणोऽप्यस्ति। तस्मात् कारणात् तस्मात् सतो ब्रह्मणस्तद्वैलक्षण्यं तत्सत्त्वानधिकरणत्वमपि विश्वस्य नोऽस्माकं मतं भवेत्। तथाच सिद्धत्वात् तदपि साध्यं नो भवेत्। अविवक्षितविशेषसत्त्वानधिकरणत्वे साध्ये ब्रह्मगतसत्त्वानधिकरणतयाऽपि प्रतिज्ञातार्थोपपत्तेरर्थान्तरतेति।
अथवा किमिदं सत्त्वं नाम? यदनधिकरणत्वं विश्वस्य साध्यते। किं सामान्यसत्त्वम्, उत स्वरूपसत्त्वम्? आद्यं दूषयति यद्युच्यत इति। सर्वस्मात् सर्वार्थानुगतात् सामान्याद् वैलक्षण्यं तदनाधारत्वमिति यावत्। साध्यतया यद्युच्यते तदा सद्भेदसंस्थितिः। यदि सत्तैव नास्ति, तदा तदनधिकरणत्वप्रतिज्ञा व्यर्था स्यात्। नेदं शशविषाणाधिकरणमितिवद् विप्रतिपत्तेरेवानुदयात्। सत्तासामान्याङ्गीकारे च सद्भेदो दुर्वार एव। नह्येकाश्रयं सामान्यमस्ति।
सन्ति सत्ताधिकरणानि सन्तीति चेत्, तर्हि कानीति वक्तव्यानि। द्रव्यादीनीति चेत्, कथन्तर्हि तेषामेव तदनधिकरणत्वसाधनम्? व्यवहारतः सर्वमस्ति परमार्थतस्तु नेति चेत्, न। उक्तोत्तरत्वात्। एतच्च परमतेनोत्तरमुक्तं वेदितव्यम्। स्वमतेन तु सिद्धसाधनत्वं द्रष्टव्यम्। द्रव्याद्यतिरिक्तानुगतसत्त्वसामान्यस्यैवानङ्गीकारात्।
द्वितीयं दूषयति सन्मात्रत्वमिति। सत्तानपेक्षं सत्त्वं सन्मात्रत्वम्। स्वरूपसत्त्वमिति यावत्। तद् ब्रह्मणोऽप्यस्ति यतस्तस्मात् कारणात् तस्माद् ब्रह्मणस्तद् वैलक्षण्यमब्रह्मत्वमपि विश्वस्य नो भवेदिति।
अथवा सामान्यसत्तापक्षे दोषान्तरमनेनोच्यते। तथाहि सत्तासामान्यविधुरस्यापि ब्रह्मणः सन्मात्रत्वं स्वरूपसत्त्वं तावदस्ति। न पुनः सत्त्ववैधुर्यादसदनिर्वाच्यं वा ब्रह्म। तस्मात् सत्तावैधुर्यस्य असत्त्वाद्यहेतुत्वात् तत्सत्तानधिकरणत्वमपि विश्वस्य नो भवेदिति।
एतेन ब्रह्मस्वरूपं सत्त्वमिति पक्षोऽपि निरस्तः। अर्थक्रियाकारित्वं ज्ञानाबाध्यत्वं वा सत्त्वमिति पक्षद्वयं स्फुटदोषत्वान्न दूषितम्। अर्थक्रियावैधुर्यसाधने हि बाधः स्फुट एव। परमार्थतो नास्तीत्यप्युक्तोत्तरम्। सत्यस्य नार्थक्रियेति वदता मिथ्याभूतस्यैवार्थक्रियाऽङ्गीकृतेति सिद्धान्तविरोधश्च।
अर्थक्रियाविधुरस्यापि ब्रह्मणः सत्त्वात् तद्वैधुर्यं नासत्त्वादिहेतुः। अर्थक्रियानधिकरणतामात्रसाधनं प्रकृतानुपयुक्तं तद्विरुद्धं च। ज्ञानाबाध्यत्ववैधुर्यं च तद्बाध्यत्वमेव। तच्च हेत्वर्थान्न भिद्यत इति स्फुटमेव। हेत्वन्तराभिधानेऽपि वक्ष्यमाणन्यायेन बाधसिद्धार्थताद्यापत्तिः स्फुटैव।
यदत्रोक्तम् त्वयाऽपि द्वे तत्वे सदसदिति तत्वं व्यवस्थापयता यदेव सत्त्वेन व्यवस्थापितं तस्यैव मयाऽप्यङ्गीकारान्न सच्छब्दार्थानिरुक्तिरिति। तदतीव मन्दम्। मया हि क्वचित् सदिति भावो व्यवह्रियते। क्वचिच्च प्रतिपन्नोपाधौ निषेधाप्रतियोगि। क्वापि मूर्तमित्यादि। तत् सर्वं च निरस्तमिति।
॥ विश्वस्य सदसद्विलक्षणत्वसाधकानुमाने ज्ञानबाध्यत्वरूपहेतुनिरासः॥
एवं प्रतिज्ञां निराकृत्य हेतुमप्यपाकरोति ज्ञानबाध्यत्वमिति।
ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः।
न केवलं प्रतिज्ञा दुष्टा। किन्नाम। हेतुभूतं ज्ञानबाध्यत्वमपीत्यर्थः। तुशब्दः सिद्धान्त्यभिमताज्ज्ञानबाध्यत्वाद् व्यवच्छिनत्ति। ज्ञानबाध्यत्वं हि ज्ञाननिवर्त्यत्वं वा, प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं वा हेतुत्वेन परस्याभिमतम्। नच प्रपञ्चे तत् प्रतिवादिनो मम सिद्धम्। अतोऽन्यतरासिद्धो हेतुरिति।
नन्वीश्वरज्ञानेन प्रपञ्चनिवृत्तिस्त्वयाऽपीष्यत एव। अन्यथा तस्य संहारकर्तृत्वानुपपत्तेः। ज्ञानादिमत एव कर्तृत्वात्। सत्यम्। नैवं ज्ञाननिवर्त्यत्वं परस्याभिप्रेतम्। अपितर्हि? अज्ञानोपादानकस्य समाने विषये विरोधिना ज्ञानेनोपादाने निवृत्ते स्वयमेव विलपनम्। यथाऽऽह “अज्ञानस्य स्वकार्येण वर्तमानेन प्रविलीनेन वा सह ज्ञानेन निवृत्तिर्बाधः” इति। नचायं प्रपञ्चेऽस्माकं सम्मतः। किन्तु मुद्गरप्रहारादिना घटस्येवेश्वरस्य ज्ञानेच्छाप्रयत्नव्यापारैर्विनाश एव। स एव हेतुरस्त्विति चेत्, न। तथाविधमपि ज्ञानबाध्यत्वं पक्षैकदेशे प्रकृत्यादौ न सिद्धं प्रतिवादिन इति भागासिद्धत्वात्।
किञ्च सत्यस्यापि ज्ञानविनाश्यत्वमस्तु। नच विपक्षे किञ्चिद् बाधकमस्तीत्यतोऽप्रयोजकत्वात् ज्ञानबाध्यत्वं न सिद्धमपि व्याप्यत्वासिद्धमपीति यावत्। प्रतिवादिनो मतेनेति गुडजिह्विकामात्रम्। बाधकानुपन्यासे वादिनोऽपि व्याप्यत्वासिद्धेरावश्यकत्वात्।
सतो विनाशे चैतन्यस्यापि विनाशप्रसङ्ग इति चेत्, तर्हि विनाशमात्रस्य साध्यप्रयोजकत्वेन ज्ञानबाध्यत्वमसिद्धमपि। व्यर्थविशेषणासिद्धमपि स्यात्। नाश्यत्वमात्रं हेतुः। ज्ञानेति स्वरूपकथनमात्रम्। स चोक्तबाधकसानाथ्येन नाप्रयोजक इति चेत्, न। सत्त्वसाम्येऽपि विनाशकारणसदसद्भावेन विशेषस्योक्तत्वात्।
ननुच “नेह नानाऽस्ति” इति प्रतिपन्नोपाधौ श्रौतनिषेधात्मा बाधः प्रपञ्चेऽस्तीति चेत्, न। श्रुत्यर्थनिर्णयोत्तरकालमेवैतत्। स एव तूपपत्तिविरोधादशक्य इत्युच्यमानत्वात्।
॥ सिद्धान्ते बाध्यत्वनिरुक्तिः॥
अथवा ज्ञानबाध्यत्वमसिद्धं व्याप्तिरहितमपीति योज्यम्। तथाहि किं त्वदभिमतं ज्ञानबाध्यत्वमत्र हेतूक्रियते, किंवाऽस्मदभिमतमिति वाच्यम्। आद्यं चेदुक्तन्यायेन न सिद्धं प्रतिवादिनः। द्वितीये व्याप्तिवैधुर्यमिति। तत् कथमित्यत आह विज्ञातस्येति।
विज्ञातस्यान्यथा सम्यग् विज्ञानं ह्येव तन्मतम्॥२४॥
हि यस्मादन्यथाविज्ञातस्य सम्यग् विज्ञानमेव बाधः, तद्विषयत्वमेव तद्बाध्यत्वं मतमस्माकम्। तच्चाऽत्मनि विपक्षे गतमिति व्याप्तिविकलमिति वाक्यशेषः। सत्योऽप्यात्मा देहाद्यात्मना विज्ञातो वेदान्तजनितसम्यग्विज्ञानवृत्तिविषय इति परेणाप्यङ्गीकार्यम्। अन्यथा अविद्यानिवृत्त्यनुपपत्तेरिति।
॥ विश्वस्य सदसद्विलक्षणत्वसाधकानुमाने दृष्टान्तनिरासः॥
अथवा दृष्टान्तं प्रत्याचष्टे ज्ञानबाध्यत्वमिति। अपिपदेन सदसद्विलक्षणत्वलक्षणं साध्यमनिर्वाच्यत्वं समुच्चिनोति। तुशब्दो ज्ञानबाध्यत्वमभिमताद् व्यवच्छिनत्ति। न सिद्धं शुक्तिरजतादाविति शेषः। शुक्तिरजतादेरनिर्वचनीयत्वं तावत् प्रतिवादिनो ममासिद्धम्। मयाऽत्यन्तासत्त्वेनाङ्गीकृतत्वात्। अत एव ज्ञानबाध्यत्वं मम तत्रासम्मतम्। तद्धि ज्ञाननिवर्त्यत्वं परस्याभिमतम्। नचासतस्तत् सम्भवति। तस्य नित्यनिवृत्तत्वात्। अतः साध्यसाधनविकलोऽयं दृष्टान्ताभासः।
ननु प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं बाध्यत्वमस्त्येव शुक्तिरजतादौ। मैवम्। तथासत्यसत्त्वप्रसङ्गात्। वक्ष्यते चैतत्। (८७९) यदि तर्हि न बाध्यत्वं शुक्तिरजतादेः। बाढम्। ननु सकललोकविरोधादिप्रसङ्गः। मैवम्। त्वदभिमतस्याभावेऽप्यन्यस्य बाध्यत्वस्य तत्र विद्यमानत्वात्। किं तदित्यत आह विज्ञातस्येति। बाध्यत्वमिति प्रकृतप्रकृत्यर्थं बाधं तदिति सामान्येन परामृशति।
॥ बाधस्य लक्षणान्तरकरणे निमित्तकथनम्॥
केचिन्नेदं रजतमिति ह्यध्यस्तवस्त्वभावबोधं बाधमाहुः। अपरे तु शुक्तिरियमिति विरोधिभावान्तरज्ञानम्। तदुभयं प्रत्येकमव्यापकम्। शाब्दादौ द्वयोरपि बाधत्वप्रसिद्धेः। तस्मादुभयानुगतमेतदुच्यते। रजतत्वादिना विज्ञातस्य पुरोवर्तिनः शुक्तित्वादिना विज्ञानं खल्वन्यथाविज्ञातस्य सम्यग् विज्ञानं भवति। एवमसतो रजतस्य सत्त्वादिनाऽवगतस्यासत्त्वादिना विज्ञानमप्यन्यथाविज्ञातस्य सम्यग् विज्ञानं भवत्येव।
॥ बाधलक्षणवाक्ये पदकृत्यविचारः, अतिव्याप्त्यादिदोषनिरासश्च॥
सम्यग् विज्ञानं बाध इत्येवोक्ते सर्वमपि सम्यग् ज्ञानं बाधः प्रसज्येत। नच तथा व्यवहारः। तन्निवृत्त्यर्थमन्यथाविज्ञातस्येत्युक्तम्। अन्यथाविज्ञातस्य ज्ञानमित्येवोक्ते धारावाहिकभ्रमे रजतत्वेनावगतस्य शुक्तिकाशकलस्य पुनर्नागवङ्गत्वादिज्ञानेऽपि प्रसङ्गः। तन्निरासाय सम्यगित्युक्तम्। अन्यथेति तत्स्वरूपापेक्षया। तेन घटस्यैव पटाद्यपेक्षयाऽन्यथा घटत्वेन ज्ञातस्य पुनर्घटत्वेन ज्ञाने प्रसङ्गो निरस्तः। छलप्रसङ्गात्।
तथाऽपि रजतत्वेनावगतस्य शुक्तिकाशकलस्य शुक्लत्वादिज्ञाने प्रसङ्गस्तदवस्थः। एवमेकेन अन्यथा विज्ञातस्य पुरुषान्तरसम्बन्धिनि तस्यैव वा पुरुषस्य कालान्तरभाविन्याजानसिद्धे सम्यग् विज्ञाने प्रसङ्गोऽपीति चेत्, मैवम्। बाधतिः खलु लोडने पठ्यते। तच्च ज्ञानस्यार्थस्य वाऽस्तु। न तावत् ज्ञानस्य। तस्य क्षणिकत्वेन स्वत एव लोडितत्वात्। सम्यग् विज्ञानस्याप्युत्तरज्ञानविनाश्यस्य बाधितत्वव्यवहारप्रसङ्गात्। नाप्यर्थस्य। शुक्तिकाशकलादेस्तादवस्थ्यात्। रजतादेर्नित्यलोडितत्वात्। अतः पूर्वज्ञानप्रसञ्जितस्य अन्यथाकारस्य लोडनमिवेति वक्तव्यम्। तथाच सति कोऽतिप्रसङ्गः?
तत् किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं ज्ञास्यते? “अन्यथा विज्ञातस्य” इति वचनसामर्थ्यात्। अन्यथा सम्यग् विज्ञानमित्येवावक्ष्यत्। किमनेनेति। तद्विषयत्वं बाध्यत्वमिति शेषः।
॥ सदसद्विलक्षणत्वरूपानिर्वचनीयलक्षणभङ्गः॥
अथवाऽनिर्वचनीयममुख्यं सदित्युक्तम्। तत्र किमिदमनिर्वचनीयत्वम्? किं निरुक्तिविरहः, किंवा निरुक्तिनिमित्तविरहः? नाऽद्यः, अनिर्वचनीयमित्यादिनिरुक्तेः सत्त्वेनासम्भवित्वात्। द्वितीयेऽपि निरुक्तिनिमित्तं ज्ञानमर्थो वा स्यात्? नाऽद्यः, ज्ञानस्योभयवादिसिद्धिसद्भावात्। न द्वितीयः, यथाप्रतिभासमर्थस्यालौकिकस्य रजतादेर्मायावादिनाऽभ्युपगतत्वादित्याशय परेणानिर्वचनीयस्य लक्षणद्वयमभिहितम्। सदसद्विलक्षणत्वमनिर्वचनीयत्वं ज्ञानबाध्यत्वं चेति।
तत्राऽद्यं तावन्निराकरोति वैलक्षण्यं सतश्चेति। व्याख्यानानि तु पूर्ववदेव। तत्र यावत्सु पक्षेषु सिद्धार्थत्वपर्यवसानं तावत्स्वनिर्वचनीयत्वस्य सत्त्वाविरोधित्वेन न सन् प्रपञ्चः किन्त्वनिर्वचनीय इत्यारम्भासङ्गतिर्दोषोऽवगन्तव्यः। यत्र पुनर्बाधादिपर्यवसानं तत्राव्याप्तिरवगन्तव्या।
अथवाऽनिर्वचनीयत्वेन वियदादिकं शुक्तिरजतादिकं च परस्याभिमतम्। तत्र सत एव सत्त्वेन प्रमितस्यैव वियदादेर्विश्वस्यासद्विलक्षणत्वमेव स्वयं सत्। एवमसत एवासत्त्वेन प्रमितस्यैव शुक्तिरजतादेर्विश्वस्य सर्वस्याप्यारोपितस्य सद्विलक्षणत्वमेव स्वयं सत्। वियदादावसद्विलक्षणत्वमेवास्ति। सद्वैलक्षण्यं तु प्रमाणबाधितम्। तथा शुक्तिरजतादौ सद्विलक्षणत्वमेवास्ति। असद्वैलक्षण्यं तु प्रमाणविरुद्धम्। अतोऽसम्भविना तेन लक्षणेनोक्तेन कथं तेऽनिष्टं निग्रहस्थानं न भवेदित्यादियोजना द्रष्टव्या।
भेदवादिन इत्यनेन मायावादिनो वियदादौ सद्वैलक्षण्याङ्गीकारः शुक्तिरजतादौ चासद्विलक्षणत्वाभ्युपगतिराग्रहमात्रमूलैवेत्यभिप्रैति। यद्युच्यत इत्यत्राप्युक्तरीत्याऽसम्भवित्वादिकं ज्ञातव्यम्। सन्मात्रत्वमित्यनेनातिव्याप्तिरुच्यते। तथाहि ब्रह्मणोऽपि सन्मात्रत्वं सत्त्वानधिकरणत्वमिति यावत्। मायावादिनाऽभ्युपगतमिति शेषः, निर्धर्मकत्वाङ्गीकारात्। असत्वानधिकरणत्वं तु निश्चितमेव। तस्मात् तदपि ब्रह्मापि सन्नो भवेत्, किन्त्वनिर्वाच्यं प्रसज्येतेति।
सत्त्वेनासत्त्वेन च विचारासहत्वमनिर्वचनीयत्वम्, न पुनः सत्त्वासत्त्वधर्मानधिकरणत्वम्, ब्रह्म तु सत्त्वेन विचारसहं कथमनिर्वचनीयं स्यादिति चेत्, न। सत्त्वेनेति त्वप्रत्ययार्थस्यानभ्युपगमात्।
किञ्च यो वियदादौ विचारः स ब्रह्मण्यपि समान इति कथं न तस्यानिर्वचनीयत्वम्? यथोक्तम् “सर्ववैलक्षण्याङ्गीकारात्” इत्यादि। निराकरिष्यते चासौ दुर्विचारस्तत्रतत्रेति।
॥ ज्ञानबाध्यत्वरूपानिर्वचनीयलक्षणभङ्गः॥
द्वितीयमपि लक्षणं निराकरोति ज्ञानबाध्यत्वमिति। यदि ज्ञानबाध्यत्वं नामोक्तविधया ज्ञाननिवर्त्यत्वम्, तदा वियदादौ शुक्तिरजतादौ च न सिद्धम्। वियदादेः सत्त्वेन शुक्तिरजतादेश्चासत्त्वेन अविद्योपादानकत्वाभावात्। ततश्चासम्भवित्वं लक्षणदोषः। (४७,४९,५२,५८,४०७,४१०,४१७)
यदि पुनर्ज्ञानविनाश्यत्वमात्रम्। तथाऽपि वियदादौ नित्ये नित्यत्वादेव शुक्तिरजतादौ चासत्वान्न सिद्धमित्यव्याप्तिः। यदिच प्रतिपन्नोपाधौ निषेधप्रतियोगित्वम्, तदपि वियदादौ न सिद्धमित्यव्याप्तिरेव। उपपत्तयस्तूक्ता वक्ष्यमाणाश्चानुसन्धेयाः।
ननु भवताऽपि बाध्यत्वं किमप्यङ्गीकरणीयमेव। पदस्य निरर्थकत्वायोगात्। तदेवास्माकमनिर्वचनीयलक्षणं भवत्वित्यत आह प्रतिवादिनो विज्ञातस्येति। प्रतिवादिनो मम मतमिति सम्बन्धः। तच्चाऽत्मन्यनिर्वचनीयेऽप्यस्तीत्यतिव्याप्तमिति शेषः।
॥ अख्यातिअन्यथाख्यातिआत्मख्यातिअसत्ख्यातिअनर्वचनीयख्याति
रूपपञ्चाख्यातिवादनिराकरणम॥
अत्रान्यथाविज्ञानमेव भ्रान्तिः तत्प्रसञ्जितान्यथाकारलोडनं सम्यग् विज्ञानमेव बाध इत्यवधारयता मतान्तराणि निरस्तानि वेदितव्यानि। हिशब्देन तत्र प्रमाणप्रसिद्धिं सूचयति।
॥ अख्यातिवादिना प्रभाकरेण परिणामवादिभास्करोक्तान्यथाख्यातिलक्षणनिरासः॥
इह खलु केचिद् यथार्थमेव सर्वविज्ञानमिति मन्यमाना नान्यथाख्यातिं सहन्ते। तथाहि केयमन्यथाख्यातिर्नाम? यदि तावदन्यथापरिणते वस्तुनि ख्यातिरन्यथाख्यातिः, तदा घटादिप्रत्ययाः सर्वेऽप्यन्यथाख्यातित्वाद् विभ्रमाः प्रसज्येरन्।
किञ्च शुक्तिकायाः रजताकारपरिणामः किं सकारणः, उताकारणः? न तावदकारणः। कादाचित्कत्वानुपपत्तेः। आद्ये कारणं वाच्यम्। करणदोष इति चेत्, न। तस्य करणसम्बन्धिनः शुक्तिकापरिणामहेतुत्वानुपपत्तेः। अन्यथा तदैव सकलार्थानां रजतरूपपरिणामप्रसङ्गात्।
दुष्टकरणसंसर्गो हेतुरिति चेत्, तथाऽपि किं शुक्तित्वापगमेन रजतरूपपरिणामः, किंवा तदनपगमेन? आद्ये पुरुषान्तरेणापि तदा शुक्तित्वं न प्रत्येतव्यम्। द्वितीये भ्रान्तेनापि तत् प्रत्येतव्यम्। किञ्च शुक्तित्वापगमे बाधेऽपि न तद् भायात्।
अथ पुनः शुक्त्याकारेण रजतं परिणतमिति चेत्, न। करणदोषस्य कारणस्याभावात्। बाधोऽप्येवं सति भ्रमः स्यात्। अपिचैतत् समस्तप्रतिपत्तृसाधारणमपि कुतो न भवेत्? यत्करणपरिणतं तेनैव गृह्यत इति चेत्, न। घटादेरपि कुलालादिमात्रवेद्यतापातात्। सुखादिवदिति चेत्, न। बाह्यान्तरत्वेन विशेषात्। अन्यथोक्तातिप्रसङ्गानिस्तारात्।
किञ्च दोषवशाद् रजताकारेण परिणता चेच्छुक्तिः, तदा दोषापगमेऽपि तथैव कथं नावतिष्ठते। नहि निमित्तकारणनाशात् कार्यनाशो दृष्टः। कमलकुमलविकासनिमित्तसावित्रतेजोऽपगमस्य विकासनिवृत्तिहेतुता दृष्टेति चेन्मैवम्। दलविभागो हि विकासो नाम। स च क्षणिकत्वात् सत्येव सावित्रतेजसि निवृत्तः। संयोगप्रध्वंसस्तु न कदाऽपि निवर्तते। पुनः संयोगलक्षणो मुकुलीभावस्तु शीतादिनोदनजन्य एव। स्थायित्वेऽपि विभागस्यान्यदेव तन्नाशे निमित्तमिति यत्किञ्चिदेतत्। परत्वादिवत् स्यादिति चेत्, न। विप्रतिपत्तेः।
किञ्चोत्पन्नं चेद् रजतं विनष्टम्, तदा तथैव प्रतीतिः स्यात्। न पुनर्नेदं रजतमिति बाधबुद्धिः। एतेन दुष्टकरणजन्याद् विज्ञानाद् रजतजन्मेत्यपि परास्तम्। का चैवंसति दोषवाचोयुक्तिः? नहि मृदो घटाकारपरिणामस्य निमित्तं दण्डचक्रादिकं दोषत्वेन मन्यन्ते।
किञ्च यस्याः प्रतीतेस्तदालम्बनं तत एव तज्जन्म, किंवा प्रतीत्यन्तरात्? नाऽद्यः, परस्पराश्रयप्रसङ्गात्। उत्पन्ने हि रजते तदालम्बनायाः प्रतीतेर्जन्म, तस्यां जातायां रजतोत्पत्तिरिति। न खलु निरालम्बना प्रतीतिरुत्पद्यते।
द्वितीयेऽपि किं तत् प्रतीत्यन्तरं शुक्तिकालम्बनम्, उत शुक्तिकारजतान्तरालम्बनम्, अथवाऽर्थान्तरालम्बनम्? नाऽद्यः, सर्वत्र शुक्तिप्रतीत्यनन्तरं रजतोत्पादप्रसङ्गात्। शुक्तिरजतप्रतीतेः प्राक् शुक्तिरिति प्रतीतिनियमाभावाच्च। दुष्टकरणालोचितशुक्तिसाधारणाकारप्रतीते रजतजन्मेति चेत्, न। साधारणाकारमात्रदर्शनानन्तरं रजतप्रतीतिनियमाभावात्। कारणवैकल्यं तत्र कल्प्यत इति चेत्, स्यादेतदेवम्। यदि रजतजन्म प्रमितं स्यात्। प्रतीतिं तु प्रकारान्तरेणोपपादयिष्यामः। न द्वितीयः, पूर्वरजतस्यापि तदेव कारणमिति रजतप्रतीतिप्रवाहविच्छेदप्रसङ्गात्। न तृतीयः, अतिप्रसङ्गात्। तदेवं भ्रान्तिबाधयोरनुपपत्तेर्न परिणामपक्षो युक्तः।
॥ प्रभाकरेण नैयायिकोक्तान्यथाख्यातिलक्षणनिरासः॥
नापि वस्तुनो वस्त्वन्तरात्मनाऽवभासोऽन्यथाख्यातिरिति युक्तम्। तथाहि किं वस्तुनो वस्त्वन्तरात्मता सती, उतासती? आद्ये न भ्रान्तिर्नापि बाधः। सर्वेषां च सर्वं सर्वात्मना प्रतीयेत। नहि दोषः करणसंस्कारः। तथासत्यदुष्टकरणेन न किञ्चिदुपलभ्येत। किञ्चैवंसति रजतसंवित्समीचीना शुक्तिरेवेयमिति चासमीचीनेत्यापद्येत। न द्वितीयः, असतः प्रतीत्यनुपपत्तेः। उपपत्तौ वा किं रजतस्यापि वस्तुत्वग्रहणेन?
॥ ताकिकैकदेशिविज्ञानवाद्युक्तान्यथाख्यातिलक्षणनिरासः॥
एतेनासम्बद्धविशेषणविशिष्टप्रतीतिरन्यथाख्यातिरिति निरस्तम्। असतो विशेषणसम्बन्धस्य प्रतीत्यनुपपत्तेः। उपपत्तौ वा किमसत्ख्यातिवादिभिरपराद्धम्?
अथ ब्रूषेऽन्याकारं ज्ञानमन्यथाख्यातिरिति। तदसत्। समीचीनज्ञानस्याप्यान्तरबाह्यत्वादिनाऽर्थविलक्षणाकारत्वेन विभ्रमत्वापत्तेः।
॥ नैयायिकसिद्धान्तिसाधारणान्यथाख्यातिलक्षणदूषणम्॥
अन्याकारोल्लेखिज्ञानमन्यालम्बनमन्यथाख्यातिरिति तु विरुद्धम्। तथाहि न तावत् सदसद्भावमात्रेणाऽलम्बनं सद्भावमात्रस्य सर्ववस्तुप्रत्ययसाधारण्येन सर्वप्रत्ययानां सर्वाथाऽलम्बनत्वापत्तेः। सर्वसर्वज्ञता चैवंसति स्यात्। अतीतादिविषयस्य निरालम्बनतापातश्च।
एतेन पुरोदेशे सद्भावेनाऽलम्बनत्वमपि प्रत्युक्तम्। नच कारणत्वेनाऽलम्बनम्। रूपादिज्ञानस्य चक्षुराद्यपि कारणमिति तदालम्बनत्वप्रसङ्गात्। अतीतानागतविषयत्वं च ज्ञानस्य न स्यात्। अतीतानागतयोरसत्त्वेन कारणत्वानुपपत्तेः।
॥ विषयत्वलक्षणदूषणम्॥
एतेन विषयतया कारणत्वमित्यपि निरस्तम्। आत्माश्रयत्वं चैवंसति स्यात्। विषयत्वस्यैव निरूप्यमाणत्वात्। किञ्चैवं विषयत्वमित्येवास्तु। किं कारणतया व्यर्थयाऽनर्थजनन्या?
किं चेदं विषयत्वम्? येन यस्यातिशय उत्पद्यते स तस्य विषय इति चेत्, अतिशयो हि ज्ञातता वा स्यात्, व्यवहारो वा? नाऽद्यः, अनभ्युपगमात्। अभ्युपगमेऽप्यतीतादिज्ञानस्य निर्विषयत्वापातात्। नह्यसति धर्मिणि धर्मोत्पादो युज्यते। न द्वितीयः, अतदर्थिनो व्यवहारानुत्पत्तावविषयत्वापत्तेः। व्याघ्र्चोरादिज्ञानानन्तरमादीयमानस्य दण्डादेरपि तद्विषयत्वप्रसक्तेश्च। यद् विज्ञानं यदाकारं तत् तदालम्बनमिति तु तथागतमतमनुधावति।
॥ सिद्धान्त्यभिमतविषयत्वलक्षणदूषणम्॥
यत्सन्निकृष्टेन यज्ज्ञानं जन्यते तत् तद्विषयमित्यपि न। रूपादिज्ञानस्याऽकाशादिविषयतापातात्। नहि रूपादिज्ञानमुत्पादयच्चक्षुराकाशादिना न सन्निकृष्यत इति युज्यते। प्रत्यभिज्ञा च तत्ताऽसन्निकृष्टकरणजन्या न तद्विषया स्यात्। नच वाक्यं वाक्यार्थेन सन्निकृष्यते। येन तज्जनितज्ञानस्य वाक्यार्थो विषयः स्यात्। आकाशादिविषयतैवं चाऽपद्येत। लिङ्गज्ञानाच्चाऽत्मसन्निकृष्टाज्जायमानं लिङ्गिज्ञानमात्मविषयमापद्येत।
॥ प्रभाकरेण विषयत्वलक्षणाभिधानम्, तत्समर्थनं च॥
तस्माद् यज्ज्ञानं यत्प्रतिभासं तदेव तस्याऽलम्बनमिति मन्तव्यम्। तत्र रजतज्ञाने शुक्तिरवभासते, नवेति वक्तव्यम्। अवभासत इति ब्रुवाणः श्र्लाघनीयप्रज्ञो देवानांप्रियः। यदि संविदि बहुमानवान् नेति ब्रूयात्, तदा कथं तच्छुक्तिकालम्बनं स्यात्? किञ्च रजतमवभासते शुक्तिकालम्बनं चेदतिप्रसङ्गः कथं परिहरणीयः?
ननु रजतावभासस्य रजतविषयकत्वे तेन रजतेन भवितव्यम्। कथं न भवितव्यम्? नहि सम्प्रतिपन्नसमीचीनरजतस्वीकारेऽपि निमित्तमस्त्यन्यद् रजतावभासात्। नह्यन्यतररजतप्रतिभासपक्षपाते कारणमस्ति। नास्त्यत्र रजतमित्यपि प्रतिभासोऽस्तीति चेत्, सत्यम्। प्रतिभाससामर्थ्याद् रजताभावोऽप्यङ्गीकृत एव पुरतः। प्रतीत्योर्विरोधः स्यादिति चेत्, न। यथा न विरोधः, तथा वक्ष्यमाणत्वात्।
॥ इन्द्रियाणां अन्यथाख्यातिजनकत्वनिरासः॥
नचान्यथाख्यातिजनने कारणं पश्यामः। नच चक्षुरादिकमेव कारणम्। तस्य समीचीनज्ञानकरणतावधारणात्। न खलु जरामरणविध्वंसहेतुर्जातु सुधा तद्धेतुरपि भवति। कारणैक्ये कार्यभेदस्य आकस्मिकत्वप्रसङ्गात्। नचादृष्टभेदात् कार्यभेदः। तस्य कार्यभेदनिश्चयोत्तरकालं निश्चेयत्वात्। कार्यभेदस्य च विप्रतिपन्नत्वात्।
दोषसहकृतादिन्द्रियादेवान्यथाज्ञानजननमित्यप्यसत्। दोषा हि कारणानामौत्सर्गिककार्यजननसामर्थ्यं निघ्नन्ति। नतु विपरीतकार्यजननसामर्थ्यमादधति। न खलु दुष्टं कुटजबीजं वटं जनयति। किन्नाम। न जनयत्येव कुटजाङ्कुरम्। नच वक्तव्यं दावदहनदग्धवेत्रबीजानां कदलीकाण्डजननसामर्थ्यमुपलब्धमिति। पाकेन द्रव्यान्तरोत्पत्तेस्तेषामबीजत्वात्।
॥ एकस्य ज्ञानस्य विषयव्यभिचारित्वाङ्गीकारे ज्ञानमात्रानाश्र्वासप्रसङ्गः॥
किञ्च प्रदर्शिताकारव्यभिचारे प्रत्ययस्य सर्वत्र व्यभिचारशङ्का दुर्वारा स्यात्। तथाच कथं बाह्यार्थनिह्नवं निराकुर्मः। तथाहि ज्ञानमेव खलु सर्वत्र वस्तुव्यवस्थापकं नान्यत्। तच्चेत् क्वचिद् व्यभिचरति, तदा तत् सर्वत्र शङ्कितव्यभिचारमेव। नच तच्छङ्कापङ्कसङ्क्षालनक्षमं किञ्चिदन्यद् विज्ञानात्। तच्च सकलमपि शङ्काकलङ्कसङ्कोचितप्रभावं न प्रभवतीत्युक्तम्। ततश्च कुतो बाह्यार्थप्रत्याशा?
नच वाच्यं यथा घटादेः पार्थिवस्य वह्निव्यभिचारेऽपि न धूमस्यापि तद्व्यभिचारः शयते। एवमेकज्ञानस्यार्थव्यभिचारेऽपि न सर्वत्र व्यभिचारशङ्केति। वैषम्यात्। अस्ति हि तत्र पार्थिवत्वाविशेषेऽप्यव्यभिचारनिश्चयोपायो धूमत्वादिरेवावान्तरो विशेषः। नहि तत्र बाधकं किञ्चित्। तेनोपपद्यते तत्राऽश्र्वासः। प्रकृते तु न ज्ञानत्वावान्तरविशेषमनाश्र्वासनिरसनक्षममीक्षामहे। नच बाधकभावाभावरूपाद् विशेषाद् व्यवस्थेति वाच्यम्। बाधकस्यापि ज्ञानत्वेन शङ्कास्पदत्वात्। न खलु बाधकस्य किमपि शृङ्गमस्ति। बाधकाभावश्चानुपसञ्जातबाधभ्रमे समानः।
संवादकभावाभावाभ्यां विशेष इति चेत्, न। उक्तोत्तरत्वात्। संवादकमपि ज्ञानमेवेति तदपि कथं संशयास्पदं न स्यात्, तत्रापि संवादकान्तरान्वेषणेऽनवस्था कुतो न भवेत्? अङ्गीकृतश्च परेण धारावाहिकभ्रमेऽन्योन्यसंवादः। एतेन ज्ञानजन्यव्यवहारविसंवादाविसंवादलक्षणोऽपि विशेषः परास्तो वेदितव्यः। तद्विशेषग्राहिण्यपि विश्र्वासकारणाभावात्।
॥ अन्यथाख्यातिपक्षे ज्ञानस्य साकारताप्रसङ्गः॥
अपिच प्रतीयमानोऽयं रजताकारः कुतस्त्य इति वक्तव्यम्। न तावत् पुरोवर्तिनिष्ठ इतीष्टमन्यथाख्यातिवादिनाम्। बाधविरोधश्च तथासति स्यात्। नापि देशान्तरवर्तीति वक्ष्यामः। ततश्च ज्ञानस्थ एवायमित्यापातितम्। तथाच जितं साकारविज्ञानवादिभिर्बौद्धैः।
॥ प्रभाकरेण इदं रजतमित्यस्य ग्रहणस्मरणात्मकज्ञानद्वित्वव्युत्पादनम्॥
ननुतर्हि “इदं रजतम्’ इत्यादिप्रत्ययस्य का गतिः? उच्यते रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे। तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम्। दोषवशात् तद्गतस्य शुक्तित्वसामान्यविशेषस्याग्रहणात्। तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजतस्मृतिं जनयति। सा च गृहीतग्रहणस्वभावाऽपि दोषवशाद् गृहीततत्तांशप्रमोषेण गृहीतिसरूपाऽवतिष्ठते। तथाच रजतस्मृतेः पुरोवृत्तिग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहणात् सन्निहितरजतज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः। कुत एतदिति चेत्, न। अन्यथानुपपत्तेरुक्तत्वात्।
॥ परिशेषप्रमाणेन रजतज्ञानस्य स्मृतित्वसमर्थनम्॥
किञ्चेदमिति पुरोवर्तिनयनसम्प्रयोगजं ज्ञानमनुभव इत्यविवादम्। रजतज्ञानं च न तावदिन्द्रियजम्। इन्द्रियस्य सन्निकृष्टार्थ एव ज्ञानजननसामर्थ्यात्। अन्यथा सर्वसार्वज्ञ्यप्रसङ्गात्। नच विप्रकृष्टेन रजतेन सन्निकर्षोऽस्ति। तत्कार्यस्य साक्षात्कारस्य कदाऽप्यदर्शनात्। नच शुक्तिशकलसन्निकर्षादेवेन्द्रियं रजतज्ञानमुत्पादयतीति साम्प्रतम्, अतिप्रसङ्गात्।
नच दोषसदसद्भावाभ्यां व्यवस्था। दोषाणां विपरीतकार्यकारिताया निरस्तत्वात्। भस्मकदोषदूषितस्य जाठरजातवेदसो बहुतराहारपरिणतिहेतुतोलभ्यत इति चेत्, न। विप्रतिपत्तेः। दोषस्यैव आहारविकारहेतुतोपपत्तेः। नच दहनकार्यं कथं दोषः करोतीति वाच्यम्। कार्येऽपि वैजात्योपलम्भात्। जाठराग्न्पिरिणता हि रसाः शरीरोपचयहेतवो न भस्मकपरिणतास्तथा। तस्मान्नेदमिन्द्रियजम्। नच लिङ्गाद्यनुसन्धानविधुराणामपि जायमानमनुमानादिप्रभवमिति वक्तुं शक्यते। अतः प्रत्युत्पन्नकरणाभावेऽप्युत्पद्यमानेनानेन परिशेषात् स्मरणेनैव भवितव्यम्।
॥ रजतज्ञानस्य स्मृतित्वसाधकानुमानोपन्यासः, तत्समर्थनं च॥
किञ्चेदं स्मरणम्, अनाकिलतरजतस्यानुत्पद्यमानत्वात्; सम्प्रतिपन्नस्मरणवत्। नचेदमस्मरणम्, तत्तांशविकलत्वात्; सम्प्रतिपन्नवदिति युक्तम्। पदात् पदार्थस्मृतौ हरिहरादिस्मृतौ च व्यभिचारात्। किञ्चानुभूतं तावन्न समस्तं स्मर्यते। तत्तांशश्चातीतदेशकालसम्बन्धः स्मर्यमाणधर्मः। तथाच स्मरणं च भवतु। भवतु दोषवशात् प्रमुषिततत्तांशम्। नच विपक्षे बाधकं किञ्चिदित्यप्रयोजको हेतुः।
नच नेयं स्मृतिरिन्द्रियजन्यत्वात्। तच्चेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वादिति वाच्यम्। स्मृतिबीजसंस्कारोद्बोधहेतुपुरोवर्तिसाधारणाकारग्रहण एवेन्द्रियव्यापारान्वयव्यतिरेकयोरुपक्षीणत्वात्। नन्वेवंसति अनास्वादिततिक्तस्य शिशोस्तिक्तस्मरणानुपपत्तेः कथं तिक्तो गुड इति प्रत्यय इति चेत्, न। जन्मान्तरानुभूतत्वात्। अदृष्टवशाच्च कस्यचिदेव स्मरणमुपपद्यते।
॥ विवेकासंसर्गाग्रहयोः प्रवृत्तिकारणत्वप्रतिपादनम्॥
अथवा नायं नियमो ग्रहणस्मरणे एवागृहीतविवेके व्यवहारादिप्रवर्तके इति। किन्तु क्वचिद् ग्रहणे एव मिथोऽगृहीतभेदे। यथा पीतः शङ्ख इति। अत्रहि विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य पीतत्वं दोषवशाद् द्रव्यरहितं गृह्यते। शङ्खोऽपि गुणहीनः स्वरूपमात्रेण गृह्यते। तदनयोर्गुणगुणिनोरितरेतरापेक्षिणोरसंसर्गाग्रहात् सारूप्यात् पीतचिरबिल्वादिफलप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च भवतः। यत्तु कज्जलकालिमाऽग्रहणं तत् तिर्यगवस्थानात्। अस्वच्छतया नयनरश्मिप्रतिबन्धकत्वाच्च। पित्तं तु आर्जवावस्थितं काचमिव स्वच्छं न प्रतिबन्धकमिति विशेषः। एवं तिक्तो गुड इति व्यवहारोऽपि। क्वचित् पुनः स्मरणे एवागृहीतविवेके। यथा स घटस्तत्राऽसीदिति। अनयैव दिशाऽलातचक्रादिव्यवहाराः सर्वेऽपि निर्वाह्याः।
॥ अन्यथाख्यातिपक्षे कल्पनागौरवप्रसङ्गः॥
किञ्च विपर्ययमङ्गीकुर्वाणेनापि विवेकाग्रहो ग्राह्य एव। नहि विवेकग्रहे विपर्ययावकाशोऽस्ति। विरोधात्। अन्यथा विपर्ययनिवृत्त्यनुपपत्तेः। तथाच तत एव सर्वस्योपपत्तौ किं विपर्ययकल्पनया?
॥ अन्यथाख्यातौ प्रमाणाभावमभिधाय “इदं रजतम्’ इत्यस्य याथार्थ्यव्युत्पादनम्॥
नचान्यथाख्यातौ किमपि प्रमाणमस्ति। भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधनेनैव नेदमिति विवेकज्ञानस्य बाधकत्वमप्युपपद्यते। तदुपपत्तौ चागृहीतविवेकस्य ज्ञानद्वयस्य भ्रान्तित्वमपि लोकसिद्धं सिद्धम्। तथाच प्रयोगः विगीतप्रत्ययो यथार्थः, प्रत्ययत्वात्; सम्प्रतिपन्नवत्।
नन्वत्र विगीतप्रत्ययो नाम किं पुरोवर्तिनिर्विकल्पकज्ञानम्, उत सदृशदर्शनोत्थं रजतस्मरणम्, किंवोभयम्, आहोस्विद् रजतपुरोवर्त्येकताज्ञानम्, आहोस्वित् प्रमुषितभेदं वेदनद्वयम्? तत्राऽद्यपक्षत्रये सिद्धसाधनता। चतुर्थे वाद्याश्रयासिद्धत्वम्, अपसिद्धान्तः, व्याघातश्च। पञ्चमे प्रतिवाद्याश्रयासिद्धतेति चेत्, मैवम्। अस्ति तावत् पुरोवर्तिनिर्विकल्पकज्ञानम्। अस्ति च सदृशपुरोवर्तिदर्शनजनिता रजतस्मृतिः। तथाऽस्त्येव च तत्समुत्थं सविकल्पकमिदमिति वेदनात् सविवादभेदाभेदं रजतवेदनम्। तत्र विप्रतिपन्नौ भेदाभेदौ विहायेदं रजतमित्यवगममात्रमिदं रजतमित्यादिसामानाधिकरण्यव्यवहारकारणं पक्षत्वेन विवक्षितं चेत्, को विरोधः? नहि विप्रतिपन्नाकारेणैव पक्षीकारः क्वचित्। मा हि भून्नित्यानित्याग्न्मिदनग्न्मिच्छब्दपर्वतपक्षीकारे प्रकृतदोषानुषङ्गाद् भङ्गोऽनुमानमुद्रायाः।
किञ्च सिद्धस्यैव पक्षीकरणम्। विमताकारस्यापि सिद्धत्वे किं साध्येत? विमतौ च भेदाभेदौ विभ्रमगोचरविवादावसरे। भेदे हि वेदनयोरिदं वेदनं पुरोवर्तिमात्रगोचरं न रजतवार्तां वेत्ति। रजतवेदनमपि रजतमात्रग्राहि नेदमिति पुरोवर्तिनमनूद्य तस्यैव रजततामिदं रजतमिति विदधाति। किन्तु रजतमित्येव यस्यकस्यचिद् रजतत्वमनुसन्धत्ते। तच्च न प्रमाणविरुद्धमिति क्वान्यथाख्यातिः? अतः तद्वादिभिरभेद एव वक्तव्यः, अपाकर्तव्यश्चाख्यातिवादिभिरित्यस्त्येव विप्रतिपत्तिः। ततो विप्रतिपन्नाकारं परित्यज्येदं रजतमित्यवगममात्रपक्षीकारे न कश्चिद् दोषः। कथमन्यथा ख्यातिवादीदं रजतमिति ज्ञानस्य पुोरवर्तिविषयत्वसाधनाय साधनमुपन्यस्यन्नितो दोषाद् विमुच्येत?
अथ रजतार्थिनः शुक्तिकायां प्रवृत्तौ हेतुभूतं ज्ञानं मया पक्षीक्रियत इति चेत्, मोच्चैर्वोचः। परोऽपि श्रोष्यति। ईश्वरज्ञानेन सिद्धसाधनता स्यादिति चेत्, तवापि बाधः कथं न स्यात्? प्रकृतप्रवृत्तिहेतुरनीश्वरज्ञानं पक्षीक्रियत इति चेत्, ममापि तथैव स्यात्। त्वयेश्वरानभ्युपगमाद् व्यर्थं विशेषणमिति चेत्, तर्हि मां प्रति तवापि कथं न व्यर्थम्? तथाऽपि व्याप्तिज्ञाने सिद्धसाधनतेति चेत्, तत्रैव तव बाधप्रसङ्गः। इदं ज्ञानादगृहीतविवेकं रजतज्ञानमिति विप्रतिपत्तिविषयमुद्घाटयामीति चेत्, सममेतन्ममापि।
॥ रजतज्ञानस्य रजतविषयत्वमुपपाद्य अन्यथाख्यातिनिराकरणम्॥
किञ्च विवादाध्यासितं रजतज्ञानं रजतविषयम्, रजतज्ञानत्वात्; सम्मतवत्। अत्रापि पूर्ववद् विमतिविषयो विवेचनीयः। स्यादेतत्। किमिदं रजतज्ञानं नाम? रजतस्य ज्ञानं रजतज्ञानम्, रजतं च तज्ज्ञानं चेति वा, रजतशब्दोल्लेखिज्ञानं वा, रजतार्थिनः प्रवृत्तिहेतुज्ञानं वा, रजतमिति ज्ञानं वा? न प्रथमः, षष्ठ्यर्थस्य विषयविषयिभावव्यतिरेकेणासम्भवात् साध्याविशिष्टत्वात्। न द्वितीयः, उभयासिद्धेः। ज्ञानस्य निराकारत्वात्। न तृतीयः, उल्लेखार्थस्य विषयत्वेऽसिद्धेः। तज्ज्ञानजनितस्मृतिमात्रयोनित्वे पूर्वपदमात्रज्ञानेनापि रजतपदस्य स्मरणसम्भवेन व्यभिचारात्। न चतुर्थः, विवेकाग्रहवादिनामिदमिति ज्ञानस्यापि शुक्तिकालम्बनस्य तद्धेतुत्वेन व्यभिचारात्। न पञ्चमः, पूर्वोक्तपक्षाबहिर्भावादिति।
मैवम्। अन्यथाख्यातिवादिना किं शुक्तिकाज्ञानं शुक्तिविषयमन्यथाख्यातिरुच्यते, उत रजतज्ञानं शुक्तिविषयम्। आद्ये न नो विवादः, यथार्थख्यातित्वात्। द्वितीये रजतज्ञानशब्देन योऽर्थः परेण विवक्ष्यते स एवास्माकं हेतुर्भविष्यति। तथाहि न तावदाद्यः कल्पः परेणाङ्गीकर्तुमुचितः। व्याघातप्रसङ्गात्। शुक्तिरजतयोरभेदप्रसङ्गाच्च। न द्वितीयः, अनभ्युपगमात्। न तृतीयः, कदाचिच्छुक्तिकाज्ञानस्याप्यन्यथासङ्केतितरजतशब्दस्मृतिहेतुत्वसम्भवेनान्यथाख्यातित्वप्रसङ्गात्। नापि चतुर्थः, यत्र शुक्तिका तदधस्ताद् रजतमस्तीति वाक्यं श्रुतवतः शुक्तिज्ञानमपि रजतार्थिप्रवृत्तिहेतुर्भवतीति तस्याप्यन्यथाख्यातितापातात्। नापि पञ्चमः, प्रागुक्तपक्षाबहिर्भावात्। अतो रजतज्ञानं नामोक्तपक्षेषु किञ्चिदङ्गीकृत्य तद्दोषो वा परिहरणीयः, पक्षान्तरं वोत्प्रेक्षणीयम्। तत्त्वमेव मया हेतूकरिष्यत इति यत्किञ्चिदेतत्।
केचित् पुना रजतविषयं ज्ञानमित्येव हेत्वर्थमुपगम्य रजतेतराविषयत्वं साध्यमङ्गीकृत्य साध्याविशिष्टतादोषं परिहरन्ति। तदसत्। रजतघटाविति ज्ञाने व्यभिचारात्। अन्यतरासिद्धेश्च। तस्मादुक्त एव परिहारः।
॥ ज्ञानमात्रस्य याथार्थ्यादिसाधकानुमानोपन्यासः॥
अपिच ज्ञानत्वं यथार्थमात्रवृत्ति, ज्ञानमात्रवृत्तित्वात्; प्रमात्ववत्। शुक्तिका न रजतत्वेनावभासते, तद्रूपेणासत्त्वात्। यद् यद्रूपेणासत् तत् तद्रूपेण नावभासते, यथा मेरुः सर्षपत्वेन। इदं रजततादात्म्यं न प्रत्येतुं शक्यम्, असत्त्वात्; कूर्मरोमवत्। तस्मादख्यातिपक्ष एव श्रेयानिति।
॥ सिद्धान्तरीत्या अन्यथाख्यातिलक्षणाभिधानम्, प्रभाकरोक्ताख्यातिपक्षनिरासश्च॥
अत्रोच्यते यत्तावदन्यथाख्यातिलक्षणं निराकृतमन्याकारोल्लेखीत्यन्तेन तदिष्टमेवास्माकम्। अन्यदन्यात्मना विषयीकुर्वज्ज्ञानमन्यथाख्यातिरित्यङ्गीकारात्। यथोक्तम् “असतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वात्” इति।
नन्वन्यस्यान्यात्मता सती, उतासती? असतीति ब्रूमः। असतो न प्रतीतिरिति चेत्, न। तस्या उपपादयिष्यमाणत्वात्। (१०१) एवंसति रजतस्यापि कुतः सत्त्वमङ्गीकरणीयमिति चेत्, न। को हि ब्रूते रजतं सदिति? वक्ष्यामो ह्यभिनवान्यथाख्यातिस्वरूपमुपरिष्टात्। (९५)
॥ अविद्यमानतादात्म्यावगाहिज्ञानस्य भ्रमत्वे विवरणकृदुक्तदूषणनिरासः॥
अत्र केनचित् प्रलपितम् “खण्डो गौः, शुक्लः पट इत्यादयः सर्व एव सविकल्पकप्रत्यया विभ्रमाः प्रसज्येरन्। सामानाधिकरण्यप्रत्ययस्य तादात्म्यालम्बनत्वात्। तस्य चात्राभावात्” इति।
तदतीव मन्दम्। तथाहि सामानाधिकरण्यप्रत्ययो हि कयोस्तादात्म्यमवलम्बते? किं गुणक्रियाजात्यादेः द्रव्येण, उत गुणादीनामेव परस्परम्, अथ गुणाश्रयस्य क्रियाश्रयेणेत्यादि। नाऽद्यः, असम्मतेः। नहि शुक्लः पट इत्यस्य शौक्ल्यं पट इत्यर्थोऽभिमतो लौकिकानाम्। नच चलति पट इत्यस्य चलनं पट इत्यर्थोऽभिमतः। नापि खण्डो गौरित्येतत् खण्डत्वं गोत्वं च पिण्ड एवेत्यनेन समानार्थम्। तथात्वे दण्डी देवदत्त इत्यस्यापि दण्डदेवदत्ततादात्म्यविषयतापत्तेः। दण्डीति शाब्दव्यवहारे भेदार्थप्रत्ययप्रयोगाज्ज्ञानमपि तादृशं कल्प्यत इति चेत्, सममत्रापि। शुक्लगुणोऽस्यास्तीत्यस्मिन्नर्थे “अर्शआदिभ्योऽच्” इत्यकारप्रत्ययविधानात्। चलतीत्यादौ तु स्फुट एव प्रकृतिप्रत्यययोरर्थभेदः। नहि गौरिति गोत्वमुच्यते तथात्वे त्वप्रत्ययवैयर्थ्यात्। अत एव शुक्लः पट इत्युक्त्वा शौक्ल्यं पटस्येति व्याकर्तारो भवन्ति।
अत एव न द्वितीयः, नहि शुक्लः पटश्चलतीत्यस्य शौक्ल्यं पटत्वं चलनं चैकमित्यर्थश्चेतसि चकास्ति प्रतिपत्तॄणाम्। तथासति “दण्डी कुण्डली देवदत्तः” इत्यस्यापि ज्ञानस्य दण्डकुण्डलदेवदत्तत्वतादात्म्यविषयतापातात्।
तृतीयस्तु स्यादेव। समानमेकमधिकरणं येषां ते हि समानाधिकरणाः, तेषां भावः सामानाधिकरण्यम्। तथाच गुणादीनामाश्रयेण परस्परं च भेदः, आश्रयाणां चाभेदः स्फुट एव। नहि स्वयमेव स्वस्याधिकरणम्। नापि समानमधिकरणं येषामिति परस्पराभेदे युज्यते। नचाऽश्रयभेदे तस्य समानताऽस्ति। नच गुणाद्याश्रयस्य भेदे प्रमाणमस्ति। विशिष्टयोर्भेदेऽपि न तद् गुणाद्याश्रयः। किन्तु गुणाद्याश्रयाश्रितं वस्त्वन्तरं तत्। एवञ्च यत्र भेदो न तदभेदेन प्रतिभासते, यच्चाभेदेन प्रतिभासते न तत्र भेद इति क्वातिव्याप्तिः?
ननु गुणादीनामाश्रयेण परस्परं चाभेदो भगवतो मुनेः सिद्धान्तः। क्वचिद् भेदाभेदौ च। सामानाधिकरण्यप्रतीतिस्तु भेदनिष्ठैव व्याख्याता। तथाच पुनः शुक्लः पट इत्यादिप्रत्यया विभ्रमाः प्रसक्ताः। मैवम्। सविशेषत्वाङ्गीकारात्। विशदं चैतद् विशेषनिरूपणे व्युत्पादयिष्यामः। (१९५,७०४)
॥ अस्मदभिमतविषयत्वलक्षणस्य प्रभाकरोक्तदूषणानां निराकरणम्॥
यत् पुनरन्याकारोल्लेखीत्यादिनाऽस्मदभिमतान्यथाख्यातेरनुभवविरोधं प्रतिज्ञाय तदुपपादनाय यत्सन्निकृष्टकरणेनेत्यन्तेनाऽलम्बनलक्षणनिराकरणं कृतं तदनुमतमेवास्माकम्। यद्विज्ञानं यत्सन्निकृष्टकरणेन जन्यते स तस्य विषय इत्यङ्गीकारात्।
नन्वत्रापि दोषोऽभिहित इति चेत्, न। सन्निकर्षस्यापि कारणतया विवक्षितत्वेन तस्यासम्बद्धत्वात्। नहि चक्षुरादेराकाशादिसन्निकर्षो रूपादिज्ञानकारणम्, नापि वाक्यस्याऽकाशादिसन्निकर्षो वाक्यार्थज्ञाने हेतुः, नच लिङ्गज्ञानस्याऽत्मना सन्निकर्षो लिङ्गिज्ञाननिमित्तम्। किन्नाम। अवर्जनीयसन्निधयस्ते सन्निकर्षाः। लिङ्गस्य साध्यधर्मिसन्निकर्षो लिङ्गिज्ञानकारणमिति चेत्, न। लिङ्गज्ञानस्य करणतयाऽभ्युपगमात्।
अनेनैव वाक्यस्य श्रोतृश्रोत्रसन्निकर्षाश्रयेण दूषणं परास्तम्। वाक्यज्ञानस्यैव करणत्वाङ्गीकारात्। तथाऽपि प्रत्यभिज्ञायां तत्तांशेन चक्षुरादेः, लिङ्गिना च लिङ्गज्ञानस्य, वाक्यार्थेन वाक्यज्ञानस्य सन्निकर्षाभावादविषयतापत्तिरिति चेत्, न। असन्निकृष्टज्ञापनेऽतिप्रसङ्गात्। तदनुभवजनितसंस्कारसहकृतेन्द्रियेण प्रत्यभिज्ञा जायते, तद्व्याप्तिलिङ्गविषयेण च लिङ्गज्ञानेन लिङ्गिज्ञानमुत्पद्यते, संसर्गधर्मकपदार्थवाचिपदसमुदायरूपवाक्यविषयज्ञानेन वाक्यार्थज्ञानं जन्यते; अतो नातिप्रसङ्ग इति चेत्, तर्ह्यभ्युपगतः सन्निकर्षः। नहि संयोगादिरेव सन्निकर्षः। किन्नाम। प्रत्यासत्तिमात्रम्।
तथाऽपि रूपप्रतीतेरात्मा विषयः प्रसज्येत। तत्र मनसः करणत्वात्। आत्ममनःसन्निकर्षस्यापि रूपज्ञानं प्रति कारणत्वादिति चेत्, न। असाधारणकारणस्य विवक्षितत्वात्। मनसश्च साधारणत्वात्। तर्हि मनःसन्निकृष्टेन चक्षुषा जायमानं रूपज्ञानं मनोविषयमापन्नमिति चेत्, न। सन्निकर्षस्याप्यसाधारणकारणतया विवक्षितत्वात्। चक्षुर्मनःसन्निकर्षो हि द्रव्यादिज्ञानसाधारणः। एवमन्येऽपि क्षुद्रोपद्रवाः परिहरणीयाः।
॥ प्रभाकरोक्तविषयत्वलक्षणनिराकरणम्॥
तदेवं जन्यज्ञाने विषयत्वस्यान्यथा व्यवस्थितत्वाद् यज्ज्ञानं यत्प्रतिभासमित्यन्यथापरिभाषणमनुपपन्नम्। नचैवंसत्यनुभवविरोधः, रजतावभासस्य शुक्तिकासन्निकृष्टकरणजन्यत्वेन तद्विषयत्वोपपत्तेः। नचातिप्रसङ्गः, दोषजन्यत्वतदभावादिना व्यवस्थोपपत्तेः। अन्यथा रजतज्ञानादरजते प्रवृत्तावपि कथं नातिप्रसङ्गः? यत् पुना रजतावभासस्येत्याद्याशय समाधानमभिहितं तत् ज्ञानैकत्वसमर्थनेन निराकरिष्यामः। (अनुपदम्)
अस्तु वा यद् विज्ञानं यत्प्रतिभासं तत् तद्विषयमित्येव व्यवस्था। तथाऽपि नानुभवविरोधः। तत् किं रजतावभासस्य शुक्तित्वविषयतायामनुभवविरोधं ब्रूषे, उत इदन्त्वाकारस्य? आद्ये सम्प्रतिपत्तिः। नहि वयमस्मिन् प्रत्यये शुक्तित्वमवभासत इति ब्रूमो येन विरोधः स्यात्, शुक्तित्वप्रतिभासस्य रजतावभासविरोधित्वाभ्युपगमात्। द्वितीये तु न कश्चिद् विरोधः। विरोधे वा समीचीनरजत इदं रजतमिति प्रतीतिर्न स्यात्। इदमाकारस्य रजतप्रतिभासविषयतामनभ्युपगच्छत एव प्रतीतिविरोधं वक्ष्यामः।
एवंसति रजतस्यापि ज्ञानविषयता प्रसज्यत इति चेत्,; सत्यम्, इष्टमेवैतत्। नचैवमाख्यातिपक्षपातः, ज्ञानैक्याभ्युपगमात्। नापि “शुक्तिरजते” इति ज्ञानं विभ्रमः प्रसज्यते, रजतस्य असत्त्वाभ्युपगमात्, तादात्म्यावभासाभ्युपगमाच्च। अत एवोक्तमसतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरिति। वक्ष्यति च “विषयस्य कुतो बाधः” इत्यसतो रजततादात्म्ययोर्ज्ञानविषयतामाचार्यः।
॥ इन्द्रियाणामन्यथाख्यात्युत्पत्तिकारणत्वसमर्थनम्॥
नचान्यथाख्यातिजनने कारणाभावः, इन्द्रियादेरेव तत्कारणत्वात्, समीचीनज्ञानकारणस्यापि तस्य दोषकलुषितस्य विभ्रमहेतुत्वोपपत्तेः। नच दोषाणां स्वारसिकशक्तिविरोधितामात्रमिति वाच्यम्। तथासति समीचीनव्यवहारहेतोर्विज्ञानादयथार्थव्यवहारजन्मानुपपत्तिप्रसङ्गात्।
किञ्च सहकारिमात्रस्य विपरीतशक्त्यनाधायकत्वमङ्गीकर्तव्यम्, दोषाणामेव वा? आद्ये पशुहिंसा किं धर्मजनने स्वारसिकशक्तिमती, उताधर्मजनन इति वाच्यम्। आद्ये कथं क्रतुबाह्याऽपि धर्मं न जनयेत्? द्वितीये कथं क्रत्वन्तर्गताऽपि धर्मं जनयेत्? सहकारिवशादिति चेत्, अङ्गीकृतं तर्हि सहकारिणां स्वारसिकशक्तिप्रतिबन्धेन विपरीतशक्त्याधायकत्वम्। न द्वितीयः, नियामकाभावात्।
किञ्च काचादयोऽपि विपरीतज्ञानजनने सहकारिण एवाङ्गीक्रियन्ते। दोषत्वं त्विष्टकार्यविघातितामात्रेणोच्यते। कामुकस्य कामिनीविभ्रमेषु गुणत्वाभिमानात्। नचैवं भर्जिता कुटजधाना वटाङ्कुरं कुतो न जनयतीति वाच्यम्, पदार्थशक्तिवैचित्र्यात्। केचित् वस्त्वन्तरशक्तिमेव प्रतिबध्नन्ति, यथा भर्जनादयः। केचित् सहजशक्तिप्रतिबन्धेन विपरीतामपि शक्तिमादधाति; यथा विषस्य मारकत्वशक्तिं प्रतिबद्ध्याऽरोग्यादिशक्तिमादधानाः पदार्थाः। गुणा एव न ते दोषा इति चेत्, काचादयोऽपि गुणा एव न ते दोषा इत्युक्तमेव।
ननु जनकस्यैव साक्षात्कारिप्रत्ययविषयत्वं दृष्टम्। नच रजतस्येदन्तादात्म्यस्य वाऽसतो जनकत्वमस्ति। तत् कथं विषयत्वमिति। मैवम्। तथासतीश्वरज्ञानस्य नित्यस्यार्थो विषयो न स्यात्। प्रत्यभिज्ञानस्य च तत्तांशो विषयो न भवेत्। तन्निरूपकत्वादिमात्रेण विषयत्वाङ्गीकारे रजतादेरपि ज्ञाननिरूपकत्वेन विषयत्वोपपत्तेः। कथमसतो निरूपकत्वमिति चेत्, गुरूणां टीका कुरूणां क्षेत्रमितिवदुपपत्तेः। अतीतादिविषयानुमित्यादिव्यावर्तकत्वं च प्रमेयस्य न स्यात्। तत्र व्यावर्तकं कदाचिदस्ति रजतादिकं कदाऽपि नास्तीति वैषम्यमिति चेत्, तत् किं यदाकदाचित् सतः कारणत्वम्, पूर्वक्षणे सतो वा? नाऽद्यः, अतिप्रसङ्गात्। द्वितीये तु किमनेन? अथ नातीतादिरर्थः स्वसामर्थ्येन अनुमित्यादिकं व्यावर्तयति येन तत्सत्तापेक्षा स्यात्; किन्तु स्वहेतुसामर्थ्यादर्थव्यावृत्तं ज्ञानमुत्पद्यत इति चेत्, समं प्रकृतेऽपि।
किञ्च सत्यस्थलेऽपि न साक्षात् साक्षात्कारं प्रति कारणत्वमर्थस्य, किन्त्विन्द्रियसन्निकर्षस्यैव। स च यत्रासता नोपपद्यते तत्रार्थसत्तामपेक्षत इति पारम्पर्येणैवार्थस्य कारणत्वम्। ननुतर्ह्यसता रजतादिना सन्निकर्षायोगात् कथमिन्द्रियेण तज्ज्ञानजन्मेति चेत्, न। शुक्तिकासन्निकृष्टं दुष्टमिन्द्रियं तामेवात्यन्तासद्रजतात्मनाऽवगाहमानं ज्ञानं जनयतीत्यङ्गीकारात्। अत एव नासत्ख्यातिप्रसङ्गः। यावत् खलु विगीते प्रत्यये भासते तस्य सर्वस्यासत्त्वेऽसत्ख्यातिः स्यात्। नचैवमित्युक्तम्।
॥ “अन्यथाख्यात्यङ्गीकारे ज्ञानमात्रानाश्र्वासप्रसङ्गः’ इत्यस्य निराकरणम्॥
यच्चोक्तं विषयव्यभिचारे ज्ञानस्य सर्वत्रानाश्र्वास इति, तत्, औत्सर्गिकं ज्ञानानां प्रामाण्यमपवादाद् विपर्यय इति वदताऽऽचार्येणैव परिहरिष्यते। (१४७) साक्षी खलु चैतन्यरूपो नियतयाथार्थ्यः कदाचिदपि संशयानास्कन्दितोऽन्तःकरणवृत्तीनां याथार्थ्यं स्वयमेव गृह्णाति, परीक्षासहकृतस्त्वयाथार्थ्यमिति बादरायणीयं मतम्। अत एवानाश्र्वासनिरसनोपायो न ज्ञानेषु कश्चिद् विशेषोऽस्तीति निरस्तम्। अन्यथा परस्यापि कथं विषयव्यभिचारे व्यवहृतेर्व्यवहारान्तरे समाश्र्वासः स्यात्? तदभावे च कथं व्यवहारदर्शनेनान्वितार्थे व्युत्पत्तिः? क्वचिद् विवेकाग्रहे च कथमन्यत्र विशिष्टप्रत्यये विश्र्वासो भवेत्? तदभावे च कथं निःशङ्का प्रवृत्तिः? बाधकाभावादिना समाश्र्वासस्तु परोक्तरीत्यैव निरस्तः।
किञ्च प्रवृत्त्युत्तरकालीनो बाधकाभावः कथं निःशङ्कप्रवृत्तावुपयुज्यते। बाधकाभावादिना विशिष्टज्ञानस्वरूपनिश्चयमङ्गीकुर्वाणः कथं स्वप्रकाशविज्ञानवादं न जह्यात्? औत्सर्गिकी प्रवृत्तिरपवादान्निवृत्तिरिति चेत्, समं प्रकृतेऽपि।
॥ “अन्यथाख्यातिपक्षे ज्ञानस्य साकारताप्रसङ्गः’ इत्यस्य निराकरणम्॥
यदप्युक्तं विपरीतख्यातिपक्षे ज्ञानं साकारमापतेदिति। तदनुपपन्नम्। अत्यन्तासत एवाऽकारस्य स्फुरणाङ्गीकारात्। अन्यथा व्यवह्रियमाणस्याऽकारस्य बहिरभावाद् व्यवहारोऽपि तदाकारः प्रसज्येत।
॥ ज्ञानद्वित्वप्रक्रियानिरासः॥
या चेयं प्रक्रिया रजतमिदमित्यादिनोक्ता सा ज्ञानद्वित्वे रजतज्ञानस्य च स्मृतित्वे प्रमाणाभावादनुपपन्ना। विशिष्टज्ञानबाधकानां परिहृतत्वात्। अनुमानानां च दूष्यत्वात्।
॥ रजतज्ञानस्य स्मृतित्वसाधकानुमानभङ्गः॥
यस्तु रजतज्ञानस्य स्मृतित्वे परिशेषोपन्यासः, सोऽपि प्रत्युत्पन्नकरणदुष्टेन्द्रियादिजन्यतोपपादनात् परिशेषानुपपत्तेरयुक्तः। अनाकिलतरजतस्यानुत्पद्यमानत्वं गगनादावनैकान्तिकम्। रजतज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेत्, न। तथाऽपि रजतसंस्कारव्यवहारादौ व्यभिचारात्। ज्ञानत्वे सतीति विशेषणाददोष इति चेत्, न। रजतनिर्विकल्पकज्ञानवत एवोत्पद्यमाने रजतसविकल्पकानुभवे व्यभिचारतादवस्थ्यात्। रजतसविकल्पकज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेत्, न। हानादिबुद्धिष्वनैकान्तिकताऽनिस्तारात्। संस्कारमात्रसहकृतमनोजन्यत्वोपाधिग्रस्तं चानुमानम्। नचानेनैव हेतुनाऽस्य पक्षे साधनम्, व्यभिचारस्योक्तत्वात्।
किञ्चेदं स्मरणत्वं साध्यं न तावत् सामान्यं गुणेषु प्राभाकरैरभ्युपगतम्। अननुभवत्वमिति चेत्, तदपि किमनुभवादन्यत्वम्, अनुभवत्वानधिकरणत्वं वा? आद्येऽनुभवस्यापि तत्सम्भवेन सिद्धसाधनता स्यात्। द्वितीयेऽनुभवत्वं किमिति वाच्यम्। स्मृत्यन्यत्वमिति चेत्, न। स्मृतावपि प्रसङ्गात्, इतरेतराश्रयप्रसक्तेश्च। ज्ञानसंस्कारमात्रप्रभवत्वं स्मृतित्वमिति चेत्, न। मानसप्रत्यक्षजा स्मृतिरित्यस्माभिरङ्गीकृतत्वेन पक्षस्याप्रसिद्धविशेषणत्वात्, दृष्टान्तस्य साध्यवैकल्याच्च।
किञ्चेन्द्रियव्यापारान्वयव्यतिरेकानुविधायीदं रजतज्ञानं तत्कार्यमित्यवसीयते। तथाच बाधितविषयत्वम्। अन्वयव्यतिरेकयोरन्यत्रोपयोगान्नैवमिति चेत्, तत् किमस्य स्मृतित्वे सिद्धेऽन्यत्रोपक्षयः कल्प्यते, उतैवमेव? नाऽद्यः, तदभावात् अस्मादेवानुमानात् तत्सिद्धावन्योन्याश्रयप्रसङ्गात्। न द्वितीयः, समीचीनरजतप्रत्ययेऽपि तथात्वप्रसङ्गात्। अन्यत्रोपक्षयः शङ्कित इति चेत्, न। तथाऽपि सन्दिग्धकालातीतताऽनिस्तारात्।
समीचीनरजतानुभवेऽपि कथमन्यत्रानुपक्षयो निश्चितो भवता? अनुभवत्वनिश्चयादिति चेत्, न। इन्द्रियव्यापारस्यान्यत्रोपयोगशङ्कयाऽनुभवत्वस्यापि सन्दिग्धत्वात्। पुरोवर्तिव्यवहारसंवादादनुभवत्वनिश्चय इति चेत्, न। संवादानुभवस्याप्यनिश्चितत्वात्। असति बाधके न वृथाऽन्यत्रोपक्षयः शयत इति चेत्, समं प्रकृतेऽपीति।
एतेनाप्रत्युत्पन्नकारणप्रभवत्वं स्मृतित्वमित्यपि परास्तम्। संस्कारोत्पत्त्यनन्तरमेव जातायां स्मृतावनैकान्तिकत्वं च। अनुभूतविषयत्वं स्मृतित्वमित्यपि न। द्वितीयादिभ्रमे सिद्धसाधनत्वात् साध्याविशिष्टताप्रसङ्गाच्च। तत्तांशोल्लेखित्वं स्मृतित्वमिति चेत्, न। अनुभवबाधितत्वात्। एतेन ज्ञानसम्भिन्नार्थगोचरत्वमित्यपि परास्तम्।
अनेनैव प्रतिपक्षानुमानद्वयमपि समाहितं वेदितव्यम्। नेदं स्मृतिरिति व्यवहर्तव्यम्, तत्तोल्लेखादिस्मृतिचिह्नविकलत्वादिति प्रथमप्रयोगे विवक्षितत्वात्। अत एव तिक्तगुडादिप्रत्ययप्रक्रियाऽपि परास्ता।
॥ “अन्यथाख्यातिपक्षे कल्पनागौरवप्रसङ्गः’ इत्यस्य निराकरणम्॥
यदपि विपर्ययाभ्युपगमे कल्पनागौरवमुक्तं तत् विवेकाग्रहमात्रेण प्रवृत्त्यादेरुपपत्तौ तथाऽस्तु। नचैवमिति वक्ष्यामः। किञ्चैवमन्त्यतन्तुसंयोगपर्यन्तं कारणकलापमुपादाय पटोऽपि नाङ्गीकरणीयः तन्मात्रेण सर्वस्योपपत्तेः। पटोऽपि प्रमितो न हातुं शक्यते। नच तेन विनैकत्वादिप्रत्ययोपपत्तिरिति चेत्, विपर्ययेऽप्येवमिति कुतो गौरवम्?
॥ अन्यथाख्यातिसद्भावे प्रमाणोपन्यासः॥
अन्यथाख्यातौ किं प्रमाणमिति चेत्, अनुभव एवेति ब्रूमः। यथाहि पुरोवर्तिनि रजते रजतमिदमिति विशिष्टविषयमेकमेव विज्ञानं स्वप्रकाशतया वा मानसप्रत्यक्षतया वा साक्षिणा वाऽवभासते तथेदमपीति कुतोऽस्य न विशिष्टविषयैकज्ञानत्वम्? नहि ततोऽस्य मात्रयाऽपि विशेषं पश्यामः। दर्शने वाऽस्मात् प्रवृत्तिर्न स्यात्। केवलमेकं तादृग्विषयसद्भावाद् यथार्थम्, तदभावादपरमयथार्थम्। अविशिष्टविषयमनेकमपि तद्विशिष्टविषयैकत्वेन प्रतिभासत इति चेत्, न। अन्यस्यापि विशिष्टविषयैकत्वे समाश्र्वासासम्भवप्रसङ्गात्, विपर्ययाङ्गीकारप्रसक्तेश्च। नास्त्येव विशिष्टविषयैकत्वग्राहिप्रत्यय इति चेत्, न। अनुभवसिद्धज्ञानापलापे स्मृत्यनुभवस्वरूपापलापप्रसङ्गात्।
॥ प्रवृत्त्यन्यथानुपपत्त्याऽप्यन्यथाख्यातिसमर्थनम्,
विवेकासंसर्गाग्रहयोः प्रवृत्तिकारणत्वं निरस्य संसर्गाभेदज्ञानयोः प्रवर्तकत्वप्रतिपादनम्॥
किञ्च रजतार्थिनः शुक्तिकायां प्रवृत्तिरन्यथाऽनुपपन्नाऽन्यथाज्ञानमाक्षिपति। नन्वियं प्रवृत्तिः स्वरूपतो विषयतश्चागृहीतभेदाद् वेदनद्वयादुपपद्यत इति चेत्, कोऽयं भेदो नाम? किं स्वरूपम्, उत पृथक्त्वम्, उतान्योन्याभावः, अथवा वैधर्म्यम्। न प्रथमः, स्वप्रकाशज्ञानज्ञेयप्रतिभासे तदनवभासानुपपत्तेः। न द्वितीयः, गुणे गुणानभ्युपगमात्। सर्वत्र भेदाग्रहसम्भवेनान्यार्थिनोऽन्यत्र प्रवृत्तिप्रसङ्गात्। तृतीये वक्तव्यम् किमिदंरजतत्वयोरन्योन्याभावो नावभासते, उतेदंरजतयोरिति? नाऽद्यः, अपर्यायशब्दस्मारकयोर्जातिव्यक्त्योस्तदनवभासासम्भवात्।
किञ्चान्योन्याभावो नामान्योन्यस्वरूपमेव परस्य। तच्चोपलब्धमिति कथं तदनुपलम्भः? अत एव न द्वितीयः। नापि चतुर्थः, रजतासम्भविनः पुरोवर्तिनीदन्त्वस्य पुरोवर्त्यसम्भविनश्च रजते रजतत्वस्य गृहीतत्वात्।
इदंरजतत्वयोरसंसर्गाग्रहो विवक्षित इति चेत्, न। असंसर्गो हि संसर्गस्याभावः। स चेदंरजतत्वयोः स्वरूपमेव परेषामिति कथं तदवभासे नावभासेत? विपर्ययाभ्युपगमवादिभिरपि भेदाग्रहोऽभ्युपगमनीय एव। तत्रापि समानो दोष इति चेत्, न। भेदस्य स्वरूपतावन्मात्रत्वानभ्युपगमात्।

अथ मन्यसे पुरोवर्तिनो यः शुक्तित्वादिधर्मो रजतव्यावर्तकः, यश्च रजते व्यवहितदेशत्वादिधर्मः पुरोवर्तिव्यावर्तकः, तयोरग्रहणं प्रवर्तकमिति। तदसत्। पुरोवर्तिनो हि शुक्तित्वाग्रहे न शुक्तिकार्थी तत्र प्रवर्तेत। रजतस्य चासन्निहितत्वादिधर्माग्रहे रजतार्थी न तत्र प्रवर्तताम्। रजतार्थिनः पुरोवर्तिनि प्रवृत्तिस्तु कुतः?
किञ्च भेदाग्रहादन्यार्थिनोऽन्यत्र प्रवृत्तिमाचक्षाणः प्रष्टव्यः किमयमेव व्यवहारो भेदाग्रहात्, अन्यस्त्वभेदग्रहात्; उत सर्वोऽपि भेदाग्रहादिति। नाऽद्यः, अनियतकारणतापातात्।
ननुच सर्वत्राभेदग्रह एव प्रवर्तकः। तत्सारूप्याद् भेदाग्रहोऽपि तथेष्यते। तथाहि अस्ति तावत् प्रवर्तकत्वाभिमतप्रत्ययेऽप्यपेक्षितोपायपुरोवृत्त्यवगमांशयोः स्वरूपतो विषयतश्च भेदविरहादेव भेदाग्रहः। तथाऽत्राप्यविवेचकं साधारणं रूपमवगम्यते, नावगम्यते च विवेचकोऽसाधारणधर्मो वेद्ययोर्वेदनयोश्च। ततश्चैकप्रवर्तकप्रत्ययसदृशवपुरुपजनयतीदं वेदनद्वयं प्रवृत्तिमिति। मैवम्। अनियतहेतुकत्वानिस्तारात्।
किञ्च प्रवर्तकसादृश्यात् प्रवृत्तिरित्यत्रैव कल्प्यते, उत यद् यत्सदृशं तत् तत्कार्यकारीति सर्वत्र नियमः? नाऽद्यः अदृष्टकल्पनाप्रसङ्गात्। प्रवृत्तिलोभादित्थमास्थीयत इति चेत्, न। तस्या विपर्ययाङ्गीकारादेव सुव्यवस्थितेः। न द्वितीयः, कृशानुसदृशाद् गुञ्जापुञ्जाच्छीतनिवृत्तेरदर्शनात्।
नन्विदं रजतमिति यथा रजतसाध्या बुद्धी रजतसदृशाच्छुक्तिशकलाद् भवति भवताम्, तथा प्रवर्तकैकज्ञानसदृशाज्ज्ञानद्वयात् प्रवृत्तिरपि कुतो न स्यात्? मैवम्। अर्थस्य साक्षाज्ज्ञानकारणत्वानभ्युपगमात्। सादृश्यं तु काचादिवद् दोषतयोपयुज्यते।
अपिचेदं ज्ञानद्वयं प्रवर्तकसादृश्यमात्राद् यदि प्रवृत्तिमुपजनयेत्, निवृत्तिमपि कुतो न जनयेत्? अस्ति हि तत्र निवर्तकभेदग्रहसारूप्यमभेदाग्रहणम्।
ननुच यथा भेदाग्रहो भवतामभेदग्रहं जनयति, तथा प्रवृत्तिमपि किं न जनयेदिति। मैवम्। वैषम्यात्। ज्ञानजनने हि कारणानां स्वातन्त्र्यम्, न पुरुषस्य। तानि च यादृशसामग्रीमध्यपतितानि तादृशं ज्ञानमुपजनयन्ति। नतु पुरुषाकाङ्क्षामपेक्षन्ते, हेयोपेक्षणीयज्ञानजननात्। प्रवृत्तौ तु पुरुष एव स्वतन्त्रो न ज्ञानम्। स हि सत्यपि ज्ञानेऽपेक्षित एव प्रवर्तते। नतु ज्ञानं जातमित्येवोदासीनविपरीतयोरपि। तथाच भेदाग्रहदोषकलुषितानि नयनादीनि विपर्ययं जनयन्ति। नतु पुरुषः प्रवर्तकसादृश्यमात्रेण प्रवर्तितुमर्हति। तथात्वे वा निवर्तकसादृश्यात् प्रेक्षावान्निवर्तेतापीत्युक्तम्।
किञ्च ज्ञानमर्थे प्रवृत्तिं किं साक्षादुपजनयति, उतेच्छाप्रयत्नद्वारेण? नाऽद्यः, हेयोपेक्षणीययोरपि प्रवृत्तिप्रसङ्गात्। द्वितीये कथमगृहीतभेदाज्ज्ञानद्वयात् प्रवृत्तिः? पुरोवर्तिप्रवृत्तेर्हि साक्षात् कारणं प्रयत्नः, तस्य चेच्छा, तस्याश्च समीहितसाधनतानुमानम्। नच तत् सम्भवति। रजतत्वस्य पक्षधर्मतयाऽप्रतिपन्नत्वात्। अथ रजते प्रतिपन्नेन रजतत्वेन तत्समीहितसाधनताज्ञानमुपजातं भेदाग्रहसारूप्यात् पुरोवर्तिनीच्छामुपजनयतीति चेत्,न। तथासति भेदग्रहसारूप्यादभेदाग्रहादुपेक्षाया अप्यापातादिति।
नन्वस्तु तर्हि द्वितीयः पक्षः। तथाहि सत्यरजते तावदस्ति रजतव्यक्तिज्ञानं रजतत्वजातिबोधश्च। नचास्त्यसंसर्गज्ञानम्। एतावतैव तत्र तदर्थिनां प्रवृत्तिः। नहि तयोस्तादात्म्यं पश्यन्ति। जातिव्यक्त्योस्तादात्म्याभावात्। नच तत्र संसर्गग्रहः प्रवर्तकः। समवायो हि तयोः संसर्गः। नचासौ प्रत्यक्षः। इन्द्रियसन्निकर्षाभावात्। नाप्यनुमानतस्तदा शक्यते ज्ञातुम्, लिङ्गाभावात्। अविसंवादिव्यवहारजनकत्वविशिष्टसाकाङ्क्षरूपरूपिसहोपलम्भो हि तल्लिङ्गम्। नचाविसंवादित्वं प्राक् प्रवृत्तेः शक्याधिगमम्। अस्ति चेदं सकलमपि प्रवर्तकं विभ्रमेऽपीति कुतो विपर्ययाभावे प्रवृत्त्यनुपपत्तिः?
इदं रजतत्वाधारयोर्भेदाग्रहो वा सत्यरजते प्रवृत्तिहेतुः। अस्ति चासौ प्रकृतेऽपि। नच पुरोवर्तिनि रजतत्वाप्रतीताविच्छानुपपत्तिरिति वाच्यम्। रजतत्वेन सहागृहीतासंसर्गतया वा रजतादगृहीतभेदतया वा समीहितसाधनतानुमानोपपत्तेरिति।
एतदप्ययुक्तम्, असंसर्गाग्रहभेदाग्रहयोर्निरस्तत्वात्। किञ्चैवंसति सविकल्पकप्रत्यक्षोच्छेदप्रसङ्गः। वस्तुमात्रग्रहस्यासंसर्गाग्रहस्य च निर्विकल्पकसाम्यात्। रूपरूपिभावः सविकल्पके चकास्ति। निर्विकल्पके तु वस्तुस्वरूपमात्रमिति भेद इति चेत्, कोऽयं रूपरूपिभावः? धर्मधर्मिणोः परस्पराकाङ्क्षाविषयत्वमिति चेत्, तत् किं तयोः स्वरूपम्, उतान्यत्? आद्ये तदपि निर्विकल्पके प्रकाशत एव। द्वितीये किं तदैन्द्रियकम्, उतातीन्द्रियम्? प्रथमे कथमविकल्पके न प्रकाशेत? द्वितीये कथं सविकल्पके प्रकाशेत? अथ तद्वस्तुदर्शनसापेक्षदर्शनं निर्विकल्पकेऽचकासदपि सविकल्पके भातीति चेत्, तर्हि न तत्संसर्गातिरिक्तमस्तीति संसर्गग्रहादेव सविकल्पकोपपत्तिः। नच निर्विकल्पकस्य प्रवर्तकत्वमस्ति। किञ्चासंसर्गाग्रहादेव सर्वत्र प्रवृत्त्यङ्गीकारे मध्यमवृद्धप्रवृत्तेरपि तथात्वेन बालस्य तदीयसंसर्गज्ञानानुमानोपायाभावात्। पदानामन्वितार्थेषु व्युत्पत्त्यनुपपत्तौ शाब्दप्रमाणोच्छेदप्रसङ्गः।
अथैवं मन्येत अस्त्येव व्यवहर्तुरन्वयज्ञानम्। किन्नाम। सदपि न प्रवृत्तावुपयुज्यते। अतो न कश्चिद् दोष इति। तत्र किं तदन्वयज्ञानं प्रवृत्तौ नियतम्, उतानियतमिति वाच्यम्। आद्येऽस्तु तत्प्रवृत्तावुपयोगि मा वा भूत्, अन्यथाख्यातिं विना न रजतार्थिनः पुरोवर्तिनि प्रवृत्तिरिति तावत् सिद्धम्। द्वितीये तु शब्दोच्छेदस्तदवस्थः।
किञ्च नियतपूर्वभावि चाकारणं चेत्यनुपपन्नम्। प्रतिभासमानयोरसंसर्गाग्रहे सति संसर्गग्रहोऽवर्जनीयसन्निधिरिति चेत्, न। विपर्ययस्यापि वक्तुं शक्यत्वात्। अवश्यं चैतदेवम्। व्यवहारो हि व्यवहर्तव्योपलम्भनिबन्धनो युक्तः, नतु व्यवहरणीयविपर्ययानुलब्धिनिबन्धनः। नहि घटव्यवहारो घटमतिक्रम्य तद्विपर्ययाप्रतिभासे सति भवति।
तदमी प्रयोगाः विमतो व्यवहारो व्यवहर्तव्यज्ञानपुरःसरः, व्यवहारत्वात्; घटव्यवहारवत्। विवादपदं ज्ञानं पुरोवर्तिविषयम्, तद्विषयव्यवहारजनकत्वात्; सम्मतवत्। पुरोवर्ती वा रजतज्ञानगोचरः, रजतानुपायत्वे सति तदर्थिप्रवृत्तिविषयत्वात्; सम्यग्रजतवत्। विवादपदं रजतज्ञानमिदंज्ञानान्न भिद्यते, प्रकाशमानात् ततोऽप्रकाशमानभेदत्वे सति प्रकाशमानत्वात्; सम्प्रतिपन्नरजतज्ञानवदित्यादयः।
किञ्च विपर्ययाभावे नेदं रजतमिति ज्ञानस्य बाधकत्वमनुपपद्यमानं तं गमयति। नहि तथात्वे बाधकत्वमस्ति। न तावदग्रहणनिवर्तकतया बाधकत्वम्, सर्वप्रत्ययानां तथात्वापातात्। नापि व्यवहारविच्छेदकत्वेन, अतदर्थिनां व्यवहारानुत्पत्तौ नेदं रजतमिति ज्ञानस्याबाधकत्वप्रसङ्गात्; व्याघ्र्चोरादिज्ञानस्यापि प्रवृत्तिविच्छेदकत्वेन, बाधकत्वप्रसक्तेश्च। नचार्थस्य व्यवहारयोग्यताविच्छेदकत्वेन, समयान्तरेऽपि तत्र विभ्रमात् प्रवृत्त्यभावापत्तेः। नच व्यवहारप्रतिबन्धकत्वेन, अविवेकनिवृत्तौ कारणाभावादेव व्यवहारानुत्पत्तेः प्रतिबन्धककल्पनायोगात्, व्याघ्र्चोरादिज्ञानस्य बाधकतापत्तेश्च। विमतमयथार्थम्, बाध्यत्वात्; व्यवहारवदिति। अत एव भ्रान्तित्वप्रसिद्ध्याऽपि विपर्याससिद्धिः।
॥ भ्रान्तेर्याथार्थ्यसाधकानुमानस्य रजतज्ञानत्वानुमानस्य च निरासः॥
एवञ्च सति प्रत्ययत्वानुमानं कालात्ययापदिष्टं वेदितव्यम्। अदुष्टकरणजन्यत्वोपाधिग्रस्तं च। एतेन रजतज्ञानत्वानुमानमपि निरस्तम्। अन्यथा, विमतो व्यवहारो यथार्थः, व्यवहारत्वात्; रजतविषयो वा, रजतव्यवहारत्वादित्यपि स्यात्।
॥ ज्ञानमात्रस्य याथार्थ्यादिसाधकानुमानभङ्गः॥
यदपि ज्ञानत्वं च यथार्थमात्रवृत्तीत्यादि, तत्र किमिदं ज्ञानत्वं सामान्यं वा, प्रतिनियतं वा? नाऽद्यः, वादिप्रतिवादिनोराश्रयासिद्धेः। द्वितीये यथार्थज्ञानवृत्तिज्ञानत्वे सिद्धसाधनता। विमतज्ञानवृत्तिज्ञानत्वपक्षीकारेऽपि मात्रेति व्यर्थं स्यात्। तत्त्यागेन च प्रतिज्ञाने प्रथमानुमानदोष एव। किञ्च यथार्थमात्रवृत्तीत्ययथार्थावृत्तित्वमात्रं विवक्षितम्, उतायथार्थज्ञानावृत्तित्वम्? आद्ये सिद्धसाधनम्, अयथार्थव्यवहारावृत्तित्वस्य सिद्धत्वात्। द्वितीये परस्याप्रसिद्धविशेषणता, अदुष्टसामग्रीजन्यमात्रवृत्तित्वमुपाधिश्च।
यच्च शुक्तिका रजतत्वेन नावभासत इत्यादि, तदप्यसत्। मेरुः सर्षप इत्यादिवाक्यान्मेरोरपि सर्षपत्वेन प्रतिभासाद् दृष्टान्तस्य साध्यवैकल्यात्। अन्यथा तथाविधवाक्याभासं श्रुतवता तत्प्रतिषेधो न क्रियेत, अप्रसक्तत्वात्। नहि पदार्थप्रतिषेधो युक्तः। अपिचैवं सत्यग्न्रिनुष्ण इति बाधितविषयस्य वाक्यस्य घटः पचतीत्यपार्थकाद् भेदो न स्यात्।
यदपि इदं रजततादात्म्यमित्यादि, तच्चायुक्तम्। तदप्रतीतवाश्रयासिद्धेः, प्रतीतौ व्याघातात् दृष्टान्तस्य साध्यसमत्वाच्चेत्यास्तां विस्तरः।
॥ रामानुजोक्तयथार्थख्यातिपक्षानुवादः॥
कश्चित् पुनरेवमाह “तासां त्रिवृतं त्रिवृतमेकैकामकरचेत्,” इत्यादिश्रुतेः, “समेत्यान्योन्यसंयोगम्” इत्यादिपुराणात्, त्र्यात्मकत्वादिसूत्राच्च सर्वस्य सर्वात्मकत्वं प्रतीयते। किञ्च सोमाभावे पूतिकग्रहणम्, व्रीह्यभावे च नीवारग्रहणमन्यथाऽनुपपद्यमानं पूतिकनीवारयोः सोमव्रीह्यवयवसद्भावं गमयति। अपिच वस्तुनो वस्त्वन्तरसादृश्यं प्रत्यक्षत एव प्रतीयते। नच तद्द्रव्यावयवयोगादन्यत् सादृश्यं नामास्ति। अतः शुक्तिकादिषु रजतादेः सद्भावाद् यथार्थ एवायं रजतप्रत्ययः।
निर्देशव्यवस्था, अर्थक्रियाव्यवस्था च भूयस्त्वादुपपद्यते। दोषवशादिन्द्रियं भूयांसमप्यंशं परित्यज्याल्पीयांसमंशं प्रकाशयतीति रजतार्थिनस्तत्र प्रवृत्तिरपि युज्यते। अपगते तु दोषे भूयस एवांशस्योपलम्भे निवर्तते। बाध्यबाधकभावोऽपि ज्ञानयोरत एवोपपद्यते।
पीतशङ्खादौ नयनवृत्तिपित्तसम्भिन्ना नायनरश्मयः शङ्खादिभिः संयुज्यन्ते। ततः पित्तगतपीतिमाभिभूतः शङ्खगतशुक्लिमा न गृह्यते। अतः सुवर्णानुलिप्तशङ्खवत् पीतः शङ्ख इति प्रतीयते। एवं स्वप्नस्फटिकलौहित्यमरीचिकाजलालातचक्रदर्पणमुखदिगन्तरद्विचन्द्रादिप्रत्ययाः सर्वेऽपि यथार्था बोद्धव्या इति।
॥ रामानुजमतनिरासः॥
तदिदमयुक्तम्। तथाहि यानि तावच्छुक्तिकादिषु रजतादिसद्भावे श्रुतिपुराणसूत्राणि पठितानि तानि तेजोबन्नादीनां मिश्रतामभिदधति, न पुना रजतादीनां शुक्तिकादौ सद्भावम्। नहि कारणसद्भावे कार्यस्य सद्भावो नियतो येनोपपत्त्याऽपीममर्थं प्रतीमः। तथात्वे शुक्तौ रजतवत् सर्वस्यापि प्रतीतिः प्रसज्येत। अदृष्टादिवशान्नैवमिति चेत्, न। कार्यनिश्चयोत्तरकालीनत्वादस्याः कल्पनायाः।
श्रुतार्थापत्तिस्त्वत्यन्तायुक्ता। तथाहि पूतिकादौ सोमाद्यवयवा भूयांसः कल्प्यन्ते, उत समाः, अथाल्पीयांसः? आद्ये सोम एवासौ, तत् कथमनुकल्पः स्यात्? नहि सोमोऽपि केवलः सोमः। किन्तु सोमांशभूयस्त्ववान्। न द्वितीयः, उभयदर्शनप्रसङ्गात्। तृतीये तु कथं सोमकार्यं कुर्यात्? अन्यथा शुक्तिकाऽपि कुतो रजतार्थक्रियां न कुर्यात्? श्रुतिप्रामाण्यात् तदर्थक्रियाकारिताऽवगम्यत इति चेत्, किन्तर्हि सोमावयवकल्पनया? श्रुतिप्रामाण्यादत्यन्तविविक्तानामेव वस्तूनामर्थक्रियासाम्यमुपगम्यताम्।
सादृश्यं च सामान्यं वा, धर्मान्तरं वा; नान्योन्यावयवसंयोग इति वक्ष्यामः। (७२४) किञ्च घृततैलयोरन्योन्यसदृशयोरन्योन्यावयवसंयोगादन्योन्यार्थक्रियया भाव्यम्। न भाव्यं च विसदृशयोर्द्रव्ययोः। किञ्च मातृमातङ्गमदिराद्यतिसादृश्यं भार्यादिष्वप्यस्तीति तदुपभोगे प्रत्यवायः स्यात्। अल्पावयवसंयोगान्नैवमिति चेत्, कथन्तर्हि नीवारा व्रीहिकार्यं कुर्युः? श्रुतिप्रामाण्यादिति वदतो दत्तमुत्तरम्। अपरावयवसंयोग एव सादृश्यं चेत्, कथं ककारखकारयोः सादृश्यमिति चिन्त्यम्।
रजतार्थिनः शुक्तिकायां प्रवर्तकं च किं भूयसां शुक्त्यवयवानामदर्शनम्, उताल्पीयसां रजतावयवानां दर्शनम्, उतोभयम्? नाऽद्यः सुप्तस्यापि प्रवृत्तिप्रसङ्गात्। द्वितीयेऽपि किं तेषामल्पीयस्त्वज्ञानम्, उत भूयस्त्वज्ञानम्, अथवा ज्ञानमात्रम्? आद्ये तस्या रजतत्वमेव विदितमिति कथं ततः प्रवृत्तिः? द्वितीयेऽन्यथाख्यातिप्रसङ्गः। तृतीये सदृशमात्रे प्रवृत्तिप्रसक्तिः।
न तृतीयः, किमपि तत्रास्तीत्यादिज्ञानादपि प्रवृत्तिप्रसङ्गात्। कथञ्चास्य ज्ञानस्य भ्रान्तित्वम्? अल्पांशग्रहणादिति चेत्, नूनं ब्रह्मज्ञानमपि महाभ्रान्तिरापन्ना। अत एव न बाधस्य बाधकत्वमपि।
पित्तगतपीतिमानुलिप्तश्चेच्छङ्खः कथन्तर्हि न तथा पार्श्वस्थेन दृश्यते? सूक्ष्मत्वादिति चेत्, किमिदं सूक्ष्मत्वम्? अतीन्द्रियत्वं चेत्, न तर्हि भ्रान्तेनापि दृश्येत। अन्यच्चेत् किमनेन? पित्तोपहतेन तु सामीप्याद् दृश्यत इति चेत्, किमिदं सामीप्यं नाम? इन्द्रियसन्निकर्षश्चेत्, स तर्हि उभयोः समानः। शरीरसामीप्यं चेत्, तदनुपयुक्तम्। अन्यथा परशरीरसमीपस्थानां दण्डकुण्डलादीनामदर्शनप्रसङ्गात्।
पीतः शङ्खः प्रतीयत इति कोऽर्थः? किं पीतरूपवत्तयेति, उत पीतरूपद्रव्यसंयुक्ततयेति? नाऽद्यः, अन्यथाख्यातिप्रसङ्गात्। द्वितीयेऽनुभवविरोधः। एवमुदाहरणान्तराणि विप्रतिपन्नानि निरसनीयानीत्यलमपहसनीयप्रक्रियानिराक्रियाविस्तरेण।
॥ न्यायकल्पतरूक्ताख्यातिमतानुवादः, तन्निरासश्च॥
अन्यस्तु मन्यते गृह्यमाणयोर्भेदाग्राहिसविकल्पकमेकमेव विज्ञानं भ्रमः। तथाहि रजतसंस्कारदोषसचिवमिन्द्रियं शुक्तिशकलसन्निकृष्टं रजतशुक्तीदमंशविषयं तत्संसर्गासंसर्गावनवगाहमानमेकमेव सविकल्पकज्ञानमुत्पादयति। तथाच तयोरेकविज्ञानोपारोहिणोर्भेदाग्रहादयथार्थव्यवहारः। तन्निरासादेव विवेकज्ञानं बाधकमित्युच्यते। न पुनरन्यदन्यात्मना प्रतीयत इति। तदिदमनुपपन्नम्। विवेकाग्रहः किं सर्वत्र प्रवृत्तिहेतुः, उतात्रैवेति प्रागुक्तदोषाणामशेषाणामविशेषात्।
किञ्च प्राभाकराणां वेदप्रामाण्यसिद्ध्यङ्गतयाऽस्त्यख्यातिस्वीकारे प्रयोजनमिति विद्यते भ्रमः। कणभक्षाक्षचरणपक्षपातिना तु “अतस्मिंस्तदिति प्रत्ययो विपर्ययः” इति पूर्वाचार्यवचनमनादृत्य परमतप्रमोषः कस्मादिष्यते? असत्ख्यातिपरिहारार्थमिति चेत्,न। तथासत्यन्यथाव्यवहारस्यापि परिहारप्रसङ्गात्। नहि असत् प्रत्येतुमशक्यम्, शक्यं तु व्यवहर्तुमित्यत्र कारणविशेषोऽस्ति। व्यवहारः प्रतीतिसिद्ध इति चेत्, तत् किं विशिष्टप्रत्ययो न प्रतीतिसिद्ध इत्यलम्।
॥ “विपर्ययाभ्युपगमे वेदप्रमाण्यस्यासिद्धिप्रसङ्गः’ इत्यस्य दूषणम्॥
ननु विपर्ययाभ्युपगमे कथं वेदप्रामाण्यसिद्धिः? वेदजनितप्रत्ययेऽपि विपर्ययशङ्काप्रसरात्। सर्वस्यापि विज्ञानस्य याथार्थ्ये तु नेयं शङ्काऽवकाशमासादयतीति।
मैवम्। तथासति विवेकाग्रहस्याप्यनङ्गीकार्यत्वापातात्। तथाहि न तावद् वेदवाक्यं पदार्थेषु प्रमाणम्। तेषामन्यतोऽधिगतत्वात्। नापि संसर्गे। विनाऽपि संसर्गग्रहमसंसर्गाग्रहेणैव व्यवहारान् पश्यतो वेदजनितविज्ञानेऽपि शङ्काप्रसरात्। अपौरुषेयत्वादिना सा निरसिष्यत इति चेत्, किं तर्हि सकललोकावसितविपर्यासनिरासेन? तच्छयाया अपि तत एव निराकर्तुं शक्यत्वादिति। सिद्धमेतच्छुक्ती रजतत्वेनावभासत इति।
॥ रजतस्य बहिःसत्त्वाभ्युपगमवादिजरन्नैयायिकोक्तान्यथाख्यातिमतानुवादः॥
तत्राऽरोप्यमाणं रजतं सदेवेति केचिदातिष्ठन्ते। तथाहि यद्धि यथाऽवभासते तत् तथेत्यौत्सर्गिको न्यायः। अपवादस्तु बलवद्बाधकोपनिपातात्। तथाचेदं च रजतं च तत् तादात्म्यं चेति त्रितयमिहावभासते। इदं च रजतत्वं च तत्संसर्गश्चेति वा। तत्र रजतरजतत्वयोरिदङ्कारास्पदस्य च बाधकाभावान्नासत्त्वमुपपद्यते, संवादसद्भावाच्च। तत्तादात्म्यस्य संसर्गस्य वा बाधकाद् विसंवादाच्च असत्त्वमस्तु। यथोक्तम् “असम्भवि च यावत्तु तावत् संपरिहीयताम्” इति।
नच नेदं रजतमिति बाधबोधो रजतस्याप्यसत्त्वमावेदयतीति वाच्यम्। तस्य तादात्म्यमात्रगोचरत्वेन उपपत्तौ रजतगोचरत्वकल्पनायां गौरवप्रसङ्गात्। यथाऽऽहुः
“एकदेशापवादेन कल्प्यमाने च बाधके।
न सर्वबाधनं युक्तमिति न्यायविदः स्थिताः” इति।
किञ्च रजतस्यात्यन्तासत्त्वे प्रतिभासो नोपपद्यते। स्थिते चैवं सत्त्वे बाधसमये पुरोऽदर्शनाद् देशान्तरे सत्त्वमास्थीयते। दोषदूषितं चक्षुः शुक्तिशकलमात्रसन्निकृष्टमपि विप्रकृष्टरजतात्मना तदा दर्शयतीति को दोष इति।
॥ आरोप्यस्य सत्त्वनिराकरणपूर्वकमनूदितान्यथाख्यातिनिरासः, अभिनवान्यथाख्यातिनिरूपणम्॥
एतदप्ययुक्तम्। सत्त्वेऽपि रजतस्य “असदेव रजतं प्रत्यभात्’ इत्यनुभवविरोधात्। अत्रासत्त्वेऽप्यन्यत्र सत्त्वमङ्गीक्रियत इति चेत्, न। अत्र प्रतीतस्यैवान्यत्र सत्त्वे मानाभावात्। तथाहि भ्रान्त्यनुभवो वा तत्र प्रमाणम्, बाधानुभवो वा, भ्रान्त्यनुपपत्तिर्बाधानुपपत्तिर्वा? नाऽद्यः, तस्याप्रमाणत्वात्, अत्रैव सत्त्वावेदकत्वाच्च। न द्वितीयः, तस्येह रजतनिषेधात्मनोऽन्यत्र सत्त्वासत्त्वयोरौदासीन्यात्। न तृतीयः, भ्रान्तेः पुरोवर्तीन्द्रियदोषादिभिर्विनाऽनुपपद्यमानायास्तन्मात्राक्षेपहेतुत्वात्।
असत्त्वे कथं प्रतीतिरिति चेत्, सत्त्वेऽपि कथम्? नह्यन्यत्र सत्त्वमत्र प्रतीतेरुपकारि। इन्द्रियसन्निकर्षार्थं वा तदास्थेयम्, संस्कारसिद्ध्यर्थं वा? नाऽद्यः, विप्रकृष्टेन सन्निकर्षाभावात्, पुरोवर्तिसन्निकर्षमात्रेणैव भ्रान्त्युत्पादाङ्गीकाराच्च। न द्वितीयः, संस्कारो हि रजतानुभवमाक्षिपेत्, अनुभवश्च यथार्थो रजतसत्ताम्। अत्र प्रतीतस्यैवान्यत्र सत्ता कुतः कल्प्या?
किञ्च घटान्तरं विनष्टोत्पत्स्यमानघटान्तरतया यदा प्रत्येति, तदा कथम्। नहि विनष्टोत्पत्स्यमानयोरन्यत्र सत्ताऽस्ति। कालान्तरेऽस्तीति चेत्, सत्यम्। न तस्या भ्रान्तावुपयोगं साक्षात् पश्यामः। संस्कारादिना हि तदुपयोगः। स च रजतान्तरानुभवमात्रेण भविष्यतीति व्यर्था तस्यैवान्यत्र सत्त्वकल्पना। एतेन प्रवृत्त्यनुपपत्तिरपि परास्ता। किञ्चासतः प्रतिभासासम्भवे तादात्म्यमपि न प्रतिभासेत। तस्य कुत्राप्यभावात्। धर्मधर्मिभावस्तु वैधर्म्यमात्रम्।
न चतुर्थः, बाधस्यान्यत्र सत्तया विनाऽनुपपत्त्यभावात्। अत्रैव रजतसत्तानिषेधानुपपत्त्याऽन्यत्र सत्त्वसिद्धिरिति चेत्, न। तस्यात्रैव प्राप्तत्वेनैवोपपत्तेः।
एतेन यद् यथाऽवभासते तत् तथैवेत्यादि परास्तम्। असदेव रजतं प्रत्यभादिति रजतासत्त्वप्रमाणस्योपन्यस्तत्वात्। तद्विषयसङ्कोचप्रमाणस्य निरस्तत्वात्।
॥ स्वमतेऽपि क्वचिदारोप्यस्य सत्त्वाङ्गीकारः॥
तत् किं सर्वत्राऽरोप्यमत्यन्तासदेव? उच्यते यत्राऽरोप्यमधिष्ठानसन्निहितं तत्र तत्तादात्म्यमात्रमसत्, यथा दूरस्थयोश्र्चूतपनसयोरेक एवायं चूत इति। बाधोत्तरकालमपि स्वरूपद्वयानुवृत्तेः। यत्र पुनरसन्निहितमारोप्यम्, तत्र तत् तादात्म्यं चोभयमप्यसत्। उक्तन्यायेनेति। तदेवं नैवंविधान्यथाख्यातिवादोऽप्युपपन्नः।
॥ विज्ञानवादिबौद्धोक्तात्मख्यातिमतानुवादः, तन्निरासश्च॥
अपरे पुना रजतं सदेव किन्त्वन्तरेवेति मन्यन्ते। तथाहि न तावदसदेव रजतम्, प्रतीत्यनुपपत्तेः। नापि पुरत एव सत्, भ्रान्त्यनुपपत्तेः, बाधविरोधाच्च। नच देशान्तरे सत्, प्रमाणाभावात्। अतः परिशेषाज्ज्ञानाकारमेवावतिष्ठते। किञ्चेदं ज्ञानरूपम्, इन्द्रियसम्प्रयोगेऽसति अपरोक्षत्वात्; ज्ञानवत्। नच सत्यत्वे भ्रान्त्यनुपपत्तिः, आन्तरस्यैव बाह्यतयाऽवभासो भ्रम इत्यङ्गीकारात्। तस्य नेदमिति बाह्यतानिषेधेनैव बाधकस्य बाधकत्वोपपत्तिरिति।
एतच्चानुपपन्नम्। सत्त्वेऽसदेव रजतमित्यसत्त्वावेदकप्रत्ययविरोधस्योक्तत्वात्। असतः प्रतीत्यनुपपत्तौ च बहिष्ठताया अपि प्रतीत्यनुपपत्तिप्रसङ्गात्। तत्सत्त्वे भ्रान्तित्वानुपपत्तेः। बहिःसत्त्वमेव असत्प्रत्ययेन निषिद्ध्यत इति चेत्, न। आन्तरत्वे प्रमाणाभावात्।

इन्द्रियसम्प्रयोगमन्तरेणापरोक्षत्वस्य हेतोर्बाह्यतायामनैकान्त्यात्। शुक्तिसम्प्रयोगेणापरोक्षतायाः स्वीकारादसिद्धेश्च। दृष्टान्तश्च साधनविकलः। ज्ञानस्यापीन्द्रियसम्प्रयोगादेवापरोक्षताङ्गीकारात्।
किञ्च गुञ्जापुञ्जादौ दहनादिसमारोपे तस्यान्तःस्थत्वे देहदाहादिप्रसङ्गः। अन्यथाऽन्तरपि तदसदित्यत्यन्तासदेवाऽपन्नमिति नाऽत्मख्यातिपक्षोऽप्युपपत्तिमान्।
॥ बौद्धैकदेश्युक्तासत्ख्यातिमतानुवादः, तन्निरासश्च॥
अन्ये पुनरिदं रजतमिति प्रतीतिरसदालम्बनैवेत्यास्थिताः। तथाहि न तावदिदं सदेव, बाधबोधविरोधात्। नापि सदसत्, तत्रैव तदैव तस्यैव सदसत्त्वविरोधात्। देशकालप्रकारव्यवस्थया सदसत्त्वाङ्गीकारे घटादितुल्यतापातात्।
किञ्चैवंसति सदिदं रजतमिति ज्ञानं भ्रान्तिर्नैव भवेत्, सत्त्वस्य विद्यमानत्वात्। सदसदात्मकं सत्त्वेन विषयीकुर्वत् कथं न भ्रान्तिरिति चेत्, तत् किमेकदेशदर्शनं भ्रान्तिः? तथाच बाधकप्रत्ययोऽप्यसत्त्वमात्रावलम्बी न कथं भ्रान्तिः? सदेवेत्यसत्त्वनिषेधाद् भ्रान्तित्वमिति चेत्, तर्ह्यसदेवेति सत्त्वप्रतिषेधाद् बाधस्यापि भ्रान्तितानिस्तारः। तस्मादसदेव विभ्रमालम्बनम्।
नचासतोऽवभासानुपपत्तिः विवेकाग्रहवादस्य निरस्तत्वात्। अन्यथाख्यातिवादिभिरसत एव तादात्म्यस्य संसर्गस्य वा प्रतिभासाभ्युपगमात्। विज्ञानख्यातिवादिभिरप्यसत्याया एव बाह्यतायाः प्रतीत्यङ्गीकारात्। सत एव प्रतीतिरिति पक्षे न भ्रान्तिर्नापि बाध इति।
अत्रेदं विवेचनीयम् केयमसत्ख्यातिरिति। यदि सदेव शुक्तिकाशकलं सकलदेशकालासद्रजतात्मनाऽवगाहमानं ज्ञानमिति, तदाऽनुज्ञया वर्तामहे। यथोक्तम्
“तस्माद् यदन्यथा सन्तमन्यथा प्रतिपद्यते।
तन्निरालम्बनं ज्ञानमसदालम्बनं च तत्” इति।
यदि पुनरिदं रजतमित्यवभासे चकासदसदेवाखिलमिति, तदसत्। इदङ्कारास्पदस्य शुक्तिकाशकलस्य प्रागूर्ध्वं सत्त्वावगमात्। यदिच न तदिदङ्कारास्पदम्, तदा न भ्रान्तिबाधयोरङ्गुल्यग्रेण निर्दिशेत्, नोपादद्यात्, न परित्यजेत्। किञ्चास्य ज्ञानस्य कारणं वक्तव्यम्। दुष्टेन्द्रियादिकमिति चेत्, न। तस्य सन्निकर्षाद्यनपेक्षस्य कारणतायामतिप्रसङ्गात्। असता च सन्निकर्षायोगात्। शुक्त्यादिना सन्निकर्षोऽस्तीति चेत्, न। तथासति तज्ज्ञानस्यावर्जनीयत्वात्।
अथ संवृतिरेव रजतादिप्रतिभासकारणम्, तदाऽन्धस्याप्यसन्निहिते शुक्तिशकले किं न स्यात्? अथ काचादिवच्छुक्तीन्द्रियसन्निकर्षोऽपि संवृतेः सहकारीति चेत्, न। तथात्वे भूतलवच्छुक्तेरपि शुक्तित्वेनावभासप्रसङ्गात्। दोषनिमित्तः शुक्तित्वानवगमोऽपि कारणमिति चेत्, न। अधिष्ठानत्वानभ्युपगमे भूतलशुक्तिशकलयोरविशेषेण कस्यानवगमः कारणमिति विवेक्तुमशक्यत्वात्।
अपिचासदेव रजतमवभासमानं न तावदसत्तयैवावभासते। अर्थक्रियानर्हे प्रवृत्त्यनुपपत्तेः। सत्तया प्रतिभासे त्वन्यथाख्यातिरङ्गीकृतेति शुक्तिरेव रूप्यतयाऽवभासत इति कुतो नाङ्गीकरणीयम्? तथासत्यङ्गुल्यग्रनिर्देशादयोऽप्यनुकूलिताः स्युः। केशोण्ड्रकादिभ्रमस्तर्हि कथमिति चेत्, सोऽपि तेजःप्रभृतिद्रव्यमालम्ब्यैवेति वदामः। तस्मान्नैवंविधासत्ख्यातिपक्षोऽपि साधीयान्।
॥ मायावाद्युक्तानिर्वचनीयख्यातिपक्षानुवादः, तन्निरासश्च॥
मायावादिनो वदन्ति अनिर्वचनीयमेव शुक्तिकादौ प्रतीयमानं रजतादिकमिति। तदनुपपन्नम्। प्रमाणाभावात्। शुक्तिरजतादिकमनिर्वाच्यम्, दोषप्रयुक्तभानत्वात्; भ्रान्तिसिद्धतादात्म्यवदित्यनुमानं मानमत्रेति चेत्,
किमिदमनिर्वाच्यत्वं नाम? यन्न सत्, नासत्, नापि सदसत्, तदनिर्वाच्यम्; तस्य भावस्तत्त्वमिति चेत्, न। शुक्तिरजतादेः सत्त्वस्य सदसत्त्वस्य चास्माभिरनङ्गीकृतत्वेन सिद्धसाधनत्वात्। अथासत्त्वाभावमात्रं साध्यम्, तथाऽप्यसदेव रजतं प्रत्यभादित्यनुभवविरोधः।
किञ्चेदं दोषप्रयुक्तभानत्वं किं दोषजन्यज्ञानविषयत्वम्, किंवा दोषजन्यप्राकट्याश्रयत्वम्। नाऽद्यः, दोषजन्येति विशेषणवैयर्थ्यात्। असतो ज्ञानविषयत्वानङ्गीकारेण व्यावर्त्याभावात्।
किञ्च मायावादिमतेऽधिष्ठानज्ञानस्यान्तःकरणवृत्तित्वेन सत्यत्वान्न दोषजन्यत्वम्। भ्रमस्य दोषजन्यत्वेऽप्यविद्यापरिणामतया न ज्ञानत्वम्। साक्षिणस्तु जन्यत्वमेव नास्तीत्यसिद्धो हेतुः। अपिच अस्माकं ज्ञानस्यैकत्वेन तज्ज्ञानविषयताऽधिष्ठानस्याप्यस्तीति व्यभिचारः। न द्वितीयः, असिद्धेः। नचान्यद् दोषप्रयुक्तभानत्वं निरूपयितुं शक्यम्। दृष्टान्तश्च साध्यविकलः, भ्रान्तिप्रतिपन्नतादात्म्यस्य अस्माभिरसत्त्वेनाङ्गीकृतत्वात्।
विवादपदमनिर्वचनीयम्, भ्रमविषयत्वात्; यन्नैवं तन्नैवम्, यथाऽऽत्मेत्यनुमानमस्त्विति चेत्, न। अत्रापि सिद्धसाधनत्वाद्यपरिहारात्। अप्रसिद्धविशेषणश्च पक्षः। शुक्त्यादावात्मनि च वर्तमानतया विरुद्धश्च हेतुः।
विमतमनिर्वचनीयम्, बाध्यत्वात्; व्यतिरेकेणाऽत्मवदित्यनुमानं भवत्विति चेत्, न। सिद्धसाधनताबाधाप्रसिद्धविशेषणत्वानामपरिहारात्।
सदसत्त्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी, धर्मत्वात्; रूपरसवदित्यनिर्धारितधर्मिनिष्ठतया सामान्यतः सिद्धस्य सदसद्वैलक्षण्यस्य केवलव्यतिरेकिणा रजतधर्मिनिष्ठतयोपसंहारान्नाप्रसिद्धविशेषणतेति चेत्, न। सत्त्वासत्त्वयोरत्यन्ताभावप्रतियोगितासाधने घटादावपि सत्ताद्यभावप्रसङ्गेन बाधितविषयत्वात्। यद्धि सकलदेशकालासत् तदत्यन्ताभावप्रतियोगीत्युच्यते, यथा शशविषाणादिकम्। घटादौ च सत्त्वमभावप्रतियोगित्वलक्षणमसत्त्वं च प्रत्यक्षादिसिद्धमिति कथं न बाधितविषयत्वम्? अभावप्रतियोगितामात्रसाधनेऽप्यन्योन्याभावमुपादायार्थान्तरत्वापातः।
एकस्मिन्न स्त इति साध्यत इति चेत्, किमिदं सत्त्वं नाम? सत्तासामान्यं वा स्वरूपसत्त्वं वा। नाऽद्यः, आश्रयासिद्धेः। अस्माभिरप्यनुगतसत्ताया अनभ्युपगमात्। तदभ्युपगमवादिनां च सामान्यादित्रये सत्त्वासत्त्वयोरभावादर्थान्तरतातादवस्थ्यात्।
न द्वितीयः, यत्किञ्चित्स्वरूपसत्त्वपक्षीकारे घटादौ पटादिस्वरूपसत्त्वस्यासत्त्वविशेषस्य चाभावेनार्थान्तरताऽनिस्तारात्। सर्वाणि स्वरूपसत्त्वानि सर्वाणि चासत्त्वान्येकधर्मिनिष्ठसंसर्गाभावप्रतियोगीनीति साधनेऽपि स्वरूपसत्त्वस्य धर्मत्वाभावेनासिद्धिः स्यात्। विशेषणत्वं धर्मत्वम्। तच्च वस्त्वन्तरापेक्षया सर्वस्याप्यस्तीति चेत्, तथासति वस्तुत्वमात्रं हेतुरित्युक्तं स्यात्। तच्चाऽत्मन्यभावप्रतियोगित्वरहितेऽप्यस्तीति व्यभिचारः।
अपिच प्रमेयत्वादिनाऽनैकान्तिकं धर्मत्वम्। प्रमेयत्वादीनामपि सकलधर्मरहिते ब्रह्मण्यवृत्तेः सपक्षतैवेति चेत्, तर्हि तस्मिन्नेव सत्त्वासत्त्वयोरभावेन प्रकृतप्रतिज्ञातार्थपर्यवसानादर्थान्तरता स्यात्। एकशब्देनैकत्वगुणवतो विवक्षितत्वाद् ब्रह्मणो गुणाभावान्नेति चेत्, तथाऽप्येकत्वगुणवद्विभिन्नाधिकरणसंसर्गराहित्येन प्रतिज्ञातार्थसम्भवादर्थान्तरताऽपरिहारात्।
सत्त्वमसत्त्वानधिकरणानात्मनिष्ठसंसर्गाभावप्रतियोगीति प्रतिज्ञाने न दोष इति चेत्, न। प्रमेयत्वादिषु व्यभिचारात्। असत्वं सत्त्वानधिकरणानात्मनिष्ठसंसर्गाभावप्रतियोगि, अनात्मनिष्ठसंसर्गाभावप्रतियोगिधर्मत्वात्; रूपवदित्यनुमीयत इति चेत्, किमिदमसत्त्वं नाम? अभावप्रतियोगित्वमात्रं चेत्, तदनात्मनि सर्वत्रास्तीति परेणाङ्गीकृतत्वादसिद्धो हेतुः। अत्यन्ताभावप्रतियोगित्वं चेत्, तदाऽपि वक्तव्यम्। किं प्रतिज्ञाहेत्वोरनात्मपदेनाऽत्मव्यतिरिक्तमात्रं विवक्षितम्, उत आत्मव्यतिरिक्तं वस्तु। आद्ये शशविषाणादावनात्मनि निर्धर्मके सत्त्वासत्त्वयोरभावेनार्थान्तरत्वापातः। द्वितीये दृष्टान्तस्य साध्यविकलता। रूपादीनां सत्त्वानधिकरणानात्मवस्तुनिष्ठसंसर्गाभावप्रतियोगित्वस्यासम्प्रतिपत्तेः।
स्यादेतत्। सद्विलक्षणत्वमसति, असद्विलक्षणत्वं च सति प्रसिद्धमेव। अतः कथमप्रसिद्धविशेषणतेति। मैवम्। विशिष्टस्याप्रसिद्धत्वात्। अन्यथा शशविषाणोल्लेखिता भूरित्याद्यप्रसिद्धविशेषणोदाहरणेऽप्येकैकदेशप्रसिद्धिव्युत्पादनसम्भवेन तदभावप्रसङ्गात्।
सद्विलक्षणत्वासद्विलक्षणत्वे स्वतन्त्रे साध्ये इति चेत्, न। सिद्धसाधनस्योक्तत्वात्। तर्ह्यसद्वैलक्षण्यमात्रं साध्यमस्त्विति चेत्, न। जगद्ब्रह्मणोरसद्विलक्षणयोरवृत्तेर्बाध्यत्वस्यासाधारण्यापातात्। प्रतीतत्वस्य चासत्यपि वृत्तेर्वक्ष्यमाणत्वात्। बाध्यत्वविकल्पदूषणानि चोक्तवक्ष्यमाणान्यनुसन्धेयानीति नानुमानाच्छुक्तिरजतादेरनिर्वाच्यतासिद्धिः। ख्यातिबाधान्यथाऽनुपपत्तिश्च अनेनैव निराकृता वेदितव्या।
किञ्चानिर्वचनीयं चेद् रजतम्, कथन्तर्हि प्रतीतिसमये सदिति, उत्तरकालं चासदिति प्रतीयते? अनिर्वचनीयमित्येव प्रतीतिः कुतो न भवेत्? अधिष्ठानेदन्तासंसर्गवत् तत्सत्तासंसर्गस्याऽरोपात् प्रातीतिकसत्त्वस्य रजतेऽपि विद्यमानत्वाद् वा न सत्प्रत्ययविरोध इत्येतदनन्तरमेव निराकरिष्यते।
असदित्यर्थक्रियासामर्थ्यलक्षणमेव सत्त्वं निराक्रियते नात्यन्तासत्त्वं गृह्यत इति चेत्, न। अर्थक्रियासामर्थ्यस्य तवाप्रसक्तत्वात्। प्रसक्तौ चान्यथाख्यातिस्वीकारप्रसक्तेश्च। वक्ष्यते चैतत्। (१०५)
किञ्चेदं रजतं नित्यम्, अनित्यं वा। आद्ये सर्वदोपलम्भप्रसङ्गः। द्वितीये कारणं वाच्यम्। अविद्येति चेत्, न। तस्यास्त्वन्मतेऽनुपपत्तेर्वक्ष्यमाणत्वात्। (१०७)
किञ्चाविद्याया आत्मनिष्ठत्वात् तत्परिणामभूतं रजतमपि प्रत्यक् प्रकाशेत। आत्मनः सर्वगतत्वाच्छुक्त्यवच्छिन्नचैतन्यस्थाविद्याविवर्तभूतं तत्सम्भिन्नतया प्रतीयत इति चेत्, न। तथासति सर्वोपलब्धिप्रसङ्गात्।
अपिचेदमिन्द्रियसन्निकर्षादुपलभ्यते घटादिवत्, संस्काराद् वा अतीतघटादिवत्, साक्षिणा वा सुखादिवत्? नाऽद्यः, प्रतीतिसमय एव रजतजन्माङ्गीकारात्। न द्वितीयः, अननुभूतत्वात्। न तृतीयः, इन्द्रियव्यापारान्वयव्यतिरेकानुविधानविरोधात्।
अधिकरणग्रहणे तदुपक्षयान्नेति चेत्, न। रजतग्रहेऽधिकरणग्रहस्योपयोगाभावात्। रजतं गृह्यमाणं साक्षिणा शुक्तिसम्भिन्नं गृह्यते। नहि शुक्तिः साक्षात् साक्षिवेद्या, व्यावहारिकत्वात्। किन्त्विन्द्रियव्यवधानेन। रजतं तु प्रातिभासिकं नेन्द्रियव्यवधानमपेक्षते। अतोऽस्ति रजतप्रतीताविन्द्रियोपयोग इति चेत्, न। शुक्तिसम्भेदप्रतीतिनियमे नियामकाभावात्।
किञ्चेन्द्रियेणाधिकरणग्रहणं रजतग्रहणं च साक्षिणेत्यङ्गीकारेऽख्यातिमतानुमतिप्रसङ्गेन प्रवृत्त्याद्यनुपपत्तिः। शुक्तितादात्म्यमपि रजतस्य साक्षिणा गृह्यते, अतो नैवमिति चेत्, न। तथाऽपि ज्ञानद्वयाङ्गीकारेणानुभवविरोधापरिहारात्। इन्द्रियजन्यवृत्तेरपि साक्षिचैतन्यमेव फलमिति फलैक्यान्नेति चेत्, न। अस्याः प्रक्रियाया निरसिष्यमाणत्वात्। (१२१९) अनिर्वचनीयनिराकरणं च तत्रतत्राऽचार्यः स्वयमेव करिष्यतीत्यलं पल्लवेन। तस्मात् साधूक्तम् “विज्ञातस्यान्यथा सम्यग् विज्ञानं ह्येव तन्मतम्” इति॥*॥
॥ असतः प्रतीतिविषयत्वप्रतिपादनम्॥
शुक्तिरजतादौ सदसद्विलक्षणत्वं ज्ञाननिवर्त्यत्वं च न विद्यते असत्त्वादित्युक्तम्। तदयुक्तम्। असतः प्रतीत्यभावात्। अस्य च प्रतीतत्वादित्यत आह असद्विलक्षणेति।
असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि।
तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते॥२५॥
हिशब्दो हेतौ। यस्मादसद्विलक्षणत्वज्ञप्त्यै असज्ज्ञातव्यमेव, तस्मादसत्प्रतीतिश्च कथं तेनासद्विलक्षणं शुक्तिरजतादिकमिति जानता निवार्यते? कथन्तरां च तया रजतादेरसत्त्वं निवार्यत इति चशब्दार्थः।
इदमुक्तं भवति स्यादिदं प्रतीतत्वहेतुना शुक्तिरजतादेरसत्त्वाभावानुमानम्, यदि यदसत् तन्न प्रतीयत इति व्याप्तिः स्यात्। नचैवम्। परस्यैवासत्प्रतीतिमत्त्वेन व्याप्तिभङ्गात्। विप्रतिपन्नोऽसत्प्रतीतिमान्, असद्विलक्षणमिति प्रतीतिमत्त्वात्; यो यद्विलक्षणं प्रत्येति स तत्प्रतीतिमान्, यथा घटविलक्षणः पट इति प्रतीतिमान् देवदत्तो घटप्रतीतिमानित्यनुमानात्।
ननु भवत्वसद्विलक्षणं रजतमिति ज्ञानम्, मा भूच्चासज्ज्ञानम्। नच बाधकं किञ्चिदिति चेत्, न। वैलक्षण्यज्ञानं प्रति प्रतियोगिज्ञानस्य कारणत्वात्। कारणाभावे च कार्योत्पत्तौ नियामकाभावेन कादाचित्कत्वानुपपत्तिप्रसङ्गात्। कारणत्वं चान्वयव्यतिरेकाभ्यां गम्यते। तदिदमुक्तमसद्विलक्षणज्ञप्त्या इति चतुर्थीप्रयोगेण। अन्यथाऽसद्विलक्षणज्ञेनेत्यवक्ष्यत्।
किञ्चाऽस्तां तावदन्यो व्यवहारः। असतोऽप्रतीतावसत्प्रतीतिश्च कथं तेन मायावादिना निवार्यते। नहि यो यन्न जानाति स तत्सम्बन्धितया किञ्चिन्निषेधति। अयमत्र प्रयोगः विमतोऽसत्प्रतीतिमान्, तत्सम्बन्धिधर्मनिषेधकत्वात्; यो यत्सम्बन्धितया किञ्चिन्निषेधति स तत्प्रतीतिमान्, यथा घटस्य नास्ति शौक्ल्यमिति निषेधको घटप्रतीतिमानिति। असत्प्रतीतिश्च कथं तेन निवार्यत इति व्यतिरेकप्रदर्शनं चान्वयावधारणार्थम्। असत्प्रतीतिनिषेधसामर्थ्यात् तस्यासत्प्रतीत्यभावावधारणाद् बाधितविषयतेति चेत्, तर्हि मूकोऽहमिति वचननिषेधसामर्थ्यात् तस्य वचनाभावावधारणाद् वचनप्रतीतेरपि बाधितत्वं स्यात्। स्वक्रियाविरोधात् प्रतिषेध एवायुक्त इति चेत्, समं प्रकृतेऽपि।
॥ असतः सत्त्वाद्यावेदकवाक्य बोधकत्वान्यथानुपपतत्त्याऽपि असतः प्रतीतत्वसमर्थनम् ॥
किञ्च नरशिरसि विषाणमस्तीति वाक्यं बोधकम्, नवा? आद्ये स बोधः सद्विषयः, असद्विषयो वा? नाऽद्यः, बाधाभावप्रसङ्गात्। द्वितीये कथमसतः प्रतीत्यभावः? अनिर्वचनीयार्थप्रतीतिरसाविति चेत्, न। निराकृतत्वात्।
अपिच शशविषाणादिकमपि चेन्नासत्, तदा कुतो वैलक्षण्यं शुक्तिरजतादेराशास्यते? निरूपाख्यादिति चेत्, तर्हि तद्वैलक्षण्यं नाम सोपाख्यत्वमेव। नच तत्र कश्चिद् विप्रतिपद्यते येनायं परस्य प्रयासः सार्थकः स्यात्।
॥ असतः सत्त्वावेदकवाक्यस्य विकल्पत्वोक्तिपरीक्षा॥
कश्चिदाह नास्माद्वाक्यान्नरशिरसि विषाणबोधो जायते। किन्नाम। विकल्पमात्रम्। यथोक्तम् “शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः” इति। स प्रष्टव्यः कोऽयं विकल्पः? ज्ञानम्, अन्यद् वा? द्वितीयो द्वितीयेऽन्तर्भवति। आद्ये वस्तुशून्य इति कोऽर्थः? किं किमप्यनुल्लिखन्, असदेवोल्लिखन् वा? आद्येऽनुभवविरोधः। नहि विषयानुपरक्तो घटादिवदसावनुभूयते। यो हि शशविषाणं नास्तीति न प्रतीतवान् तस्य शशविषाणशब्दाज्जायमानं ज्ञानं न गोविषाणज्ञानाद् विशिष्यते। द्वितीये सिद्धं नः समीहितम्।
नापि द्वितीयः, अनुभवविरोधात्। विमतानि पदानि स्वार्थान्वयप्रतिपत्तिजनकानि, आकाङ्क्षासन्निधिमत्पदत्वात्; गामानयेत्यादिपदवदित्यनुमानविरोधाच्च। नच योग्यतावत्त्वमुपाधिः। प्रतिवादिप्रयुक्तपदेषु साध्याव्यापकत्वात्। तेषां च स्वार्थसंसर्गाबोधकत्वे बधिरविवादवद् वादिवचनस्य निर्विषयत्वापत्तेः। अत एव योग्यताराहित्येन प्रतिपक्षोऽपि परास्तः।
॥ असतः प्रतीतत्वङ्गीकारे कर्तृत्वकर्मत्वाद्यनुपपत्तिपरिहारः॥
ननु कथमसतो भाति भास्यत इति कर्तृत्वं कर्मत्वं वा? समस्तसामर्थ्यविरहितत्वादिति। अथ समस्तसामर्थ्यरहितत्वमपि कथम्? भाववदभावस्यापि सद्धर्मत्वदर्शनात्। बौद्धमेवाभावाश्रयत्वं न वस्तुकृतम्, अतो न विरोध इति चेत्, समं कर्तृत्वकर्मत्वयोरपि। अन्यथा जायते घट इत्यादि न स्यात्। सत्कार्यवादं त्वारम्भणाधिकरणे निराकरिष्यामः। (५८५) अतोऽसतः प्रतीत्युपपत्तेः प्रतीतत्वान्नासच्छुक्तिरजतादिकमित्ययुक्तम्।
॥ रजतेदमंशयोः परस्परधर्मसंसर्गरूपान्यथात्वस्यासतः अपरोक्षतया सत्त्वेन च प्रतीतिप्रतिपादनम्॥
स्यादेतत्। न ब्रूमो वयमसतः प्रतीतिरेव नास्तीति। किन्नाम। अपरोक्षतया सत्त्वेन च। यथोक्तम् “नहि नरि शृङ्गं भातीति गवीव” इति। शुक्तिरजतादिकं चापरोक्षतया सत्त्वेनावभासते। अतः कथमसदित्यत आह अन्यथात्वमिति।
अन्यथात्वमसत् ……………..।
रजतादिकमनिर्वचनीयं प्रतिपद्यमानेनापीदंरजतयोस्तादात्म्यावभासोऽङ्गीक्रियत एव। यथोक्तम् “अध्यासो नामातस्मिंस्तदिति प्रत्ययः” इति। नचैवमन्यथाख्यातिप्रसङ्गः। अधिष्ठानस्य संसृष्टरूपेण मिथ्यात्वेऽपि स्वरूपेण सत्यत्वम्। अध्यस्तस्य संसृष्टरूपेण स्वरूपेण च मिथ्यात्वमिति मायावादिभिरङ्गीकृतत्वात्। तथाचोक्तम्”सत्यानृते मिथुनीकृत्य लोकव्यवहारः” इति। अन्यथाख्यातिवादिभिरधिष्ठानारोप्ययोरुभयोरपि संसृष्टरूपेणैवासत्त्वं स्वरूपेण तु सत्त्वमेवेत्यङ्गीकृतम्। इदंरजतयोस्तादात्म्यानवभासे प्रवृत्त्याद्यसम्भवश्च। तत्र यदन्यथात्वं शुक्तिकेदमंशस्य रजतत्वसंसर्गो रजतस्येदन्तासंसर्गस्तत्तावदसदेव। प्रतीयते चापरोक्षतया सत्त्वेन च। अपरोक्षावभासस्यानुभवसिद्धत्वात्। सत्त्वेनाप्रतीतौ प्रवृत्त्यनुपपत्तेश्च। नहि प्राग् बाधात् सत्यरजतेदन्तासंसर्गादयं संसर्गो मात्रयाऽपि विलक्षणोऽनुभूयते। तथाचासदपरोक्षतया सत्त्वेन च नावभासत इति व्याप्तेरन्यथात्वे भग्न्त्वान्नानेन हेतुनाऽसत्त्वाभावोऽनुमातुं शक्यत इति।
॥ उक्तरूपान्यथात्वस्यासत्त्वसमर्थनम्॥
स्यादेवं यद्यन्यथात्वमसत् स्यात्। तत् कुत इति चेत्, शुक्तिकेदन्तारजतादिसंसर्गरूपस्यान्यथात्वस्यासत्त्वमनभ्युपगच्छतः कोऽभिप्रायः? किं तदन्यथात्वं सदिति, उतानिर्वचनीयमिति? द्वितीये वक्ष्याम इत्याशयेनाऽद्यं दूषयति तस्मादिति।
…………….तस्माद् भ्रान्तावेव प्रतीयते।
एवेति तस्मादित्यनेनापि सम्बद्ध्यते। असत्त्वादेव हि तद् भ्रान्तावेव प्रतीयते। यदि सत् स्यात् तर्हि शुक्तिकादिवदभ्रान्तावपि प्रतीयेत। नचैवम्। तस्मान्न सत्। नहि कारणसामग्र्ये सति कार्यानुत्पत्तिर्युक्तेति।
किञ्चान्योन्यस्मिन्नन्योन्यात्मकत्वमपि चेत्, सत् स्यात् तदाऽतस्मिंस्तदिति न भवेत्। किन्तु तस्मिंस्तदिति। तथाच न तत्प्रत्ययस्य भ्रान्तित्वं स्यात्। सत्यरजतप्रत्ययवत्। तदिदमुक्तम् अन्यथात्वमिति भ्रान्ताविति च। उपलक्षणं चैतत्। अन्योन्यसंसर्गस्य सत्त्वे बाधोऽपि नेदं रजतमिति न स्यादित्यपि द्रष्टव्यम्।
॥ असतोऽपि रजतसत्त्वस्यापरोक्षतया सत्त्वेन च प्रतीतिप्रतिपादनम्॥
असदपरोक्षतया सत्त्वेन च नावभासत इति व्याप्तेः स्थानान्तरेऽपि व्यभिचारं दर्शयति सत्त्वस्येति।
सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता।
एवंशब्दः समुच्चये। उपमार्थो वा। हिशब्दोऽनुभवसिद्धिद्योतनार्थः। स्वीकार्यैवेति युक्त्युपेततामाह। प्रतीतता अपरोक्षया सत्त्वेन चेति शेषः।
अयमर्थः रजतमनिर्वचनीयं मन्यमानस्यापि मते तत् किमनिर्वचनीयतया प्रतीयते, उतासत्त्वेन, अथवा सत्त्वेन? न प्रथमद्वितीयौ, तथा प्रतीत्यनुपलम्भात्। तथाप्रतीतौ प्रवृत्त्यभावप्रसङ्गाच्च। नहि असत् प्रातिभासिकं वा कदाचिदनेनार्थक्रियासूपयुज्यमानं दृष्टम्। येनास्यासत्त्वादिकं प्रतीत्यापि प्रवर्तेत। तस्मात् सत्त्वेनैव प्रतीयत इत्येव स्वीकार्यम्। तथाचानुभवः सदिदं रजतमिति। प्रवृत्तिश्चैवमुपपद्यते। रजतप्रतीतिमात्रात् प्रवृत्तिरिति चेत्, न। उक्तानुभवविरोधात्। विधिनिषेधाववधूय प्रत्ययायोगाच्च। तथाच तत् सत्त्वं सत्, असत्, अनिर्वचनीयं वा? नाऽद्यः, अनिर्वचनीयताविरोधात्। नहि यस्य सत्त्वं सत् तदनिर्वाच्यमिति सम्भवति। द्वितीयस्तु स्यात्। ततश्च यथाऽसतोऽन्यथात्वस्य अपरोक्षतया सत्त्वेन च प्रतीतता स्वीकार्या, एवमसतः सत्त्वस्यापि विशिष्टप्रतीतता स्वीकार्यैव। तथाच यदसत् तदपरोक्षतया सत्त्वेन च नावभासत इति व्याप्तेः सत्त्वे भग्न्त्वात्। एतेन हेतुना नासत्त्वाभावो रजतस्यानुमातुं शक्यत इति।
॥ संसर्गद्वयस्याप्यनिर्वाच्यत्वाङ्गीकारेऽनवस्थितिप्रसङ्गः॥
आह अपरोक्षतया सत्त्वेन च प्रतीतत्वमसत्यप्यन्यथात्वे वर्तमानमनैकान्तिकमिति यदुक्तं तदयुक्तम्। अन्यथात्वस्यासत्त्वाभावात्। शुक्तौ तावदिदन्ता सत्यैव। तत्संसर्गश्च रजते रजतत्ववदनिर्वचनीय एवाऽरोपितः। एवं रजतत्वं च रजतेऽनिर्वचनीयं तत्संसर्गश्चेदमास्पदेऽनिर्वचनीय एवाऽरोपितः।
यदपि रजते सत्त्वमसदेवापरोक्षतया सत्त्वेन प्रतीयत इत्यभिहितम्। तच्चानुपपन्नम्। शुक्तिकायां सदेव सत्त्वं रजते प्रतीयते। नतु रजतस्य परं सत्त्वं नामास्तीत्यङ्गीकारात्। शुक्तिकेदन्तासंसर्गवत् तत्सत्तासंसर्गस्याप्यनिर्वचनीयस्यैवाऽरोपितस्य प्रतीयमानत्वादिति प्राग् विकल्पितं पक्षमाशय परिहरति तस्येति।
तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः॥२६॥
इदन्तारजतत्वयोरितरेतरसंसर्गस्य तथा रजते शुक्तिकासत्त्वसंसर्गस्यानिर्वचनीयत्वेऽङ्गीक्रियमाणे अनवस्थितिः स्यात्, हि यस्मात् तस्मादुभयमसदेवाङ्गीकरणीयमिति पूर्वेण सम्बन्धः।
तथाहि संसर्गद्वयमनिर्वचनीयमिति कोऽर्थः? किं व्यावहारिकम्, उत प्रातिभासिकमिति। नाऽद्यः, अनङ्गीकारात्। तथात्वे वा रजतस्यापि व्यावहारिकत्वापातात्। द्वितीये प्रातिभासिकतयैव प्रतीयते, व्यावहारिकतया वा? नाऽद्यः, प्रवृत्त्यभावप्रसङ्गात्। नहि प्रातिभासिकमर्थक्रियासूपयुक्तं क्वचिदुपलब्धं यतस्तद्भावं प्रतीत्यापि प्रवर्तेत। द्वितीये तु किं व्यावहारिकता सती,अथासती? नाऽद्यः, प्रातिभासिकत्वानुपपत्तेः। द्वितीयेऽपरोक्षतया सत्त्वेन चासतोऽपि प्रतीतिप्रसङ्गः।
अथ सा व्यावहारिकताऽप्यनिर्वचनीयैवाऽरोपितेत्युच्यते तदाऽनिर्वचनीयेति कोऽर्थ इत्यादेरावृत्त्याऽऽरोपपरम्पराऽपर्यवसानापत्तिः स्यात्। यत्रैवाऽरोपपर्यवसानं तत्रैव प्रवृत्त्यभावो वाऽसतो विशिष्टप्रतीतिर्वा प्रसज्येत।
नचेयमपर्यवसिता परम्परा सिद्धविषया। येन बीजाङ्कुरपरम्परावददूषणं स्यात्। नचेयं कस्याप्यप्रतिबन्धकत्वाददोष इति वाच्यम्। पूर्वपूर्वारोपानुपपत्तावुत्तरोत्तरारोपानुपपत्तेः। प्रवृत्त्यनुपपत्तेश्च।
नच वाच्यं सर्वेऽप्यारोपा एककालमेव भवन्तीति। ज्ञानानां यौगपद्यायोगात्। अधिष्ठानसिद्ध्युत्तरकालीनत्वाच्चाऽरोपस्य। यथा विसर्पणविशिष्टः सर्पो रज्जावारोप्यते, एवमेक एवायं विशिष्टारोप इति चेत्, न। अनन्तानिर्वाच्यविशेषणविशिष्टार्थगर्भस्याऽरोपस्याननुभवात्। विशेषणभेदेन विशिष्टप्रत्ययभेदस्याऽवश्यकत्वाच्च।
ननुच संसर्गद्वयं न प्रातिभासिकतया प्रतीयते, नापि व्यावहारिकतया। किन्तु स्वरूपेणैव। अतो नानवस्थेति चेत्, व्यावहारिकत्वाप्रतीताविष्टाभ्युपायत्वानुमानाद्यनुपपत्तौ प्रवृत्त्यनुपपत्तेः। अन्यथा रजतावभासादेव प्रवृत्त्युपपत्तौ किं संसर्गग्रहणेनेति वदता जितं प्राभाकरेण। तस्मादपरिहार्यैवेयमनवस्था। तदिदमुक्तम् स्यादेवेति।
॥ सिद्धान्तेऽप्यनवस्थितिमाशय परिहारकथनम्॥
ननु भवत्पक्षेऽपि रजतस्य प्रतीयमानं सत्त्वं सत्, असद् वा? नाऽद्यः, रजतस्यापि सत्त्वापत्तेः। द्वितीये किमसत्त्वेन प्रतीयते, किंवा सत्त्वेन? नाऽद्यः प्रवृत्त्यभावापत्तेः। द्वितीये तदपि सदसद्वेति समानो दोषः। न समानः। विधिप्रत्ययस्यैव सत्त्वविशिष्टविषयत्वाभ्युपगमात्। नच सत्त्वस्यापरं सत्त्वमस्माभिरभ्युपगम्यते। किन्तु रजतविधिप्रत्ययमात्रादेव प्रवृत्त्युपपत्तेः। नचैवं परस्याभ्युपगमः। सत्त्वेऽप्यवान्तरभेदाङ्गीकारेण तत्प्रतीतिमात्रस्य प्रवृत्त्यनुपयोगित्वादिति।
॥ रजतसत्त्वस्य अविद्योपाधिकप्रातिभासिकत्वाङ्गीकारस्य दूषणाभिधानम्॥
अपर आह सदिदं रजतमिति प्रतीयमानं सत्त्वम्। नासत्। येनोक्तव्याप्तेर्भङ्गः स्यात्। किन्नाम। ब्रह्मणीव पारमार्थिकमम्बरादेरिव मायोपाधिकं व्यावहारिकं शुक्तिरजतादावप्यविद्योपाधिकं प्रातिभासिकं सत्त्वमस्त्येवेति। तदसत्। सत्त्रैविध्यस्यैव दूषितत्वात्। (६५)
दूषणान्तरं चाऽह तस्येति। तस्य सत्त्वस्यानिर्वचनीयत्वे प्रातीतिकत्वे तथैव प्रतीतौ स्वरूपमात्रप्रतीतौ वा स्यादेवानवस्थितिः अव्यवस्थितिः, प्रवृत्तेरिति शेषः। व्यावहारिकत्वाद्याकारेण प्रतीतौ पूर्ववदनवस्थितिः स्यादेवेति। तस्मान्न वियदादिप्रपञ्चस्यानिर्वचनीयत्वमिति सिद्धम्।
॥ बन्धस्याज्ञानोपादानकत्ववादनिरासाय मायावादिमतेऽज्ञानस्य असम्भवित्वव्युत्पादनम्॥
एवं बन्धस्याध्यस्तत्ववर्णनं प्रकृतानुपयुक्तम्, अयुक्तं चेत्यभिधायाधुना यत् परेण मिथ्याज्ञाननिमित्त इति बन्धस्य मिथ्याभूताज्ञानोपादानकत्वमुक्तं तदप्यनुपपन्नमित्याशयवान् परमतेऽज्ञानासम्भवं तावदाह “निर्विशेषे” इत्यादिना।
॥ अज्ञानस्य ब्रह्माश्रितत्वे तद्धर्मस्वरूपावरकत्वानुपपत्तेरज्ञानवैयर्थ्यम्॥
तथाहि यत् तावत् परेण भावरूपमज्ञानमङ्गीकृतम्। तत् किं जीवाश्रयम्, उत जडाश्रयम्, अथ ब्रह्माश्रयम्? नाऽद्यः, प्रकृत्यधिकरणे निराकरिष्यमाणत्वात्। (४०८) न द्वितीयः, अनभ्युपगमात्। जडस्य अज्ञानकल्पितत्वेनेतरेतराश्रयत्वात्। कारणस्य कार्याश्रितत्वादर्शनाच्च।
तृतीयेऽपि वक्तव्यम् किं तद् ब्रह्माश्रितमज्ञानं ब्रह्मैव प्रतिबध्नाति, अथ जीवम्, उत जडम्। आद्ये तस्य ब्रह्माश्रितस्य ब्रह्मावरणस्याज्ञानस्य विषयो वाच्यः। आवरणं खलु पटलादिकं क्वचिदाश्रितं किञ्चिद्विषये किञ्चित् प्रतिबध्नातीत्युपलब्धम्। तत्र ब्रह्मावरणेनाज्ञानेन ब्रह्मगतः कश्चिद्धर्मो वाऽऽव्रियते, स्वरूपमेव वा, अन्यद् वा किञ्चित्। आद्यपक्षद्वयं निराकरोति निर्विशेष इति।
निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेत्
मिथ्याविशेषोऽप्यज्ञानसिद्धिमेव ह्यपेक्षते॥२७॥
हेत्वर्थगर्भं विशेषणद्वयम्। किमाक्षेपे। ब्रह्मण्यावरणतयाऽङ्गीकृतेनाज्ञानेन किमावृतं भवेत्? न किमपि भवेत्। न तावद् धर्मः। परेण ब्रह्मणो निर्विशेषत्वाङ्गीकारात्। नापि स्वरूपम्। स्वयम्प्रकाशत्वेन नित्यसिद्धत्वात्। नहि प्रकाशमानमावृतं चेति सम्भवति। आवरणकृत्याभावात्।
॥ ब्रह्माश्रिताज्ञानस्य मिथ्याभूततद्धर्मावरकत्वेऽन्योन्याश्रयः॥
स्यादेतत्। मा भूद् ब्रह्मावरकेणाज्ञानेन स्वरूपमावृतम्। तथाऽप्यद्वितीयत्वादिस्तद्धर्मो भविष्यति। परमार्थतो ब्रह्मणो निर्विशेषत्वेऽपि मिथ्याधर्माङ्गीकारात्। मिथ्यात्वं चाद्वितीयत्वादीनां न स्वरूपेण। किन्नाम। धर्मत्वेनैव। यथोक्तम् “अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते” इति।
तत्राऽह मिथ्याविशेषोऽपीति। नाज्ञानावृत इत्यपेरर्थः। कुत इत्यत आह अज्ञानसिद्धिमेवेति। हिशब्दो हेतौ। अद्वितीयत्वादिधर्मो ह्यज्ञानावृतो भवन् न तावत् स्वरूपेण। स्वरूपस्याऽवरणविषयताया निरस्तत्वात्। मिथ्याभूतेन धर्मत्वेनाज्ञानावरणविषयतायां तु परस्पराश्रयत्वं स्यात्। यतो मिथ्याधर्मः अज्ञानसिद्धिमपेक्षते। अज्ञानातिरिक्तस्य मिथ्याभूतस्याज्ञानकार्यत्वाभ्युपगमात्। अज्ञानं च मिथ्याभूतविशेषमपेक्षते। निर्विषयस्याऽवरणस्यानुपपत्तेः।
॥ ब्रह्माश्रिताज्ञानस्य जीवावरकत्वानुपपत्तिः॥
एतेन ब्रह्मान्यद् ब्रह्मावरणाज्ञानावृतमिति तृतीयोऽपि निरस्तः। तस्य मिथ्यात्वेनाज्ञानसापेक्षतया अन्योन्याश्रयत्वात्। अत एव जीवं प्रतिबध्नात्यविद्येति द्वितीयो निरस्तो वेदितव्यः।
॥ ब्रह्माश्रिताज्ञानस्य जडावरकत्वनिराकरणम्, मायावादिनाऽपि तदङ्गीकारः॥
मा भूद् ब्रह्मणोऽज्ञानमावरणम्, मा भूज्जीवस्य, जडस्य तु भविष्यतीति तृतीयं निराचष्टे नचेति।
नचाऽवरणमज्ञानमसत्ये तेन चेष्यते।
जड इति वक्ष्यमाणमत्रापि सम्बद्ध्यते। तेनाऽद्यस्य चशब्दस्य सम्बन्धः। आवरणमिति ज्ञानाभावनिवृत्त्यर्थम्। तस्य जडेऽपि सम्भवात्। असत्य इति हेत्वर्थगर्भं विशेषणम्। तेन च नेष्यत इति दूषणान्तरम्।
तदयमर्थः जडस्याप्यावरणरूपमज्ञानं न सम्भवति। तस्य मिथ्यात्वेनाज्ञानसापेक्षतया पूर्ववदितरेतराश्रयतापातात्। कारणस्य कार्याश्रितत्वादर्शनाच्च। मायावादिनाऽपि जडावरणाज्ञानानभ्युपगमाच्च। यदाह “सा च न जडेषु वस्तुषु तत्स्वरूपावभासं प्रतिबध्नाति” इति।
॥ मायावादिनाऽज्ञानस्य जडावरकत्वानभ्युपगमे निमित्तम्॥
केन हेतुना मायावादी जडेऽज्ञानं नाङ्गीकरोतीत्यत आह अप्रकाशेति।
अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते।
आवरणमित्यत्राप्यनुवर्तते। न मन्यते मायावादीति शेषः। सति पुष्कलकारणे कार्यानुदयेन खलु प्रतिबन्धकमावरणं कल्प्यम्। जडस्याप्रकाशस्वरूपत्वादेव स्वपरग्रहणासम्भवे किमावरणकल्पनयेति परो मन्यते। यथाऽह “प्रमाणवैकल्यादेव तदग्रहणसिद्धेः” इति। प्रमाणवैकल्यात् प्रकाशत्स्वरूपत्वाभावादित्यर्थः।
॥ अज्ञानस्य जडाश्रितत्वाङ्गीकारे अज्ञानस्वरूपस्यैव प्रतीत्यभावप्रसङ्गः॥
अथवा अप्रकाशस्वरूपत्वादित्यनेन जडाश्रयत्वेऽविद्यायाः प्रतीत्यभावप्रसङ्गमाह। प्रतीतिर्हि स्वप्रकाशतया वा, प्रकाशाश्रयतया वा। न तावदाद्यः, अविद्यायामप्रकाशस्वरूपत्वात् तस्याः। नापि द्वितीयः। तदाश्रयस्य जडस्याप्रकाशस्वरूपत्वादिति। अनेन परोक्तिव्याजेन जडेऽज्ञानावरणनिराकरणे युक्त्यन्तरमुक्तं भवति।
यद्यप्यत्राप्यप्रकाशस्वरूपत्वादित्येवालम्, तेन नेष्यत इत्यनेनान्वयोपपत्तेः। तथाऽपि तेन नेष्यत इत्यनावर्त्येयं स्वमतेनैव युक्तिरभिहितेति प्रतीतिः स्यात्, तदर्थं जडेऽज्ञानं न मन्यत इत्युक्तम्।
॥ मायावादिमतेऽज्ञानासम्भवेन शास्त्रवैयर्थ्यप्रसङ्गः॥
किमतो यद्येवमित्यत आह अज्ञानाभावत इति।
अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति॥२८॥
आवरणं हि खल्वाश्रयादिमत्तया व्याप्तमुपलब्धं यथा नयनपटलादि। अज्ञानावरणस्य चाऽश्रयादि उक्तविकल्पान्यतमत्वेन व्याप्तम्। अतिरिक्तस्य शङ्कितुमप्यशक्यत्वात्। व्यापकाभावे व्याप्याभावः सुलभ एव। तथाचोक्तविकल्पानुपपत्तावाश्रयाद्यभावेऽज्ञानावरणस्याप्यभावः परमते प्रसक्तः। अज्ञानाभावे च बन्धस्य न तदुपादानत्वम्। ततश्च सर्वं शास्त्रं वेदतन्मीमांसात्मकं व्यर्थीभविष्यति।
अर्थो विषयः प्रयोजनं च। प्रसङ्गस्यानिष्टत्वख्यापनायाभूततद्भावार्थस्य च्वेः प्रयोगः। मायावादिना हि शास्त्रस्य विषयप्रयोजनवत्तासिद्ध्यर्थमात्मनि मिथ्याभूताज्ञानोपादानको बन्धाध्यासो वर्णितः। अज्ञानानुपपत्तौ च तदुपादानकस्याऽत्मनि बन्धाध्यासस्याप्यनुपपत्तेस्तदधीना विषयप्रयोजनवत्ता च शास्त्रस्य न स्यादिति।
किञ्चास्तु वा बन्धोऽज्ञानोपादानकः, तथाऽप्यज्ञानस्य सत्यत्वे बन्धस्यापि सत्यत्वात् सत्यस्य च ज्ञाननिवर्त्यत्वाभावाभ्युपगमाच्छास्त्रस्य वैयर्थ्यं तदवस्थमेव।
॥ अज्ञानस्य मिथ्यात्वाङ्गीकारेऽनवस्थित्यादिदोषप्रसङ्गः॥
नन्वत एव अज्ञानस्यापि मिथ्यात्वमुक्तम् “मिथ्याज्ञाननिमित्तः” इति। सत्यमुक्तम्, दुरुक्तं तत्। तथाहि मिथ्या चेदज्ञानं तदप्यात्मन्यारोपितमिति वक्तव्यम्। मिथ्याभूतस्याशेषस्य तथात्वाभ्युपगमात्। तथाचाज्ञानारोपः स्वाभाविकः, सहेतुको वा। आद्येऽनिर्मोक्षप्रसङ्गः। स्वाभाविकस्य निवृत्त्यनुपपत्तेः। उपपत्तौ वाऽऽत्मरूपस्यापि तदापत्तेः।
द्वितीयेऽपि किमात्मस्वरूपमेव निमित्तमज्ञानारोपस्य, उताज्ञानम्? नाऽद्यः, निष्कलङ्कैकरसाद्वितीयस्य चैतन्यस्य तदयोगात्। योगे वाऽहङ्काररजतादिसमारोपस्यापि तथात्वोपपत्तावज्ञानकल्पनावैयर्थ्यात्। चैतन्यमात्रहेतुकस्य मोक्षेऽपि प्रसङ्गाच्च। द्वितीये दूषणमाह अज्ञानस्येति।
अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने।
अनवस्थितिस्तथाच स्यादन्योन्याश्रयताऽथवा॥२९॥
मिथ्यात्वं तत एवाऽरोपितत्वं च। अभ्युपगम इति वक्तव्ये कल्पन इति वचनमस्याभ्युपगमस्य अप्रामाणिकत्वं सूचयितुम्। तेनाज्ञानारोपोपादानमप्यज्ञानं सत्यं चेद् बन्धस्यापि सत्यत्वापत्तिः, आरोपितत्वे पूर्ववदज्ञानान्तरारोपोपगमादनवस्थेत्यदूषणं बीजाङ्कुरानवस्थावत् कर्मानवस्थावद् वाऽस्याप्यनवस्थाया सिद्धविषयत्वादित्यपास्तं भवति। नह्यहङ्काररजताद्यारोपोपादानमज्ञानमपि प्रागारोपिताज्ञानान्तरोपादानकं तदप्येवमेवेत्यत्र किमपि प्रमाणमस्ति।
स्यादियमनवस्था यद्यज्ञानोपादानमज्ञानान्तरोपादानकमित्यभ्युपगच्छामः। नचैवम्। प्रथमाज्ञानस्यैव तदुपादानत्वादित्यत आह तथाचेति। अज्ञानद्वयस्याप्यन्योन्योपादानत्वं शङ्कितुर्बुद्धौ परिवर्तमानं तथाच सतीति परामृश्यते। अथवा तथाशब्द उपमायाम्। चशब्दः समुच्चये। यथाऽज्ञानस्य उपादानत्वेऽनवस्थितिः, तथाऽन्योन्याश्रयता च स्यादिति योज्यम्। दूषणसमुच्चयश्र्चोक्तविधया व्यवस्थित इति।
नन्वज्ञानस्याज्ञानोपादानकत्वेऽपि नानवस्थादिदोषः। एकमेवाज्ञानं स्वोपादानमित्यभ्युपगमादित्यत आह अथवेति। आत्माश्रयतेति शेषः। अथवेत्युक्तपक्षान्तरद्योतको निपातः।
ननुचाज्ञानारोपस्यानादित्वात् कथमनवस्थितिप्रसङ्ग इति चेत्, न। स्वाभाविकत्वसहेतुकत्वपक्षयोरन्यतरस्यावश्याभ्युपगमनीयत्वात्।
अपिचानादिरेकैवाविद्येत्यभ्युपगच्छताऽपि न तावत् तस्याः स्वरूपतः सत्त्वमभ्युपगतम्। किन्नाम। प्रातिभासिकम्। नच तत्प्रतिभासोऽसङ्गस्य निष्कलङ्कचैतन्यस्य विनाऽज्ञानप्रतिभासादुपपद्यते। ततो मा नाम भूदज्ञानपरम्परादिनाऽनवस्थादिदोषः। तत्प्रतिभासपरम्परादिकृतस्तु कथं परिहरणीयः? कर्मपरम्पराप्रतिबन्दी तु मोचितैवेति।
“नवैकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्याम्” इति वचनादत्र छन्दोभङ्गो न शङ्कनीयः। अनवस्थेति वक्तुं शक्ये यदनवस्थितिरित्याह तद् वैदिकत्वज्ञापनार्थम्।
॥ विवरणकारेण भावरूपाज्ञानस्य प्रत्यक्षप्रमाणकत्वोपपादनम्॥
स्यादेतत्। अवश्यं तावदज्ञानमनादि भावरूपं विज्ञानविलाप्यमभ्युपगन्तव्यम्, प्रत्यक्षानुमानागमार्थापत्तिसिद्धत्वात्।
“प्रत्यक्षं तावत् “अहमज्ञः’ , “मामन्यं च न जानामि’ इत्यपरोक्षावभासदर्शनात्। ननु ज्ञानाभावविषयोऽयमवभासः। न। अपरोक्षावभासत्वात्। अहं सुखीतिवत्। अभावस्य षष्ठप्रमाणगम्यत्वात्।
प्रत्यक्षाभाववादिनोऽपि नाऽत्मनि ज्ञानाभावावगमः सम्भवति। “मयि ज्ञानं नास्ति’ इति प्रतिपत्तावात्मनि धर्मिणि प्रतियोगिनि चार्थेऽवगते तत्र ज्ञानसद्भावाज्ज्ञानाभावप्रत्ययायोगात्। अनवगतेऽपि धर्म्यादौ सुतरामभावानवगमात्। षष्ठप्रमाणगोचरे फललिङ्गाभावानुमेयेऽपि ज्ञानाभावे आत्मादाववगतेऽनवगते आत्मनि ज्ञानाभावप्रतिपत्त्ययोगात्।
इह च “त्वदुक्तमर्थं सङ्ख्यां वा शास्त्रार्थं वा न जानामि’ इति विषयव्यावृत्तमज्ञानमनुभूय तच्छ्रवणादौ प्रवर्तते। भावरूपाज्ञानप्रत्यक्षवादे तु सत्यप्याश्रयप्रतियोगिज्ञाने ज्ञानाभावस्येव भावान्तरस्यापि नानुपपत्तिर्नियन्तुं शक्यते।
नचाऽश्रयप्रतियोगिज्ञानभूतमपि साक्षिचैतन्यं भावान्तरस्याज्ञानस्य निवर्तकम्। तस्याज्ञानविषयप्रतिभासत्वात्। नहि स्वज्ञानेन स्वयं निवर्तते।
नन्वज्ञानस्य व्यावर्तको विषयः कथं साक्षिचैतन्येनावभास्यते, प्रमाणायत्तत्वाद् विषयसिद्धेरिति। उच्यते सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एव। तत्र ज्ञाततया विषयः प्रमाणव्यवधानमपेक्षते। अन्यस्तु सामान्याकारेण विशेषाकारेण वाऽज्ञानव्यावर्तकतया सदा साक्षादवभास्यत इत्युपपत्तिसहितमज्ञानप्रत्यक्षं भावरूपमेवाऽत्मन्यज्ञानं गमयतीति सिद्धम्”
॥ भावरूपाज्ञाने चित्सुखोक्तं सौषुप्तिकानुभवरूपप्रत्यक्षम्॥
“किञ्च न किञ्चिदवेदिषमिति परामर्शसिद्धसौषुप्तिकानुभवोऽप्यत्र प्रमाणम्। नच ज्ञानाभावविषयोऽयमनुभवः, अभावप्रतीतेर्धर्मिप्रतियोगिबोधपराधीनतया तदभावे तस्यानुभवितुमयोग्यत्वस्योक्तत्वात्। नच नायं सुषुप्तिकालीनानुभवपरामर्शः, किन्तु तदुत्थितस्येदानीमेव सौषुप्तिकज्ञानाभावानुमानमिति वाच्यम्। तदनुमापकलिङ्गासिद्धेः। नच सामग्र्यभावो लिङ्गम्, तस्याप्यसिद्धेः। नच ज्ञानाभावेन तदनुमानम्, अन्योन्याश्रयतापत्तेः। नच स्मरणाभावो ज्ञानाभावे लिङ्गम्, व्यभिचारात्”
॥ भावरूपाज्ञाने विवरणकृदुक्तमनुमानम्॥
तदेवं प्रत्यक्षसिद्धेऽज्ञाने “अनुमानमपि विवादगोचरापन्नं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थप्रकाशकत्वात्; अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति। ततश्च ज्ञानेन समानाश्रयविषयं भावरूपमज्ञानं सिद्धम्”
॥ भावरूपाज्ञाने न्यायदीपावल्युक्तमनुमानम्॥
“अपिच न तावदज्ञानं ज्ञानाभावः, अभावमानागम्यत्वात्; सम्प्रतिपन्नवत्। अभावो ह्यभावस्य प्रत्यक्षस्य वा विषयः परेणेष्यते। अज्ञानं च न मानगम्यम्, माननिवर्त्यत्वात्; सम्प्रतिपन्नवत्”
॥ भावरूपाज्ञाने चित्सुखोक्तमनुमानम्, आगमोदाहरणं च॥
“किञ्च विगीतं देवदत्तनिष्ठप्रमाणज्ञानं देवदत्तनिष्ठप्रमाणप्रागभावातिरिक्तानादेर्निवर्तकम्, प्रमाणज्ञानत्वात्; यज्ञदत्तगतप्रमाणज्ञानवत्”
“तम आसीत्”, “मायां तु प्रकृतिं विद्यात्” इत्याद्यागमोऽत्र प्रमाणम्।
॥ भावरूपाज्ञाने चित्सुखोक्ताऽर्थापत्तिः॥
“त्वदुक्तमर्थं न जानामीति व्यवहारान्यथानुपपत्तिरपि भावरूपाज्ञानसद्भावे मानम्। नच प्रमाणतो न जानामीत्येवम्परतया व्यवहारोपपत्तिः। त्वदुक्तेऽर्थे प्रमाणज्ञानं मम नास्तीत्यस्य विशिष्टविषयज्ञानस्य प्रमाणत्वात्। तद्विशेषणतयाऽर्थस्यापि प्रमाणेनाधिगमात् स्ववचनव्याघातापत्तेः। एतदतिरिक्तप्रमाणज्ञानं मम त्वदुक्तेऽर्थे नास्तीति च वदतो वचनव्याघातदोष एव। अस्यापि ज्ञानस्य पूर्ववदेव प्रमाणत्वात्। नच प्रमाणेन सामान्यतोऽर्थस्याधिगमेऽपि विशेषानधिगमाददोषः। विशेषस्याप्यधिगमानधिगमयोः पूर्वोक्तदोषानतिवृत्तेः।
ननु भावरूपमप्यज्ञानं ज्ञाननिरस्यमभ्युपगम्यते भवद्भिः। तत् कथं ज्ञायमानेऽर्थे न जानामीति व्यवहारः? मैवम्। अस्मन्मतेऽज्ञानस्य साक्षिवेद्यतया प्रमाणाबोध्यत्वात्। प्रमाणज्ञानोदयात् प्राक् चाज्ञानविशेषितोऽर्थः साक्षिसिद्धोऽज्ञात इत्यनुवादगोचरो भवति। भवति च प्रश्र्नार्हः”
॥ भावरूपाज्ञाने विवरणकृदुक्ते अर्थापत्ती॥
“किञ्च विशुद्धब्रह्मात्मनि शुक्तिकायां चाहङ्काररजताद्यध्यासस्यार्थज्ञानात्मकस्य मिथ्याभूतस्य मिथ्याभूतमेव किञ्चिदुपादानमन्वेषणीयम्। सत्योपादानकत्वे कार्यकारणस्वभावतयाऽध्यासस्यापि सत्यत्वप्रसङ्गात्। तस्यापि मिथ्योपादानस्य सादित्वे तथाविधोपादानान्तरकल्पनाप्रसङ्गादनाद्येव तन्मिथ्योपादानमिति कल्पनीयमिति मिथ्याध्यास एव तथाविधाज्ञानोपादानकारणमन्तरेणानुपपद्यमानस्तत् कल्पयतीति”
“किञ्च ज्ञानाद् बन्धनिवृत्तिश्रवणाद्यन्यथाऽनुपपत्तिरपि बन्धोपादानाज्ञाने प्रमाणम्”
तदेवं प्रत्यक्षादिप्रमाणतः सिद्धमज्ञानं न तावदनात्मनि सम्भवति। प्रमाणप्रयोजनयोरभावात्। अतः परिशेषादात्मन्येवाज्ञानमङ्गीकरणीयम्। तत् कथमुच्यतेऽज्ञानाभावत इति?
॥ टीकाकृता भावरूपाज्ञानसाधकप्रमाणानामाभासताव्युत्पादनम्॥
अत्रोच्यते यत्तावद् भावरूपाज्ञानसिद्धौ प्रत्यक्षमुपन्यस्तम्, तस्य ज्ञानाभावविषयत्वे को दोषः? अभावस्य षष्ठप्रमाणविषयत्वान्नेति चेत्, न। प्रत्यक्षत्वस्याङ्गीकर्तुमुचितत्वात्। धर्मिप्रतियोगिज्ञानभावाभावयोरनुपपत्तिरिति चेत्, न। तथासति ज्ञानाभावस्य तव सर्वथाऽप्यप्रतीतिप्रसङ्गात्। ततश्च तन्निरासप्रयासानुपपत्तिः। मम साक्षिणा ज्ञानाभावप्रतीतिरिति चेत्, तर्हीयमेव सा भवतु।
सौषुप्तिकज्ञानाभावानुमानेऽपि काऽनुपपत्तिः? पक्षाप्रतीतेर्नेति चेत्, न। तस्याप्यनुमानोपपत्तेः। नच ज्ञानाभावानुमाने लिङ्गाभावः। अवस्थाविशेषत्वस्यैव लिङ्गत्वसम्भवात्।
अनुमानं त्वसम्बद्धमेव। प्रकाशकत्वस्य ज्ञाने प्रदीपप्रभायां चैकस्याभावेनासिद्ध्यादिप्रसङ्गात्। शब्दसाम्यमात्रेणानुमाने तु गोत्वेन वागादीनामपि शृृङ्गित्वादिप्रसङ्गः। तमोविरोधित्वमेकमुभयत्र अस्तीति चेत्, न। तमोऽप्यविद्या, अन्धकारो वा? नाऽद्यः, दृष्टान्तस्य साधनविकलत्वात्। न द्वितीयः, असिद्धेः।
अभावमानागम्यत्वं त्वसिद्धमेव। अज्ञानं न मानगम्यं माननिवर्त्यत्वादिति चेत्, न। तथासति तत्र प्रमाणोपन्यासवैयर्थ्यापातात्। तदभावो व्यावर्त्यत इति चेत्, न। अभावव्यावर्तनं भावसाधनमित्येकार्थत्वात्। तृतीयानुमानं तु घटादेरपि तत्साधनसौलभ्येन परास्तम्।
त्वदुक्तमर्थं न जानामीति व्यवहारस्तु ज्ञानाभावविषयोऽपि भविष्यति। अध्यासकार्यानुपपत्तिस्तु नास्त्येव, ज्ञानस्यान्तःकरणोपादानतोपपत्तेः। सत्योपादानत्वे सत्यताप्रसङ्गस्त्विष्ट एव। नहि रजतवज्ज्ञानस्यापि बाधोऽस्ति। तथात्वे याथार्थ्यमपि स्यादिति चेत्, न। स्वरूपसतोऽपि विषयासत्त्वेनायथार्थत्वोपपत्तेः। नहि स्वरूपसतो विषयसत्तयाऽपि भाव्यमिति नियामकमस्ति, साक्षिचैतन्ये व्यभिचारात्। अर्थस्तु रजतादिः, असत्त्वात् कारणमेव नापेक्षते। ज्ञानाद् बन्धनिवृत्तिस्त्वसिद्धैवेत्युक्तम्। अतो नोक्तप्रमाणैर्भावरूपाज्ञानसिद्धिः।
॥ सिद्धान्तेऽज्ञानस्य जीवाश्रितत्वजीवावरकत्वाङ्गीकारात् न शास्त्रवैयर्थ्यादिदोषप्रसङ्गः॥
किञ्च न वयं भावरूपाज्ञानस्य परिपन्थिनः। किन्नाम। परपक्षे तन्न सम्भवतीति ब्रूमः। नन्वङ्गीकृतं चेदज्ञानं तर्हि भवतोऽप्युक्तानुपपत्त्या शास्त्रवैयर्थ्यमापन्नमित्यत आह स्वभावेति।
स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद् भवेत्।
स्वश्चासौ भावश्चेति स्वभावो जीवः, तदाश्रितं तदावरणं चाज्ञानमिति वादः स्वभावाज्ञानवादः। तस्य निर्दोषत्वाज्जडब्रह्माज्ञानवादोक्तदोषाभावान्न तत् शास्त्रवैयर्थ्यमस्मन्मते भवेत्।
तथा स्वयमेव भवत्यस्तीति स्वभावो नाज्ञानकल्पित इति यावत्। तदज्ञानवादस्योक्तेतरेतराश्रयदोषविकलत्वान्न तद् भवेत्।
तथा स्वः स्वतन्त्रो भावः परमात्मा, स्वस्य भावो धर्मः पारतन्त्र्यादिर्वा स्वभावस्तद्विषयमज्ञानं जीवस्येति वादः स्वभावाज्ञानवादः। तस्य स्वप्रकाशे स्वविषयाज्ञानासम्भवदोषविधुरत्वान्न तद् भवेत्।
तथा स्वभावभूतमेवाज्ञानं न मिथ्येति वादस्यानवस्थादिदोषरहितत्वान्न तद् भवेत्। तथा स्वभावेन स्वतन्त्रेण परमेश्वरेणाज्ञानं जीवस्येति वादस्य स्वप्रकाशस्वरूपाभिन्नधर्मविषयमप्यज्ञानं जीवे न युक्तमिति दोषहीनत्वान्न तद् भवेत्।
एतदुक्तं भवति नास्मन्मतेऽज्ञानाङ्गीकारे दोषोऽस्ति। येन शास्त्रस्य विषयप्रयोजनशून्यता स्यात्। जीवाश्रितं जीवावरणं चाज्ञानमित्यङ्गीकारात्। तस्य च स्वत एव ब्रह्मणो भिन्नत्वात्। ज्ञानस्वभावत्वाच्च। तस्य स्वप्रकाशस्यापि परमेश्वरेच्छया परमेश्वरे स्वधर्मेषु चाज्ञानं सम्भवत्येव। यद्यपि धर्माः स्वप्रकाशचैतन्यान्न भिद्यन्ते, तथाऽपि सविशेषत्वाङ्गीकारादज्ञानविषयतोपपत्तिः। अज्ञानमपि सत्यमेव नाज्ञानकल्पितम्। तथाविधस्यापि निवृत्तिं वक्ष्यामः। यद्यपि जीवचैतन्यं ब्रह्मस्वधर्मप्रकाशात्मकम्, तथाऽपि परमेश्वराचिन्त्याद्भुतशक्त्युपबृंहिताविद्यावशान्न तथा संसारे प्रकाशयतीति।
॥ अविद्याया विचारासहिष्णुत्वरूपदुर्घटैकस्वभावत्वाङ्गीकारे
आत्मनोऽपि मिथ्यात्वप्रसङ्गः॥
स्यादेतत्। अस्ति तावदविद्या। सा च दुर्घटघटनास्वभावा। यथोक्तम्
“दुर्घटत्वमविद्याया भूषणं नतु दूषणम्।
कथञ्चिद् घटमानत्वेऽविद्यात्वं दुर्घटं भवेत्” इति।
तथाचानुपपत्तिः, कथं तत्स्वरूपापलापाय प्रभवतीति। अत्र वक्तव्यम् किमविद्या दुर्घटसुघटघटनास्वभावा वा, उत दुर्घटैकस्वभावा वा? नाऽद्यः, सुघटांशेऽविद्यात्वाभावप्रसङ्गात्। द्वितीये दोषमाह अविद्येति।
अविद्यादुर्घटत्वं चेत् स्यादात्माऽपि हि तादृशः॥३०॥
अविद्याया दुर्घटत्वं चेत्, स्वभाव इति शेषः। हिशब्दस्तस्मादित्यर्थे। तादृशोऽविद्यासदृशः। मिथ्येति यावत्।
अयमर्थः यद्यविद्या दुर्घटैकस्वभावा स्यात्, तदा साधिष्ठाना ससाक्षिका च न स्यात्। तथात्वे सुघटत्वप्रसङ्गेनाविद्यात्वाभावप्रसङ्गात्। ततश्चाऽत्माभावेन शून्यवादापत्तिरिति।
नन्वीश्वरशक्तिरपि कथम्? यावत् प्रमाणसिद्धं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूमः। नचैवं त्वया वक्तुं शक्यत इत्युक्तम्। सर्वस्यापि सुघटस्यापह्नवोऽनेनातिप्रसङ्गेनोपलक्षितो बोद्धव्यः।
॥ मायामतस्य प्रेक्षावदनुपादेयत्वम्॥
निर्विशेष इत्यादिनोक्तमुपसंहरति अत इति।
अतोऽधिकारिविषयफलयोगादिवर्जितम्।
अनन्तदोषदुष्टं च हेयं मायामतं शुभैः॥३१॥
परमतेऽविद्यानुपपत्तेरित्यर्थः। योगो विषयप्रयोजनयोः परस्परं शास्त्रेण च सम्बन्धः। आदिग्रहणेन स्वपक्षसाधकं प्रमाणं गृह्यते। अनन्तदोषा उक्ता वक्ष्यमाणाश्च। सति खल्वज्ञाने अज्ञो विप्रतिपन्नः सन्दिग्धो वा शास्त्रेऽधिकारी स्यात्। अज्ञातश्च विषयो भवेत्। अज्ञाननिवृत्तिश्च फलम्। नच विषयाद्यभावे सम्बन्धः सम्भवी। अधिकार्यादिवर्जितत्वादनादरणीयम्, दुष्टत्वाद्धेयं च। अज्ञानमित्युपक्रम्य मायेत्युपसंहारोऽज्ञानस्यैवावस्थाभेदेन सञ्ज्ञाद्वयम्, नतु वस्तुभेद इति परमताविष्करणार्थः। उपपादितं चैतत् परेणैवेति।
॥ वेदानां जीवब्रह्मैक्यपरत्वनिराकरणम्॥
जीवब्रह्मणोरेकत्वं शारीरकमीमांसाविषयो न भवतीत्यतस्तदुपपत्त्यर्थं बन्धमिथ्यात्ववर्णनमसङ्गतमित्युक्तम्। तत् “सत्यत्वात् तेन” इत्यादिना प्रपञ्चयति। तथाहि जीवब्रह्मणोरेकत्वं शारीरकमीमांसाशास्त्रविषयं प्रतिपद्यमानेन वेदस्यापि तद्विषयत्वं प्रतिपत्तव्यम्। तदितिकर्तव्यतारूपत्वान्मीमांसाशास्त्रस्य। करणेतिकर्तव्यतयोरेकविषयतानियमात्। नच वेदो जीवब्रह्मणोरेकत्वं वक्ति। सर्वस्यापि मन्त्रब्राह्मणोपनिषद्रूपस्य वेदस्य भेदावलम्बनत्वावभासनात्।
॥ मायावादिना “तत् त्वमसि” इति वाक्यबलाद्
वेदान्तानामैक्यपरत्वप्रतिपादनम्॥
ननु कथं वेदो न जीवब्रह्मणोरेकत्वपरः? मन्त्रब्राह्मणयोरतत्वावेदकयोरविद्वद्विषययोर्द्वैतालम्बनत्वेऽप्युपनिषदामद्वैतनिष्ठत्वात्। तत्र हि “तत् त्वमसि” इत्यादिवाक्यं साक्षाज्जीवस्य ब्रह्मतां प्रतिपादयति। “सदेव सोम्य” इत्यादीनि वाक्यानि तत्पदार्थस्वरूपनिरूपणपराणि तत्रैव समन्वितानि। “अथ यो वेदेदं जिघ्राणीत्” इत्यादीनि त्वम्पदार्थपराण्यपि तत्रैव समन्वयं प्रतिपद्यन्ते। सृष्ट्यादिकथनं च ब्रह्मणो निष्प्रपञ्चताप्रतिपादनायानुवादतयोपयुज्यते। प्राणाद्युपासनानि चान्तःकरणस्य पराग्वृत्तिनिरोधद्वारेणाद्वैतप्रतिपत्तावेवोपयुक्तानि। तदेवं वेदान्तानां जीवब्रह्मणोरेकत्वं विषय इति तदुपकरणभूता मीमांसाऽपि तद्विषयैवेति युक्तम्।
॥ तत् त्वमसीत्यादिवाक्यस्य जीवब्रह्मैक्यपरत्वे उपजीव्यप्रत्यक्षविरोधः॥
अत्रोच्यते आस्तां तावदियं समन्वयप्रक्रिया। “तत् त्वमसि” इत्यादिवेद एव तावदेकताविषयो न भवति। तथाहि “तत् त्वमसि” इत्यत्र त्वम्पदार्थस्य जीवस्य तत्पदार्थब्रह्मता मुख्यया वृत्त्या वा प्रतिपादनीया, विरोधिभागत्यागेन स्वरूपमात्रलक्षणया वा? नोभयथाऽपि सम्भवतीत्याह सत्यत्वादिति।
सत्यत्वात् तेन दुःखादेः प्रत्यक्षेण विरोधतः।
न ब्रह्मतां वदेद् वेदो जीवस्य हि कथञ्चन॥३२॥
वेदः “तत् त्वमसि” इत्यादिः। कथञ्चनोक्तप्रकारद्वयेनापि जीवस्य त्वम्पदार्थस्य तत्पदार्थब्रह्मतां न वदेत्, हि यस्मात् तस्मान्मीमांसाऽपि तद्विषया न भवतीति शेषः। कुतः? प्रत्यक्षेण विरोधतः। कथम्? तेन प्रत्यक्षेण दुःखादेः सत्यत्वात् सत्यत्वावधारणात्। अथवा पृथक् साध्यद्वये हेतुद्वयम्।
इदमुक्तं भवति न तावत् “तत् त्वमसि” इत्यादिवाक्यं त्वम्पदमुख्यार्थस्य तत्पदमुख्यार्थैक्यप्रतिपादकमिति युक्तम्, प्रत्यक्षविरोधात्। दुःखादिविशिष्टो हि त्वम्पदमुख्यार्थः। तस्य निर्दुःखत्वाद्युपेततत्पदमुख्यार्थैक्यप्रतिपादने कथं न प्रत्यक्षविरोधः? स्ववचनविरोधस्य चोपलक्षणं चैतत्। नापि जहदजहल्लक्षणया। विरोध्याकारपरित्यागो हि विवक्षाभावमात्रेण, उत तस्यानित्यत्वेन, अथवा मिथ्यात्वेन? नाऽद्यः, तन्मात्रेण विरोधानिवृत्तेः। नहि पृथिवीत्वाद्यविवक्षामात्रेण क्षितिजलादेरभेदो वक्तुं शक्यते। विरोध्याकारस्याविवक्षायामप्यनपायात्। न द्वितीयः, असीति वर्तमाननिर्देशायोगात्। तथासति “तत् त्वं भविष्यसि’ इति स्यात्। न तृतीयः, प्रत्यक्षेण दुःखादेः विरोध्याकारस्य सत्यत्वावगमादिति।
॥ उपजीव्यप्रमाणविरुद्धस्य न श्रुत्यर्थत्वमित्युपपादनम्॥
ननु कथमेतत् प्रत्यक्षविरोधेन श्रुतेः प्रतीतार्थात् प्रच्यावनम्? क्वाप्येवमदर्शनात्। प्रत्युत परत्वान्निर्दोषत्वाच्च बलवत्या श्रुत्या विरुद्धं पूर्वं दोषशङ्काकलङ्कितं “अहं दुःखी’ इत्यादिप्रत्यक्षमेवाप्रमाणं भवितुं युक्तमित्यत आह यजमानेति।
यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत्।
ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः॥३३॥
श्रुतेः “यजमानः प्रस्तरः” इत्यस्याः। तथा ब्रह्मत्वमपि जीवस्य तत्त्वमस्यादिश्रुतेरर्थो न भवेदित्यर्थः। अत्रेमौ प्रयोगौ जीवब्रह्मणोरेकत्वं न मीमांसाशास्त्रस्य विषयः, तदुपकर्तव्यवेदाविषयत्वात्; यद्युपकर्तव्यप्रमाणस्याविषयः न तत् तदितिकर्तव्यताविषयः, यथा सम्प्रतिपन्नम्। तथा तत्त्वमस्यादिवाक्यं न प्रतीतार्थम्, प्रत्यक्षविरुद्धत्वात्; “यजमानः प्रस्तरः” इति वाक्यवदिति। अनेनैव परत्वनिर्दोषत्वयोः “यजमानः प्रस्तरः” इति वाक्ये व्यभिचारश्च सूचितो भवति।
नन्वत्र निर्दोषत्वमेव नास्ति, अगृहीतवृत्तित्वस्यैव दोषस्य विद्यमानत्वात्। अमुख्यवृत्त्या हीदं प्रवृत्तमिति चेत्, तर्हि तत्त्वमस्यादिवाक्यमप्येवमित्यसिद्धिः। कुतोऽत्रामुख्यवृत्तिरिति चेत्, समं यजमानादिवाक्ये। प्रत्यक्षविरोधादिति वदतः समः समाधिः।
स्यादेतत्। न “यजमानः प्रस्तरः” इत्यादिवाक्यस्य प्रत्यक्षविरोधमात्रेण प्रतीतार्थपरित्यागः। तथात्वे परमेश्वरावतारनिर्दोषतावाक्यस्यापि प्रत्यक्षविरोधेनार्थपरित्यागप्रसङ्गात्। किन्नाम। उपजीव्यप्रत्यक्षविरोधात्। उपजीव्योपजीवकयोरुपजीव्यं बलवदिति हि न्यायः।
ननु यजमानस्वरूपं न प्रत्यक्षविषयः, शास्त्रीयत्वात् तद्भावस्य। तत् कथमुपजीव्यप्रत्यक्षविरुद्धा श्रुतिरिति चेत्, तर्हि प्रत्यक्षविरोधोऽपि कथम्? प्रत्यक्षाकारस्य प्रस्तराभेदप्रतिपादने निदर्शितेयमिति चेत्, समं ममापीत्यत आह प्रत्यक्षस्येति। सत्यम्, “यजमानः प्रस्तरः” इति श्रुतिरुपजीव्यप्रत्यक्षविरोधात् प्रतीतार्थे न प्रमाणमिति। तथाऽपि नोक्तदोषः। अद्वैतश्रुतिबाधकतयाऽस्माभिरुपन्यस्तस्यापि प्रत्यक्षस्य यजमानग्राहिप्रत्यक्षादविशेषात्। अस्याप्युपजीव्यत्वात्। प्रत्यक्षावगतं हि जीवं त्वमित्यनूद्य तस्य तदसीति ब्रह्मता विधातव्या। तदनेनोपजीव्यप्रत्यक्षविरोध एवास्माभिर्हेतूकृत इति सूचितं भवति।
॥ “तद् योऽहम्’ इत्यादिवाक्यस्यैक्यपरत्वे उपजीव्यश्रुतिविरोधः॥
एवं जीवमनूद्य तस्य ब्रह्मत्वं प्रतिपादयन्तीनां तत्त्वमसीत्यादिश्रुतीनामुपजीव्यप्रत्यक्षविरोधादतत्परत्वमुक्तम्। अधुना या ब्रह्मानुवादेन तस्य जीवैक्यं विदधति तासां “तद् योऽहं सोऽसौ योऽसौ सोऽहम्” इत्यादीनामुपजीव्यश्रुतिविरोधादतत्परत्वमाह सार्वज्ञ्यादीति।
सार्वज्ञ्यादिगुणं जीवाद् भिन्नं ज्ञापयति श्रुतिः।
ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी।
उपजीव्यविरोधेन नास्यास्तन्मानता भवेत्॥३४॥
तामिति श्रवणाद् येत्यध्याहार्यम्। सार्वज्ञ्यादिगुणं तत एव जीवाद् भिन्नमिति विरोधस्फुरणार्थम्। एवशब्देनेशस्य प्रमाणान्तरागोचरत्वमाह। हिशब्दो यस्मादित्यर्थे। अस्या “तद् योऽहम्” इत्याद्यायाः श्रुतेः। तत् तस्मात्। तस्मिन्नर्थ इति वा।
तदयमर्थः ईश्वरमनूद्य तस्य जीवाभेदं प्रतिपादयन्त्या श्रुत्या सर्वथा तावदीश्वरसिद्धिरपेक्षिता। अप्रतीतस्यानुवादायोगात्। नचेश्वरसिद्धिः श्रुतिं विना सम्भवति। ततो “यः सर्वज्ञः” इत्यादिश्रुतिरेव अस्या उपजीव्येति वाच्यम्। सा चासर्वज्ञाज्जीवादीश्वरस्य भेदमेव प्रतिपादयतीति तद्विरुद्धा “तद् योऽहम्” इत्याद्या श्रुतिर्नाद्वैतवादिनीति।
एतेन जीवब्रह्मस्वरूपानुवादेन तदैक्यमात्रपराणां “परेऽव्यये सर्व एकीभवन्ति” इत्यादिवाक्यानामुपजीव्यप्रत्यक्षागमविरोधोऽप्युक्तो वेदितव्यः।
ननु “सर्पोऽयम्’ इत्युपजीव्यप्रत्यक्षविरुद्धमपि, “नायं सर्पः किन्तु रज्जुरेव’ इत्युपजीवकमाप्तवचनं प्रमाणं दृश्यत इति चेत्, तत् किमुपजीव्योपजीवकन्यायो व्यभिचरितत्वादकिञ्चित्कर इति वक्तुमुद्यमः, आहोस्वित् सापवादः इति? नाऽद्यः, दहनानुष्णतानुमानस्य “यजमानः प्रस्तरः” इति वाक्यस्य चाप्रामाण्ये कारणान्तरस्य वक्तव्यतापातात्। द्वितीयेऽपवादो वक्तव्यः। तत्वविषयेण उपजीवकेनाप्युपजीव्यं बाध्यत इति चेत्, तत्वविषयता किमेवमेव निश्चिता, उत न्यायान्तरेण? नाऽद्यः, विनिगमने कारणाभावेनानिर्णयात्। द्वितीये तदेव वाच्यम्। किमनेन? निरसिष्यते चैतदिति। (८८३८८८)
॥ भेदश्रुतीनां निरवकाशत्वादद्वैतश्रुतीनां तद्बाध्यत्वप्रतिपादनम्॥
किञ्च सर्वा अप्यद्वैतश्रुतयो “द्वा सुपर्णा” इत्यादिभेदश्रुतिविरुद्धत्वान्न प्रतीतार्थे प्रामाण्यं भजन्ते। नन्वधिकबलविरोधेन हीनबलमप्रमाणं भवति। भेदश्रुतीनां च कथमद्वैतश्रुतिभ्योऽधिकबलत्वं येन तद्बाधकतोच्यत इत्यत आह स्वातन्त्र्ये चेति।
स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि।
सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः॥३५॥
अवकाशोज्झिता भेदश्रुतिर्नातिबला कथम्।
स्वातन्त्र्य इत्यादिका निमित्तसप्तमी। स्थानमत्यैक्ययोरिति द्वन्द्वात् परमैक्यपदं प्रत्येकमभिसम्बद्ध्यते। सम्यगिति स्वातन्त्र्यादिनिमित्तमैक्यव्यवहारसद्भावमभिप्रैति। तेन “स्वतन्त्रामुख्यप्रयोगे प्रयोजनं वाच्यम्। नह्यस्मदायत्ते शब्दप्रयोगेऽकस्मादमुख्यं प्रयुञ्ज्महे’ इति निरस्तम्। व्यवहारास्तु टीकाकृतोक्ता द्रष्टव्याः।
काऽद्वैतश्रुतिः स्वातन्त्र्यादिषु किं निमित्तमुपादाय प्रवृत्तेत्यपेक्षायामुक्तम् यथेष्टत इति। यथासम्भवमित्यर्थः। एतच्च स्पष्टीकरिष्यत्याचार्यः। वृत्तिचिन्तां च तत्रैव करिष्यामः। (८९७८९८)
एतदुक्तं भवति सावकाशनिरवकाशयोर्निरवकाशं बलवत्। सावकाशा चाद्वैतश्रुतिः। विनाऽपि साक्षादद्वैतं स्वातन्त्र्यादिना निमित्तेनामुख्यार्थतयाऽपि घटमानत्वात्। भेदश्रुतिस्तु निरवकाशा। जीवेशभेदमन्तरेणार्थान्तराप्रतीतेः। अतो निरवकाशतया बलवत्या भेदश्रुत्या सावकाशतया दुर्बलया अद्वैतश्रुतेर्बाधो युक्त इति।
॥ भेदश्रुतीनां सावकाशत्वनिराकरणम्॥
ननु भेदश्रुतिरपि सावकाशा मिथ्याभेदपरत्वादिति चेत्, कोऽयं मिथ्याभेदो नाम? किमसन्, उतानिर्वचनीयः? नाऽद्यः, अनङ्गीकारात्। द्वितीये दोषमाह अज्ञानेति।
अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः॥३६॥
अज्ञानातिरिक्तमनिर्वचनीयमज्ञानकार्यमिति हि परसम्मतम्। नचाज्ञानं तन्मते सम्भवतीत्युक्तम्। ततो मिथ्याभेदासम्भवान्न तदर्थत्वं भेदश्रुतेरिति।
ननु भेदश्रुतिरनुवादिनीत्युक्तम्। यथा नानुवादिनी तथा वक्ष्यते। (८८८) किञ्च प्रमितस्यानुवादो भ्रान्तिसिद्धस्य वा? नाऽद्यः, अनभ्युपगमात्। अभ्युपगमे वा तत्प्रमाणप्रतिरोधोऽद्वैतश्रुतेः। न द्वितीयः, अज्ञानासम्भवेन निरस्तत्वात्। एतेनापूर्वताविरहाद् दुर्बला भेदश्रुतिरिति निरस्तम्।
॥ अपव्याख्याननिरासस्यासङ्गतत्वनिराकरणम्॥
परकृतापव्याख्याप्रत्याख्यानमुपसंहरन्; “परदोषं पश्यसि त्वमात्मदोषं न पश्यसि” इत्याभाणकविषयता भवतामापन्ना। यतः सूत्रव्याख्यानमुपक्रम्य परापव्याख्यानिराकरणेऽप्यसङ्गतिः नाऽलोचितेत्याशङ्कां परिहर्तुं सूत्रार्थमनुवदति अत इति।
अतो यथार्थबन्धस्य विना विष्णुप्रसादतः।
अनिवृत्तेस्तदर्थं हि जिज्ञासाऽत्र विधीयते॥३७॥
अस्मदुक्तः सूत्रार्थो न तावच्छिष्याणां चेतसि स्थिरो भवति, यावत् परकृतापव्याख्यामापातरमणीयां पश्यन्ति। अतस्तदपकरणमपि सूत्रार्थस्थिरीकरणार्थतया सङ्गततरमिति भावः।
॥ बन्धमिथ्यात्वनिराकरणम्, तत्सत्यत्वसमर्थनं च सूत्रगतातःशब्दव्याख्यानमित्युपपादनम्॥
अथवा “अज्ञानां ज्ञानदो विष्णुः” इत्यादिबन्धमिथ्यात्वनिराकरणं तत्सत्यत्वसमर्थनं च सूत्रगतातःशब्दस्यैव वर्णकान्तरमित्यतो नासङ्गतमिति दर्शयन् सूत्रेऽप्यस्यार्थस्योपयोगं दर्शयति अतो यथेति। अत्रेयमाशङ्का “अतो ब्रह्मजिज्ञासा” इति खलु सूत्रखण्डेन मोक्षस्य भगवत्प्रसादैकसाध्यत्वान्मुमुक्षुणा तदर्था ब्रह्मजिज्ञासा कर्तव्येत्युक्तम्। एतदयुक्तम्। मोक्षो बन्धनिवृत्तिमात्रम्। न पुनरभ्युदयावाप्तिः, स्वर्गादिवदनित्यतापातात्। बन्धश्च मिथ्याभूत एव। “तरति शोकमात्मवित्” इति ज्ञाननिवर्त्यत्वश्रवणस्यान्यथाऽनुपपत्तेः। न खलु सत्यं ज्ञानेन निवर्तते। सत्यशृङ्खलाबन्धस्य तथात्वादर्शनात्। नच मिथ्याभूतस्य निवृत्तौ कस्यचित् प्रसादोऽपेक्षणीयः, रजतादिनिवृत्तौ तथाऽनुपलम्भात्। किन्नाम। यदज्ञानकल्पितोऽयं बन्धस्तज्ज्ञानमेव। ततो न भगवत्प्रसादार्था जिज्ञासा मुमुक्षुणा कर्तव्येति। सेयमाशङ्काऽतःशब्देनापेक्षितार्थसाधकहेतुसूचकेन निराकृतेति। तदर्थं विष्णुप्रसादार्थम्। अत्र सूत्रे।
ननूक्तमत्र सत्यश्चेद् बन्धो न निवृत्तिमर्हतीति तत्राऽह यथेति।
यथा दृष्ट्या प्रसन्नः सन् राजा बन्धापनोदकृत्।
एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनम्॥३८॥
दृष्ट्या प्रेमातिशययुक्तया, सन् उत्तमः कृपालुत्वादिगुणवान्। स तथाविधगुणः। ननु विषमोऽयमुपन्यासः। सादिरयं निगडादिबन्धो राज्ञा निवर्त्यताम्। अनादिरयं कथं निवर्त्यत इति। तत्रोक्तम् भगवानिति। अघटितघटकानन्तैश्वर्यादिगुणवानित्यर्थ इति।
॥ अतःशब्दस्य तृतीयं व्याख्यानम्, प्रभाकरोक्तकार्यतावादनिरासः॥
एवं मीमांसाप्रयोजनसमर्थनार्थत्वेनातःशब्दं द्वेधा व्याख्याय विषयसमर्थनपरतयाऽपि व्याख्याति “कार्यता च” इत्यादिना।
॥ प्रभाकरेण वाक्यपर्यवसानान्यथानुपपत्त्या कार्यस्य वाक्यार्थत्वोपपादनम्॥
अत्र जैमिनीया मन्यन्ते विध्यर्थवादमन्त्रात्मकः समस्तोऽप्याम्नायः कार्यनिष्ठ एव, न वस्तुतत्वनिष्ठः। स च “अथातो धर्मजिज्ञासा” इत्यादिना मीमांसितः। तत् कथं ब्रह्ममीमांसारम्भसम्भवः? कार्यनिष्ठतैव कथमिति चेत्, इत्थम् अनेकपदात्मकवाक्यश्रवणादनेकार्थप्रतीतावपि वाक्यस्य तावदेकत्र तात्पर्यं कल्प्यम्। अन्यथैकवाक्यतासम्भवात्। “यत्परः शब्दः स शब्दार्थः” इति च शाब्दाः। वाक्यतात्पर्यविषयश्च स एव। यत्प्रतिपादनेन वाक्यपर्यवसानम्, यत्प्रतिपादनाय च पदार्थान्तरोपादानम्, तथाभूतश्च कार्यात्मैव। नहि “गौरश्र्वः पुरुषो हस्ती” इति वा “देवदत्तः पचति” इति वा पर्यवसितमनुभूयते। किन्तु “देवदत्त गामानय” इत्यादि कार्यनिष्ठमेव। अतः कार्यमेव सर्वत्र वाक्यार्थः। तत्र लिङादिप्रत्ययः साक्षात् कार्यताभिधायी। पदान्तराणि तु तत्प्रतीतये तदन्वितस्वार्थानभिदधति तत्पराण्येव। एवं कार्यान्तरविधुराणि वाक्यान्तराण्यपि तदेकवाक्यतामापद्यन्ते। अनेनैव न्यायेनाऽम्नायोऽप्यशेषः कार्यताबोधे पर्यवसितः।
॥ लिङादेः कार्याभिधायकत्वसमर्थनम्॥
किञ्च प्रत्याय्यप्रत्यायकभावसम्बन्धग्रहणलक्षणव्युत्पत्त्यपेक्षो हि शब्दोऽर्थमवबोधयतीत्यविवादम्। अन्वयव्यतिरेकाभ्यां तथाऽवगमात्। व्युत्पत्तिश्च वृद्धव्यवहारदर्शनादेव। वृद्धव्यवहारश्च कार्यप्रतिपत्तिनिबन्धन इति कार्यप्रतिपादकतैव युक्ता।
तथाहि “जलं चैत्र आहरस्व” इति प्रयोजकवृद्धवाक्यश्रवणात् प्रयोज्यवृद्धस्य विशिष्टार्थविषयां प्रवृत्तिं दृष्ट्वा व्युत्पत्स्यमानोऽन्यो बाल एवमाकलयति स्वाधीनाऽस्य प्रवृत्तिः सा मद्वद् बुद्धिपूर्विकेति। पुनस्तस्यायं विमर्शो जायते या चास्य प्रवृत्तिहेतुभूता बुद्धिः सा यद्विषया सती मम प्रवृत्तिहेतुस्तद्विषयैवेति। तदेवमनुमानद्वयमेतत्। वृद्धस्य स्वतन्त्रा प्रवृत्तिर्धर्मिणी बुद्धिपूर्विकेति साध्यो धर्मः, स्वतन्त्रप्रवृत्तित्वात्; मदीयस्वतन्त्रप्रवृत्तिवत्। तथा वृद्धस्य प्रवृत्तिहेतुभूता बुद्धिर्धर्मिणी, यद्विषयैव बुद्धिर्मम प्रवृत्तिहेतुभूता तद्विषयैवेति साध्यो धर्मः, प्रवृत्तिहेतुभूतबुद्धित्वात्; मदीयप्रवृत्तिहेतुभूतबुद्धिवदिति।
पुनश्च तस्यायं विमर्शः प्रवर्तते यद्विषया सा बुद्धिः प्रवृत्तिहेतुभूता तद्वस्त्वनेन शब्देन बोध्यते तद्भावे भावात्। मम तु मानान्तरेण तद्बोध इत्यावयोर्विशेषः। तेन यद् बुद्ध्वा प्रवृत्तिर्मम तदनेन शब्देन बोध्यत इति शब्दस्य प्रवृत्तिहेतुभूतार्थबोधकतामवधारयति। पुनश्च कोऽसौ प्रवृत्तिहेतुभूतोऽर्थः शब्दाभिधेय इति निर्धारयितुं स्वात्मनि प्रतिपन्नं प्रवृत्तिहेतुभूतार्थमनुसन्धत्ते। तत्र न तावदहं क्रियामात्रं फलमात्रं वा क्रियाफलसम्बन्धमात्रं वा बुद्ध्वा प्रवृत्तः। किन्तु कार्यतामेव। “ममेदं कार्यम्’ इति प्रतीत्य हि सर्वत्र प्रवृत्तोऽस्मि।
आस्तां तावदन्या क्रियाऽन्ततः स्तनपानादिकमपि यावन्मया कार्यतया नावधारितं न तावत् तत्राहं प्रवृत्त इति स्वप्रवृत्तेः कार्यताबोधपूर्वकत्वं निश्चित्य प्रवर्तमानं चैत्रं दृष्ट्वा अनुमिनोति चैत्रोऽपि कार्यबोधात् प्रवर्तत इति। चैत्रस्य प्रवृत्तिर्धर्मिणी, कार्यबोधपूर्विकेति साध्यो धर्मः, बुद्धिपूर्वप्रवृत्तित्वात्; मदीयप्रवृत्तिवदिति। लिङादयश्च प्रवृत्तिहेतुभूतार्थाभिधायकाः कार्यमेवाभिदधतीति वाक्यस्य तावत् सामान्यतः कार्यपरतामवधार्य लिङाद्यावापे कार्यतावगतिदर्शनात् तदुद्धारे चादर्शनात् त एव कार्यतावगतिं कुर्वन्ति, पदान्तराणि च तदन्वितांस्तांस्तानर्थानित्यावापोद्धाराभ्यामवगच्छति।
एतेन शब्दः, तद्व्यापारो वा प्रवर्तक इति निरस्तम्। बालेन स्वप्रवृत्तौ तयोः कारणतयाऽनवधृतत्वात्। तथाविधस्यैव परप्रवृत्ताववधारणात्। किञ्च शब्दस्यैव प्रवर्तकत्वे सर्वेऽपि तच्छ्राविणः प्रवर्तेरन्। याऽपीयं शङ्खादिशब्दश्रवणानन्तरं प्रवृत्तिः, साऽपि पुरुषाभिप्रायानुमानादेव। न साक्षात्। रागद्वेषयोर्यद्यपि प्रवर्तकत्वमस्ति, यथाऽऽह “प्रवर्तनालक्षणा दोषाः” इति। तथाऽपि सत्तयैव नतु ज्ञाततया। ज्ञानं त्वबुभुत्सितग्राह्यतयाऽवर्जनीयसन्निधि। अतो न वाक्ये बोध्यतया तौ कल्प्येते। किन्तु कार्यमेवेति तदेव वेदार्थः।
अपिच, यद्यपि बोधकत्वेनैव प्रामाण्यम्। तथाऽपि वाक्यप्रयोगस्य परार्थत्वात् परप्रवृत्तिनिवृत्त्यौपयिक एवार्थो वाक्यबोध्योऽङ्गीकार्यः। कार्यमेव तथाविधमित्युक्तमिति तत्रैव सर्ववेदपर्यवसानादनुग्राह्यप्रमाणाभावान्न ब्रह्ममीमांसारम्भः सम्भवतीति।
॥ सिद्धान्ते इष्टस्य, इष्टसाधनस्य च कार्यत्वव्युत्पादनम्॥
अत्रोच्यते स्यादेतदेवम्। यदि वेदो ब्रह्मनिष्ठो न भवेत्। नत्वेवम्। तन्निष्ठत्वे प्रमाणस्योदितत्वात्, बाधकाभावाच्च। ननूक्तमत्र कार्यताबोध एव वाक्यस्य पर्यवसानं न सिद्धार्थबोध इति, अतः कार्यमेव वाक्यार्थो न सिद्धस्वरूपं ब्रह्मेति। सत्यमुक्तम्। सा चेद् वाक्यार्थपर्यवसानोपयोगिनी कार्यता सिद्धविशेषस्य स्यात् तदा तस्यापि वाक्यार्थत्वे कीदृशो दोषः स्यादित्याशयवान् कार्यतां तावन्निर्धारयति कार्यता चेति।
कार्यता च न काचित् स्यादिष्टसाधनतां विना।
कार्यं नहि क्रियाव्याप्यं निषिद्धस्य समत्वतः॥३९॥
न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि।
कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते।
साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा॥।४०॥
कार्यं…………………………..।
चशब्दो व्याख्यानान्तरसमुच्चयार्थः। गवानयनादौ या कार्यता वाक्यपर्यवसानहेतुः सा तावदिष्टसाधनतातिरिक्ता नास्तीति प्रतिज्ञा। कुत इत्यतोऽन्यस्या अनुपपत्तेरित्यभिप्रेत्य प्रसक्तान् पक्षान्निराचष्टे कार्यमिति।
॥ “क्रियया विशेषेणाऽप्यं कार्यम्’ इत्यस्य निराकरणम्॥
कार्यमिति हि कृत्यप्रत्ययान्तः शब्दः। कृत्याश्च कर्मणि स्मर्यन्ते “तयोरेव कृत्यक्तखलर्थाः” इति। कर्म च तदुच्यते यत् कर्तुः क्रिययाऽऽप्तुमिष्टतमम्। तथाच क्रियया विशेषेणाऽप्यं कार्यं, तद्भावः कार्यतेति प्राप्नोति। नच तत् सम्भवति। निषिद्धस्यापि ब्राह्मणहननादेः क्रिययाऽऽप्तुमिष्टतमत्वसाम्यात्। तदपि कार्यमस्त्विति चेत्, न। तत्रापि कार्यताबुद्धिप्रसङ्गात्। अस्त्येव निषिद्धताबोधात् प्रागिति चेत्, परतोऽपि किं न स्यात्? नहि निषिद्धताबोधे ब्राह्मणहननादेः क्रियया व्याप्यताऽपगता। तन्मात्रं च कार्यतेति कथं निषेधज्ञानादपि परतो न स्यात् कार्यताबोधः? सति च तस्मिन् प्रवर्तेत। तस्यैव प्रवर्तकत्वाभ्युपगमात्।
॥ “भविष्यत्क्रिया कार्यम्’ इत्यस्य निराकरणम्॥
न भविष्यत्क्रियेति। देवदत्त कृतः किं त्वया कटः, क्रियते वा? इति पृष्टः प्रत्याह “न मया कृतः, नापि क्रियते, किन्तु कार्यः’ इति। तेन प्राप्नोति भविष्यत्क्रिया कार्यं, भविष्यत्वावच्छिन्नं क्रियात्वम्, क्रियागतं भविष्यत्वं वा कार्यतेति। तदपि नोपपद्यते। कुत इत्यत आह स्रक्ष्यतीति। हिशब्दो हेतौ। तथासतीति शेषः। भविष्यत्क्रिया कार्यमित्यङ्गीकारे हि यस्मादीशो विश्र्वं स्रक्ष्यति देवदत्तो गामानेष्यतीति वाक्यात् प्रतिपन्नं भविष्यत्सर्जनादिकमपि कार्यं प्रसज्येत तस्मान्नेति। नच तदपि कार्यम्, लिङादिवाच्यताङ्गीकारात्। किञ्च परसम्बन्धिन्यां वाक्यादितोऽवगतायां भविष्यत्क्रियायां परस्य ममेदं कार्यमिति प्रत्ययोऽपि किं न स्यात्? नहि परं प्रति सा न क्रिया नापि न भविष्यन्तीति। तन्मात्रशरीरा च कार्यता प्रवृत्तिरपि तत्र परस्य प्रसज्येत।
॥ “अकर्तुमशक्यं कार्यम्’ इत्यस्य निराकरणम्॥
नैव चेति। “कृत्याश्च” इत्यावश्यकार्थे कृत्याः स्मर्यन्ते। आवश्यकत्वं चाकर्तुमशक्यत्वम्। तथाचाकर्तुमशक्यं कार्यम्, तद्भावश्च कार्यतेति प्रसक्तम्। तच्च प्रामाणिकैर्नैवेष्यते। कुतः? निषिद्धस्य परनारीगमनादेरप्यकर्तुमशक्यत्वसाम्यादेव। भवति हि कस्यचिदतिकामाद्याक्रान्तचेतसो न पराङ्गनागमनेन ब्राह्मणस्य वा हननेन विना स्थातुं शक्नोमीति बुद्धिः। नच तत् कार्यमेव, तस्यैव श्रुतशास्त्रस्यापि कार्यताबुद्धिप्रसङ्गात्। आस्तिककामुको ह्यकार्यमेवेदमकृत्वा स्थातुं नोत्सह इति मन्यते।
यत एवं न पक्षान्तरसम्भवः। तस्मादिष्टत्वमिष्टसाधनत्वं वा कार्यतेत्युपसंहरति तदिति। अत्रेष्टग्रहणादुपक्रमेऽपि तद् ग्राह्यम्।
॥ “कृतिसाध्यप्रधानं कार्यम्’ इत्यस्य निराकरणम्॥
ननु “कृतिसाध्यं प्रधानं यत् तत् कार्यमभिधीयते” इति परोदीरितं कार्यलक्षणं कुतो न शङ्कितमिति चेत्, न। अनेनैव गतार्थत्वात्। तथाहि किमिदं प्रत्येकं लक्षणम्, उत मिलितम्? आद्ये कृतिसाध्यत्वस्योक्तो दोषः, “कार्यं नहि क्रियाव्याप्यम्” इति। कृतिप्राधान्यं च किमुच्यते? प्रयत्नोद्देश्यत्वमिति चेत्, तत् किं मुख्यम्, उतामुख्यम्? आद्यं त्विष्टत्वमेव। द्वितीयं त्विष्टसाधनत्वमेवेत्यङ्गीकृतमेव। न द्वितीयः, कृतिसाध्यताविशेषणस्य व्यर्थत्वात्।
॥ शालिकानाथोक्तस्य कार्यताफलसाधनतयोर्भेदस्य दूषणम्॥
एतेनैतदपि निरस्तम्। यदुक्तम्
“फलसाधनता नाम या सा नैव हि कार्यता।
कार्यता कृतिसाध्यत्वं फलसाधनता पुनः।
कारणत्वं फलोत्पादे ते भिद्येते परस्परम्” इति।
ननु सत्यपि चन्द्रमण्डलादाविष्टसाधनत्वे न कार्यताबुद्धिरिति चेत्, केयं कार्यताबुद्धिः? इष्टसाधनताबुद्धिः, तदतिरिक्ता वा। आद्ये कथं सा नास्ति? द्वितीयो न। अनिरूपणात्।
ननु कार्यज्ञानं प्रवर्तकं नेष्टसाधनज्ञानमिति चेत्, न। असिद्धेः। अतीतादौ प्रवृत्तिप्रसङ्ग इति चेत्, न। तस्येदानीमिष्टसाधनत्वाभावात्। अन्यथाऽतीतकार्येऽप्ययं प्रसङ्गस्तुल्यः।
किञ्च कृतिसाध्यत्वं कृत्युद्देश्यत्वमिष्टसाधनत्वं चेत्येकार्थसमवायिनस्त्रयो धर्माः। तत्र कृतिसाध्यतावच्छिन्नं कृत्युद्देश्यत्वं कार्यत्वम्। तदवगमस्त्विष्टसाधनतावगमनिबन्धन इति परस्य मतम्। यथाऽऽह
“किन्तु स्वयं क्लेशरूपं कर्म यत् कार्यतां व्र्जेत्।
फलसाधनता तत्र कारणं तेन कार्यता” इति।
तथाचेष्टसाधनताज्ञानात् प्रवृत्ताविव कार्यतावगमेऽपि कथं नातीतादावतिप्रसङ्गः?
न तत्रेष्टसाधनतामात्रं गमकं किन्तु कृतिसाध्यतावच्छिन्नम्, गम्यं तु कृत्युद्देश्यत्वमात्रमिति चेत्, तथाऽपि भूताद्यतिप्रसङ्गानिवारणात्। नहि भूतादिकं न कृतिसाध्यम्। तथासति कथं तत् ततो जातम्? तथाऽपि नेदानीं कृतिसाध्यमिति चेत्, इष्टसाधनमपि तथेति व्यर्थं विशेषणम्। गम्यगमकयोः कथं न भेद इति चेत्, न। तद्भावस्यैवानभ्युपगमात्। ननु तथासति लोकविरोधः स्यात्। तथाहि लौकिका हीदं मे कार्यमित्युक्त्वा कुत इति पृष्टा इष्टसाधनत्वादिति हेतुमाचक्षत इति चेत्, न। द्विविधं खलु कार्यम् इष्टम्, इष्टसाधनं च। तत्रेष्टसाधनत्वादिति विवक्षितकार्यव्याख्यानं लौकिकानाम्।
किञ्च प्रथममिष्टसाधनताज्ञानम्, ततश्चेच्छा, ततः प्रयत्नः, ततः परिस्पन्द इत्यात्मन्येवैकार्थविषया धर्मा जायन्ते। नत्वर्थे कश्चिदतिशयोऽनुभूयते। योऽभिमतसाधनतयाऽनुमीयत इति।
॥ परब्रह्मण इष्टसाधनत्वनिरुपाधिकेष्टत्वयोः प्रतिपादनम्॥
अस्तु वा वाक्यपर्यवसानस्य कारणं कार्यम् इष्टम्, इष्टसाधनं वा। ततः किमित्यत आह साधनमिति।
……..साधनमिष्टस्य भगवानिष्टदेवता।
मुख्येष्टं वा सुमनसां प्रेयस्तदिति च श्रुतिः॥४१॥
प्राणबुद्धिमनःखात्मदेहापत्यधनादयः।
यत्सम्पर्कात् प्रिया आसंस्ततः को न्वपरः प्रियः॥४२॥
इत्यादिवाक्यैः…………………।
मीमांसाविषयस्य ब्रह्मणो वक्तव्यत्वे किमुच्यते भगवानिति। तत्रोक्तम् इष्टदेवतेति। मीमांसाविषयत्वेनेष्टदेवता ब्रह्मैव भगवानित्यर्थः। इष्टसाधनमपीष्टं भवति, अतो मुख्येत्युक्तम्। निरुपाधिकमित्यर्थः। नन्विष्टस्य सुखादेः साधनं भवतु भगवान्, निरुपाधिकेष्टस्तु कथमित्यत आह सुमनसामिति। पुरुषार्थान्तराभिलाषाऽकलुषितमनसामित्यर्थः। यथाप्रकृतमिष्टसाधनमिष्टं चानूद्य भगवानिति विधानान्न लिङ्गव्यत्यासदोषः। यथा यदिदं दृष्टं स स्थाणुरिति। एवं यदिष्टमिष्टसाधनं वा वाक्यपर्यवसानकारणं स भगवानिति।
मुख्येष्टत्वं भगवतोऽस्तीत्यत्र सम्भावनैवोक्ता, कुतः प्रमाणात् तन्निश्चय इत्यत आह प्रेय इति। न केवलं सम्भावना, श्रुतिश्चात्रास्तीति चशब्दः। प्रेयोऽतिशयेन प्रियम्। अतिशयश्च निरुपाधिकत्वम्।
“तदेतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्माच्च सर्वस्मादन्तरतरं यदयमात्मा” इत्युदाहृतश्रुतावात्मनो जीवस्य प्रियतमत्वमुच्यत इति प्रतिभाति। ततो विस्पष्टैः पुराणादिवाक्यैर्भगवतो मुख्येष्टत्वं प्रतिपत्तव्यमित्याह प्राणेति। प्राणः शारीरो वायुः। बुद्धिर्मनश्चान्तःकरणवृत्ती। खानीतरेन्द्रियाणि। आत्मा जीवः।
॥ परब्रह्मणि आकाङ्क्षासन्निधियोग्यता निरूप्य तस्य सर्ववेदार्थत्वप्रतिपादनम्॥
किमतो यद्येवमीश्वर इष्टः, इष्टसाधनीभूतश्चेत्यत आह आकाङ्क्षेति।
………….आकाङ्क्षासन्निधिर्योग्यता यतः।
तस्मिन्नेव समस्तस्येति………………..॥४३॥
इतिशब्दस्तस्मादित्यर्थे। स एव सर्ववेदार्थ इत्यनेन सम्बन्धः। यत् खलु येन जिज्ञासितं यच्च सन्निहितं यच्च प्रतीतान्वययोग्यं तत् तं प्रति प्रतिपादनीयं शब्देन। अजिज्ञासितत्वाद्धि नापिपासुं प्रति जलाशयोपदेशः क्रियते। सत्यामपि जिज्ञासायां दाक्षिणात्यस्य पिपासोरसन्निहितत्वादस्ति गीर्वाणतरङ्गिण्यां शीतलं जलमिति नोपदिश्यते। सतोरपि जिज्ञासासन्निधानयोरयोग्यत्वान्नाकाशपानं विधीयते। तथाच परमेश्वरस्येष्टेष्टसाधनत्वात् समस्तस्यापि वेदाधिकारिणोऽस्ति तस्मिन्नाकाङ्क्षा जिज्ञासा। अस्ति च सन्निधिः, सर्वगतत्वात्। योग्यता च बाधकप्रमाणाभावात्। यत एवं तस्मात् स एव सर्ववेदार्थो भवितुं युक्तः। कार्ये जिज्ञासाद्यभावं दर्शयितुमेवशब्दः। तच्चोपपादयिष्यते। (१२९) तेन स एव सर्ववेदार्थ इत्यवधारणमुपपद्यते।
॥ सिद्धार्थे व्युत्पत्तिप्रकारप्रदर्शनम्॥
ननु तथाऽपि नेश्वरे वेदस्य प्रामाण्यं सम्भवति। केवलसिद्धार्थे व्युत्पत्त्यभावात्। कार्य एव लोके व्युत्पत्तिदर्शनात्। “लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः” इति न्यायात्। कार्यान्वितत्वेन व्युत्पत्त्यङ्गीकारे चेश्वरस्याप्राधान्यप्रसङ्गेन स एवेत्यवधारणानुपपत्तेः। यद्यपीष्टत्वमिष्टसाधनत्वं च कार्यत्वम्। तच्चास्तीश्वरस्येत्युपपादितम्। तथाऽपि नैतावता व्युत्पत्तिसम्भवः। वृद्धचेष्टैकलिङ्गत्वाद् व्युत्पत्तेः। वृद्धचेष्टायाश्च कृतिसाध्यार्थे नियतत्वात्। नहि चन्द्रादावकृतिसाध्येष्टसाधने प्रवृत्तिरस्ति। नचेश्वरस्य कृतिसाध्यताऽस्ति येन तत्र प्रवृत्तिं दृष्ट्वा व्युत्पद्येतेत्यत आह इष्ट इति।
…………………. इष्टे व्युत्पत्तिरिष्यते॥४३॥
अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च।
उद्वापाद् वर्तमानत्वादाकाङ्क्षादिबलादपि।
बालो व्युत्पत्तिमप्येति………….॥४४॥
केवलसिद्धमात्रे व्युत्पत्त्यभावेऽपीष्टे सिद्धविशेषे व्युत्पत्तिरिष्यत एव, प्रामाणिकैरिति शेषः। तत् कथमित्यत आह अत्तीति। इत्यादौ वाक्ये प्रयुक्ते सति व्युत्पत्तिमेतीति सम्बन्धः। अपिशब्दचशब्दावावापोद्वापयोरितरेतरयोगे वर्तेते। आदिग्रहणेनाङ्गुलिप्रसारणभ्रूविक्षेपच्छोटिकावादनादिकमुच्यते।
अयमर्थः छोटिकावादनादिनाऽव्युत्पन्नमभिमुखीकृत्यापूपानदन्तं तद्भ्रातरमङ्गुलीप्रसारणादिना प्रदर्श्य “देवदत्त तव भ्राताऽयमपूपानत्ति” इति वाक्ये प्रयुक्तेऽपूपादिपदार्थानां वर्तमानत्वेन प्रतिसम्बन्धिनां प्रत्यक्षत्वोपपत्तेः। इष्टत्वेनाऽकाङ्क्षाया जिज्ञासायाः सम्भवात्। पदसमुदयस्यार्थसमुदाये तावत् सामान्यतः शक्तिमवधार्य पुनस्तव भ्राता पयः पिबतीति प्रयोगान्तरे यदर्थप्रक्षेपे यच्छब्दप्रक्षेपो यदर्थोद्धारे च यच्छब्दोद्धारः स तस्य वाचक इति विशेषतोऽप्यवधारयतीति किमनुपपन्नम्? तथा “अयं तव माता’, “अयं तव पिता’ इत्यादिवाक्ये प्रयुक्तेऽपि पूर्ववद् व्युत्पत्तिः सम्भवति।
किञ्च “देवदत्त पुत्रस्ते जातः” इति वाक्यश्रवणसमनन्तरं विकसितवदनं देवदत्तमवलोक्य पार्श्वस्थो व्युत्पित्सुस्तेन लिङ्गेन देवदत्तस्य हर्षोदयमनुमाय तस्य चाऽत्मदृष्टान्तेन प्रियार्थज्ञानं हेतुमवगम्य तस्य च शब्दश्रवणे सत्येव भावाच्छब्दस्य सामान्यतस्तत्र शक्तिं विदित्वा प्रियार्थं स्वदृष्टं पुत्रजन्म परित्यज्यान्यस्य कल्पनायोगात्, तदेवेति ज्ञात्वा पुनरावापोद्धाराभ्यां विशेषतोऽप्यवगच्छति।
यदत्रोक्तम् अतीतानागतवर्तमानानामनेकेषां प्रियाणां सम्भवाद् विशेषावधारणानुपपत्तिरिति। तदयुक्तम्। सन्निहितस्वदृष्टपरित्यागेनान्यकल्पनानुपपत्तेरुक्तत्वात्। तत्रैव प्रियासुखप्रसवादीनां सम्भवेऽपि प्रयोगान्तरेष्वावापोद्धाराभ्यां विशेषावधारणं युज्यते। अन्यथा गामानयेति प्रयुक्तो दण्डादिकमप्याददानो दृश्यत इति कथं तवापि विशेषावधारणम्?
यदुक्तम् यावती सिद्धार्थपरादपि वाक्याद् व्युत्पत्तिः, सा सर्वा प्रथमभाविकार्यव्युत्पत्त्यनन्तरभावित्वात् कार्यव्युत्पत्तिरेवेति, तन्निरासायोक्तम् बालोऽपीति।
यद्यपि “इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति” इत्यादिवाक्ये व्युत्पन्नेतरपदार्थो ज्ञातविभक्त्यर्थश्चाविदितमधुकरप्रातिपदिकार्थो यं मधुपानकर्तारं पश्यति तं मधुकरशब्दार्थं जानाति, तथा “पिकः कोकिलः” इत्युपदेशाद् व्युत्पद्यते, तथा “सास्नादिमान् गौः” इति वाक्याद् व्याप्तिमवधार्य सास्नादिमति पिण्डे गोशब्दवाच्यतामनुमिनोतीत्येवमादिरानन्तरिकी व्युत्पत्तिः। तथाऽपि व्युत्पादिता बालस्याप्युक्तविधया सम्भवत्येव। किञ्चास्या व्युत्पत्तेरनन्तरभावित्वेऽपि कार्यव्युत्पत्त्यधीनत्वं कुतः? कमलादिपदानामुक्तरीत्या योग्यान्वितस्वार्थ एव व्युत्पत्त्युपपत्तेरिति।
॥ मीमांसाकाभिमतव्युत्पत्तिप्रकारस्य निराकरणम्॥
एवं सिद्धार्थे व्युत्पत्तिसम्भवमभिधायेदानीं परव्युत्पादितं व्युत्पत्तिप्रकारं निराकर्तुमाह नानयेति।
……………….नानयेत्यादिवाक्यतः॥४५॥
आनीयमानदृष्ट्यैव व्युत्पत्तेः सम्भवे सति।
एष्यदानयनायायं कुत एव प्रतीक्षते॥४५॥
“देवदत्त गामानय’ इत्याद्युत्तमवृद्धवाक्यश्रवणात् प्रवृत्तं मध्यमवृद्धमुपलभ्य प्रवृत्तिलिङ्गेन तस्य प्रवर्तकबोधमनुमाय तस्य स्वात्मदृष्टान्तेन कार्यताविषयत्वमवधार्य ततः शब्दानन्तरभावित्वेन शब्दजत्वं ज्ञात्वा पुनरावापोद्धाराभ्यां लिङादेः साक्षात्कार्यवाचित्वमन्येषां शब्दानां तदन्वितस्वार्थवाचित्वमवगच्छतीति यदुक्तं तन्नेत्यर्थः।
कुत इति चेत्, कल्पकाभावात्। तथाहि प्रौढमतीनामपि दुरधिगमयाऽनया प्रक्रियया बालो व्युत्पद्यत इति किं सिद्धार्थे व्युत्पत्त्यनुपपत्त्या कल्प्यते, किंवा सम्भवत्यामपि सिद्धार्थव्युत्पत्तौ तदनादरेण व्युत्पित्सुरेवैतां गरीयसीं प्रक्रियामाश्रयतीति। नाऽद्यः, सिद्धार्थे प्राथमिकव्युत्पत्तिसम्भवस्योक्तत्वात्।
द्वितीयं दूषयति आनीयमानेति। प्रयोजनार्थिनो हि प्रयोजन एव निर्बन्धो नतूपायविशेषे। तत्रोपायानेकत्वे च गुरुं परित्यज्य लघुमाश्रयते, नतु लघुं परित्यज्य गुरुमिति स्वात्मन्येव तावत् सिद्धम्। व्युत्पित्समानेऽप्येवं कल्पयितुं युक्तम्। तत्र “देवदत्तो गामानयति’ “तव भ्राताऽपूपानत्ति’ इति पदानामानीयमानाद्यमानगवादिदर्शनेनैवोक्तरीत्या व्युत्पत्तिर्लघीयसी। वर्तमानत्वेन कालान्तरभाव्यर्थप्रतीक्षाभावात्, तावत् पर्यन्तं शब्दानुसन्धानप्रयासाभावाच्च। देवदत्त गामानयेत्यादिपदानामेष्यदानयनादौ व्युत्पत्तिस्तु गरीयसी। वाक्यश्रवणानन्तरं तावत् तदनुसन्धानस्याऽगामिकार्थप्रतीक्षणस्य च प्रयाससाध्यत्वात्। तत्र गवादिशब्दव्युत्पत्त्यर्थं लघीयांसमुपायमनादृत्यैष्यदानयनप्रतीक्षादिकं गरीयांसमुपायं व्युत्पित्सुरनुतिष्ठतीति कल्पना निर्मूलैवेति।
॥ लिङादौ स्वार्थे व्युत्पत्तिः पश्चात्तनी॥
तत् किं प्रयत्नगौरवाद् भविष्यत्क्रियायां तदन्वितेषु च व्युत्पत्तिर्नास्त्येव? तथासति तच्छब्दव्यवहारोऽपि कथमित्यत आह व्युत्पन्न इति।
व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति।
पुनर्दृष्ट्यैव शब्दश्रुत् पश्चाद् व्युत्पत्तिमेष्यति॥४६॥
वर्तमाने वर्तमानार्थे क्रियाशब्दे आनयतीत्यादौ व्युत्पन्नोऽर्थसम्बन्धज्ञानवान् भविष्यति भविष्यदर्थे क्रियाशब्दे देवदत्त गामानयेत्यादिशब्दश्रुत् पुनर्दृष्ट्या गवानयनस्य।
अयमर्थः वर्तमानायां क्रियायां तदन्वितेषु चार्थेषु गामानयतीत्यादिपदानां सम्बन्धं प्रथमतोऽवगच्छति। भविष्यत्क्रियायां तु पश्चादानयेत्यादिपदानां सम्बन्धं जानाति त्वदुक्तरीत्येत्येव ब्रूमः। नतु सर्वथा तत्र व्युत्पत्त्यभावम्। अतो न काचिदनुपपत्तिरिति। शब्दश्रुत् पुनर्दृष्ट्येति परोक्तप्रक्रियानुवादः।
॥ कार्यस्य कालत्रयसम्बद्धत्वाङ्गीकारात् जिज्ञासाद्यभावेन व्युत्पत्त्याद्यसम्भवः॥
एवं लिङादीनां स्वार्थे व्युत्पत्तिः पश्चात्तनीत्युक्तम्। पराभ्युपगते तु कार्ये न काचिदपीत्याह वर्तमानमिति।
वर्तमानमतीतं च भविष्यदिति च क्रमात्।
आकाङ्क्षादियुतं यस्माद् विधेर्व्युत्पादनं कुतः॥४७॥
यस्माद् वर्तमानादिक्रमेण कालत्रयसम्बन्ध्येव वस्त्वाकाङ्क्षासन्निधियोग्यतायुक्तं च भवति, आकाङ्क्षाद्युपेत एव च व्युत्पत्तिः, नह्यजिज्ञासितेऽर्थे प्रवृत्तिसहस्रदर्शनेऽपि व्युत्पद्यन्ते, कार्यं च कालत्रयासम्बद्धं परेणेष्यते, तस्मादाकाङ्क्षादिविरहाद् विधेः कार्यापरनाम्नो व्युत्पादनं व्युत्पत्तिर्लिङादिवाच्यताज्ञानं कुतः सम्भवतीति।
अथवा लिङादिशब्दो विधिः, तस्य व्युत्पादनं कार्ये व्युत्पत्तिः कुत इति योज्यम्। अत्र कालसम्बन्ध्येवेति वक्तव्ये क्रमप्रदर्शनमुत्तरार्थम्।
किञ्च कालत्रयानवमर्शो विधेः किमर्थतः, किंवा शब्दतः? आद्ये शशविषाणादिवत् तस्य सत्त्वमेवासम्भावितम्। व्युत्पत्तिस्तु तद्विषये लिङादीनां कुतः? द्वितीये घटादितुल्यत्वात् कालत्रयानवमृष्टो विधिरिति विशेषाभिधानं व्यर्थम्। अनुभवविरुद्धं चैतत्। कर्तव्यमिति शब्दादेष्यत्कालीनताप्रतीतेरुक्तत्वात्।
॥ भूतभविष्यदर्थव्युत्पत्तेः वर्तमानार्थव्युत्पत्त्यनन्तरभावित्वम्॥
यदप्युक्तम् वर्तमानार्थक्रियादिशब्दव्युत्पत्त्यनन्तरभाविनी भविष्यदर्थक्रियाशब्दव्युत्पत्तिरिति। तदयुक्तम्। व्युत्पत्तिसम्भवे प्राथमिकत्वस्यैवोपपत्तावानन्तरिकत्वकल्पनायां नियामकाभावादित्यत आह दृष्ट्येति।
दृष्ट्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा भविष्यति।
व्युत्पत्तिः प्रथमा तस्माद् वर्तमाने(ऽ)गते ततः॥४८॥
प्रथमत एवानागतार्थे जिज्ञासाप्रतीक्षयोरसम्भवान्न व्युत्पत्तिरित्युक्तम्। वर्तमानार्थस्य तु दृष्टिसम्भवेन जिज्ञासोपपत्तौ प्रतीक्षायासासम्भवाच्च प्रथमं व्युत्पत्तिस्ततो ज्ञातः पदस्यार्थो येन तस्य वर्तमानक्रियायां तदन्वितेषु चार्थेषु व्युत्पन्नस्य पश्चाद् भविष्यति अतीते चाऽकाङ्क्षा स्यात्। देवदत्तो गामानयतीत्यादिपदानां वर्तमानक्रियायां तदन्वितेषु व्युत्पत्तौ जातायां देवदत्त गामानयेत्युक्ते गवादिपदानामानयतेश्च ज्ञातार्थत्वेनोर्वरितप्रत्ययार्थमात्रे जिज्ञासा प्रतीक्षा च स्यात्। तस्माद् वर्तमानार्थव्युत्पत्तेराकाङ्क्षादिजननद्वारेण कारणत्वेन भविष्यदाद्यर्थव्युत्पत्तेश्च कार्यत्वात् पौर्वापर्योपपत्तिरिति। अगतेऽनागत इत्यर्थः।
॥ इष्टानिष्टप्राप्तिपरिहारयोरेव प्रयोजनत्वम्, न प्रवृत्तिनिवृत्त्योः, ज्ञानस्यैव तत्साधनत्वं च॥
यदप्युक्तं प्रवृत्तिनिवृत्त्यौपयिकार्थशासनाच्छास्त्रत्वम्। नच सिद्धार्थबोधस्तथा। अतः कार्यबोधस्यैव तद्भावात् कार्यपरत्वं वेदस्येति। तत्र वक्तव्यम् किं प्रवृत्त्यादिकमेव वेदस्य मुख्यं प्रयोजनम्, उतावान्तरप्रयोजनम्? नाऽद्य इत्याह इष्टमिति।
इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते।
अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम्॥४९॥
पुरुषापेक्षितं हि प्रयोजनं भवति। अन्यस्यानिरूपणात्। पुरुषश्च इष्टावाप्तिमनिष्टनिवृत्तिं चापेक्षते, न प्रवृत्तिनिवृत्ती। क्लेशरूपत्वात्। अतो न तयोर्मुख्यप्रयोजनतेति। अस्तु प्रयोजनत्वमिष्टानिष्टप्राप्तिप्रहाणयोः तत्साधनं प्रवृत्तिनिवृत्ती इत्यवान्तरप्रयोजनमिति द्वितीयं दूषयति अपरोक्षमिति। ज्ञानमेवेष्टावाप्तिसाधनं न प्रवृत्त्यादिकमित्यर्थः।
॥ क्रियाया ज्ञानार्थत्वम्, परोक्षज्ञानस्यापि इष्टानिष्टप्राप्तिपरिहारसाधनत्वं च॥
तत् किं नोपदेष्टव्यैव क्रिया? न। क्वचिज्ज्ञानार्थत्वादित्याह क्वापीति।
क्वापि चेष्टा तदर्था स्यादत्तिर्हि रसवित्तये।
वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि॥५०॥
तत् कथमित्यत आह अत्तिर्हीति। अत्तिश्चर्वणादिरूपा क्रिया। रससाक्षात्काराय भवति। नन्वभिमतरसादिसाक्षात्कारस्यैवेष्टसाधनत्वं दृष्टम्। तत् कथं परोक्षं वा ज्ञानमिष्टस्य साधनमुक्तमित्यत आह वाक्यार्थेति। अपिशब्दो वाक्यार्थज्ञानमात्रेणापीति सम्बद्ध्यते। क्वचिदिति “पुत्रस्ते जातः’, “पिता ते राजा वर्तते’ इत्यादौ। यद्यप्यभिमतार्थानुमितिज्ञानमपीष्टसाधनम्। तथाऽपि प्रकृतानुपयोगात् तन्नोक्तम्।
॥ इष्टे इष्टसाधने च परब्रह्मण्येव समस्तवेदराशेः तात्पर्यमित्युपपादनम्॥
अयमत्राऽशयः यो हि सात्त्विकप्रकृतिर्लोकप्रवादात् कार्यत्वादिलिङ्गानुसन्धानाद् वा स्वतनुभवनादेः कर्तारं सामान्यतो जानन् स्नेहमाहात्म्यज्ञानाभ्यां तद्विशेषज्ञानार्थमुत्कण्ठितमानसः, तत्संस्कारवशाच्चान्यदगणयन् वर्तते, तं प्रत्याप्तो बन्धुरिवायं समस्तो वेदस्तत्स्वरूपं स्वप्रधानमेव प्रतिपादयति। ततो वाक्यार्थज्ञानादवाप्तपरमानन्दस्तत्साक्षात्कारं कामयते। तं प्रति तदुपासना विधीयते। सा च प्रक्षीणान्तःकरणमलस्यैव सम्भवतीति तदर्थं कर्मविधयः।
अथवा यः सांसारिकविविधदुःखं जिहासुः परमानन्दं च प्रेप्सुस्तत्साधनं जिज्ञासते। तं प्रति परमेश्वर एव प्रसन्नः परमेष्टसाधनतयोपदिश्यते। ततः कथमसौ प्रसीदतीत्यपेक्षायां तत्साक्षात्कारः, तदङ्गतया कर्माणीत्युभयथा स्वप्रधान एव परमेश्वरो वेदार्थ इति। नच प्रयोजनशेषतयेश्वरस्याप्राधान्यम्, प्रतिपत्तावपरार्थत्वात्। प्रतिपत्तेरेव प्रमाणफलत्वात्।
॥ वेदानां कार्यपरत्वपक्षेऽपि सिद्धार्थे ब्रह्मण्येव तात्पर्यमित्युपपादनम्॥
एवमकार्यशेषतया स्वप्रधाने ब्रह्मणि वेदस्य प्रामाण्यसम्भवाद् युक्ता ब्रह्मजिज्ञासेत्युक्तम्। इदानीमस्तु वा कार्यपरत्वं वेदस्य। तथाऽपि “आत्मानमुपासीत” इत्युपासनाकार्ये कर्मकारकतया प्रतीतस्य ब्रह्मणः स्वरूपं प्रतिपादयतां “सत्यं ज्ञानम्” इत्यादिवाक्यानां तत्र प्रामाण्यसम्भवाद् युक्ता ब्रह्मजिज्ञासेति पक्षान्तरं समर्थयमानो विधिपरेभ्योऽपि वाक्येभ्यो वस्तुतत्वसिद्धिर्भवतीत्यत्र परसम्प्रतिपन्नं निदर्शनमाह नचेति।
नच स्रुक्स्रुववह्न्यादावतात्पर्यं श्रुतेर्भवेत्।
यत्किञ्चित्करणस्यापि यज्ञतैवान्यथा भवेत्।
तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद् भवेत्॥५१॥
आदिग्रहणाद् यूपादयः। सर्वस्याऽम्नायस्य कार्यपरतां मन्यमानस्यापि मते यूपाहवनीयादिस्वरूपे श्रुतेरप्रामाण्यं तावन्न भवेत्। किन्तु यूपे पशुं बध्नातीति बन्धनाय यूपे विनियुक्ते तस्यालौकिकत्वात् कोऽसौ यूप इत्यपेक्षायां “खादिरो यूपो भवति”, “यूपं तक्षति”, “यूपमष्टास्रीकरोति” इति वाक्यैः तक्षणादिविधिपरैरपि संस्काराविष्टं विशिष्टसंस्थानं दारु यूप इति गम्यत एव। एवं स्रुक्स्रुवादयोऽपि द्रष्टव्याः। अप्रामाण्यमिति वक्तव्येऽतात्पर्यमिति वचनं यत् परेण प्रत्यक्षादिवैधर्म्यं शास्त्रस्योक्तम्, तन्निरासार्थम्।
कुतो न भवेदित्यत आह यत्किञ्चिदिति। अन्यथा यूपाहवनीयादिवाक्यानां यूपादिस्वरूपे तात्पर्याभावे। यत इति शेषः। किमतो यद्येवं स्रुक्स्रुववह्नयादावपि श्रुतेस्तात्पर्यमस्तीत्यत आह तस्मादिति। यस्मात् कार्यान्वितत्वेन यूपाहवनीयादिशब्दानां स्वार्थे तात्पर्यमस्ति। तस्मात् तत्समानन्यायेनोपासनाकार्यार्थत्वेन “सत्यं ज्ञानम्” इत्यादिवेदवाक्यं च स्वार्थे सकलगुणक्रियाद्युपेते ब्रह्मणि तात्पर्ययुक्तं भवेत्।
॥ आरोपिताकारेणैव ब्रह्मोपासनासम्भवात्
न ब्रह्मणि तात्पर्यं कल्पनीयमित्याशाङ्कानिरासः॥
ननु विषमोऽयमुपन्यासः। यूपादिस्वरूपाभावे पशुबन्धादिकार्यमेव न निष्पद्यत इति तत्स्वरूपेऽपि तात्पर्यमवश्याश्रयणीयम्। नचैवमुपासनं विना कर्मकारकसत्तया नोपपद्यते, आरोपिताकारेणापि सम्भवादिति। मैवम्। पार्थिवद्रव्यमात्रे बन्धनसम्भवेन खादिरत्वादावतात्पर्योपपत्तेः। तदप्यपूर्वत्वादविरुद्धत्वाच्च गृह्यत इति चेत्, समं प्रकृतेऽपि। अथ खादिरत्वाद्यभावे नापूर्वोत्पत्तिरिति चेत्, न। श्रुतेस्तत्र प्रामाण्यस्याद्याप्यनिश्चयात्। अविद्यमानार्थोपासनेऽपि फलाभावस्य साधयिष्यमाणत्वात्।
॥ उपासनावाक्येषु इतिशब्दश्रवणात् ब्रह्मणि तात्पर्याभावप्रतिपादनम्,
इतिशब्दस्य प्रकारवाचित्वमङ्गीकृत्य तन्निरासः, विपक्षे बाधकोक्तिश्च॥
ननु श्रुतिरेवाऽत्मादिस्वरूपे तात्पर्याभावं गमयति। “आत्मेत्येवोपासीत” इत्यादावितिशब्दसम्बन्धात्। इतिशब्दो हि वैपरीत्ये वर्तते। “न वेति विभाषा” इति यथा शब्दप्रकरणे न वेति शब्दयोर्विभाषासञ्ज्ञायां वैपरीत्यवाचिनेतिशब्देन तावर्थपरौ व्यवस्थाप्येते, तथेहाप्यर्थप्रकरणे श्रुतेनेतिशब्देनाऽत्मनः स्वरूपेणोपासनासम्बन्धं निवार्य स्मृतिमात्रेण सम्बन्धो ज्ञाप्यते। तत् कथमात्मसिद्धिर्वेदादिति चेत्, न। अत्रेतिशब्दस्य प्रकारवाचित्वात्। विपक्षे बाधकमाह इतिशब्दोन्नय इति।
इतिशब्दोन्नयेऽग्नावित्यप्युन्नीते स्मृतिर्भवेत्।
इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम्।
आत्मनमेवेत्यादीनि योगेऽग्नावपि तत् समम्॥५२॥
आत्मादिशब्दैरितिशब्दस्य वैपरीत्यवाचिनो योगे व्याख्यायमानेऽग्नौ जुहोतीत्यादावपि वैपरीत्यार्थे इतिशब्दे योजितेऽग्नेरपि स्वरूपेण होमान्वयो न स्यात्। किन्तु स्मृतिमात्रेणेति।
नन्वग्नौ जुहोतीत्यत्रेतिशब्द एव नास्ति तस्य वैपरीत्यार्थत्वं कुत इति चेत्, न। तर्हि उपासनावाक्यानामपि इतिशब्दविधुराणां बहुलमुपलम्भात् स्वार्थे तात्पर्योपपत्तिरित्याह इतिशब्देति। अलं बहूनीति शेषः। सत्यम्। तथाऽपि तत्राध्याहारः क्रियत इत्याह योग इति। योगे इतिशब्दस्य अध्याहृतस्य योजने। अग्नौ जुहोतीत्यत्रापि तद्योजनं समम्। आत्मादिशब्दात् परतो यद्यश्रुतेतिशब्दोऽध्याह्रियते, तदा अग्न्यादिशब्दात् परतोऽपि कुतो नाध्याह्रियत इत्यर्थः।
॥ वेदान्तानां ब्रह्मपरत्वम्, तदितरवेदभागानां कार्यपरत्वं चाभ्युपगम्य
पञ्चपादिकाकृता गतार्थताशङ्कायाः परिहारकथनम्॥
एकदेशिनस्त्वेवं परिहारमाहुः सत्यं कार्यनिष्ठो वेदः, तथाऽपि न सर्वः। वेदान्तास्तु परिनिष्ठितस्वरूपेऽपि ब्रह्मणि प्रमाणम्। “अथातो धर्मजिज्ञासा” इति कार्यनिष्ठवेदभागे विचारितेऽपि वस्तुतत्वनिष्ठवेदान्तविचाराय शारीरकमीमांसारम्भः सम्भवतीति।
॥ कृत्स्नस्यापि वेदस्य ब्रह्मपरत्वरूपैकवाक्यत्वे सुलभे वाक्यभेदकल्पनस्य अयुक्तत्वप्रतिपादनम्॥
सोऽयमयुक्तः परिहारः। तथाहि वेदान्ता ब्रह्मनिष्ठाः, अपरो वेदभागः कार्यनिष्ठ इति वाक्यभेदः किमेकवाक्यत्वासम्भवात् कल्प्यते, उतैकवाक्यत्वसम्भवेऽपि? न तावद् द्वितीयः, कल्पनागौरवप्रसङ्गादित्याह एकवाक्यत्वेति।
एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः।
वाक्यभेदो न युक्तः स्याद् योगश्च स्यान्महाफले।
अशेषतोऽपीति सम्बन्धः। हिशब्दः कल्पनागौरवादिप्रसङ्गं हेतुं सूचयति। आद्यं दूषयति योगश्चेति। अशेषतोऽपि वेदस्यैकवाक्यताया योगो घटना च स्यादेव। यथोक्तं पुरस्तात्। (१३१) वक्ष्यति च “अतो ज्ञानफलान्येव कर्माणि” इति।
किञ्च कृत्स्नोऽपि वेदः कार्यनिष्ठ इति वदन्तं प्रति एकस्यापि वाक्यस्य परिनिष्ठितवस्तुप्रतिपादकत्वप्रतिपादने यः प्रयासः, तेनैव कृत्स्नस्यापि वेदस्य तथात्वे सम्भवति किं वाक्यभेदकल्पनया? दृष्टो हि तस्यार्थः “कर्मावबोधनम्” इत्याद्यभियुक्तवाक्यानुरोधादिति चेत्, तर्हि “वेदोषरा वेदान्ताः” इत्यभियुक्तवाक्यं परमास्तिकेन भवताऽनुरोद्धव्यं स्यात्। उपक्रमादिना कार्यनिष्ठतावगमादेवमिति चेत्, न। अवान्तरवाक्येऽप्युपक्रमाद्यानुगुण्यस्य सम्भवात्। अधिकारादिविरोधादिति चेत्, न। तथासत्युपनिषत्स्वपि वाक्यभेदप्रसङ्गादिति।
॥ वेदानां मीमांसकाभिमतकार्यपरत्वरूपैकवाक्यत्वनिरासः॥
अपर आह भवतु कृत्स्नस्यापि वेदस्यैकवाक्यता। सा चाऽत्मज्ञानस्य स्वर्गादिफलकर्मशेषतया अस्तु। देहव्यतिरिक्तात्मज्ञानव्यतिरेकेण पारलौकिककर्मप्रवृत्त्यनुपपत्तेः। अथवा कर्माङ्गभूतदेवतानुस्मरणार्थमात्मप्रकरणमस्तु। तत्र फलश्रुत्यादिकमर्थवादोऽस्तु। यथोक्तम्
“आत्मा ज्ञातव्य इत्येतन्मोक्षार्थं नतु चोदितम्।
कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्य लक्ष्यते।
विज्ञाते चास्य पारार्थ्ये याऽपि नाम फलश्रुतिः।
साऽर्थवादो भवेदेव न स्वर्गादेः फलान्तरम्” इति।
तत्राऽह महाफल इति। महत् फलं कैवल्यं यस्मात् तत् महाफलं ब्रह्म तस्मिन्नेवाशेषतो वेदस्य योगः सम्बन्धः स्यात्। न पुनरल्पफले कर्मणि। प्रयाजादिषु तथा दर्शनात्।
॥ कर्मकाण्डब्रह्मकाण्डयोः भिन्नवाक्यत्वनिराकरणम्॥
अथवा “योगेऽग्नावपि तत् समम्” इति न युक्तम्। सम्भवति खलूपासनावाक्ये क्वचित् “आत्मेत्येवोपासीत” इतीतिशब्दश्रवणादविद्यमानेतिशब्देष्वप्युपासनावाक्येष्वितिशब्दाध्याहारः। नच कर्मप्रकरणे क्वचिदपीतिशब्दोऽस्ति। येन तदभावस्थानेऽध्याहारो भविष्यति। अत्रैव विधिवाक्ये श्रवणात् कर्मकाण्डेऽपि तदध्याहारः किं न स्यादिति चेत्, न। वेदान्तानां कर्मकाण्डस्य च भिन्नवाक्यत्वादित्यत आह एकवाक्यत्वेति।
॥ इतिशब्दस्य वैपरीत्यवाचित्वे, इतिशब्दोपेतवाक्यमुदाहृत्य तत्रानुपपत्तिकथनम्॥
अस्तु वा कर्मब्रह्मकाण्डयोर्वाक्यभेदः, तथाऽप्यग्न्यादिशब्दात् परमितिशब्दाध्याहारो युज्यते। कर्मप्रकरणेऽपि क्वचिदितिशब्दश्रवणादित्यभिप्रेत्याऽह इति ब्रूयादिति।
इति ब्रूयादिति वचो गतमग्नौ समीपगम्॥५३॥
“न गिरा गिरेति ब्रूयात्” इति वचोऽग्नावित्यस्य समीपगम्। गतमवगतमित्यर्थः। नन्वत्रेतिशब्दः शब्दस्वरूपग्रहणार्थ इति। सत्यम्। अत एवार्थप्रकरणे शब्दस्वीकारार्थो वैपरीत्यवाचीत्युक्तमिति।
॥ “खादिरो यूपः” इत्यादिवाक्यानां यूपस्वरूपे तात्पर्याभावाङ्गीकृतौ यूपादिपदार्थाभावप्रसङ्गः॥
तथाऽपि नोपासनाकर्मतया ब्रह्मणः सिद्धिः। ब्रह्मप्रतिपादकवाक्यानां ह्युपासनाकार्यत्वे तावत् तात्पर्यमावश्यकम्। ब्रह्मस्वरूपेऽपि तात्पर्यमित्यङ्गीकारे तु कल्पनागौरवप्रसङ्गादित्यत आह कल्पनेति।
कल्पनागौरवं चेत् स्यात् पृथक् तात्पर्यकल्पने।
कल्पनागौरवादेव पदार्था न स्युरेव हि॥५४॥
एवन्तर्हि यूपाहवनीयादिवाक्यानामपि पशुबन्धादिकार्ये तात्पर्यं तावदावश्यकम्। यूपादिस्वरूपेऽपि पृथक् तात्पर्यकल्पने कल्पनागौरवं स्यात्। ततश्च वेदात् तदसिद्धौ प्रमाणान्तराभावाद् यूपादिपदार्थाभाव एव प्रसज्यत इत्यर्थः।
॥ सत्यज्ञानादिवाक्यानां पदार्थे ब्रह्मणि वाक्यार्थे उपासनादिकार्ये च तात्पर्यवत्त्वप्रतिपादनम्॥
ननु यूपादिषु तद्वाक्यानां तात्पर्याणि प्रमाणसिद्धानि, नतु कल्प्यन्ते। येन खलु वाक्येन यस्यार्थस्य प्रमितिरुत्पद्यते तत् तत्परमित्युच्यते। यूपादिवाक्याच्च यूपादिज्ञानं तावदुत्पद्यते। नचायं संशयः एकाकारनियतत्वात्, नच विपर्ययः बाधकाभावात्, नचानुवादोऽयं अप्राप्तत्वात्। तत् कथं कल्पनागौरवम्? कथञ्च यूपादिपदार्थाभाव इत्याशयाऽह प्रमाणेति।
प्रमाणावगतत्वं चेत् तात्पर्याणां तथैव हि।
तस्मात् पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च॥५५॥
तथैव हि तर्हि ब्रह्मवाक्यानां ब्रह्मणि तात्पर्यं प्रमाणावगतमिति न कल्पनागौरवमिति शेषः। कल्पनागौरवं परिहृत्योपसंहरति तस्मादिति। सत्यज्ञानादिपदानां पदार्थे ब्रह्मणि वाक्यार्थे कार्ये चोपासनादावित्युभयत्र तात्पर्यं ग्राह्यम्। पदार्थ इत्यवान्तरवाक्यार्थोपलक्षणम्।
॥ अवान्तरवाक्यभेदस्यादोषत्वमङ्गीकृत्य सत्यज्ञानादिवाक्येऽनुपपत्तिपरिहारः॥
ननु तथाऽपि सत्यज्ञानादिवाक्यानां कथं स्वार्थे तात्पर्यम्? सत्यत्वे हि विधातव्ये ज्ञानत्वादीनामनुवादेन भाव्यम्। ज्ञानत्वे च विधातव्ये सत्यत्वादीनाम्। नचैतत् सम्भवति। युगपदाकारद्वयविरोधात्। मैवम्। सत्यं ब्रह्म, ज्ञानं ब्रह्मेति पृथगन्वयेन पृथग् वाक्यत्वाङ्गीकारादित्याह पृथगेवेति।
पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत्।
अवान्तरत्वाद् वाक्यानां वाक्यभेदो न दूषणम्॥५६॥
तर्हि वाक्यभेददोष इत्यत आह अवान्तरत्वादिति। एकवाक्यत्वे सम्भवति स्वतन्त्रवाक्यभेदकल्पनैव दोषो नत्ववान्तरवाक्यभेदः। तथात्वे क्वापि महावाक्यं न स्यात्।
॥ मीमांसकैरपि अवान्तरवाक्यभेदस्यादोषत्वमङ्गीकृतमिति सदृष्टान्तमुपपादनम्॥
किञ्च परेणाप्येवमङ्गीकृतमित्याह अङ्गीकृतत्वादिति।
अङ्गीकृतत्वादपि तैः पदानां च पृथक्पृथक्।
क्रियापदेनान्वयस्य वाक्यभेदो हि दूषणम्॥५७॥
“अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाति” इत्यादौ तैर्मीमांसकैरपि पदानामरुणयेत्यादीनां क्रीणातीत्यादिक्रियापदेनैकैकश्येनान्वयोऽङ्गीकृतः। अनुवादविधानयोर्युगपद् विरोधभयादरुणादीनां गवादिभिस्त्वाकाङ्क्षादिवशात् पार्ष्णिकान्वयोऽभ्युपगतः। ततश्च तेषामपि वाक्यभेदो दूषणं प्रसज्येत। तत्रैतावदेव वक्तव्यम्। महावाक्यभेद एव दोषो नावान्तरवाक्यभेद इति। तदस्माकमपि समानमिति।
॥ सत्यज्ञानादिवाक्यानां प्रत्यक्षादिविरोधेन ब्रह्मणि तात्पर्याभावशङ्का, तन्निरासश्च॥
स्यादेतत्। तथाऽपि वेदान्तपदानां स्वार्थेषु तात्पर्यं नोपपद्यते। प्रत्यक्षादिविरोधात्। तथाहि “विज्ञानमानन्दं ब्रह्म”, “सत्यं ज्ञानमनन्तं ब्रह्म”, “तत् त्वमसि” इत्यादौ ब्रह्मानुवादेनाऽनन्दादित्वमद्वितीयत्वं च विधीयत इति व्याख्येयम्। ब्रह्म च प्रत्यक्षादिसिद्धो जीवः। नच तस्यैतद्रूपत्वं प्रत्यक्षादिकं सहते, तेन तद्विपरीतोल्लेखनादित्यत आह प्रत्यक्षादिविरोध इति।
प्रत्यक्षादिविरोधेऽतो गौणार्थस्यापि सम्भवात्।
अतात्पर्यं पदार्थेऽपि न कल्प्यमविरोधतः॥५८॥
न तावत् सर्वत्र प्रत्यक्षादिविरोधः। “सत्यं ज्ञानम्” इत्यादिवाक्यानां जीवातिरिक्तेश्वरविषयत्वाङ्गीकारात्। तत्त्वमस्यादिवाक्यानां प्रत्यक्षादिविरोधेऽपि न स्वार्थे तात्पर्याभावः कल्पनीयः। प्रतीतार्थस्य प्रत्यक्षादिविरोधादेवाग्न्र्मिाणवक इत्यादेरिवामुख्यार्थकल्पनोपपत्तेः। नह्याभिधानिक एव स्वार्थो नान्य इति कस्यचिदभ्युपगमः। नच गौणार्थे तात्पर्याङ्गीकृतौ कश्चिद् विरोधोऽस्ति। ननु गौणार्थाङ्गीकारेऽपि जीवस्याऽनन्दादिरूपत्वमङ्गीकार्यम्। तच्च प्रत्यक्षादिविरुद्धम्। मैवम्। अविद्यावरणतिरोभावसम्भवात्। तदिदमुक्तम् अविरोधत इति।
॥ उक्तार्थस्य उत्सूत्रितत्वशङ्कानिरासपूर्वमुपसंहारः॥
“योगश्च स्यान्महाफले” इत्युक्तं प्रपञ्चयन्नुक्तार्थमुत्सूत्रितत्वभ्रमनिरासायातःशब्दारूढं कुर्वन्नुपसंहरति अत इति।
अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि।
मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद् भवेत्।
कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः॥५९॥
अत्र ज्ञानफलान्येव कर्माणीत्युक्तप्रपञ्चनम्। अतः श्रुतिप्रामाण्ययोगतो ब्रह्मणि श्रुतिप्रामाण्यस्य उपपन्नत्वाज्जिज्ञासा कर्तव्येत्युपसंहारः। न विषयसद्भावमात्रेण जिज्ञासोपपत्तिरित्यत उक्तं प्रयोजनसम्बन्धं स्मारयति ज्ञानमेव हीति। हि यस्माज्ज्ञानमेव विष्णोर्मुख्यप्रसाददम्। जिज्ञासाया एव तज्ज्ञानं भवेत्, नतु विषयादिसिद्धिमात्रेणेति। मुख्यप्रसादो मोक्षहेतुप्रसादः। कर्माणि तु जिज्ञासाजनकत्वेन ज्ञानफलानीत्युक्तानीति न विरोध इति।
शब्दप्रामाण्यवादः।
॥ बौद्धेन प्रमाकरणत्वायोगात् शब्दस्याप्रामाण्यमित्युपपादनम्॥
ननु शब्दस्यैव तावत् प्रामाण्यं दुर्लभम्। तथाहि प्रमाकरणं हि प्रमाणम्। प्रमाकरणं च तदुच्यते यस्मिन् सति प्रमा भवत्येव नासति। सत्यपि शब्दे प्रमा न जायते। तत् कथं प्रमाकरणं स्यात्?
॥ निर्विषयत्वात् शब्दस्याप्रामाण्यम्॥
किञ्च प्रमाणं हि विषयसद्भावेन व्याप्तम्। विषयश्च द्वेधा अपरोक्षः परोक्षश्च। तत्रापरोक्षः प्रत्यक्षसिद्धः। परोक्षस्त्वनुमानवेद्य इति विषयाभावान्न प्रमाणं शब्दः।
॥ अविज्ञानात्मकत्वात् शब्दस्याप्रामाण्यम्॥
अपिच यत् प्रमाणं तद् विज्ञानात्मकं दृष्टम्। यथा धूमज्ञानम्। अविज्ञानात्मकश्च शब्दोऽतो न प्रमाणम्। एवं बाह्यकरणप्रत्यक्षत्वात्, आत्मन्यनाश्रितत्वाच्च, घटवत्। आकाशगुणत्वाच्च तत्परिमाणवत्।
॥ शब्दार्थयोः सम्बन्धानुपपत्तिकथनम्॥
किञ्च किं शब्दोऽर्थेन सम्बद्धस्तं बोधयति, उतासम्बद्धः? आद्ये सम्बन्धस्तादात्म्यम्, संयोगः, समवायो वा? न प्रथमः, अग्न्यादिशब्दोच्चारणे सति मुखदाहादिप्रसङ्गात्। वर्तमानस्य शब्दस्य अतीतादिनार्थेन तादात्म्येऽर्थस्यापि वर्तमानतापत्तिः, शब्दस्य वाऽतीतत्वादिप्राप्तिः। न द्वितीयः, गुणत्वात्। द्रव्यत्वेऽपि मूर्तस्य क्रिययाऽर्थसंयोगेऽन्तरावस्थितार्थविषयत्वापत्तिः। सर्वगतत्वे तु सर्वार्थप्रतिपादकत्वप्रसङ्गः। सर्वथाऽतीतादिना संयोगानुपपत्तौ तदप्रतिपादकत्वं स्यात्। न तृतीयः, आकाशगुणस्यान्यत्र समवायायोगात्। सर्वशब्दानामाकाशार्थतापत्तेश्च। द्रव्यस्यापि मूर्तस्य वा अमूर्तस्य वा न घटादिना समवायो युज्यते। असम्बद्धस्य च बोधकत्वे नियामकाभावात् सर्वोऽपि सर्वं बोधयेत्।
॥ आप्तप्रतारकवाक्ययोः विशेषाभावकथनम्॥
किञ्च आप्तानाप्तप्रयुक्तयोः “नद्यास्तीरे पञ्चफलानि सन्ति’ इति वाक्ययोरस्ति कश्चिद् विशेषः, नवा? नाऽद्यः, अनुपलम्भात्। पुरुषे विशेषोऽस्तीति चेत्, न। तस्य वाक्योच्चारण एवोपक्षीणत्वेन तदुत्पाद्यज्ञानेऽनुपयोगात्। द्वितीये तु कथमेकस्यार्थविसंवादोऽपरस्य तु संवादः? अतः सम्भावनामात्रेण शब्दात् कृष्यादाविव प्रवृत्तिः।
॥ अनूदितबौद्धमतनिरासः॥
तदेवं शब्दस्यैवाप्रमाण्यात् कुतस्तद्विशेषस्य वेदस्य प्रामाण्यम्, कुतस्तरां सिद्धरूपे ब्रह्मणि, कुतस्तमां च तन्मीमांसारम्भ इत्यत आह प्रत्यक्षवच्चेति।
प्रत्यक्षवच्च प्रामाण्यं स्वत एवाऽगमस्य हि।
चशब्दो व्याख्यानान्तरद्योतकः। न केवलं सिद्धविषयत्वम्, प्रामाण्यं चेति वा। अनुमानवच्चेति वा। हेतुसमुच्चये वा।
॥ शब्दस्य प्रमाकरणत्वव्युत्पादनम्॥
तथाहि शब्दात् क्वचिज्ज्ञानमुत्पद्यते, नवा? नेति पक्षेऽनुभवविरोधः, स्वक्रियाविरोधश्च। न शब्दोऽर्थप्रत्यायक इति ब्रूते, परप्रत्यायनार्थं च शब्दमेव प्रयुङ्क्त इति। आद्ये स बोधः संशयो विपर्ययो वा? नाऽद्यः, एकाकारनियतत्वात्। न द्वितीयः, बाधबोधविरहात्। सर्वत्रापि बाधाभ्युपगमे स्वप्रयुक्तवाक्यस्य तद्भावाभावयोः स्वव्याघातात्। एवं व्यवस्थिते प्रयुज्यते शब्दः प्रमाणम्, संशयविपर्ययाजनकत्वे सति ज्ञानजनकत्वात्; प्रत्यक्षादिवदिति। नहि प्रत्यक्षादेरपि अन्यत् प्रामाण्यनियामकमस्ति। नन्विदमेव प्रामाण्यमिति साध्याविशिष्टत्वम्। न। याथार्थ्यं प्रामाण्यमिति वक्ष्यमाणत्वात्। (४७७)
॥ सम्यक् श्रुतस्य, समयस्मरणानुगृहीतस्य, शाब्दन्यायानुसन्धानसहितस्यैव शब्दस्य
प्रमाकरणत्वमङ्गीकृत्य उक्तानुपपत्तिपरिहारः॥
यदुक्तं सत्यपि शब्दे प्रमानुदयादप्रमाणं शब्द इति। तदयुक्तम्। सत्यपि चक्षुषि रूपज्ञानानुत्पत्तेः, सत्यपि धूमेऽग्न्ज्ञिानानुदयात् प्रत्यक्षानुमानयोरप्यप्रामाण्यप्रसङ्गात्। अथ ब्रूषे नेन्द्रियमात्रं प्रत्यक्षं किन्त्वन्तःकरणाधिष्ठितम्, विषयसन्निकृष्टं च। तथा न धूममात्रमनुमानम्, अपितु व्याप्तिपक्षधर्मतावत्त्वेनानुसंहितम्। नच तस्मिन् सति न प्रमोत्पद्यत इति। तर्हि वयमपि ब्रूमो न शब्दमात्रं प्रमाणम्, किन्तु श्रुतोऽनुस्मृतसम्बन्धश्च। नचैवंविधे शब्दे सति न प्रमोत्पद्यते। तथाच शब्दमात्रपक्षीकरणे सिद्धसाधनम्। विशिष्टशब्दपक्षीकारे चासिद्धिरिति। तदिदमुक्तम् प्रत्यक्षवच्चेति।
॥ शब्दस्य सविषयत्वप्रतिपादनम्॥
यदुक्तं विषयाभावान्न शब्दः प्रमाणमिति। तदप्ययुक्तम्। तथासति चाक्षुषप्रत्यक्षस्याप्यप्रामाण्यप्रसङ्गात्। तस्यापि हि परोक्षोऽपरोक्षो वा विषयः? नाऽद्यः, तस्यानुमानविषयत्वात्। न द्वितीयः, तस्य श्रोत्रादिविषयत्वादिति वक्तुं शक्यत एव। तत्रचैवं वक्तव्यम् उत्पद्यते तावच्चक्षुषा शुक्लोऽयं पट इति प्रमा। तथाचापरोक्षत्वेऽपि विषयस्य श्रोत्राद्यविषयत्वाद् युक्तं तत्र चक्षुषः प्रामाण्यम्। किञ्च प्रयोजनाभावेन न स्पष्टदृष्टं वस्तु निराकर्तुं शक्यते, सर्वापलापप्रसङ्गात्। किन्तु वस्तुदर्शनात् प्रयोजनमपि किञ्चित् कल्पनीयमिति। तदेतच्छब्देऽपि समानम्। परोक्षोऽपि स तादृशः कश्चिद् विषयो यो नानुमानस्य विषय इति वक्ष्यामः। (१४८, ५४१, १११९) एतदप्युक्तम् प्रत्यक्षवदिति।
तथाऽपि चक्षुरादीनां प्रत्यक्षत्ववच्छब्दानुमानयोरेकजातीयत्वं स्यादिति चेत्, तत् किं सर्वथा, उत यथाकथञ्चित्, अथानुमानत्वेन? नाऽद्यः, चक्षुरादावप्यभावात्। न द्वितीयः, इष्टापादनात्। न तृतीयः, वैलक्षण्यस्यापि वक्ष्यमाणत्वात्? (१४३) किञ्चैवं विषयविकल्पेन शब्दनिराकरणे शब्दमुपादाय अनुमानमपाकुर्वन्तं प्रति किं वक्तव्यम्। अनुमानाप्रामाण्ये सकललोकव्यवहारोच्छेदप्रसङ्गात्। परचित्तवृत्त्याद्यसङ्कीर्णविषयदर्शनात् परोक्षविषयत्वेऽपि शब्दाद् भिन्नं तदङ्गीकरणीयमिति वाच्यमिति चेत्, सममेतच्छब्देऽपि। एतदपि चशब्देनोक्तम् अनुमानवदिति।
॥ अविज्ञानात्मकत्वाच्छब्दस्याप्रामाण्ये प्रत्यक्षादेरप्यप्रामाण्यप्रसङ्गः॥
यच्चाविज्ञानात्मकत्वान्न शब्दः प्रमाणमिति। तदप्ययुक्तम्। यथेन्द्रियम्, इन्द्रियसन्निकर्षो वा प्रत्यक्षमविज्ञानात्मकमपि विज्ञानकरणत्वात् प्रमाणम्, तथा शब्दस्याप्युपपत्तेः। किञ्च धूमाद्यनुमानस्य अविज्ञानात्मकस्यापि प्रामाण्यं दृष्टमिति शब्दस्य कथं न स्यात्? अथ न धूमादिकमेवानुमानम्। किन्नाम। तज्ज्ञानम्। यथाऽऽहुः प्रमाणविदः “लिङ्गपरामर्शोऽनुमानम्” इति। तर्हि शब्दमात्रं न प्रमाणम्, किन्तु तज्ज्ञानमेवेत्यसिद्धिः। एतदप्याह प्रत्यक्षवच्चेति।
एतेन बाह्यकरणप्रत्यक्षत्वादात्मन्यसमवेतत्वादित्यपि हेतुद्वयं निरस्तं वेदितव्यम्। बाह्यकरणप्रत्यक्षस्यापि धूमवत् प्रामाण्योपपत्तेः। आत्मन्यसमवेतस्यापि प्रत्यक्षवदनुमानवच्च तत्सम्भवात्। ज्ञानाङ्गीकारेण व्यभिचारपरिहारे शब्दोऽपि ज्ञानात्मेत्यसिद्धिरेवेति।
॥ वर्णात्मकशब्दस्यैव प्रामाण्याङ्गीकारात् तस्य चाऽकाशगुणत्वाभावात् न तत्प्रामाण्येऽनुपपत्तिः॥
यदप्याकाशगुणत्वादिति। तदसिद्धम्। वर्णात्मा हि शब्दः प्रमाणम्। नचासावकाशगुणस्तत्वविदाम्। अत्र च प्रत्यक्षवच्चेति व्यतिरेकदृष्टान्तः। यथा प्रत्यक्षस्य नाऽकाशगुणत्वं तथा शब्दस्यापीति तस्य प्रामाण्यं न विहन्यत इति। अप्रयोजकाश्चैते हेतवो विपक्षे बाधकाभावादवगन्तव्याः।
॥ शब्दार्थयोः तादात्म्यादिभिन्नसम्बन्धान्तरस्य कल्पनीयत्वप्रतिपादनम्॥
यच्चोक्तं शब्दस्यार्थेन सम्बन्धोऽस्ति नवेति। तत्रास्तीति ब्रूमः। स च तादात्म्यादेरसम्भवेऽन्यो भविष्यति। यथा खलु चक्षुरादेः प्रत्यक्षस्यासम्बद्धस्य ग्राहकत्वेऽतिप्रसङ्गात् तादात्म्यादेरसम्भवात् कार्यवशादेव घटादिना संयोगः कल्प्यते, श्रोत्रस्य शब्देन संयोगाद्यसम्भवात् समवायः, अनुमानस्य च धूमादेरग्न्यादिना संयोगादेरव्याप्त्यतिव्याप्त्यादिनाऽसम्भवाद् व्याप्यव्यापकभावः कल्पितः, एवं शब्दस्यासम्बद्धस्य गमकत्वेऽतिप्रसङ्गात् तादात्म्यादेरसम्भवात् सम्बन्धान्तरं कल्पनीयम्। न पुनः स्पष्टदृष्टतत्कार्यापलापो युक्तः। तदिदमाह प्रत्यक्षवच्चेति।
॥ शब्दार्थयोः स्वाभाविकस्य वाच्यवाचकभावसम्बन्धस्याभ्युपगमः॥
स च सम्बन्धः पारमेश्वरः सङ्केत एवेत्येके। स्वाभाविकः प्रत्याय्यप्रत्यायकत्वलक्षण इत्यपरे। तत्र कः सम्बन्धो विवक्षित इत्यपेक्षायामुक्तम् स्वत एवेति। स्वाभाविकेनैव सम्बन्धेनेत्यर्थः। तदुक्तं जैमिनिना”औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः” इति। वक्ष्यति चाऽचार्यः
“नित्ययोगोऽपि शब्दानामर्थे नैव निषिद्ध्यते” इति।
॥ वाच्यवाचकसम्बन्धस्य स्वाभाविकत्वेऽपि
विदितसम्बन्धस्यैव शब्दस्य बोधकत्वाङ्गीकारात् नानुपपत्तिः॥
ननु यदि शब्दस्य स्वाभाविकी वाच्यविषया शक्तिः, तदा व्युत्पन्नवदव्युत्पन्नोऽपि शब्दादर्थं प्रतीयात्। नह्यग्न्रिविदितशक्तिर्न दहतीति। मैवम्। यथा प्रत्यक्षस्य चक्षुरादेः स्वाभाविक्यां रूपप्रतीतिजननशक्तौ सत्यामप्यागन्तुकसन्निकर्षापेक्षया रूपप्रत्यायकत्वम्, यथाच लिङ्गस्य सत्यपि स्वाभाविके साध्यसम्बन्धे तदनुसन्धानापेक्षयैव गमकत्वम्, एवं शब्दस्यापि सत्यप्यर्थेन स्वाभाविके सम्बन्धे विदितसम्बन्धस्यैव बोधकत्वं नान्यथेति नियमात्। तदेतदप्याह प्रत्यक्षवच्चेति।
॥ साङ्केतिकस्यापि वाच्यवाचकसम्बन्धस्याङ्गीकृतत्वात् न ऋष्यादिप्रयोगनियमानुपपत्तिः॥
अथापि स्यात्। स्वाभाविकोऽपि सम्बन्धः किं सर्वेषां शब्दानां सर्वैरर्थैः, उत कस्यचित् शब्दस्य केनचिदर्थेन? नाऽद्यः, शब्दार्थव्यवस्थानुपपत्तिप्रसङ्गात्। न द्वितीयः, ऋष्यार्यम्लेञ्छानामनियमाभावप्रसङ्गात्। तथाहि यवशब्दमार्या दीर्घशूके प्रयुञ्जते, यवशब्दाद् दीर्घशूकमेव प्रतिपद्यन्ते। म्लेञ्छास्तु प्रियङ्गौ प्रयुञ्जते, प्रियङ्गुमेव प्रतिपद्यन्ते। त्रिवृच्छब्दमार्या लताविशेषे प्रयुञ्जते, ऋषयोऽन्यत्रेत्येवमादिरनियमः स्वाभाविक्यां शब्दशक्तौ न स्यात्। नहि प्रदीपो रूपप्रकाशनशक्ती रसमपि कदाचित् प्रकाशयति। साङ्केतिकत्वे त्वनियमो युज्यते। पुरुषेच्छाधीनत्वात्, तस्याश्चानियतत्वात् चेष्टासङ्केतवदिति।
अत्रोच्यते न वयं क्वचिदपि शब्दस्य सङ्केताद् बोधकत्वं नास्तीति ब्रूमः। किन्त्वर्थविशेषे स्वाभाविकी च शक्तिरस्तीति। तथाच स्वाभाविक्या शक्त्या क्वचिद् बोधकः क्वचित् सङ्केतादित्यनियमो युज्यते।
अथवोभयत्र स्वाभाविकी शक्तिरस्तु। व्युत्पत्तिवशाद् व्यवहारनियमसम्भवात्। यथा खलु शुक्तिसन्निकृष्टेन चक्षुषा कश्चिच्छुक्तिकां प्रतिपद्यते, कश्चिद् रजतम्। नचैतावता चक्षुषोऽर्थप्रत्यायकत्वमस्वाभाविकम्, दोषसहकारिसदसद्भावाभ्यामनियमसम्भवात्। यथा कृतकत्वाल्लिङ्गात् कश्चिदनित्यतां प्रत्येति, कश्चिन्नित्यताम्। अन्यथा विरुद्धहेत्वाभासानवसरप्रसङ्गात्। तावता न तस्यास्वाभाविकं गमकत्वम्। अनियमस्य सम्बन्धग्रहणदोषभावाभावाभ्यामुपपन्नत्वात्। तथा शब्दस्यापि शक्त्यनुसार्यननुसारिव्युत्पत्तिलक्षणसहकारिवशादनियमेऽपि स्वाभाविकशक्तिसद्भावः सम्भवतीति। तदिदमाह प्रत्यक्षवच्चेति। इयांस्तु विशेषः। शब्दः सङ्केतादपि प्रमापकः, नैवं चक्षुरादि। तेन संवादविसंवादोपपत्तिरिति।
॥ परेण शब्दार्थसम्बन्धस्य स्वाभिाविकत्वनिरासपूर्वं साङ्केतिकत्वसमर्थनम्॥
ननु ये स्वाभाविकं सम्बन्धमास्थिषत शब्दार्थयोः, तेषामपि नैष सत्तामात्रेणावगमाङ्गम्। अपि तु विज्ञातः सन्। विज्ञाने चास्यायमर्थस्य वाचक इति वा, अस्मादयं बोद्धव्य इति वा सङ्केत एवोपायः। वृद्धव्यवहारोऽपि गवादिशब्दानां देवदत्तादिशब्दवत् सङ्केतपूर्वक एव। तद् वरमस्तु सङ्केत एव। कृतमत्र स्वाभाविकेन सम्बन्धेन। तन्मात्रादेव प्रयोगप्रतिपत्तिव्यवहाराणामुपपत्तेः।
नन्वयं सङ्केत एव केषाञ्चिच्छब्दानामसति स्वाभाविकार्थसम्बन्धे न शक्यः कर्तुम्। निर्दिश्य ह्यर्थं ब्रूयादयमस्माद् बोद्धव्य इति। नच निर्देशोऽसति स्वाभाविके सम्बन्धे केषाञ्चिच्छब्दानां सिद्ध्यति। सङ्केताधीने तु वाचकत्वे सर्वेषां शब्दानामकृतसमयत्वात् किं केन निर्दिशेत्? तस्मात् सङ्केतकरणमेव स्वाभाविकसम्बन्धं प्रतिपादयति शब्दानाम्।
मैवम्। सर्गादिभुवां महर्षिदेवतानां परमेश्वरानुग्रहाद् धर्मज्ञानवैराग्यैश्वर्यसम्पन्नानां परमेश्वरस्य तावत् सुकर एव सङ्केतः कर्तुम्। तद्व्यवहाराच्चास्मदादीनामपि सुग्रहः सङ्केतः। तथाहि वृद्धवचनानन्तरं तच्छ्राविणो वृद्धान्तरस्य प्रवृत्तिहर्षशोकभयादिप्रतिपत्तेः, तद्धेतुं प्रत्ययमनुमिमीते बालः। तस्य सत्स्वप्यन्येष्वभूतस्य वाक्यश्रवणसमनन्तरं भवतो वाक्यश्रवणहेतुतामवगच्छति। तदवयवानां च पदानामावापोद्धारभेदेन तत्तदर्थप्रत्ययजननोपायत्वदर्शनात्। तेषुतेष्वर्थेषु तेषां पदानां वाचकत्वं च कल्पयति। एवं पदावयवेषु प्रकृत्यादिष्वपि द्रष्टव्यम्। स्वाभाविकीं शक्तिमभ्युपगच्छताऽप्येषा प्रक्रियाऽनुसरणीया। साऽपि न सत्तामात्रेणावगमाङ्गमित्युक्तम्।
स्यादेतत्। यदि शब्दानां साङ्केतिकः सम्बन्धो न स्वाभाविकः, कृतं तर्हि साध्वसाधुविभागपरेण व्याकरणेन। स्वाभाविकं हि यस्य वाचकत्वं स शब्दः साधुः, असाधुश्चेतरः। सामयिकत्वे तु सर्व एव साधवोऽसाधवो वा स्युः। मैवम्। परमेश्वरसमयपरिपालनार्थत्वात्। तथाच येषां पदानां येष्वर्थेषु परमेश्वरेण कृतः समयस्तानि तत्र साधूनि, असाधूनि चेतरत्रेति विभागाय व्याकरणमर्थवदिति।
॥ सङ्केतवादेऽपि ऋष्यादिप्रयोगानामनियमानुपपत्तिप्रसङ्गः, व्याकरणादिवैयर्थ्यप्रसङ्गश्च॥
अत्र ब्रूमः परस्यापि मते किमीश्वरसङ्केत एवावगमाङ्गम्, उतास्मदादीनामपि। आद्ये कथमृष्यार्यम्लेञ्छानामनियताः प्रयोगप्रत्ययव्यवहाराः? किञ्चेश्वरसङ्केतोऽपि गृहीत एवावगमाङ्गं न स्वरूपेण। व्युत्पन्नवदव्युत्पन्नस्यापि प्रतिपत्तिप्रसङ्गात्। तद्ग्रहश्च त्वदुक्तरीत्योपदेशादिनैव। तथाचास्त्वस्मदाद्युपदेश एव। किमदृष्टेश्वरसङ्केतकल्पनयेति समानम्। अस्मदादिभिरपि पूर्वतनः सङ्केतो ज्ञाप्यत एव नतु क्रियत इति चेत्,, तर्ह्यस्मन्मतेऽपि वृद्धेन स्वाभाविकी शक्तिर्ज्ञाप्यत एव। नत्वपूर्वसङ्केतः क्रियत इति तुल्यम्। द्वितीये तु व्याकरणादिवैयर्थ्यम्। व्यवहारमात्रं हि शब्दप्रयोजनम्। तच्चेश्वरानीश्वरसङ्केतयोः समानम्। अदृष्टार्थमिति चेत्, न। प्रमाणाभावात्। श्रुत्यादेः सङ्केतशक्तिपक्षोदासीनत्वात्। किञ्च चरमभाविनं सहकारिणमुपदेशादिकमुपादाय शक्तिप्रत्याख्यानेऽतिप्रसङ्गः।
॥ शब्दार्थसम्बन्धस्य स्वाभाविकत्वस्य प्रामाणिकत्वम्॥
अथौत्पत्तिकशक्तिसद्भावे किं प्रमाणम्? अर्थावबोधस्य स्वरूपसहकारिभ्यां शब्दसङ्केताभ्यामेवोपपत्तेरिति। उच्यते किं स्वरूपसहकारिव्यतिरिक्तातीन्द्रिया शक्तिः क्वापि नाङ्गीक्रियते, उत शब्द एव? आद्ये वक्ष्यामः। द्वितीयेऽधुनातनास्तावन्न सङ्केतयितार इति तवापि सम्मतम्। नच लोकोत्तरे सङ्केतयितरि प्रमाणमस्ति। तथाच स्वभाव एवायं शब्दानामिति गम्यते। गवादिशब्दाः साङ्केतिकाः, शब्दत्वात्; देवदत्तादिशब्दवदिति चेत्, किमत्र साङ्केतिकत्वमात्रं साध्यम्, उत सास्नादिमत्यर्थे। आद्ये सिद्धसाधनम्। गुप्तभाषणादौ मया गोशब्दस्य घटेऽपि सङ्गेतितत्वात्। द्वितीये व्यभिचारः। नहि सर्वेऽपि शब्दाः सास्नादिमति पिण्डे सङ्केतिता इत्यत्र प्रमाणमस्ति। गोशब्दः सास्नादिमत्यर्थे सङ्केतितः, तत्र प्रयुज्यमानशब्दत्वात्; गाव्यादिशब्दवदिति चेत्, न। असाधुशब्दत्वस्योपाधित्वात्। साधनावच्छिन्नसाध्यव्यापकत्वेनाप्युपाधित्वस्य वक्ष्यमाणत्वात्। (५२२) अन्यथाऽस्मदादिविशेषणप्रक्षेपोऽपि प्रतिज्ञायां प्रसज्येतेति। तदेवं शब्दस्यार्थसम्बन्धसम्भवान्नाप्रामाण्यम्।
॥ आप्तप्रतारकवाक्याविशेषत्वोक्तिनिरासः॥
यत् पुनरुक्तम् आप्तानाप्तप्रयुक्तयोरित्यादि। तदप्यसारम्। प्रत्यक्षवदेवोपपत्तेः। चक्षुरादिप्रत्यक्षं हि क्वचिद् यथार्थज्ञानं क्वचिदयथार्थज्ञानं जनयदपि प्रमाणमङ्गीक्रियत एव। दोषसदसद्भावाभ्यां तत्र भेद इति चेत्, तर्ह्यत्राप्यनाप्तवक्तृसदसद्भावाभ्यां भेदो भविष्यति। वक्ता वाक्योच्चारण एवोपयुज्यत इति चेत्, न। यतस्तदेवाविषये प्रयुञ्जानो दुष्टं करोति, निशातमसिमाकाशे प्रयुञ्जान इव। अन्यथाऽनुमानमप्यप्रमाणं स्यात्। कृतकत्वं हि शब्दानित्यत्वसाधने साधु, असाधु चाग्न्यवयविनोऽनुष्णत्वसाधने। तत् कस्माद् विशेषात्? व्याप्तिपक्षधर्मताभावाभावाभ्यामिति चेत्, न। कालातीतत्वस्य पृथग् दूषणताया वक्ष्यमाणत्वात्। (५१६, ९३७) ततोऽविषयवृत्तित्वतदभावरूप एव विशेषो वक्तव्यः। स च समानः शब्देऽपीति। तदिदमुक्तम् प्रत्यक्षवच्चेति।
॥ शब्दस्यानुमानान्तर्भाववादनिराकरणम्॥
एतद्दोषभयात् केचित् शब्दस्यानुमानेऽन्तर्भावमिच्छन्ति। अपरे पुनरपौरुषेयतया निरस्तसमस्तदोषाशङ्कस्य वेदस्य शब्दतयैव प्रामाण्यम्, पुरुषवचसां त्वनुमानतयेत्यातिष्ठन्ते। तदुभयमप्यत एवायुक्तम्। किन्तु प्रत्यक्षवदनुमानवच्च शब्दमात्रस्यापि प्रामाण्यं स्वतः स्वेनैव रूपेण नत्वनुमानत्वेन। अत एव श्रुतेः प्रकृतत्वेऽपि सर्वशब्दपरिग्रहायाऽगमस्येत्युक्तम्। हिशब्दस्तत्र प्रमाणप्रसिद्धिद्योतकः। तच्चोत्तरत्र वक्ष्यामः। (१६१, ५३७)
॥ बौद्धेन अनृतव्याघातपुनरुक्तिदोषैर्वेदस्याप्रामाण्यसाधनम्, तन्निरासश्च॥
ननु तथाऽपि वेदस्य प्रामाण्यं नोपपद्यते। अनृतव्याघातपुनरुक्तदोषात्। तथाहि अनृतमप्रमाणं दृष्टम्, यथा विप्रलम्भकवाक्यम्। अनृतश्च वेदः, पुत्रकामेष्ट्यनुष्ठानेऽपि फलानुपलब्धेः। व्याहतं चाप्रमाणम्, यथोन्मत्तवाक्यम्। व्याहतश्चायम् “अतिरात्रे षोळृशिनं गृह्णाति” “नातिरात्रे षोळृशिनं गृह्णाति”, “उदिते जुहोति” “अनुदिते जुहोति” इत्यादि। पुनरुक्तं चाप्रमाणम्। पुनरुक्तिश्च वेदे “त्रिः प्रथमामन्वाह” इत्यादिदर्शनादिति।
तदिदमप्ययुक्तम्। तथाहि किं वेदमात्रं पक्षीकृत्यैतैर्हेतुभिरप्रामाण्यं साध्यते, उत तदेकदेशम्? नाऽद्यः, यथा कस्यचित् प्रत्यक्षस्यानुमानस्य वाऽनृतत्वादौ सत्यप्यन्यस्य प्रामाण्यम् एवं वेदस्यानृतादिभागपरिहारेण प्रामाण्योपपत्तेः। अन्यथा हेतूनां भागासिद्धिप्रसङ्गात्। द्वितीये त्वास्तां विप्रतिपन्नो वेदभागः। सम्प्रतिपन्नवेदभागमीमांसा कथमनुपपन्ना? अथ वेदत्वात् तस्यापि वेदभागस्याप्रामाण्यं साधयामीति मन्यसे। तन्न। यथा हि कस्यचित् प्रत्यक्षस्यानुमानस्य वाऽप्रामाण्येऽप्यन्यस्य प्रामाण्यं न प्रत्यक्षत्वादिमात्रेण विहन्यते, तथा वेदस्यापि। अन्यथा सर्वप्रत्यक्षानुमानविलयप्रसङ्गः।
॥ अनृतत्वानुमानभङ्गः॥
किं चेदमनृतत्वम्? अर्थव्यभिचारित्वमिति चेत्, नन्विदमेवाप्रामाण्यमिति साध्याविशिष्टता। नचानृतत्वमेकदेशेऽपीति सूत्रकार एव वक्ष्यति। (२१७)
॥ व्याहतत्वानुमानभङ्गः॥
व्याघातेन चाप्रामाण्यं साधयन् किं वाक्यद्वयं पक्षीकुर्यात्, उतैकमेव? नाऽद्यः, व्याहतयोः प्रत्यक्षयोः अनुमानयोर्वा मध्येऽन्यतरप्रामाण्यसम्भववद् वाक्ययोरप्यन्यतरप्रामाण्यसम्भवात्। न द्वितीयः, अनिश्चितदशायामन्यतरप्रत्यक्षादिवत् पक्षीकृतस्यापि प्रामाण्यसम्भवात्। अपिच व्याघातोऽप्यापाततः सर्वथा वा? नाऽद्यः, आपाततो व्याघातवतोऽपि प्रत्यक्षादेरिव वेदस्यापि प्रामाण्यसम्भवात्। न द्वितीयः, प्रत्यक्षादाविवासिद्धेः। यथा चासिद्धिः, तथा सूत्रकृदेव वक्ष्यति। (३३६, ८, १०, श्रुतिविरोधपरिहारपादयोश्च)
॥ पुनरुक्तत्वानुमानभङ्गः॥
पौनरुक्त्येऽपि प्रत्यक्षादिवद् वेदप्रामाण्यं सम्भवति। नह्येकस्मिन्नर्थे सम्प्लवमानं प्रत्यक्षमनुमानं वाऽप्रमाणं भवति। अर्थवैपरीत्ये हि तत् स्यात्। नहि प्रत्यक्षेण गृहीतो घटः, पुनर्गृह्यमाणः पटो भवति। नापि कृतकत्वेनानित्यतयाऽनुमितः शब्दः, तीव्रादिधर्मोपेतत्वेन पुनस्तथाऽनुमीयमानो नित्यो भवति। तथा शब्देऽपि। वैयर्थ्यं तु कथञ्चिच्छयेत। तच्चाभ्यासानुवादादिरूपेण व्याकुर्वद्भिरेव वृद्धैः परिहृतमिति।
॥ आगमस्य स्वतः प्रामाण्यम्॥
नन्वस्त्वेवं वेदस्याप्रामाण्यपरिहारः। प्रामाण्यं तु कुतः? नह्यप्रामाण्यप्रतिक्षेप एव प्रामाण्यम्। घटादावभावादिति। ज्ञानकरणस्य सतोऽप्रामाण्ये निरस्ते स्वत एवेति ब्रूमः। तदिदमुक्तम् आगमस्येति। आगम्यतेऽवगम्यतेऽनेनेत्यागमः। ये हि न्यायविदः प्रत्यक्षविशेषस्यानुमानस्य च प्रामाण्यं स्वत एवेत्यङ्गीकृत्याऽगमप्रामाण्यस्वतस्त्वं नाङ्गीकुर्वन्ति तान् प्रति प्रत्यक्षवच्चेति दृष्टान्तोपादानम्। हिशब्दः प्रमाणत्वहेतुसूचकः। ये तु प्रमाणमात्रस्य प्रामाण्यं स्वतो नेति मन्यमाना आगमप्रामाण्यस्वतस्त्वे विप्रतिपद्यन्ते तान् प्रति प्रत्यक्षवच्चेति प्रत्यक्षानुमानयोरपि प्रसङ्गात् स्वीकारार्थमुक्तमिति ज्ञातव्यम्।
॥ प्रामाण्यवादः, प्रामाण्यस्वतस्त्वनिर्वचनम्॥
ननु किमिदं प्रमाणानां प्रामाण्यस्य स्वतस्त्वम्? उच्यते प्रत्यक्षानुमानागमाः, तज्जनितं विज्ञानं च प्रमाणम्। तत्र ज्ञानस्य यद् याथार्थ्यलक्षणं प्रामाण्यं तस्य ज्ञानजनकसामग्रीमात्राधीनजन्मत्वं स्वतस्त्वम्। करणानां च ज्ञानजननशक्त्यैव तद्याथार्थ्यजनकत्वं स्वतस्त्वम्। तथा ज्ञानगतयाथार्थ्यस्य ज्ञानग्राहकमात्रग्राह्यत्वं स्वतस्त्वम्।
करणानां तु ज्ञप्तौ स्वतस्त्वं नाङ्गीक्रियते। तत्स्वरूपस्य यथायथं प्रत्यक्षादिवेद्यत्वात्, यथार्थज्ञानजनकत्वस्यानुमानवेद्यत्वात्। अथवा तेषामपि ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वमिति।
॥ प्रामाण्यस्य उत्पत्तौ स्वतस्त्वनिरूपणम्॥
उत्पत्तौ स्वतस्त्वं कुत इति चेत्, प्रामाण्यं ज्ञानकारणातिरिक्तकारणानपेक्षम्, अप्रामाण्येतरज्ञानधर्मत्वात्; ज्ञानत्ववदित्यनुमानात्। नच प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना, कार्यत्वे सति तद्विशेषत्वात्; अप्रमावदिति सत्प्रतिपक्षत्वम्। ईश्वरप्रमायां बाधात्, असिद्धेश्च।
तदतिरिक्तप्रमापक्षीकारेऽपि किं ज्ञानस्यैवंविधत्वेन, उत प्रमात्वस्य, अथवा तत्सम्बन्धस्य साध्यपर्यवसानम्? नाऽद्यः, व्याघातात्। द्वितीये च प्रमात्वं जातिः, अन्यद् वा? जातित्वे बाधः, अकार्यत्वात्। अन्यत्वे भावोऽभावो वा? नाऽद्यः, ज्ञाने जात्यतिरिक्तभावानभ्युपगमात्। न द्वितीयः, प्रध्वंसातिरिक्तस्य तस्याजन्यत्वात्, प्रध्वंसस्य चात्रासम्भवात्। नान्त्यः, संयोगस्य गुणेऽसम्भवात्। समवायस्य चाकार्यत्वात्। एतेन प्रमात्वपक्षीकारेणापि प्रयोगो निरस्तः।
अस्तु जातिः प्रमात्वम्। तथाऽपि ज्ञानकारणातिरिक्तकारणजन्यैव व्यक्तिः प्रमात्वाधार इति तात्पर्यमिति चेत्, न। साऽपि व्यक्तिः किं ज्ञानमेव, उत सातिशयम्? अतिशयोऽपि भावोऽभावो वेति पक्षाबहिर्भावात्।
किञ्चातिरिक्तं कारणं गुण एव वक्तव्यः। स चाऽप्तोक्तत्वमेव शब्दे। नच तस्यान्वयव्यतिरेकौ प्रामाण्यमनुकरोति। वेदापौरुषेयत्वस्य वक्ष्यमाणत्वात्।(१४८, ४६८)
॥ प्रामाण्यस्य ज्ञप्तौ स्वतस्त्वनिरूपणम्॥
ज्ञप्तौ स्वतस्त्वेऽपि प्रामाण्यं ज्ञानग्राहकमात्रग्राह्यमप्रामाण्येतरज्ञानसमवेतधर्मत्वात्; ज्ञानत्ववत्। नच प्रामाण्यं परतो ज्ञायते, अनभ्यासदशायां सांशयिकत्वात्; अप्रामाण्यवदिति वाच्यम्। व्यर्थविशेषणत्वात्। असिद्धिपरिहारार्थमिति चेत्, न। तथाऽनभ्युपगमात्। यथोक्तंस्वयमेव “एकामसिद्धिं परिहरतो द्वितीयाऽऽपन्ना” इति। अन्यथा शरीराजन्यत्वहेतोरपि विशेषणवैयर्थ्यं नोद्भाव्येत। अथानभ्यासदशायामिति प्रतिज्ञाविशेषणम्। तथाऽपि स्वतःप्रमाणतया त्वदभ्युपगतधर्मिप्रत्यक्षानुमानोपमानेष्वपि संशयादिदर्शनेनानैकान्त्यमिति।
॥ ज्ञप्तौ स्वतस्त्वानङ्गीकारेऽनवस्थाप्रसङ्गः॥
ज्ञप्तौ स्वतस्त्वानभ्युपगमे बाधकमाह
अनवस्थाऽन्यथा हि स्यात्…………॥६०॥
अनवस्थेति। अवश्यवेद्यत्वानभ्युपगमान्नानवस्थेति चेत्, निःशङ्कप्रवृत्ताववश्यवेद्यत्वात्। तथाहि ज्ञानं तावदबुभत्सितग्राह्यतया तीव्र्संवेदनम्। ज्ञाते च तस्मिन् प्रामाण्याप्रामाण्यानुपलब्धौ कथं संशयो न स्यात्? सति च प्रामाण्यसंशये, अर्थसंशयोऽपि कथं न स्यात्? तथाच कथं निःशङ्का प्रवृत्तिः स्यात्? तथाऽप्यनुमानात् प्रामाण्यग्रहणम्, अनुमितिश्च स्वतःप्रमाणमिति कथमनवस्थेति चेत्, न। धर्मिलिङ्गदृष्टान्तद्वारिकायास्तस्या अनिवारणात्। किञ्चानुमितिप्रामाण्यं येन ज्ञानेन विषयीक्रियते, तस्यापि प्रामाण्यमन्येनेति कथं नानवस्था?
ननु स्वतःप्रामाण्येऽपि कथं नानवस्था? इत्थम् साक्षी खलु वृत्तिज्ञानग्राहकः। स एव च तत्प्रामाण्यं गृह्णातीति तेषां स्वतःप्रामाण्यम्। स च स्वप्रकाशः स्वप्रामाण्यमपि गृह्णातीति तस्य स्वतःप्रामाण्यम्। तस्य यथार्थत्वनियमान्नाहार्यसंशयविषयत्वमपीति।
॥ अप्रामाण्यस्य परतस्त्वप्रतिपादनम्॥
ननु यदि प्रामाण्यमुत्पत्तौ ज्ञप्तौ च स्वतः स्यात्, तर्हि बौद्धादिवाक्यजनितमपि ज्ञानं प्रमाणं स्यात्। अस्ति हि तत्र ज्ञानहेतुः। अन्यथा ज्ञानमपि न स्यात्। तथा प्रमाणतया ज्ञायेत, ज्ञानग्राहकसद्भावात्। अस्तु तदपि प्रमाणमिति चेत्, तस्य वेदविरोधित्वात्। वेदविरोधिनः प्रामाण्ये पुनर्वेदप्रामाण्यं न स्यात्, वस्तुनो द्वैरूप्यं वाऽऽपद्येतेति सर्वथा मीमांसानुपपत्तिरित्यत आह अप्रामाण्यमिति।
………………..अप्रामाण्यं तथाऽन्यतः॥६०॥
तथाशब्दः समुच्चये। नायं नियमो यत्, ज्ञानकरणमिन्द्रियं लिङ्गं शब्दो वा प्रामाण्यमेवोत्पादयतीति। किन्नाम। इन्द्रियादीनामौत्सर्गिकी शक्तिः प्रामाण्यजनने। दोषापवादादप्रामाण्यमपि जनयत्येव। दोषाणां सहजशक्तिप्रतिबन्धेन विपरीतकार्यजननसामग्रीनिवेशात्। तर्हि दोषाभावः प्रामाण्यस्य कारणमित्यायातमिति चेत्, न। तथासत्युत्सर्गापवादयोः क्वाप्यभावप्रसङ्गात्। तथा न ज्ञानग्राहकस्य साक्षिणोऽयं नियमः यत् प्रमाणतयैव गृह्णातीति, किन्तु प्रवृत्त्यसामर्थ्यादिनाऽपवादकस्य सद्भावेऽप्रामाण्यमपि गृह्णात्येव। औत्सर्गिकत्वात् प्रामाण्यस्वतस्त्वस्येति।
॥ वेदविरोधिज्ञानस्य दोषमूलत्वादप्रामाण्यम्॥
किमतो यद्येवमित्यत आह मिथ्याज्ञप्तीति।
मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत्।
न मानम्………………………….।
यत एवमप्रामाण्यं परतः, तेन कारणेन, मिथ्याज्ञानविप्रलम्भापटुकरणत्वलक्षणादपवादाद् वेदविरोधि यज्ज्ञानं तदप्रमाणमेवोत्पद्यते न प्रमाणम्। बाधकप्रत्ययाच्चापवादादप्रमाणमेव गृह्यत इति नोक्तदोषः।
॥ वेदानामपौरुषेयत्वाद् दोषमूलत्वाभावः॥
ननु मिथ्याज्ञानादिमूलत्वं तेषां कुतः कल्प्यते? वेदविरोधित्वादित्युक्तम्। वस्तुनो द्वैरूप्यासम्भवात्। पौरुषेयेषु तत्सम्भवाच्च। अथ वेदस्यैव तत् कुतो न कल्प्यमिति चेत्, वेदस्यापौरुषेयत्वेन पुरुषदोषमूलत्वासम्भवादित्याह अपीति।
……अपि वेदानामङ्गीकार्या हि नित्यता।
अथवा कुतोऽप्रामाण्यस्य दोषकारणत्वम्? अन्वयव्यतिरेकाभ्यामिति चेत्, हन्त तर्हि गुणान्वयव्यतिरेकित्वात् प्रामाण्यमपि तज्जन्यं स्यात्। न। वेदस्यापौरुषेयत्वेन तदभावादित्याह अपि वेदानामिति। अपिः समुच्चये। प्रामाण्यं नित्यताऽपीति। हिशब्देन “वाचा विरूप नित्यया” इत्यादिश्रुतिप्रसिद्धिं द्योतयति। अत्र नित्यताशब्देनापौरुषेयता विवक्षिता। नित्यताया बौद्धागमेष्वपि सत्त्वात्। यस्मान्नित्यताऽङ्गीकार्या तस्मान्नोक्तदोष इति वा।
वेदापौरुषेयत्ववादः
॥ वेदस्य तदपौरुषेयत्वस्य च लक्षणकथनम्॥
ननु कोऽयं वेदः? किं च तस्यापौरुषेयत्वम्? क्रमविशेषविशिष्टवर्णा वेदः। तस्य नियतैकप्रकारत्वमपौरुषेयत्वम्। स्वतन्त्रपुरुषपूर्वकत्वाभाव इति यावत्।
॥ धर्माधर्मादिपदार्थानां सप्रमाणकत्वप्रतिपादनम्॥
अत्रोपपत्तिमाह नहीति।
नहि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित्॥६१॥
क्वचिदिति निमित्तसप्तमी। केनापि प्रमाणेन इत्यर्थः। उत्तरवाक्योपक्रमे वा।
अस्ति तावद् धर्माधर्मस्वर्गनरकादिकं सर्ववादिसम्प्रतिपन्नम्। यस्तु तन्नाङ्गीकरोति चार्वाकः, तं प्रत्युपपादयिष्यमाणत्वात्। तच्च प्रमाणोपेतम्, वस्तुत्वात्; घटवत्। नहि विना प्रमाणेन धर्मादिसिद्धिविनिश्चयः सर्ववादिनां भवितुमर्हति, अतिप्रसङ्गात्।
॥ धर्मादीनां प्रत्यक्षसिद्धत्वनिराकरणम्॥
तदेवं सामान्यतः सिद्धं प्रमाणं न तावत् प्रत्यक्षम्। तद्धि बाह्यं मानसं वा स्यात्। न तावद् बाह्यम्, तस्य रूपादिमति द्रव्ये तत्समवेतगुणकर्मसामान्येष्वेव प्रवर्तमानत्वात्। नापि मानसम्, सुखादिवद् धर्मादावनुभवाननुव्यवसायात्। अन्यथा सुखमनुभवामीतिवद् धर्ममनुभवामीति स्यात्। स्वर्गादीनां तु विप्रकृष्टत्वान्न प्रत्यक्षगोचरता। नच योगादिसिद्धानां प्रत्यक्षमस्मदतीन्द्रियार्थविषयमिति वाच्यम्, तेन तेषां कथञ्चिद् धर्मादिसिद्धावप्यस्माकं तन्निश्चयोपायाभावात्। नह्यन्यप्रत्यक्षेणान्यस्य निश्चयः, अनुष्ठानं वा सम्भवति।
॥ धर्मादीनामानुमानिकत्वनिराकरणम्॥
नाप्यनुमानम्, तत्प्रतिबद्धलिङ्गाभावात्। सामान्यतो दृष्टेन कथञ्चित् तत्स्वरूपमात्रसिद्धावपि साधनफलसम्बन्धरूपस्तद्विशेषोऽनुष्ठानयोग्यो नानुमातुं शक्यः। नहीदृशयज्ञदानादिभिरुपजनितो धर्मः फलमीदृशं जनयतीत्यादयः सूक्ष्मतरा विशेषाः सर्ववादिभिरनुष्ठीयमानाः शक्यानुमानाः।
॥ धर्मादीनां पौरुषेयवाक्यसिद्धत्वनिराकरणम्॥
वाक्यमपि न पौरुषेयं धर्मादिनिश्चयाय प्रभवति। पुरुषाणामज्ञानसंशयविप्रलम्भापटुकरणत्वस्य बहुलमुपलम्भेन धर्माद्युपदेष्टर्याश्र्वासानुपपत्तेः।
॥ धर्मादिस्वरूपसिद्ध्यर्थं अपौरुषेयवाक्यस्यावश्याभ्युपेयत्वप्रतिपादनम्॥
तदेवमपौरुषेयवाक्यं विना धर्मादिनिश्चयासम्भवात् सामान्यसिद्धिपरिशेषाभ्यामपौरुषेयं किमपि वाक्यं धर्मादिप्रतिपादकमस्तीति सर्ववादिभिरभ्युपेयमिति।
॥ धर्मादीनां बुद्धजिनादिवाक्यसिद्धत्वाङ्गीकारे कल्पनागौरवप्रसङ्गः॥
स्यादेतदेवम्, यदि धर्मादिकं पुरुषवचसा न निश्चेतुं शक्येत। शक्यते तु बुद्धर्षभजिनकपिलपशुपतिप्रभृतिप्रणीतागमादवधारयितुम्। नच तेष्वनाश्र्वासकारणमस्ति। परमाप्तत्वेन विप्रलम्भादिशङ्काविषयत्वादित्यत आह अविप्रलम्भ इति।
अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च।
कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत्॥६२॥
अविप्रलम्भो विप्रलम्भाभावः। तज्ज्ञानं धर्मादिप्रमितिः। तत्कृतत्वं तेन पुरुषेण कृतत्वम्। आदिग्रहणात् करणपाटवं कृपालुत्वम्, ऐश्वर्यमित्यादीनां ग्रहणम्। चो यस्मादित्यर्थे। ज्ञापकं निश्चायकम्। धर्मादेरिति शेषः।
भवेदेवं यदि बुद्धादीनामाप्तत्वं निश्चितं स्यात्। नचैवम्, प्रमाणाभावात्। वक्तव्यार्थतत्वज्ञानम्, विप्रलम्भाभावः, विवक्षा, करणपाटवं चेत्येतत् खल्वाप्तत्वं नाम। नचैताः परचित्तवृत्तयोऽस्माकमध्यक्षाः। नापि तत्रानुमानं प्रवर्तते। वाक्यं तु पौरुषेयमुक्तानुपपत्तिग्रस्तम्। अपौरुषेयं तु नाङ्गीक्रियते। अतः केवलमविप्रलम्भादयः क्वचित् पुंसि कल्प्या एव। नचाऽप्तत्वकल्पनामात्रेणास्य विवक्षितवाक्यस्य तत्प्रणीतत्वं सिद्ध्यति। अतः क्वचिद् वाक्ये तत्प्रणीतत्वमपि कल्प्यमेव। यस्मादेवं तत् तस्मात् कल्पनागौरवदोषेण पुरुषवाक्यं न धर्मादिनिश्चायकम्। नहि लोके विना प्रमाणेन कस्यचित् पुरुषस्याऽप्तत्वं प्रकल्प्य कस्यचिद् वाक्यस्य तत्प्रणीततां कल्पयित्वा तदर्थनिश्चयं कुर्वन्तः प्रेक्षावन्तो दृश्यन्ते। किन्तु प्रमाणतः प्रामाण्यं निश्चित्यैव। यद्यपि क्वचिदल्पायाससाध्ये विपक्षेऽनर्थातिशयहीनेऽपि कर्मणि वाक्यप्रामाण्यमनिश्चित्यापि प्रेक्षावतामस्ति प्रवृत्तिः, तथाऽपि महायाससकलवित्तव्ययादिसाध्येऽर्थे न प्रामाण्यानिश्चयेन कल्पनया वा प्रवृत्तिरिति।
॥ अनुमानेन बुद्धादीनां धर्मादिद्रष्टृत्वसाधनम्॥
ननुच धर्मादिकं कस्यचित् प्रत्यक्षम्, वस्तुत्वात्; घटवदिति सामान्यतस्तावद् धर्मादिद्रष्टा सिद्धः। स च नास्मदादिः सम्भवति, अस्मदादीनां धर्मादिदर्शनस्य बाधितत्वात्। नचाऽर्हतादयस्तथा, तेषां तत्रतत्र स्खलद्वचनत्वेन तदनुपपत्तेः। तस्मात् परिशेषतो भगवान् बुद्ध एव धर्मादिसाक्षात्कारवानवसीयते। धर्मादिसाक्षात्कारवतश्च तस्य न रागद्वेषादिदोषाः सम्भवन्ति, अज्ञानमूलत्वात् तेषाम्। रागादिदोषरहितस्य न विप्रलम्भसम्भवः, तस्य तत्कार्यत्वात्। नह्येवमेव कश्चित् कञ्चिद् विप्रलब्धुमिच्छति। नचैवम्भूत आत्मीयहिताहितप्राप्तिपरिहारसाधनमविदुषो नानाविधव्यसनसागरे निमग्नान् जन्तूनवलोकयन्ननुपदिश्य स्थातुमर्हति। नचैवम्भूतस्य महानुभावस्य करणानामपाटवं सम्भावयितुमपि शक्यम्। यदस्मदादिष्वपि प्रायेणासम्भावितम्। अतः सामान्यतस्तदीयधर्माद्युपदेशे सिद्धे प्रसिद्धपरित्यागेनाप्रसिद्धकल्पनानुपपत्तेः बौद्धागम एवासाविति सिद्ध्यति। तथाच तदुक्तप्रकारेण धर्माद्यवगतौ क्वास्ति कल्पनागौरवम्? विवक्षितार्थतत्वज्ञानादेः सर्वस्यापि तत्र प्रमितत्वादिति बौद्धाः। एवमार्हतादीनां स्वागमप्रामाण्यप्रसाधनप्रकारो द्रष्टव्यः। तदेवं पौरुषेयवचनाद् धर्मादिसिद्धौ परिशेषानुपपत्तेर्नापौरुषेयवाक्यसिद्धिरित्याशयाऽह प्रत्यक्ष इति।
॥ प्रतिवाद्युक्तानुमानभङ्गः॥
प्रत्यक्षः कस्यचिद् धर्मो वस्तुत्वादिति चोदिते।
न बुद्धो धर्मदर्शी स्यात् पुंस्त्वादित्यनुमाहतिः॥६३॥
उक्ताशेषशङ्कासमुच्चयार्थश्चशब्दः। उदिते पूर्वपक्षिणा तं प्रति। सिद्धान्तिना वक्तव्यमिति शेषः। किं वक्तव्यमित्यत आह न बुद्ध इति। अनुमाहतिः परिशेषानुमानस्येति शेषः।
अयमर्थः न तावद् धर्मादिः कस्यचित् प्रत्यक्षो वस्तुत्वादित्यनेनैव सामान्यानुमानेन बुद्धस्य धर्मादिदर्शित्वसिद्धिः। किन्तु परिशेषतः। नच परिशेषोऽनुमानाद् भिद्यते। तस्य चोक्तानुमानप्रतिहतत्वेन न प्रामाण्यमुपपद्यते। तदनुपपत्तौ च तदुपजीविनोऽविप्रलम्भादिसाधनस्य गर्भस्रावेणैव गतत्वान्न दूषणान्तरमन्वेषणीयमिति पुनः कल्पनागौरवं तदवस्थमिति।
ननु धर्मादिः कस्यचित् प्रत्यक्षः, वस्तुत्वादिति सामान्यानुमानं तावददुष्टम्। तस्य च बुद्धे नचेत्, पर्यवसानम्, तदा किं पुरुषान्तरे तदास्थीयते, किंवा न कुत्रापि? नाऽद्यः, पुंस्त्वस्य व्यभिचारप्रसङ्गात्। न द्वितीयः, सामान्यसिद्धिव्याघातात्।
उच्यते अस्मदादिषु कुतो न सामान्यपर्यवसानमास्थीयत इति वाच्यम्। बाधितत्वादिति चेत्, कथन्तर्हि बुद्धेऽपि पर्यवसानम्? ततश्च धर्मादिद्रष्टृत्वं बुद्धतदितरान्यतरवृत्तित्वेन व्याप्तम्, व्यापकाभावात् स्वयमपि नास्तीति सिद्धम्। एतेन धर्मादिद्रष्टृत्वं बुद्धनिष्ठम्, अन्यत्र वृत्तौ बाधकोपपन्नत्वे सति क्वचिद् वृत्तिमत्त्वादिति परिशेषानुमानस्याऽश्रयासिद्धिविशेष्यासिद्धी सूचिते भवतः।
ननु सामान्यासिद्धिबलात् पुंस्त्वमाभासीकुर्मः, किंवा पुंस्त्वबलात् सामान्यसिद्धिर्बाधिता भवत्विति सन्दिह्यते। अस्तु तावत् सन्देहः। तावताऽपि परानुमानस्यानिश्चायकत्वं सिद्ध्यति। विशेषावधारणायां सामान्यानुमानस्य प्रत्यक्षतासामग्रीसद्भावेन सोपाधिकत्वादाभासत्वं युक्तम्। तस्यापि पक्षे साधनेऽस्मदादिप्रत्यक्षत्वस्याप्यापातः। उद्भूतरूपादिरूपत्वात् तस्य। साध्यव्यापकत्वादिनैवोपाधित्वे व्यतिरेकाभावो न दोषाय। सामान्यानुमानदूषणस्याऽगमबाध इति चेत्, न। तस्य पौरुषेयस्योक्तविधया प्रामाण्यानिश्चयात्। अपौरुषेयस्य चानङ्गीकृतत्वात्।
॥ ईश्वरस्य धर्मादिद्रष्टृत्वसाधकानुमानदूषणम्॥
स्यादेतदेवं यदि बुद्धादीन् पक्षीकृत्यानुमानम्। ईश्वरवादिनं प्रति तु कथम्? ईश्वरो हि तनुभवनादीनां कार्यत्वेन कर्ता सिद्ध्यन् सर्वज्ञ एव सिद्धः। यथा चेश्वरपक्षीकारेणासर्वज्ञतासाधनेऽपि नाऽश्रयासिद्धिधर्मिग्राहकविरोधौ, तथाऽऽचार्य एव शास्त्रयोनिसूत्रे वक्ष्यति। (२०५)
॥ अकर्तृकत्वप्रसिद्धेर्वेदस्यैवापौरुषेयवाक्यत्वम्॥
तदेवं धर्मादिसिद्ध्यन्यथानुपपत्त्याऽपौरुषेयं वाक्यं किमपि सर्वैर्वादिभिरभ्युपेयमिति स्थितम्। तच्चापौरुषेयं वाक्यं वेद एव, परिशेषात्। तदतिरिक्तानि हि कर्तृप्रसिद्धिमन्ति। नच धर्मादिव्यवस्थापराणि। नचैवं वेद इति भावः।
॥ वेदादेव सर्वेषामपि धर्माद्यवगतौ सत्यामपि विप्रतिपत्तौ निमित्तम्॥
नन्वेवंसति वेदादेव सर्वेषां धर्मादिप्रतिपत्तिरित्यायातम्। सत्यम्, एवमेतत्। किन्तु धर्मादिस्वरूपे वेदात् प्रतीते तद्विशेषेषु तमतिक्रम्य स्वमतिदोषाद् वादिनां विप्रतिपत्तयः प्रतीयन्त इति।
॥ नैयायिकैः अनुमानेनाऽगमेन च वेदस्य सकर्तृकत्वसाधनम्॥
ननु वेदस्यापि सकर्तृकत्वमनुमानागमसिद्धम्। तथा हि वेदवाक्यानि पौरुषेयाणि, वाक्यत्वात्; कालिदासवाक्यवदिति। अयं कालो वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवान्, कालत्वात्; अन्यकालवत्। आकाशो वेदव्यतिरिक्ताकाशनिष्ठत्वरहितपौरुषेयवान्, द्रव्यत्वात्; तन्तुवत्। श्रोत्रं वेदव्यतिरिक्तश्रोत्रग्राह्यत्वरहितपौरुषेयग्राहकम्, इन्द्रियत्वात्; चक्षुर्वत्। “प्रजापतिर्वा इदमेक एवाग्र आसीत् नाहरासीत् न रात्रिरासीत्। स तपोऽतप्यत तस्मात् तपस्तेपानाच्चत्वारो वेदा अजायन्त” इति। तत् कथं परिशेषाद् वेदस्यापौरुषेयतासिद्धिरिति। मैवम्। अनुमानानां विपक्षे बाधकाभावेन अप्रयोजकत्वात्। पौरुषेयत्वे कर्तुराप्त्यनिश्चयेन ततो धर्माद्यनिश्चयापत्तेरुक्तत्वाच्च।
॥ नैयायिकोकेन ईश्वरस्याऽप्तत्वसाधकानुमानोपन्यासः, तन्निरासश्च ॥
ईश्वरः प्रमावान्, पुरुषत्वात्; अहमिव। ईश्वरो न विप्रिलप्सावान्, ईश्वरत्वात्; न यदेवं न तदेवम्, यथाऽहमिति ईश्वरस्याऽप्तत्वसिद्धिरिति चेत्, न। पुरुषत्वेनाप्रमाविप्रिलप्सयोरपि साधनसौलभ्यात्। आश्रयासिद्ध्यादेश्च परिहरिष्यमाणत्वात्। (२०५)
किञ्च प्रमावत्त्वमात्रसाधने सिद्धसाधनम्, तावताप्याप्तत्वासिद्धेः। नह्यनाप्तः कदाचित् प्रमावान्न भवति। अप्रमावत्त्वव्युदाससाधने दृष्टान्तस्य साध्यविकलता, हेतोरनैकान्त्यं च। ईश्वरत्वहेतुश्च सपक्षादपि घटादेर्व्यावृत्तेरसाधारणः, पूर्ववत् सिद्धसाधनश्च। यथार्थचिख्यापयिषानियतिसाधने च बुद्धर्षभादीश्वरावतारेष्वपि विप्रिलप्सादर्शनाद् बाधः। अशरीरत्वेन सत्प्रतिपक्षतां च सूत्रकार एव वक्ष्यति। (२२४१)
॥ वेदस्य ईश्वरकर्तृकत्वसाधकानुमानभङ्गः॥
किञ्चाऽप्तत्वेऽपीश्वरस्य वेदास्तत्प्रणीता इत्यत्र न प्रमाणम्। ननु वेद ईश्वरप्रणीतः, वेदत्वात्; व्यतिरेकेण गगनवदिति चेत्, न। एवमनीश्वरप्रणीतत्वस्यापि शक्यसाधनत्वात्। स्मृतीतिहासपुराणेभ्यः सपक्षेभ्योऽपि व्यावृत्तत्वेनासाधारणत्वाच्च। तेषामपि पक्षत्वे भागासिद्धेः। वेदादित्वस्यैकरूपस्याभावेन हेतूकर्तुमशक्यत्वात्। अतीन्द्रियविषयवाक्यत्वं हेतुरस्त्विति चेत्, न। जिनादिवाक्येषु व्यभिचारात्। तान्यपि पक्षतुल्यानीति चेत्, तथात्वे व्यर्थविशेषणत्वात्। वाक्यत्वमात्रं हेतुरस्त्विति चेत्, न। ईश्वरप्रणीतशब्देन तदाप्तिपूर्वकतासाधने बौद्धादिवाक्ये व्यभिचारात्। ईश्वरनिमित्ततामात्रसाधने तु प्रामाण्यासिद्धिरिति।
॥ वेदस्य ईश्वरकर्तृकत्वे बाधकोक्तिः॥
किञ्चेश्वरः सर्गादौ यं वेदं निर्मायैकस्मै शिष्यायोपदिशति तमेवान्यस्मा उपदिशति, उत वेदान्तरं निर्मायेति वक्तव्यम्। तमेवेति चेत्, कुतोऽयं भवतो निर्णयः? प्रथमरचितस्य अविस्मरणाद् वृथा वेदान्तरकल्पकाभावाच्चेति चेत्, तत् किं पूर्वकल्पे रचितं वेदं व्यस्मार्षीदीश्वरः, येनात्र पुना रचयतीति कल्प्यते। एवं पूर्वतरपूर्वतमादिकल्पेष्वपीत्यनादितैव ज्यायसी। एवन्तर्हि पुराणादीनामप्यपौरुषेयता स्यादिति चेत्, स्याद् यदि तेषामविगानं सकर्तृकत्वे प्रमाणं न स्यात्। प्राक्तनेषु पुराणादिषु प्रतीतिपरिवर्तिषु किमर्थं पुना रचनमिति चेत्, न। ईश्वरप्रवृत्तेः स्वप्रयोजनाभावस्य वक्ष्यमाणत्वात्। (५९८) परप्रयोजनानि तु सूक्ष्माण्युत्प्रेक्षितुं न वयं स्थूलदृश्र्वानः प्रभवामः। किन्नाम। प्रमितं कार्यमनुसृत्य प्रयोजनसद्भावमात्रं सम्भावयामः। अन्यथा कण्टकशौक्ल्याद्यपलापप्रसङ्ग इति।
॥ वेदस्य सकर्तृकत्वसाधकानुमानद्वयभङ्गः॥
विशिष्टव्यतिरेकिणश्च पौरुषेयपदस्थानेऽपौरुषेयपदप्रक्षेपेण सत्प्रतिपक्षाः। कालपदेन च काल एवाभिधीयते, तदुपाधयो वा? आद्येऽयमित्यन्यकालवदिति चायुक्तम्। द्वितीये कालोपाधिना वेदस्य सम्बन्धानिरूपणाद् बाधितविषयत्वम्। आकाशनिष्ठत्वं चाऽकाशसमवेतत्वम्, तत्संयुक्तत्वं वा। आद्ये वेदव्यतिरिक्तेनाऽकाशसमवेतत्वरहितेन तन्त्वादिना अर्थान्तरता, संयोगवृत्त्याकाशस्य तद्वत्तोपपत्तेः। द्वितीये त्वाकाशसमवेतैः संयोगविभागद्वित्वादिभिरर्थान्तरत्वम्। आकाशनिष्ठत्वं तद्वत्त्वं च समवाय एवेति चेत्, न। अप्रसिद्धविशेषणत्वात् पक्षस्य। अस्माभिः समवायानङ्गीकारात्। दृष्टान्तस्य साध्यवैकल्याच्च। किञ्च वर्णास्तावन्नित्यद्रव्यत्वान्न क्वचित् समवेताः। क्रमस्तु वर्णधर्म इति बाधितविषयता च।
॥ आगमेन वेदस्य सकर्तृकत्वसिद्धिनिरासः॥
श्रुतिस्तु सत्प्रतिपक्षा न निश्चयाय भवति। किञ्च “ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यात्” इत्यनीश्वररचितत्वमपि श्रावयन्त्याः कथमस्या न सत्प्रतिपक्षता। सम्प्रदायप्रवर्तकत्वेनेयं सावकाशेति चेत्, तर्हि द्वे अपि न्यायोपेतनित्यत्वश्रुत्यनुरोधेन तथा किं न स्यातामिति।
॥ वेदस्यानित्यत्वशङ्का, वेदनित्यत्वनिरुक्तिपूर्वं तत्परिहारश्च॥
ननु वर्णाः एव तावदनित्याः, तत् कुतस्तदात्मकस्य वेदस्य नित्यत्वमिति। मैवम्। नहि वयं वेदं कूटस्थनित्यं ब्रूमः, किन्तु नियतैकप्रकारम्। तत्र को वर्णनित्यत्वस्योपयोगः? वस्तुतत्वविचारकं प्रति तु वर्णानां कूटस्थनित्यत्वं भगवत्पादैरेवान्यत्रोपपादितमित्यास्तां विस्तरः।
॥ वेदस्य बोधकत्वे बाधकोद्धारः॥
अत्राऽह कश्चित् वेदः संस्कृतोऽसंस्कृतो वा बोधकः? न तावद् द्वितीयः, सर्वदा बोधकत्वप्रसङ्गात्। आद्ये संस्कारकेष्वाश्र्वासकारणाभावात् सर्वमिदं गजस्नानमिति। तदिदमयुक्तम्। संस्कारकाः खलूच्चारयितारो व्याख्यातारश्च वेदस्य। तत्राऽद्येषु तावदविगीतसंवाददर्शनेनाऽश्र्वासो युज्यते। द्वितीयेषु तु लोकावगतां शब्दशक्तिं लौकिकानेव तात्पर्यावगमोपायाननुसरत्सु कथमनाश्र्वास इति यत्किञ्चिदेतत्।
॥ सङ्क्षेपेण लोकायतिकमतनिरासः॥
स्यादेतदेवं धर्मादिकमभ्युपगच्छन्तं प्रत्यपौरुषेयवाक्यसमर्थनम्। यस्तु धर्मादिकमेव नाङ्गीकरोति चार्वाकः, तं प्रति कथम्, निराश्रयत्वादिति चेत्, न। यतस्तेनाप्यङ्गीकारयाम इत्याशवानाह अधर्मवादिन इति।
अधर्मवादिनो वाक्यमप्रयोजनमेव हि।
धर्माद्यतीन्द्रियार्थानभ्युपगन्तुरित्यर्थः। वाक्यं शास्त्रम्। अप्रयोजनमित्युपलक्षणम्। निर्विषयं चेत्यपि द्रष्टव्यम्। हिशब्दो यस्मादित्यर्थे। तस्मात् तेनापि धर्मादिकमङ्गीकार्यमिति शेषः। एतच्च “अभ्युपगमेऽप्यर्थाभावात्” इत्यत्रैव व्युत्पादयिष्यामः।
॥ धर्माद्यभावं साधयताऽपि अपौरुषेयवाक्यस्यावश्याभ्युपगमनीयत्वप्रतिपादनम्॥
किञ्च मा भूद् धर्मादिकम्। धर्माद्यभावस्तावच्चार्वाकेणाङ्गीकृत एव। तमाश्रित्यापौरुषेयवाक्यं तेनाङ्गीकारयाम इत्याशयवानाह धर्माभावोऽपीति।
धर्माभावोऽपि नो तेन प्रत्यक्षावगतो भवेत्।
अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत् प्रमा॥६४॥
तेन चार्वाकेण। धर्माभावोऽपि प्रत्यक्षावगतो न भवेत्। अनुमानं तु नाङ्गीकृतम्। अङ्गीकारेऽपि न तद्विषयम्। यतोऽतो धर्माद्यभावावगमाय वाक्यं प्रत्यक्षमिव प्रमाणमङ्गीकरणीयम्। तच्चोक्तविधया अन्यस्मिन्ननाश्र्वासादपौरुषेयमेवेति।
ननु घटाद्यभावमिव धर्माद्यभावमपि प्रत्यक्षमेव कुतो न गोचरयेत्? मैवम्। अयोग्यतया चक्षुषा रसस्येव प्रत्यक्षेण सतोऽप्यग्रहणोपपत्तेः। किं योग्यताविशेषणेन? यत् प्रत्यक्षेण सर्वथा नोपलभ्यते तन्नास्त्येवेति निश्चीयत इति चेत्, स्यादेतदेवम्। यद्यत्र वादिनो न विप्रतिपद्येरन्। यदिच चक्षुरादिना रसादिकमयोग्यतया न गृह्यत इति न स्यात्। सत्यां तु वादिविप्रतिपत्तौ, सति चायोग्यतया क्वचिदनुपलम्भे, प्रत्यक्षानुपलब्धिः संशयमेव सम्पादयति “किमनुपलम्भान्नास्ति धर्मादिकम्, उत वाद्यन्तरोक्तरीत्या चक्षुषाऽनुपलभ्यमानो रसो रसनेनेव अयोग्यतया प्रत्यक्षेणानुपलभ्यमानमपि प्रमाणान्तरादस्ति’ इति। नहि न्यायमतिक्रम्य स्वसमयमात्रेण संशयोत्तारो युज्यते। एतत्संशयनिरासार्थमपि वाक्यं प्रमाणमङ्गीकरणीयम्। यथा प्रत्यक्षयोग्येऽर्थे स्थाणुर्वा पुरुषो वेति संशयनिवृत्तये विशेषप्रत्यक्षमिति। तदिदमुक्तम् संशयसम्पत्तौ सत्यामिति। तदेवमपौरुषेयत्वाद् वेदस्य कर्तृदोषमूलत्वाभावेन स्वत एव प्रामाण्यमिति सिद्धम्।
शक्तिवादः।
॥ वेदानां पदार्थेषु प्रामाण्यनिरासः॥
ननु तथाऽपि न वेदः प्रमाणम्। स हि पदार्थेषु वाक्यार्थे वा प्रमाणं भवेत्। न तावत् पदार्थेषु, तेषां प्रागवगतत्वात्। अनवगमे च व्युत्पत्त्यभावप्रसङ्गात्। व्युत्पत्तेर्वाच्यवाचकसम्बन्धज्ञानरूपत्वात्। सम्बन्धज्ञानस्य सम्बन्धिज्ञानपूर्वकत्वनियमात्। व्युत्पत्त्यनपेक्षायां चातिप्रसङ्गात्। यद्यपि याथार्थ्यमेव प्रामाण्यं नागृहीतग्राहकत्वम्, तथाऽपि परार्थानुमानस्येव शब्दस्यापि परबोधनार्थं प्रवृत्तत्वेन न ज्ञातज्ञापकता न्याय्या। ननु पुरुषदोषोऽयम्, यज्ज्ञातज्ञापनाय शब्दोच्चारणम्। वेदे त्वपौरुषेये ज्ञातज्ञापनेनापि किं दुष्यति? न किञ्चित्। अनुपादेयत्वं तु स्यात्। तथाच न तन्मीमांसारम्भ इति।
॥ वाक्यार्थप्रत्यायनप्रकाराभावाद् वाक्यार्थेऽपि न वेदस्य प्रामाण्यम्॥
नापि वाक्यार्थे प्रमाणम्। तद्बोधजननोपायाभावात्। वर्णपदार्थतदनुभवस्मृतीनां प्रत्येकं समुदितादिनां चोपायत्वासम्भवात्। स्यान्मतम् क्रियापदेन कारकपदेन वा साकाङ्क्षे स्वार्थेऽभिहिते यदेव पदान्तरेण योग्यं प्रतियोगिपदार्थान्तरं सन्निधाप्यते तदेव तस्य सम्बन्धित्वेनावतिष्ठत इति।
सत्यमेवं वस्तुगतिः। अवगतिस्तु तत्सम्बन्धस्य किन्निबन्धनेति चिन्त्यते। पदं हि स्वार्थं क्रियात्वेन कारकत्वेन वा युक्तं प्रतिपादयतु। तत्सम्बन्धिताबोधस्तु निर्निबन्धन एव। अङ्गीकृत्य चेदमुदितम्। प्रकृतिप्रत्ययार्थसम्बन्धबोधनिबन्धनादर्शनात्। एतेनाऽकाङ्क्षासन्निधियोग्यतावत्पदैरभिहिताः पदार्था एव वाक्यार्थीभवन्तीत्यपि निरस्तम्। वाक्यार्थावगते कारणानिरूपणात्। अतोऽनियतनिमित्तकत्वादौत्प्रेक्षिक एव वाक्यार्थबोध इत्यप्रामाण्यं वेदस्येत्यत आह शक्तिश्चेति।
॥ सामान्यान्विताभिधानवादः॥
शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते।
अतोऽन्विताभिधायित्वम्…………..।
चशब्दोऽतःशब्दव्याख्यानान्तरसमुच्चयार्थः, यत इत्यर्थे वा। एवशब्दस्यान्वित एवेति सम्बन्धः।
अयमर्थः वृद्धव्यवहारादिना हि शब्दशक्त्यवधारणम्। नच पदार्थस्वरूपमात्रे व्यवहारादिकं युज्यते, किन्तु पदार्थान्तरान्विते। अतो व्यवहारादिना शब्दशक्तिमवधारयताऽर्थान्तरान्वित एव स्वार्थोऽनुभूयत इत्यङ्गीकरणीयम्। यद्यप्येकस्मिन् प्रयोगे गौरानयनान्वितः प्रतीयते, अपरस्मिन् बन्धनान्वितः, अन्यस्मिंश्च दर्शनान्वित इति पदार्थान्तरतदन्वयव्यभिचारः, तथाऽप्यव्यभिचारिणि योग्येतरान्विते स्वार्थे शक्तिग्रहणमुपपद्यत एव। नहि विशेषाणां व्यभिचारेण त्यागे सामान्यस्याव्यभिचारिणो निर्निबन्धनस्त्यागो युज्यते। यत एवं व्युत्पत्तिसमयेऽन्वित एव स्वार्थे शब्दानां शक्तिरनुभूयते, अतोऽन्वितस्वार्थाभिधायित्वं शब्दानामभ्युपेयम्। शक्तिग्रहणानुरोधित्वादभिधानस्य। यदा च पदैरेव अन्वितस्वार्थप्रतिपादनम्, तदा वाक्यार्थ एवावबुद्ध इति कथं तद्बोधस्य निर्निबन्धनता? गुणप्रधानभावेनान्योन्यान्विताः पदार्था वा तदन्वयो वा वाक्यार्थ इति प्रामाणिकैरङ्गीकृतत्वादिति।
अत्र पदानामित्यनभिधाय शब्दानामिति वदता प्रकृतिप्रत्यययोरप्यन्विताभिधानसामर्थ्यं सूचितम्।
॥ प्रथमस्य प्रधानस्य वा एकस्यैव पदस्य अन्विताभिधायित्ववादनिराकरणम्॥
केचिदाहुः एकमेव पदमन्विताभिधायि। इतराणि तु पदानि तत्प्रतियोगिसन्निधापनमात्र एव व्याप्रियन्ते। तच्च प्रथमं वा प्रधानं वेति। तन्निरासार्थं शब्दानामिति बहुवचनम्। तथाहि यदेकत्र प्रयोगे प्रथमं तदेवान्यत्राप्रथमम्, अन्यत्र तु प्रथममिति न पदानां प्राथम्यनियमोऽस्ति। तथाच प्रथमं पदमिति वदता सर्वाण्यप्यन्विताभिधायीन्यङ्गीकृतानीति किमत्र वक्तव्यम्?
प्रधानत्वमपि पदस्य किमुच्यते? यदर्थप्रतिपादनपराणीतरपदानि तत् प्रधानमिति चेत्, तर्हि वाक्यभेदेन प्राधान्यस्याव्यवस्थितत्वात् सर्वपदानामन्विताभिधानसामर्थ्यमेवाऽयातम्। आख्यातपदं प्रधानमिति चेत्, न। दध्ना जुहोतीत्यादिगुणविधानेष्वनुपपत्तेः। आख्यातपदरहितेष्वप्यन्वयप्रत्ययदर्शनाच्च। नहि परिणतिसुरसं पनसफलमित्यादावन्वयो न प्रतीयत इति युक्तम्। अनुभवविरोधात्। नच तत्राध्याहारः। स हि लोकप्रतीत्यनुरोधाद् वाऽऽश्रयणीयः, स्वसमयानुरोधाद् वा? नाऽद्यः, लोकप्रतीतेः पर्यवसितत्वात्। न द्वितीयः, तस्यैव निर्मूलत्वात्। समयान्तरानुरोधेन तत्परित्यागस्यापि सम्भवात्।
ये तु विशेषान्वय एव शक्तिः पदानामित्यास्थिषत, तन्मतनिरासायान्वित इति सामान्येनोक्तम्। उपपत्तिं तु वक्ष्याम इति। (१०५४)
॥ अन्विताभिधानवादे पदानामानर्थक्यप्रसङ्गः॥
ननु यदि गामानयेत्यादिवाक्ये गामिति पदेनैवाऽनयनान्वितः स्वार्थोऽभिहितः, तदाऽऽनयेति पदं व्यर्थम्, उक्तार्थत्वात्। आनयेति पदेनाऽनयत्यर्थेऽभिहिते सत्यानयत्यर्थान्वितः स्वार्थो गोपदेन अभिधीयते। तेनाऽनयेति पदस्य न वैयर्थ्यमिति चेत्, तर्ह्यानयेति पदं केवलं स्वार्थमात्रमाचक्षाणमनन्विताभिधायि प्राप्तम्। यथा चेदमनन्विताभिधायि, तथा पदान्तरमपि स्यादिति दत्तजलाञ्जिलरन्विताभिधानवादः।
॥ अन्विताभिधानवादे अन्योन्याश्रयप्रसङ्गः॥
अथाऽनयेति पदेनापि गोपदेनाभिहितेनार्थेनान्वितः स्वार्थोऽभिधीयते, तदा यावत् पूर्वं पदं स्वार्थं नाभिधत्ते तावत् तदुत्तरपदस्य पूर्वपदार्थान्वितस्वार्थाभिधानं नास्ति। यावच्चोत्तरपदं स्वार्थं नाभिधत्ते तावत् पूर्वपदस्योत्तरपदार्थान्वितस्वार्थप्रतिपादनं न सम्भवतीत्यन्योन्याश्रयत्वम्। नच वाच्यं परस्परनिरपेक्षाणि पदानि प्रथमं पदार्थाननन्वितानभिधाय पश्चादन्योन्यान्वितांस्तानेवाभिदधतीति क्वेतरेतराश्रयत्वमिति। द्विरभिधानकल्पनाया अप्रामाणिकत्वात्। अचेतनेषु विरम्य व्यापारानुपपत्तेश्च। किञ्च पदानामन्वितेष्वर्थेषु शक्तिर्गृहीता चेत्, तथाविधानेव प्रथममभिदध्युः। नचेत्, पश्चादपि कथमभिदध्युरिति।
॥ अत्र विशेषान्विताभिधानवाद्यक्तपरिहारानुवादः, तन्निरासश्च॥
अत्र विशेषान्विताभिधानवादिनः परिहारमाहुः प्रथमं पदानि साहचर्यवशादनन्वितस्वार्थान् स्मारयन्ति। पश्चादितरेतरस्मारितेनार्थेनान्वितस्वार्थानभिदधतीति न पदान्तरवैयर्थ्यम्, नापीतरेतराश्रयत्वमिति। एतदप्यसारम्। सर्वदैव हि पदान्यन्वितेनैव स्वार्थेन गृहीतसाहचर्याणि न केवलेन। तानि कथं केवलं पदार्थमात्रं स्मारयितुमीशते? यथानुभवं हि स्मरणेनोत्पत्तव्यम्। नतु परीक्षकप्रयोजनमनुसृत्य। नहि पदं पदार्थमात्रप्रतिपत्तये प्रयुज्यते। किन्तु व्यवहाराय। स चान्वित एवेत्यन्वितानामेव पदार्थानां पदेभ्यः स्मरणं स्यात्। तथाच गां पश्येति प्रयोगे गोपदेन पूर्वानुभूतानयनान्वितस्य अर्थस्य स्मारितत्वात् पश्येति पदमनाकाङ्क्षितार्थमसङ्गतं स्यात्। एवं प्रासादं पश्येत्यत्र प्रासादान्वितस्वार्थाभिधायकत्वात् पश्येति पदस्य न गोपदं तेन सम्बद्ध्येत। तथाच वाक्यार्थः क्वापि परिनिष्ठितो न सिद्ध्येत्।

नच वक्तव्यम् अव्यभिचाराद् गोपदं स्वार्थमात्रं स्मारयति नार्थान्तराणि। तेषां व्यभिचारित्वादिति। पट्वाभ्यासादरप्रत्ययैराहितस्य संस्कारस्य प्रबोधवतः स्मरणहेतुत्वात्। तत्प्रबोधस्य च व्यभिचारिण्यप्यर्थान्तरे प्रणिधानसाहचर्यादिजन्मनोऽविशेषात्। नहि स्मरणमनुमानमिव साहचर्यनियममपेक्ष्योत्पद्यते। धूमदर्शनादग्न्विद् रसवत् पाकादिप्रदेशस्य स्मरणदर्शनात्।
एतेनैतदपि निरस्तम् यथा पदानां स्वार्थेष्वभ्यासातिशयः, न तथाऽर्थान्तरेषु। तेषां व्यभिचारित्वात्। तथाच स्वरूपमात्रेणैव पदेभ्यः स्मारिताः पदार्था आकाङ्क्षादिमन्तः पदैरन्विता अभिधीयन्त इति न परस्पराश्रयत्वम्। नापि पदान्तरानाकाङ्क्षेति। स्मरणस्यानुभववारनियमानपेक्षत्वात्। अन्यथा धूमदर्शनान्महानसादिस्मरणानुपपत्तिप्रसङ्गः। नहि यावान् धूमस्याग्नावभ्यासातिशयः, तावान् महानसे। तस्मादपरिहार्यमितरेतराश्रयत्वमिति।
॥ सिद्धान्तरीत्या समाधानकथनम्, तत्समर्थनं च॥
वयं तु ब्रूमः स्यादिदं विशेषान्विताभिधानवादिनां दूषणम्। सामान्यान्विताभिधाने तु नायं दोषः। प्रत्येकं हि पदान्याकाङ्क्षितसन्निहितयोग्येतरान्वितस्वार्थाभिधानसमर्थानि न पदान्तरमपेक्षन्त इति नेतरेतराश्रयत्वम्। विशेषान्वयप्रतिपत्त्यर्थं च पदान्तरसमभिव्याहारोपयोगः। अत एव सामान्यान्विताभिधानवादे वाक्यार्थविशेषाप्रतिलम्भ इति निरस्तम्, पदान्तरसमभिव्याहाराद् विशेषप्रतिपत्त्युपपत्तेः। येऽपि विशेषान्विताभिधानमाचक्षते तैरपि प्रतियोगिनां तदन्वयानां चाऽनन्त्यात् सङ्गतिग्रहण एव पुरुषायुषपर्यवसानभयात् सामान्योपाधौ शक्तिग्रहणमङ्गीकरणीयम्।
॥ पदानां सामान्यान्विताभिधानशक्त्यङ्गीकारस्य वैयर्थ्यशङ्कानिरासः॥
नन्वेवं तर्हि किमनया सामान्यान्विताभिधानशक्त्याऽपि? पदानि स्वार्थमात्रे शक्तिमन्ति पदान्तरसमभिव्याहारवशाद् विशेषान्वितमेव बोधयन्तीत्यङ्गीकारोपपत्तेरिति चेत्, न। सङ्गतिग्रहणसमये सामान्यान्विताभिधानशक्तेर्गृहीतत्वात्। पदान्तरसमभिव्याहारो सामान्यस्य विशेषपर्यवसान एव हेतुर्न पुनरविद्यमानशक्त्याधान इति।
॥ सामान्यान्विताभिधानवादे पदानां पुनरुक्तिदोषनिरासः॥
ननु तथाप्यन्विताभिधाने समभिव्याहृतपदानां पुनरुक्तिदोष इति चेत्, न। अन्वयभेदात्। आनयनान्वितो गौः, गवान्वितमानयनमित्यनयोर्हि स्फुटो भेदः। आर्थिकी तु पुनरुक्तिरदूषणम्। “यश्चार्थादर्थो न स चोदनार्थः” इति न्यायात्। विशेषप्रतिपत्त्यङ्गतयोपयोगाच्चेति॥*॥
॥ स्फोटवादनिरासः, स्फोटादिक्लपने कल्पनागौरवप्रसङ्गाभिधानम्॥
एवं स्वमतेन परिहारमभिधाय ये तु प्रत्यस्तमितवर्णपदविभागं वाक्यमेव स्फोटाख्यं वाक्यार्थप्रतिपादकमित्याहुः, तन्मतं निराकरोति गौरवमिति।
………………..गौरवं कल्पनेऽन्यथा।
अन्यथा कल्पने निरवयवं वाक्यं वाक्यार्थस्य बोधकमिति कल्पने गौरवं स्यात्। वाक्यमेव खल्वेवंविधं विना प्रमाणेन कल्पनीयम्, तस्य च वाक्यार्थप्रत्यायनशक्तिरपि कल्पनीयेति।
॥ वैयाकरणेन पदार्थवाक्यार्थप्रत्यायकस्य
स्फोटस्य अर्थापत्तिसिद्धत्वप्रतिपादनम्॥
ननु कथं स्फोटस्याप्रामाणिकत्वम्? पदार्थवाक्यार्थप्रतिपत्त्यन्यथानुपपत्त्या पदवाक्यस्फोटयोः प्रतिपन्नत्वात्। तथाहि यदिहि न पदातिरिक्तं वाक्यम्, पदं च न वर्णातिरिक्तम्, तदाऽर्थप्रत्यय एव न स्यात्। वर्णा हि न प्रत्येकमर्थप्रत्ययमुपजनयन्ति। तथाऽननुभवात्, शेषवर्णवैयर्थ्यप्रसङ्गाच्च। समुदायश्च तेषां न सम्भवति। एकवर्णसमयेऽन्यस्याभावात्। नित्यत्वेऽपि न तेषां प्रतीतिरनुवर्तते। अप्रतीयमानानां प्रत्यायकत्वे सर्वपदार्थप्रतीतिप्रसङ्गः। नहि प्रतीत्या प्रतीयमानानां सर्वथाऽप्रतीयमानानां च कश्चिद् विशेषः। नच पूर्वानुभूता वर्णाः स्मृत्यारूढा अर्थप्रतीतिहेतव इति वाच्यम्। स्मृतीनामप्यनुभवानुसारेण क्रमिकत्वात्, ज्ञानयौगपद्यप्रतिषेधाच्च।
अथ पूर्वपूर्वसंस्कारसहितोत्तरोत्तरानुभवैराहितोऽतिपटीयान् संस्कारो निखिलवर्णविषयामेकामेव स्मृतिमुपजनयतीति मतम्। तदा क्रमो न स्यात्। पौर्वापर्यलक्षणः क्रमो हि प्रतीत्यङ्गम्। स च देशतः कालतो वा वर्णेषु सर्वगतेषु नित्येषु न सम्भवति। बुद्धिक्रमस्तु वाच्यः। स चैकस्मृतिसमारूढानां वर्णानां नास्तीत्यर्थप्रत्ययानुपपत्तिः। क्रमस्यानङ्गत्वे च सरो रसो नवं वनं राजा जारा नदी दीनेत्यादावर्थभेदप्रत्ययो न स्यात्। अतो वर्णेभ्योऽनुपपद्यमानोऽर्थप्रत्ययस्तदतिरिक्तं स्फोटमवस्थापयति। स च स्वरूपग्राहकेण प्रमाणेनार्थप्रत्यायनशक्तिमानखण्ड एवावगत इति कथं कल्पनागौरवमिति।
॥ अन्योन्याश्रयप्रसङ्गमभिधाय स्फोटस्यार्थापत्तिसिद्धत्वनिराकरणम्॥
तत्र ब्रूमः किमयं स्फोटः स्वयं प्रतीतो वाक्यार्थपदार्थप्रत्यायकः, किंवा स्वरूपेण? आद्ये किमनयाऽर्थापत्त्यैव तत्प्रतीतिः, उत प्रमाणान्तरेण? नाऽद्यः, इतरेतराश्रयप्रसङ्गात्। प्रतीते हि स्फोटे अर्थप्रतीतिः, तस्यां च सत्यां तदन्यथानुपपत्त्या स्फोटप्रतीतिरिति।

॥ स्फोटस्यानुभवसिद्धत्वप्रत्याख्यानम्॥
न द्वितीयः, तदभावात्। नन्वेकं पदम्, एकं वाक्यम्, शब्दादर्थं प्रत्येमीत्येकार्थावलम्बिनी प्रत्यक्षप्रतीतिरस्तीति चेत्, इयमेव विचार्यताम्। किमेषा प्रत्यस्तमितवर्णपदविभागमेकं शब्दतत्वमवगाहते किंवा वर्णादिभेदमपि? आद्यस्तु प्रतीतौ बहुमानवता नाङ्गीकर्तुमुचितः। द्वितीयेऽपि किं वर्णादयस्तस्याऽरम्भका उत व्यञ्जकाः? नाऽद्यः, नित्यत्वाभ्युपगमात्। द्वितीये किं ते प्रत्येकं तस्य व्यञ्जकाः, किंवा समुदिता इति पूर्ववद् दोषः। यस्त्वत्र प्रतीकारः सोऽर्थ एव कल्प्यतामिति पुनर्गौरवमेव। पूर्वपूर्ववर्णाभिव्यक्तं शब्दतत्वमुत्तरोत्तरैर्विशदं व्यज्यते नैवमर्थे कल्पना युक्तेति चेत्, न। एकरसे वैशद्यावैशद्ययोरर्थगतयोरयोगात्। ज्ञानगतयोश्चाननुभवात्।
अथ वर्णादयस्तत्र कल्पिताः प्रतिभान्तीति मतम्। तदिदं मायातमप्रतीतं शशविषाणं तत्वं गवादिविषाणानि तु तत्र कल्पितानि प्रतिभान्तीति। ऐक्यप्रतीतिबलादित्थमास्थीयत इति चेत्, न। भेदप्रत्ययबलाद् वनादिप्रत्ययवदैक्यप्रत्ययस्यैव औपाधिकत्वोपपत्तेः। उपाधिश्चैकार्थप्रत्यायकत्वम्। नचैकार्थप्रत्यायकत्वेनैकत्वप्रत्ययः। ततश्चैकार्थप्रत्यय इति परस्पराश्रयत्वम्। एकार्थप्रत्यायनस्य समयग्राहकप्रमाणादेव सिद्धत्वात्।
॥ एकस्मृतिसमारूढपदानां वाक्यार्थप्रत्यायकत्वप्रतिपादनम्॥
एकार्थप्रत्यायनं च नानुपपन्नम्। एकस्मृतिसमारूढानां तदुपपत्तेः। अनुभवक्रमोपहितानामेव तेषां स्मृत्याऽवगाहनान्न क्रमव्युत्क्रमयोरविशेषापत्तिः। अत एवार्थापत्तिरपि परास्ता वेदितव्या। अन्यथोपपत्तेरुक्तत्वात्। अप्रतीतस्य तु प्रत्यायकत्वेऽतिप्रसङ्गः। तस्मात् सुष्ठूक्तम् गौरवं कल्पनेऽन्यथेति।
॥ मीमांसकैकदेश्यभिमतस्य वर्णमालाया वाक्यार्थप्रत्यायकत्ववादनिरासः॥
अन्ये त्वाहुः स्मर्यमाणा वर्णमालैव वाक्यार्थबोधजननीति। तदप्यसत्। सा हि व्युत्पत्तिसहाया वा तथा स्यादन्यथा वा। अन्यथा चेदतिप्रसङ्गः। आद्ये पदतदर्थावबोधस्याऽश्रितत्वात् किं तयेति गौरवमेव। किञ्च क्रमोपेतानां द्वित्राणां पञ्चषाणां वा वर्णानां स्मरणमुपपद्यते। महावाक्यस्थानां शतसहस्रसङ्ख्यानां तु स्मरणं दुःशकमेव। किमभ्यासस्य दुष्करमिति चेत्, न। गत्यन्तराभावे त्वेवमेतत्। सति तु सुखोपाये न प्रयासगौरवकल्पना युक्तेति। एतदप्युक्तम् गौरवं कल्पनेऽन्यथेति।
॥ जरन्नैयायिकाभिमतस्य वाक्यान्त्यवर्णस्य वाक्यार्थप्रत्यायकत्ववादनिरासः॥
अपरे तु वाक्यान्त्यवर्णं वाक्यार्थस्य प्रतिपादकमाचक्षते। तदप्ययुक्तम्। स हि केवलो वा तथा स्यात्, पूर्ववर्णसम्बन्धस्मरणेनानुगृहीतो वा। आद्ये पूर्ववर्णोच्चारणवैयर्थ्यम्, अतिप्रसङ्गश्च। द्वितीये अनुभूयमानः, स्मर्यमाणो वा? नाऽद्यः, सम्बन्धस्मृतिव्यवहितस्यानुभवस्य तदाऽनवस्थानात्। द्वितीये तु किमनेन प्रयत्नगौरवेण? स्मृतिस्था वर्णाः पदत्वेनानुसंहिताः वाक्यार्थमवगमयन्तीत्येव वक्तव्यम्। तदिदमुक्तम् गौरवं कल्पनेऽन्यथेति। पूर्ववर्णसंस्कार एवोपयोगी न स्मृतिरिति चेत्, न। तथासति पदानुसन्धानासम्भवेन सम्बन्धस्य स्मरणाभावप्रसङ्गादिति।
॥ वैशेषिकाभिमतवाक्यार्थप्रत्यायनप्रकारस्य निराकरणम्॥
केचिदाहुः यो यानि पदानि प्रयुक्ते स तत्पदार्थसंसर्गप्रतिपादनाभिप्रायवानिति सामान्येन स्वात्मनि नियमे प्रतीते पश्चात् पदसमूहप्रयोगाद् वक्तुस्तत्पदार्थसंसर्गप्रतिपादनाभिप्रायावगतिद्वारेण पदेभ्यो वाक्यार्थानुमानमिति। इदमप्यनुपपन्नम्। तथाहि पदसमुदायमात्रप्रयोगाद् वा संसर्गज्ञानानुमानम्, उताऽकाङ्क्षादिमत्त्वे सति? नाऽद्यः, व्यभिचारात्। द्वितीये तु तथाविधपदैरेव वाक्यार्थावगतेर्वक्तृज्ञानानुमाने बकबन्धरीतिप्रयास एवेति। तदिदमप्याह गौरवं कल्पनेऽन्यथेति।
॥ भट्टोक्तवाक्यार्थप्रत्यायनप्रकारप्रत्याख्यानम्॥
अभिहितान्वयवादिनो वदन्ति पदाभिहिताः पदार्था एवाऽकाङ्क्षादिवशादन्योन्यान्वयं बोधयन्तीति। तैरपि हि पदार्थानामन्वयबोधकत्वं क्वाप्यनुपलब्धं तावत् कल्पनीयम्। ननु
“पश्यतः श्वेतमारूपं हेषाशब्दं च श़ृण्वतः।
खुरनिष्पेषशब्दं च श्वेतोऽश्र्वो धावतीति धीः”
इत्युक्तन्यायेनास्त्येव पदार्थानामन्वयबोधकत्वमिति चेत्, न। अनुमानादर्थापत्तेर्वा तत्रान्वयप्रतीतेः।
तथाहि एतेषां पदार्थानामेकाधिकरणतयाऽवगतानां वा प्रत्यायकत्वम्, विशकिलततया वा? आद्येऽनुमानत्वम्। द्वितीये तत्रार्थान्तराभावो निश्चितः, नवा? आद्येऽर्थापत्तिर्भवताम्, अस्माकमनुमानमेव। द्वितीये त्वनध्यवसाय एव। प्रमाणान्तरावगतानां पदार्थानामन्वयबोधकत्वादर्शनेऽपि पदैरभिहितानां तत् किं न स्यादिति चेत्, तर्हि न केवलं पदार्थानामन्वयबोधकत्वशक्तिकल्पनम्। किन्तु पदानां पदार्थाभिधानशक्तिः, तेष्वन्वयबोधकत्वाधानशक्तिश्च कल्पनीया। पदानां पदार्थेषु साहचर्यमात्रेण स्मारकत्वाङ्गीकारेऽपि शक्तिद्वयं कल्पनीयमेव। तदिदमुक्तम् गौरवं कल्पनेऽन्यथेति।
॥ सिद्ध्यान्त्यभिमतवाक्यार्थप्रत्यायनप्रकारेऽपि कल्पनागौरवप्रसङ्गमाशय परिहारकथनम्॥
ननुचान्विताभिधानवादिनोऽपि पदार्थेऽन्वये च शक्तिकल्पनाद् गौरवं समानमिति चेत्, न। एकयैव शक्त्याऽन्वितार्थस्यैवाभिधानाङ्गीकारात्। तथाऽपि सामान्यान्विताभिधानवादे पदानामौत्सर्गिकी सामान्यान्वये शक्तिः पदान्तरसन्निधानाच्चागन्तुकी विशेषविषया शक्तिः पदान्तरे च तदाधानशक्तिरिति शक्तित्रयं कल्पनीयमिति चेत्, न। आकाङ्क्षितसन्निहितयोग्यान्विताभिधानशक्तेरेकस्या एव पदान्तरसमभिव्याहारबलेन विशेषपर्यवसानस्योक्तत्वात्।
॥ पदस्मारितपदार्थानां वाक्यार्थप्रत्यायकत्वपक्षनिराकरणम्,
तथाऽङ्गीकारे वाक्यार्थस्याशब्दत्वप्रसङ्गः, सप्तमप्रमाणापत्तिश्च॥
ननुच पदकदम्बकश्रवणसमनन्तरं कुतश्चिन्मानसापराधादनुपजनितपदार्थस्मृतेर्वाक्यार्थप्रत्ययानुदयात्, उदयाच्चोपजातपदार्थस्मृतेरन्वयव्यतिरेकाभ्यां पदस्मारितपदार्थानां वाक्यार्थप्रत्यायकत्वमवसीयत इति। मैवम्। सङ्गतिस्मरणभावाभावाभ्यामन्यथोपपत्तेः। पदनिचयश्रवणवाक्यार्थबोधावन्तरा पदार्थस्मृतीनामेवानभ्युपगमात्। एकैकपदश्रवणे पदार्थस्मृतिरस्ति तावदिति चेत्, किं तावता? किं सहकारिविरहिणो यत् कार्यं तदेव सहकारिलाभेऽपि? तथात्वे संस्कारस्येन्द्रियसहकारिलाभेऽपि प्रत्यभिज्ञानुभवजनकत्वं न स्यात्।
किञ्च पदार्थबोध्यत्वे वाक्यार्थस्यानुमेयस्येवाशाब्दत्वम्। पदार्थाख्यसप्तमप्रमाणाङ्गीकारे गौरवं च स्यादिति। तदेतदाह गौरवं कल्पनेऽन्यथेति।
॥ पदानामन्वयप्रतिपादकत्वपक्षनिरासः॥
नायं दोषः। पदानामेव पदार्थप्रतिपादनावान्तरव्यापाराणामन्वयप्रतिपादकत्वाङ्गीकारात्। नह्यवान्तरव्यापारस्य व्यवधायकत्वमस्तीति चेत्, किमन्वयेऽप्यर्थवत् पदानां शक्तिरस्ति, नवा? नास्ति चेत्, तत्राऽह नचाशक्त्येति।
नचाशक्त्याऽभिधायित्वं प्रवृत्तिश्च द्विधाऽन्यथा॥६५॥
नच तत्राशक्तं तदभिधत्त इति सम्भवति व्याघातात्, अतिप्रसङ्गाच्च। तथाच तदवस्थं वाक्यार्थस्य अशाब्दत्वम्, सप्तमप्रमाणापत्तिश्चेति भावः।
अथ पदार्थेष्वन्वये चास्ति पदानां शक्तिः। तदा पदार्थानन्वयं च युगपत् प्रतिपादयन्ति, उत क्रमेण? नाऽद्यः, अन्विताभिधानप्रसङ्गात्, पदार्थप्रतिपादनस्यावान्तरव्यापारत्वानुपपत्तेश्च। द्वितीये दोषमाह प्रवृत्तिश्चेति। द्विधा प्रवृत्तिर्विरम्य व्यापारः। प्रसज्यत इति शेषः। साहचर्यात् स्वार्थान् स्मारयन्त्यन्वयपराणि पदानि, अतो न दोष इति चेत्, न। पदार्थाविषयाणां केवलतदन्वयपरत्वानुपपत्तेः।
॥ पदानामन्वयलक्षकत्वपक्षनिरासः॥
अन्वयो लक्ष्यत इति चेत्, तर्हि पदार्थेषु साहचर्यात् स्मारकत्वमात्रमन्वये तु लक्षणैवेति पदानां न कुत्राप्यभिधानवृत्तिरिति स्यात्। तदभावे च न लक्षणाऽपि सम्भवति। तद्द्वारत्वात् तस्याः। एतदप्युक्तम् नचाशक्त्याऽभिधायित्वमिति। स्मारकत्वमेवाभिधायकत्वमिति चेत्, न। अतिप्रसङ्गादिति। तस्मात् पदैरेव वाक्यार्थप्रत्ययसम्भवाद् युक्तं वेदप्रामाण्यमित्यतो युक्ता ब्रह्मजिज्ञासेति सिद्धम्।
॥ वृत्तिकारीयातःशब्दव्याख्याने पुनरुक्तिदोषः॥
एवं तावद् ब्रह्मजिज्ञासाकर्तव्यत्वोपयुक्तं युक्तिजातमतःशब्दार्थत्वेन व्याख्यातम्। तेनाथशब्दार्थमेवातःशब्दार्थतया हेतुत्वेन व्याख्यातवतां वृत्तिकाराणामिव नास्माकं पुनरुक्तिदोष इत्युक्तं भवति।
तथाहि अथशब्दस्तावदानन्तर्याभिधानमुखेन हेतुतयैव पूर्ववृत्तमवगमयति। आनन्तर्यमात्रस्य विफलत्वात्। अतोऽथशब्देनैव प्रकृतस्य हेतुत्वसिद्धेर्नातःशब्दोऽपेक्षितः। अथशब्दस्य हेतुत्वमार्थिकं नाभिधेयमिति चेत्, सत्यम्। तथाऽप्यार्थिके तात्पर्यात्। तस्यैव च वाक्यार्थेऽन्वयात्। पूर्वमीमांसाव्याख्यातृभिरप्येवमेव व्याख्यातमिति चेत्, किमेतावता? नहि पराङ्गं दग्धमिति स्वाङ्गदाहदुःखं निवर्तते।
नचायमस्माकमस्ति दोषः। अथशब्दो हि जिज्ञासाजनकमधिकारिस्थं धर्ममनधिकारित्वशङ्कानिरासायानुवदति, अतःशब्देन तु विषयप्रयोजनसिद्ध्यङ्गभूतं न्यायकलापं सूत्रकारः स्वयमाचष्ट इति कुतः पौनरुक्त्यम्?अत एव पुनरुक्तिभयादथात इत्येकमेव पदं येऽभ्युपगतवन्तः, तेऽपि निरस्ता भवन्ति। अर्थभेदसम्भवे अप्रसिद्धकल्पनानुपपत्तेः।
अतःशब्दस्य मोक्षजनकप्रसादहेतुज्ञानोत्पादकत्वबन्धसत्यत्वसिद्धार्थप्रमापकत्व
वेदप्रामाण्यअन्विताभिधायित्वरूपहेतुपञ्चकपरामर्शित्वेऽनुपपत्तिपरिहारः
॥ वेदप्रामाण्यस्य पूर्वमीमांसायामुपपादित्वात्, अत्रापि तदुपपादने वैयर्थ्यमित्याद्याशङ्कानिरासः॥
ननु वेदप्रामाण्यादिकं पूर्वमीमांसायामुपपादितम्। अतः किमर्थमत्र पुनः सूत्रितमिति चेत्, न। तदुपजीवित्वस्याप्रतिज्ञातत्वात्। एतन्मीमांसोपजीविनी खलु सेति पुराणे पठ्यते “शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः” इति।
तथाऽपि “न विलक्षणत्वात्” इत्यादिना वेदप्रामाण्यादेः समर्थनान्न तदतःशब्दार्थ इति चेत्, न। एतत्प्रपञ्चत्वात्। क्वचिदर्थनिर्णये तात्पर्याच्च। तथाच वक्ष्यति “स्वरूपनिर्णयायैव” इति, “यत्र तन्निर्णयम्” इति च।
॥ वेदानां कार्यपरत्वनिराकरणस्य समन्वयसूत्रार्थत्वनिराकरणम्॥
तथाऽपि कार्यपरत्वनिराकरणं नातःशब्दार्थः, तस्यानुपदमेव “तत्तु समन्वयात्” इति निराकरिष्यमाणत्वादिति चेत्, न। जगज्जन्मादिकारणतया शास्त्रयोनित्वस्य तत्रेतरनिरासेन ब्रह्मणि समर्थनात्। नहि कार्यवादिनः कार्यं तथाऽभ्युपयन्ति, येन तत्र तन्निराकरणं सङ्गच्छेत।
॥ अतःशब्दपरामृष्टयुक्तिपञ्चकस्य ब्रह्मतर्के विस्तरेणोक्तत्वात् प्रकृतत्वम्,
सङ्क्षेपेण कथनं च युक्तमित्युपपादनम्॥
स्यादेतत्। तथाऽप्येतदयुक्तम्। अतःशब्दो हि प्रकृतस्य हेतुत्वमाह। न पुनर्वेदप्रामाण्यादिकमेव साक्षात्। नचात्र तत् प्रकृतम्। अस्यैव प्रथमवाक्यत्वात्। पूर्वमीमांसाप्रकृतोपजीवनं तु नेष्यत एव। नच कार्यनिराकरणं तत्प्रकृतम्। तत् कथमस्यार्थस्यातःशब्दार्थतया व्याख्यानम्? अन्यथोत्सूत्रिताभिधाने भाष्यत्वव्याघातः। किञ्चायमर्थो ब्रह्मजिज्ञासाकर्तव्यतायामत्यन्तोपयुक्तो विस्तरादेव पूर्वमीमांसायामिव वक्तव्यः सूत्रकृतैव। अत इति सङ्क्षेपेण कस्मादुक्त इत्याशङ्काद्वयं परिहरति एतत् सर्वमिति।
एतत् सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात्।
उक्तं विद्यापृथक्त्वात्तु सङ्क्षेपेणात्र सूचितम्॥६६॥
यस्मादित्यर्थे हिशब्दः। तुशब्दस्यात्र त्विति सम्बन्धः। तस्मादित्यर्थे वा। यस्मादेतत् सर्वं प्रमेयं ब्रह्मतर्काभिधेयतर्कशास्त्रे विस्तरादुक्तम्, तस्मादत्र मीमांसोपक्रमेऽत इति सङ्क्षेपेण सूचितमित्यनेन शङ्काद्वयमपि परास्तम्। ब्रह्मतर्कोक्तत्वेन प्रकृतत्वादतःशब्देन परामर्शो युज्यते। तत्रैव विस्तरेणोक्तत्वादत्र सङ्क्षेपकरणं चोपपद्यत इति।
॥ तर्कशास्त्रस्य मीमांसाङ्गत्वाद् ब्रह्मतर्कोक्तस्यात्र प्रकृतत्वे नानुपपत्तिः॥
ग्रन्थान्तरोक्तस्य कथमत्र प्रकृतत्वम्? तथात्वे वा कुतो न पूर्वमीमांसोक्तपरामर्शोऽयमिष्यत इत्यत उक्तम् तर्कशास्त्र इति। तर्कशास्त्रं हि मीमांसाङ्गमिति वक्ष्यति। (उत्तरश्लोके) ब्रह्मतर्के विस्तरेणोक्तत्वमत्र सङ्क्षेपकरणस्य घटकमात्रम्, न नियामकम्। तत्र विस्तरेणोक्तस्यात्रापि विस्तरेणोक्तौ बाधकाभावात् प्रस्थानभेदेनापुनरुक्तेरित्यत उक्तम् विद्येति।
एतदुक्तं भवति अस्ति तावत् तर्कमीमांसाविद्ययोः पृथक्त्वम्। “वेदाः सर्वाङ्गानि सत्यमायतनम्” इति पृथक् श्रवणात्। वेदाश्चत्वारः, सर्वाङ्गानीति पुराणस्मृतितर्कशास्त्रसहितानि षडङ्गानि गृह्यन्ते। सत्यमिति मीमांसा। तथाच चतुर्दशविद्यास्थानान्युक्तानि भवन्ति। तदर्थं च व्युत्पाद्यभेदेन अवश्यं भवितव्यम्। ततश्च प्रमेयव्युत्पादनपरे मीमांसाशास्त्रे तर्कशास्त्रव्युत्पाद्यं वेदप्रामाण्यादिकं यदि विस्तराद् व्युत्पाद्येत, तदा विद्याभेदो न स्यात्। सङ्क्षेपेण सूचने तु नायं दोषः। प्रायिकत्वाद् विद्याभेदस्य। सर्वथाऽन्योन्यासंस्पर्शेऽङ्गाङ्गिभावानुपपत्तेः। अतोऽत्रास्य सर्वस्य सङ्क्षेपकरणमेव उचितमिति। अनेन जैमिनीयानां प्रमाणलक्षणादिनिरूपणं नातीव मीमांसायां सङ्गतमिति सूचितं भवति। अत एव न तत्रोक्तस्यात्रोपजीवनमिति। तदेव प्रपञ्चयति प्रमाणेति।
॥ प्रमाणानां स्वरूपादिचिन्ता तर्कशास्त्रस्य विषयः, तैः प्रमाणैः प्रमेयचिन्ता मीमांसाशास्त्रस्य विषयः
इत्येतच्छास्त्रयोः व्युत्पाद्यभेदस्याङ्गाङ्गिभावस्य च समर्थनम्॥
अथवा विद्यापृथक्त्वादित्युक्तम्। तत्रास्तु तर्कमीमांसाविद्ययोः पृथक्त्वम्, तथाप्यत्र विस्तरेण वेदप्रामाण्यव्युत्पादने को दोष इत्याशय, विद्यापृथक्त्वं च व्युत्पाद्य पृथक्त्वादेव तच्चैतदित्याह प्रमाणेति।
प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः।
मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम्॥६७॥
प्रमाणानि प्रत्यक्षादीनि त्रीणि। न्यायोऽनुमानाङ्गभूता व्याप्तिः। अथवा न्यायो व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनात्मकस्तकः। तस्यानुमानात्मकत्वेऽपि प्रमाणानुग्राहकत्वातिशयवत्त्वज्ञापनाय पृथगुक्तिः। अथवा प्रमाणे प्रत्यक्षमागमश्च, न्यायोऽनुमानं, तस्य मीमांसायामभ्यर्हितत्वाद् भेदेनोपन्यासः। अथवा प्रमाणानां प्रत्यक्षादीनां न्यायः प्रकारः स्वरूपसङ्ख्याविषयव्यवस्था। तस्य सच्छिक्षा उद्देशलक्षणविभागपरीक्षाभिर्निरूपणम्। तर्कशास्त्रत इति तृतीयार्थे तसिः। तुशब्दो मीमांसा त्विति सम्बद्ध्यते। तत्सिद्धैस्तकशास्त्रव्युत्पादितैः। मेयशोधनं प्रमेयस्याऽरोपिताकारनिराकरणेन स्वरूपनिरूपणं क्रियते। मीमांसाशास्त्रत इति शेषः। अयं च व्युत्पाद्यभेदो न स्याद् यदि मीमांसाशास्त्रेऽपि वेदप्रामाण्यादिकं विस्तराद् व्युत्पाद्येत। तदभावे च विद्याभेदोऽपि न स्यात्। अतः सङ्क्षेपेणैवास्य सूचनमत्र युक्तमिति भावः। अत्र तत्सिद्धैरिति वदता तर्कशास्त्रस्य मीमांसाङ्गत्वमुक्तम्। तेन तत्र प्रकृतस्यात्र परामर्शो नानुपपन्न इति सूचितं भवति।
॥ कणादादिप्रणीतर्कशास्त्रस्य मीमांसाविरुद्धत्वम्,
भगवत्कृतब्रह्मतर्काख्यतर्कशास्त्रस्य मीमांसाङ्गत्वं च ॥
ननु “महद्दीर्घवद् वा” इत्यादिना तर्कशास्त्रं निराकरिष्यते। तत् कथं तस्य ब्रह्ममीमांसाङ्गत्वम्? विरुद्धयोरङ्गाङ्गिभावस्य व्याहतत्वात्। तथाच कथं तत्रोक्तस्यात्रेदंशब्देन परामर्शः। कथञ्च ततो भेदसिद्धये व्युत्पाद्यभेदोपपादनम्? प्रमाणत्वाप्रमाणत्वाभ्यामेव तद्भेदस्य सिद्धत्वादित्यत आह ब्रह्मतर्कं चेति।
ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः।
स प्रभुर्यो मीमांसासूत्रकृदित्यर्थः। एवशब्देन न कणादाक्षपादादिप्रणीतं तर्कशास्त्रमत्राङ्गतयाऽङ्गीक्रियते, अतो नोक्तदोष इति सूचयति।
॥ पञ्चाशत्कोटिविस्तृतस्य मूलब्रह्मतर्कस्य नारायणकृतत्वम्,
पञ्चसहस्रपरिमितस्यापरस्य ब्रह्मतर्कस्य व्यासकृतत्वमित्युपपादनम्॥
ननुु कथं सूत्रकृता कृतो ब्रह्मतर्क इत्युच्यते? “ब्रह्मतर्कस्तकशास्त्रं विष्णुना यत् समीरितम्” इति तस्यान्यकृतत्ववचनात्। नच वाच्यं विष्णुकृतोऽप्येकोऽस्तु, अयमपरः किं व्यासकृतो ब्रह्मतर्को न स्यादिति। भगवत्कृतस्य तस्याप्रामाण्ये कारणाभावात्। अत्राप्यनाश्र्वासप्रसङ्गाच्च। प्रामाण्ये तु व्यर्थं व्यासस्यैकविषये ग्रन्थान्तरनिर्माणमित्यत आह पञ्चाशदिति।
पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात्।
उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः॥६८॥
ननुच कथं “विस्तारात्” इति? “प्रथने वावशब्दे” इति प्रतिषेधात्। मैवम्। पञ्चाशद्भिः कोटिभिः श्लोकैर्विस्तारः प्रपञ्चो यस्यार्थस्य तस्मात् किञ्चिदर्थमुद्धृत्य पृथक्कृत्य तत्प्रतिपादकम्, पञ्चसहस्राणि परिमाणमस्येति पञ्चसाहस्रं ग्रन्थं कृतवानिति व्याख्यानात्।
यद्यपि व्यासो न विष्णोरन्य इति परिहारोऽत्र वक्तुं शक्यत एव, तथाऽपि वस्तुस्थितिज्ञापनाय भगवतो व्यासस्य पृथग् ग्रन्थरचने प्रयोजनमभिहितमिति ज्ञातव्यम्। अत एव विष्णुनेत्यस्य विवरणाय नारायणतनावित्युक्तम्। तथाच नारायणावतारे विष्णुना कृतादिति योजना।
अथवा “नञा निर्दिष्टमनित्यम्” इति वचनात् पञ्चाशत्कोटिविस्तारो यस्य ग्रन्थस्येत्यपि युक्तम्। तथाच कृतादिति मुख्यमेव भवति। अन्यथा लाक्षणिकं व्याख्येयमिति।
॥ वेदप्रामाण्यादेः प्रकृतत्वस्य, सङ्क्षेपेण कथनस्य च औचित्यसमर्थनम्॥
शङ्काद्वयपरिहारमुपसंहरति अत इति।
अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत्।
यतोऽयमर्थो ब्रह्मतर्कोक्तः, ब्रह्मतर्कश्च मीमांसाङ्गम्, अतस्तदर्थं प्रकृतत्वादत इत्यभ्यसूचयदिति युज्यत इत्याद्यशङ्कापरिहारस्योपसंहारः।
यतस्तकमीमांसाशास्त्रयोर्भेदः, स च व्युत्पाद्यभेदाधीनः, अतस्तदर्थं तर्कशास्त्रव्युत्पाद्यमेतमर्थमत इति सङ्क्षेपादेवाभ्यसूचयन्न विस्तरेणेति द्वितीयशङ्कापरिहारस्येति।
॥ बन्धसत्यत्वादेः सर्वानुभवसिद्धत्वाच्च प्रकृतत्वम्,
सङ्क्षेपेण कथनं च युक्तमित्युपपादनम्॥
प्रकारान्तरेण शङ्काद्वयं परिहरति यत इति।
यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपि च॥६९॥
वक्तृश्रोतृबुद्धौ परिवर्तमानं हि साक्षात् प्रकृतमित्युच्यते। ग्रन्थोक्तत्वं तु तल्लिङ्गतयैव तथा। एतच्च सर्वं प्रपञ्चसत्यत्वादिकं यतोऽनुभवत एव सिद्धमतोऽपि प्रकृतत्वादत इति परामृश्य हेतुत्वेन कथनं युज्यत इति। यत एतद् बन्धसत्यत्वादिकमनुभवसिद्धं सर्वेषामतोऽतिस्फुटत्वादप्यत इति सङ्क्षेपादेव अभ्यसूचयत्, न विस्तरेणेति।
॥ प्रसङ्गानुकूल्यरहितत्वाच्च प्रमाणस्वरूपादिकस्य विस्तरेणानिरूपणम्॥
एवं शङ्काद्वयं प्रकारद्वयेन परिहृत्य द्वितीयशङ्कां प्रकारान्तरेणापि परिहरति देवैश्चेति।
देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम्।
चकार …………………………॥७०॥
सुगमज्ञानानन्तरं दुर्गमज्ञानं प्राणिनां सुकरमिति सुगमप्रमाणादिस्वरूपं ब्रह्मतर्कादौ व्युत्पाद्येदानीं देवैर्निमित्तैस्तत्प्रार्थनयेति यावत्। दुर्गमार्थेषु वेदेषु तदर्थमीमांसायां व्यापृतः प्रवृत्तो यतो भगवान् व्यासोऽतश्चानवसरतयाऽस्य प्रमेयस्य नातिविस्तृतिं चकार।
सङ्क्षेपादभ्यसूचयदिति प्रकृतेऽपि पुनर्नातिविस्तृतिं चकारेति साध्याभिधानं प्रकृतत्वोपपादननिरासार्थम्। अन्यथा साध्यद्वयस्यापि प्रकृतत्वात् तदर्थमप्येतद्वाक्ययोजनायां शिष्याणां मनःखेदः स्यादिति। पूर्वं तु शास्त्रभेदसिद्धये विस्तरो न कृत इत्युक्तम्, इदानीं त्वप्रसक्तत्वादिति भेदः।
॥ पूर्वपक्षोक्तयुक्तीनां निर्दलत्वात् अवज्ञेयत्वज्ञापनाय च विस्तरेणाकथनम्॥
विस्तराकरणे कारणान्तरमप्याह एता इति।
…… एता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः॥।७०॥
यस्मादेताः प्रतिपक्षगा बन्धमिथ्यात्वादौ प्रतिवादिनोपन्यस्ता युक्तयोऽवज्ञेयाः, निर्दलत्वात्। अतोऽपि सूत्रकारस्तन्निराकरणे नातिविस्तृतिं चकार। किन्तु हेयताज्ञापनाय सङ्क्षेपं चक्रे। अस्माभिस्तु तामेव निर्दलतां दर्शयितुं किञ्चित् प्रपञ्चितमिति भावः।
॥ पूर्वपक्षस्यावज्ञेयत्वप्रतिपादनम्॥
नन्वस्त्ववैदिकैर्बौद्धादिभिरुत्प्रेक्षितानां युक्तीनामवज्ञेयत्वम्, वैदिकैरुक्तास्तु नावज्ञामर्हन्ति, समूलत्वेन सदलत्वात्। अतः कथमेतदित्यत आह प्रत्यक्षेति।
प्रत्यक्षेक्षाक्षमः पक्षं कमेवात्राभिवीक्षते।
तस्मादक्षमपक्षत्वान्मोक्षशास्त्रेऽभ्युपेक्षितः॥७१॥
प्रत्यक्षशब्देन स्पष्टप्रतीत्युपलक्षणम्। प्रत्यक्षा च सेक्षा च स्पष्टा प्रतीतिः, तस्यामप्यक्षमः। स्पष्टं हि प्रतीयते दुःखादिसत्यत्वादिकं तदपि यो द्रष्टुं न शक्नोति। सोऽत्र मीमांसाविषये कमेव पक्षं प्रतिकूलमभिवीक्षते उत्प्रेक्षते? न कमपि। तस्मादक्षमपक्षत्वात् मोक्षशास्त्रे वेदे प्रवृत्तोऽप्याग्रहात् उपेक्षित एव सूत्रकृता, नतु विस्तरेण निराकृत इति।
इदमुक्तं भवति यो हि लौकिकप्रवेदनीयमप्यर्थं न जानाति, तस्यालौकिकार्थे वेदेऽधिकार एव नास्ति। तथाऽपि तत्र वैयात्यात् प्रवृत्तोऽवज्ञामेवार्हति, नतु प्रतिपक्षिभावमिति।
मोक्षशास्त्र इत्यनेनापि तस्य वेदविचारानधिकारं सूचयति। वेदो हि मोक्षशास्त्रमिति प्रसिद्धः। “तत्प्रीणनान्मोक्षमाप्नोति सर्वस्ततो वेदास्तत्पराः सर्व एव” इति श्रुतेः। तं च स्वर्गमात्रपर्यवसितं वदन् कथमत्राधिक्रियते? नहि तत्प्राप्यमविद्वांस्तेन च पथा प्रतिष्ठमानो नोन्मत्त इति सर्वं सुस्थम्। तदनेनातःशब्दो हेत्वर्थ इति भाष्यं स्पष्टीकृतं भवति।
॥ देवतामीमांसान्त्यसूत्रयोः विष्णोरेव ब्रह्मत्वकथनात्
तदनन्तरभाविजिज्ञासासूत्रोक्तब्रह्मशब्दोऽपि विष्णुपर एवेत्युपपादनम्॥
एवमतःशब्दव्याख्यानमुपपाद्य स्वयं भगवतेत्यादिना क्रमप्राप्तं ब्रह्मशब्दार्थं समर्थयते। “जिज्ञास्योऽयं विधीयते” इति ब्रह्मशब्दो विष्णुविषयो व्याख्यातः। तदनुपपन्नम्। ब्रह्मशब्दस्य जातिजीवकमलासनशब्दराशिषु वृद्धप्रयोगादिसिद्धत्वात्।
ननु भगवत्यपि ब्रह्मशब्दो वृद्धप्रयोगादिसिद्धः। तथाऽप्यनेकार्थेषु शक्तियुक्तस्य विवक्षाज्ञापकप्रमाणाभावेन भगवत्परत्वावधारणायोगादित्याशय यथाऽनेकार्थोऽपि गोशब्दः प्रकरणवशादर्थविशेषपरोऽवधार्यते, तथाऽनेकार्थोऽपि ब्रह्मशब्दः सूत्रकृता विष्णुविषय एव प्रयुक्त इति प्रकरणवशाज्ज्ञायत इति परिहारं विवक्षुर्ब्रह्मशब्दस्य विष्णौ प्रकृतत्वं तावदाह स्वयमिति।
स्वयं भगवता विष्णुर्ब्रह्मेत्येतत् पुरोदितम्।
स विष्णुराह हीत्यन्ते देवशास्त्रस्य तेन हि॥७२॥
ननु “अथातो ब्रह्मजिज्ञासा” इत्येतदेवाऽदिसूत्रम्। अस्मादपि पूर्वसूत्रस्य विद्यमानत्वे तदादित्वेन व्याख्यानप्रसङ्गात्। अन्यथा प्रथमातिक्रमे कारणाभावादकुशलाः सर्व एव व्याख्यातारः प्रसज्येरन्। तत् कथमस्मात् सूत्रात् पुरा विष्णुर्ब्रह्मेत्येतत् स्वयं भगवता सूत्रकृतोदितमित्युच्यत इति। तत्राऽह स विष्णुरिति। तेनेति भगवतेत्यनेन सम्बद्ध्यते। येनेदं शास्त्रं कृतं तेनैवेत्यर्थः।
सत्यमेतदेव ब्रह्ममीमांसाशास्त्रस्याऽदिसूत्रम्। किन्तु देवमीमांसाशास्त्रस्यान्ते “स विष्णुराह हि” “तं ब्रह्मेत्याचक्षते” इति सूत्रद्वयेन विष्णुर्ब्रह्मेत्युदितम्। तदनन्तरमेव च “अथातो ब्रह्मजिज्ञासा” ति सूत्रितत्वात् पुरोदितमिति युज्यत इति। ये तु देवमीमांसाशास्त्रस्वरूपे तदनन्तरमेतत्सूत्रप्रणयने विप्रतिपद्यन्ते तेषां पुराणादिप्रसिद्धिविरोधं हिशब्देन दर्शयति।
॥ देवतामीमांसासूत्रेषु आद्यन्तसूत्रणां व्यासकृृतत्वस्य,
मध्यानां शेषपैलकृतत्वस्य च प्रतिपादनम्॥
ननु देवतामीमांसाशास्त्रं शेषपैलाभ्यां कृतमिति पुराणादौ प्रसिद्धम्। तत् कथमुच्यते भगवतोदितमिति। तत्राऽह आद्यन्तमिति।
आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम्।
मध्यं तदाज्ञया शेषपैलाभ्यां कृतमञ्जसा।
अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत्॥७३॥
“अथातो दैवी” इत्यादिः, उदाहृतोऽन्तश्चाऽद्यन्तम्। यतस्तदाज्ञया कृतमतोऽञ्जसैव कृतमित्यनेन अनेककर्तृकत्वान्न कन्थायितत्वमस्य शङ्कनीयमित्याह। अयं च विशेषो विशेषवाक्यादिभिरवगन्तव्य इति।
अस्त्वेवं ब्रह्मशब्दस्य विष्णुविषयतया प्रकृतत्वम्, ततः किमित्यत आह अत इति। यतो देवतामीमांसान्तिमसूत्रद्वयं भगवता कृतम्। अतस्तत्रैव सूत्रद्वये ब्रह्मशब्दार्थस्य विष्णुत्वसिद्धेः विष्णुतायाः प्रकृतत्वात् “अथातो ब्रह्मजिज्ञासा” इत्यत्रापि ब्रह्मेति विष्णुमेवासूचयत् सूत्रकार इति ज्ञायते। अतो “जिज्ञास्योऽयं विधीयते” इत्युचितमेव व्याख्यानमिति।
॥ नारायणशब्दनिर्वचनम्॥
एवं मीमांसाशास्त्रसम्प्रदायज्ञान् प्रति सौत्रब्रह्मशब्दस्य विष्णुपरत्वे युक्तिमभिधाय अधुना मन्दान् प्रति ब्रह्मशब्दस्य निरुच्यमाननारायणशब्दसमानार्थताप्रतीतिमप्यत्र युक्तिं विवक्षुः नारायणशब्दं तावन्निर्वक्ति दोषेति।
दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः।
गुणा नारा इति ज्ञेयास्तद्वान् नारायणः स्मृतः॥७४॥
अत्र च्छिद्रशब्दोपपादनं दृष्टान्तत्वेन। पर्यायत्वं पर्यायेण क्रमेण प्रयोज्यत्वं न पुनरेकस्मिन्नेव वाक्य इत्यर्थः। यथोक्तम्
“पर्यायेणैव ते यस्माद् वदन्त्यर्थान्न संहताः।
पर्यायत्वं ततः सर्वपर्यायाणां प्रतिष्ठितम्” इति।
तेनैकार्थत्वमिति सिद्ध्यति। एकार्थत्वे हि पर्यायत्वं स्यात्। एतच्चाभिधानप्रयोगाभ्यामभ्युपेयम्। यतो दोषारशब्दयोः पर्यायत्वम्, यतश्च नञ् तद्विरुद्धार्थवाची, ततो नारा इति पदेन दोषविरुद्धा गुणाः प्रोक्ता इत्यर्थः। तद्वान् नारायण इत्यनेन नाराणामयनमिति विग्रहं सूचयति। अत्र गुणविशेषानुक्तेः सर्वगुणपरिपूर्णत्वं नारायणशब्दार्थ इत्युक्तं भवति।
ननु नञ्समासे “नलोपो नञः” इति प्राप्नोति। न। “नभ्रा” इत्यादिष्वस्य वक्तव्यत्वात्। अथवा “अमानोनाः प्रतिषेध” इति गणपठितनसमासोऽयमित्यदोषः। “पूर्वपदात् सञ्ज्ञायामगः” इति णत्वम्। ल्युटष्टित्करणसामर्थ्यादयनशब्दोऽत्राधिकरणे त्रिलिङ्ग इति पुँल्लिङ्गत्वोपपत्तिः।
॥ ब्रह्मशब्दस्य नारायणशब्दसमानार्थत्वप्रतिपादनम्॥
एवं नारायणशब्दं निरुच्य स एव ब्रह्मशब्दार्थ इत्याह ब्रह्मशब्दोऽपीति।
ब्रह्मशब्दोऽपि हि गुणपूर्तिमेव वदत्ययम्।
अतो नारायणस्यैव जिज्ञासाऽत्र विधीयते॥७५॥
हिशब्देन “अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः” इत्यादिप्रसिद्धिं द्योतयति। एवशब्देन सर्वात्मकत्वादिपरापव्याख्यां सर्वप्रमाणविरुद्धां व्यावर्तयति। अयमिति सूत्रप्रयुक्तः।
किमतो यद्येवमित्यत आह अत इति। यतो ब्रह्मशब्दो नारायणशब्दसमानार्थः, अतो ब्रह्मजिज्ञासा कर्तव्येति वाक्येन नारायणस्यैव जिज्ञासा विधीयत इति ज्ञायत इत्यर्थः।
॥ “तदेव ब्रह्म” इति श्रुतौ ब्रह्मशब्दस्य परममुख्यवृत्त्या विष्णुवाचित्वकथनात्
सौत्रब्रह्मशब्दोऽपि विष्णुपर इत्युपपादनम्॥
यस्तूक्तामर्थसमाख्यां निर्वचनान्तरदर्शनान्नानुमन्यते, तं प्रत्युपपत्त्यन्तरमाह सिद्धत्वादिति।
सिद्धत्वाद् ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ।
“तदेव ब्रह्म परमं कवीनाम्” इत्यस्यां श्रुतौ ब्रह्मशब्दस्य विष्णौ स्पष्टतया मुख्यतया सिद्धत्वाच्च सौत्रो ब्रह्मशब्दो विष्णुपर इति ज्ञायत इत्यर्थः।
एतदुक्तं भवति मुख्यामुख्ययोर्हि मुख्यस्तावद् ग्राह्यः, शक्तिवशात् तस्यैवाऽदौ बुद्धिसन्निधानात्। तदनुपपत्तौ त्वमुख्यः। दृष्टं चैतदुभयं “गङ्गायां जलम्’, “गङ्गायां घोषः’ इत्यादौ। ब्रह्मशब्दश्च विष्णावेव मुख्यः। “तदेव ब्रह्म” इति श्रुतेः। अत्रहि विष्णोरन्यस्य ब्रह्मत्वं निषिद्ध्यते। ततो ब्रह्मशब्दस्य विष्णावेव शक्तिर्नान्यत्रेति व्याख्यानाङ्गीकारेऽभिधानादिविरोधः स्यात्। अतो मुख्यवृत्तिर्विष्णावेव नान्यत्रेति व्याख्यानमुचितम्। नचात्र सूत्रे ब्रह्मशब्देन मुख्यार्थस्य विष्णोः परिग्रहे बाधकमस्ति। अतः प्रकरणादिसद्भावेऽसद्भावे वा विष्णुपर एवायं ब्रह्मशब्द इति ज्ञायत इति।
॥ “तदेव ब्रह्म” इत्यत्र विष्णोरेव तच्छब्दपरामृष्टत्वमिति
उपक्रमवाक्यबलेनोपपादनम्॥
स्यादेतत्। यदि “तदेव ब्रह्म” इत्यस्यां श्रुतौ तच्छब्दपरामृष्टो विष्णुर्भवेत्, तदेव कुत इत्यत आह अम्भसीति।
अम्भस्यपार इत्युक्तो नारायणपदोदितः॥७६॥
“तदेव ब्रह्म” इत्यस्य हि “अम्भस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयान्” इत्युपक्रमवाक्यम्। अत्र नारायणपदोदित एवोक्तः।
एतदुक्तं भवति “अम्भस्यपारे” इत्युपक्रमवाक्यं तावन्नारायणपरम्, नारायणशब्दसमानार्थत्वात्। तथाच प्रकृतपरामर्शं परित्यज्याप्रकृतपरामर्शाङ्गीकारायोगात् तदिति परामृष्टो विष्णुरेवेति।
॥ “अम्भस्यपारे” इत्युपक्रमवाक्यस्य विष्णुविषयत्वप्रतिपादनम्॥
“अम्भस्यपारे” इति वाक्यं कथं नारायणपदसमानार्थमित्यत आह आप इति।
आपो नारा इति ह्याह…………….।
हि यस्मात्,
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः”
इति स्मृतिरप्सु स्थितत्वं नारायणशब्दार्थमाह। तस्मादपारेऽम्भसि स्थित इति वाक्यं नारायणशब्दसमानार्थं भवतीति।
॥ अम्भ्रिणीसूक्तसमाख्यानाच्च उपक्रमवाक्यं विष्णुविषयमित्युपपादनम्॥
किञ्च शाखान्तरे “मम योनिरप्स्वन्तः” इति विष्णुरेवाप्स्वन्तरीरितः। तत्समाख्यानाच्च “अम्भस्यपारे” इत्युपक्रमवाक्यं विष्णुपरमित्याह स एवेति।
………………..स एवाप्स्वन्तरीरितः।
कामतो विधिरुद्रादिपददात्र्या स्वयं श्रिया॥७७॥
योनित्वेनाऽत्मनः ……………………।
स्यादेतत्। यदि “मम योनिः” इति शाखान्तरस्थमपि वाक्यं विष्णुपरं स्यात्। तदेव कुत इत्यत आह स्वयमिति। श्रीशब्दोऽन्यत्राप्युपचाराद् वर्तते। यथोक्तम् “ताश्चेन्द्रधर्मनासत्यसंश्रयाच्छ्रिय ईरिताः” इति। तद्व्युदासार्थं स्वयमित्युक्तम्। महालक्ष्म्या मम योनिरित्यात्मनः कारणत्वेन ईरितत्वात् “अप्स्वन्तः” इत्युक्तो विष्णुरेव।
भवेदेतत्। यदीदं श्रीवाक्यं स्यात्। तदेव कुतो निश्चेयम्? “अृम्भ्रिणी वा वागात्मानं तुष्टाव” इत्यम्भ्रिणीवाक्यत्वस्योक्तत्वादित्यत आह कामत इति। अत्र हि
“यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्”
इत्यादिनाऽस्या अम्भृण्या वाचः स्वेच्छामात्रेण ब्रह्मरुद्रादिपददातृत्वं प्रतीयते। नचैतत् श्रियं विना अन्यस्या युक्तम्, अन्यासां ब्रह्मसृष्टत्वात्। अतः परशक्तेः श्रिय एवेदं वाक्यमिति निश्चीयते।
अथवा श्रियाऽऽत्मनो योनित्वेनोक्तत्वात् “अप्स्वन्तः” इति विष्णुरेवोच्यत इत्युक्तम्। तन्न। श्रीयोनित्वस्य ब्रह्मरुद्राद्यन्यतमस्मिन् सम्भवादित्याशङ्कापनोदाय कामत इत्यादिविशेषणमुक्तम्।
॥ सर्वदेवाश्रयत्वलिङ्गेन “तदेव ब्रह्म” इत्यस्य विष्णुविषयत्वप्रतिपादनम्॥
एवं नारायणशब्दसमाख्ययाऽम्भ्रिणीसूक्तसमाख्यया च “अम्भस्यपारे” इत्युपक्रमवाक्यस्य विष्णुविषयत्वं समर्थ्य “तदेव ब्रह्म” इति परामर्शस्य तद्विषयत्वं समर्थितम्। हेत्वन्तरेण समर्थयते विष्णोरिति।
…………. विष्णोस्तिष्ठन्तीत्युदितस्य च।
यस्मिन् देवा अधीत्युक्त्वा …………..॥७८॥
“सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि”
इत्यैतरेयश्रुतावाज्ञाधृतमहदादिदेवतासमूहत्वेनोदितस्य विष्णोरत्रापि
“यस्मिन्निदं सञ्च विचैधि सर्वं यस्मिन् देवा अधि विश्वे निषेदुः”
इति सर्वदेवाश्रयत्वमुक्त्वा “तदेव ब्रह्म” इत्यब्रवीदिति सम्बन्धः।
अयमर्थः तदेव ब्रह्मेति परामर्शविषयो हि “यस्मिन् देवाः” इति सर्वदेवाश्रयत्वेन प्रतीयते। तच्च शाखान्तरे “सप्तार्धगर्भा” इति विष्णुधर्मत्वेनावगतम्। अतोऽपि तदिति परामृश्यमानो विष्णुरेवेति।
॥ समुद्रस्थानत्वलिङ्गेन “तदेव ब्रह्म” इत्यस्य विष्णुविषयत्वप्रतिपादनम्॥
लिङ्गान्तरमाह समुद्रमिति।
…………………समुद्रस्थानमेव च॥।७८॥
“यमन्तः समुद्रे कवयोऽवयन्ति” इत्यस्य पुरुषस्य समुद्रस्थानं चोक्त्वा “तदेव ब्रह्म” इत्यब्रवीत्। तस्मादपि समुद्रस्थानत्वलिङ्गाद् विष्णुरेव परामर्शविषय इति गम्यते। एवशब्देन समुद्रस्थानत्वं “मम योनिरप्स्वन्तःसमुद्रे” इत्यादिश्रुतेरन्यत्रानवकाशमित्याह। विष्णोरेव यत् समुद्रस्थानत्वमिति योजना।
॥ अक्षरशब्दप्रयोगबलात् “तदेव ब्रह्म” इत्यस्य विष्णुविषयत्वप्रतिपादनम्॥
युक्त्यन्तरमाह नाम चेति।
नाम चाक्षरमित्येव ऋच इत्युदितं तु यत्।
“यदक्षरे परमे प्रजाः” इत्यस्याक्षरमिति नाम चोक्त्वा “तदेव ब्रह्म” इत्यब्रवीत्, अतश्च विष्णुरेव तदिति परामृश्यते। अक्षरनामान्यस्य किं न स्यादित्यत उक्तम् एवेति। विष्णोरेवेत्यन्वयः। तत् कुत इत्यत आह ऋच इति। “ऋचोऽक्षरे परमे व्योमन्” इति यदक्षरनाम वामनसूक्ते विष्णौ प्रयुक्तमिति। तुशब्देनाक्षरनाम्नो विनाशाभावार्थतालक्षणं विशेषं द्योतयति। नहि विष्णोरन्यस्य अविनाशित्वं सम्भवतीति वियदधिकरणे वक्ष्यते।
॥ प्रकृतिकारणत्वलिङ्गेन “तदेव ब्रह्म” इत्यस्य विष्णुविषयत्वप्रतिपादनम्॥
लिङ्गान्तरमाह यत इति।
यतः प्रसूतेत्युक्त्वा च तदेव ब्रह्म चाब्रवीत्॥७९॥
“यतः प्रसूता जगतः प्रसूती” इति प्रकृतिकारणत्वं चास्य पुरुषस्य उक्त्वा तदेव ब्रह्मेत्यब्रवीत्। प्रकृतिकारणत्वं च “मम योनिरप्स्वन्तः”, “तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम” इत्यादिश्रुतिस्मृतिषु विष्णोरेव प्रसिद्धम्। अतः स एव तदिति परामर्शगोचर इति। ब्रह्म चेति चशब्द इतिशब्दार्थे।
तदेवं “तदेव ब्रह्म” इतिवाक्यस्य विष्णुविषयत्वाद् ब्रह्मशब्दो विष्णावेव मुख्य इति स्थिते सौत्रोऽपि ब्रह्मशब्दस्तत्पर एवेति सिद्धम्।
॥ वल्लभाचार्येण भाष्यकारीयबह्मशब्दार्थसमर्थनस्य वैयर्थ्यशङ्का, तन्निरासश्च॥
अत्र केनचित् प्रलपितम् श्रौतस्य ब्रह्मशब्दस्य जात्यादिकमर्थान्तरमाशय यद् भाष्यकारीयं निराकरणं तदनुपपन्नम्। यतः सूत्रकार एव “जन्माद्यस्य यतः” इति जगज्जन्मादिकारणं ब्रह्मेति वक्ष्यति। नहि जात्यादेर्जगज्जन्मादिकारणताऽस्तीति।
तदतीव मन्दम्। सौत्रब्रह्मपदश्रवणे जात्यादिप्रतिभास एव न भवतीति वा तन्निराकरणमकर्तव्यम्, उत जातोऽपि प्रतिभासो लक्षणसूत्रपर्यालोचनया निवर्तत इति? नाऽद्यः, गृहीतसङ्गतेरर्थान्तरप्रतिभासस्यावर्जनीयत्वात्। द्वितीये त्वयाऽप्यर्थान्तरप्रतिभासस्तन्निराकरणं चाङ्गीकृतमेव। तथाप्युत्तरवाक्यपर्यालोचनां विहाय किं युक्त्यन्तरान्वेषणेनेति चेत्, न। प्रथमप्राप्तं “स विष्णुराह हि” इत्यादिवाक्यं विहाय किमुत्तरान्वेषणेनेत्यपि वक्तुं शक्यत्वात्। नचोत्तरसूत्रपर्यालोचनया अयं निर्णयो न कार्य इत्युक्तं भाष्यकृता। तस्माद् यत्किञ्चिदेतत्।
॥ मायावादिव्याख्यानप्रत्याख्यानम्॥
एतेनैतदपि निरस्तम् यत् परेण “तत् किं ब्रह्म प्रसिद्धम्, अप्रसिद्धं वा? प्रसिद्धं चेत्, न जिज्ञास्यम्, अप्रसिद्धत्वे न जिज्ञासितुं शक्यम्” इत्याशय “प्रसिद्धमेव ब्रह्म। ब्रह्मशब्दात्, सर्वस्याऽत्मत्वाच्च। तथाऽपि देहात्मत्वादिविप्रतिपत्तिसद्भावाज्जिज्ञास्यम्” इत्युक्तम्। ब्रह्मजिज्ञासापदेन हि सकलजगज्जन्मादिकारणस्य भगवतो नारायणस्य जिज्ञासा विधीयत इत्युपपादितम्। तत्र जीवात्मनि प्रसिद्धिविप्रतिपत्तिव्युत्पादनस्य कोऽवसरः? जीवात्मनो ब्रह्मत्वजिज्ञासा ब्रह्मजिज्ञासेति चेत्, नैवं सूत्रकार आहेत्यलम्।
॥ अधिरकरणसिद्धार्थोक्तिपूर्वमुपसंहारः॥
तदेवमधिकारिविषयप्रयोजनाभिसम्बन्धवत्त्वाद् ब्रह्मजिज्ञासा कर्तव्येत्यारम्भणीयमिदं शास्त्रमिति सिद्धम्॥*॥ इति जिज्ञासाधिकरणम्॥१॥
अथ जन्माधिकरणम्॥२॥
॥ प्रथमसूत्रेण समस्तशास्त्रस्य सङ्गतिप्रदर्शनम्, द्वितीयसूत्रतात्पर्यकथनम्॥
जन्माद्यस्य यतः। प्रथमसूत्रे विहिता ब्रह्मजिज्ञासा जन्मादिसूत्रैः क्रियते। स्वरूपसाधनफलजिज्ञासा हि ब्रह्मजिज्ञासोच्यते। ब्रह्मण इति कर्मणि षष्ठीपरिग्रहेऽपि प्रधानेनाप्रधानोपलक्षणस्याङ्गीकृतत्वात्। साधनादिजिज्ञासामन्तरेणाऽकाङ्क्षानुपरमाच्च। तत्र साधनफलयोर्ब्रह्मोपहितत्वाद् ब्रह्मणश्च स्वप्रधानत्वादभ्यर्हितत्वेन तत्स्वरूपजिज्ञासैव प्रथमप्राप्ता। स्वरूपजिज्ञासा लक्षणप्रमाणाभ्यां सम्भवति। तत्रापि लक्षणेन स्वेतरसमस्तवस्तुव्यावृत्ततया स्वरूपे प्रतिपादिते प्रमाणाकाङ्क्षा जायत इति लक्षणस्यैव प्राथम्यं युक्तमित्याशयवान् सूत्रतात्पर्यमाह अन्तःसमुद्रगमिति।
ॐ जन्माद्यस्य यतः ॐ॥२॥
अन्तःसमुद्रगं विश्वप्रसूतेः कारणं तु यत्।
सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते॥८०॥
समुद्रस्यान्तः अन्तःसमुद्रम्, तद् गच्छतीत्यन्तःसमुद्रगम्। विश्वप्रसूतेः मूलप्रकृतेः। सूक्तमम्भ्रिणीसूक्तम्, वामनसूक्तं च। उपनिषत् “अम्भस्यपारे” इत्यादिका। आदिग्रहणात् “आपो नाराः” इत्यादिका स्मृतिः। अन्तःसमुद्रगत्वादिना यत् सूक्ताद्युक्तं तत् “जन्माद्यस्य यतः” इति सूत्रेण लक्ष्यते, स्वेतरसमस्तवस्तुव्यावर्तकधर्मवत्तया प्रतिपाद्यते।
निर्विशेषस्वरूपमात्रमिह जन्मादिसूत्रे लक्ष्यतयाऽभिप्रेतमिति केचिद् व्याचक्षते। तन्निरासार्थमन्तःसमुद्रगमित्याद्युक्तम्। अत्रहि सूत्रे यत इति श्रवणात् तदिति लभ्यते। तच्च शब्दादुपसर्जनतया प्रकृतत्वेऽप्यर्थतः प्राधान्याद् ब्रह्मैव सम्बद्ध्यते। नचामुख्यं ब्रह्म जात्यादिकमिह लक्ष्यमिति परस्यापि सम्मतम्। मुख्यं तु ब्रह्म सविशेषमेव। समुद्रान्तर्गतत्वाद्यनेकविशेषणविशिष्टं वस्तूक्त्वा “तदेव ब्रह्म परमं कवीनाम्” इति तस्यैव मुख्यब्रह्मत्वाभिधानादिति। तदिदमाह “ब्रह्मणो लक्षणमाह” इति भाष्येण।
॥ जन्मादिकारणत्वस्य लक्षणत्वेनाभिधाने प्रयोजनम्॥
ननुच बृहद् ब्रह्मेति समस्तगुणपूर्णत्वं ब्रह्मत्वं प्रसिद्धमेव। तत् किं लक्षणान्तरेण? सत्यम्। तथाऽपि तदुपापादानार्थमेतदित्यदोषः। प्रसिद्धेन ह्यसाधारणेन धर्मेणाप्रसिद्धं वस्तु समस्तव्यावृत्ततयाऽवगन्तव्यम्। नच परमेश्वरस्य समस्तगुणपूर्णत्वं प्रसिद्धम्, येन लक्षणतया निर्देष्टुं शक्यते। अनेन तु लक्षणेन लक्षिते ब्रह्मणि समस्तगुणपूर्णत्वमपि प्रधानलक्षणं सिद्ध्यति, अविनाभावित्वात्।
॥ जन्मादिकारणत्वस्य लक्षणत्वोक्तावनुपपत्तिपरिहारः॥
ननु जन्मादिकं वा लक्षणत्वेनात्राभिमतम्, तत्कारणत्वं वा? नाऽद्यः, तस्य प्रपञ्चधर्मत्वात्। न द्वितीयः, ब्रह्मवत् तदीयजगज्जन्मादिकारणत्वस्याप्यप्रसिद्धत्वात्। नचानुमानात् तत्सिद्धिः। उत्तरसूत्रविरोधात्। अतः कथमेतदपि लक्षणमित्यत आह सृष्टिरिति।
सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः।
बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा॥८१॥
जगज्जन्मादिकारणत्वमेव लक्षणम्। अस्य प्रत्यक्षादिप्रमाणसिद्धतया प्रकृतस्य समस्तप्रपञ्चस्य यथासम्भवं जन्मादि यतो भवति तद् ब्रह्मेति सम्बन्धात्। नचैतदप्यप्रसिद्धम्। यतोऽस्य जगतः सृष्ट्यादयः आसु श्रुतिषु प्रसिद्धासु भाष्योदाहृतासु हरेरुदिताः। सदेत्यविगानं सूचयति।
नच वाच्यम् समस्तगुणसम्पूर्णता च श्रुतिप्रसिद्धैव, अतः सैव लक्षणत्वेनोच्यतामिति। तस्याः श्रुतिप्रसिद्धाया अप्यसम्भावनाशङ्काग्रस्तत्वात्। जगज्जन्मादिकारणत्वं श्रुतिप्रसिद्धं युक्त्याऽप्यनुगृह्यत इति द्वितीये वक्ष्यते। (२११८,२९,३१,३२,३३) सकलगुणपूर्णतायां तु युक्तिर्जगज्जन्मादिकारणत्वमेवेत्येतदेवाऽदौ वक्तव्यमिति।
॥ सृष्ट्याद्यष्टकस्य जन्मादिपदार्थत्वम्॥
आद्यस्य हिरण्यगर्भस्य जन्म यतस्तद् ब्रह्मेति सूत्रं व्याचक्षते केचित्। जन्म आदिर्यस्यावस्थानस्य तज्जन्मादीत्यपरे। जगत्पालको हि भगवान् विष्णुरिति प्रसिद्धिः। अन्ये तु जन्मादीति तद्गुणसंविज्ञानबहुव्रीहिमुपादाय सृष्टिस्थितिभङ्गसामर्थ्य इति व्याकुर्वते। तदिदमयुक्तम्। श्रौतं हि ब्रह्मणो लक्षणमिहोच्यते। श्रुतयश्च कृत्स्नस्यापि प्रपञ्चस्य सृष्टाद्यष्टककारणं परमेश्वरमभिदधतीत्यतः सृष्टाद्यष्टकं जन्मादिपदार्थ इति भावेनाऽह सृष्टिरिति।
॥ अनेकलक्षणोक्तौ वैयर्थ्यमाशय परिहारकथनम्॥
ननु सृष्ट्यादिहेतुत्वं प्रत्येकं ब्रह्मलक्षणम्, उत मिलितम्? आद्येऽनेकलक्षणोक्तिवैयर्थ्यम्। न द्वितीयः, एकैकस्य व्यभिचाराभावात्। सम्भवे व्यभिचारे च विशेषेणमर्थवदित्यत आह सृष्टिरिति। अत्रासमासकरणेन प्रत्येकं लक्षणत्वं सूचयति। नचानेकलक्षणोक्तिवैयर्थ्यम्। जिज्ञास्यब्रह्मणो हि सर्वव्यावृत्तये लक्षणमत्रोच्यते। नचैकमेव सर्वत्र जिज्ञासाविधायकश्रुतिषु लक्षणं श्रूयते। किन्त्वासु ब्रह्मजिज्ञसाविधात्रीषु श्रुतिषु क्वचित् सृष्टिः क्वचित् स्थितिरिति अष्टकं जिज्ञास्याद् हरेर्विश्वस्योक्तमित्यनेकलक्षणोक्त्युपयोगः।
॥ जन्माधिकरणशरीरम्॥
अथवा “तद् विजिज्ञासस्व। तद् ब्रह्म” इति जिज्ञास्ये वस्तुनि ब्रह्मशब्दश्रवणात्, तेन च तस्य समस्तगुणपूर्णत्वाभिधानाज्जीवस्य च तदभावाज्जिज्ञास्यं वस्तु जीवातिरिक्तमिति पूर्वसूत्रेऽभिहितम्। तत्र सन्देहः “तद् ब्रह्म” इत्ययं ब्रह्मशब्दः किं प्रसिद्धार्थः, उतार्थान्तरपर इति। नहि ब्रह्मशब्दो गुणपूर्तिवाचीत्येवता सर्वत्र तत्परो भवति। शक्तितात्पर्ययोरन्यत्रापि सत्त्वात्। तद् यदि ब्रह्मशब्दोऽयं प्रतीतार्थो न स्यात्, तदैवैतस्य गुणपूर्णतापरत्वं सम्भवतीत्यर्थवानेवायं विचारः। तत्र प्रसिद्धार्थपर एवायं ब्रह्मशब्द इति पूर्वः पक्षः। लाघवात्। जीवो हि स्वरूपतः प्रसिद्धः, तत्र ब्रह्मशब्दस्य शक्तिरप्यभिधानादिना सिद्धा। केवलं तात्पर्यं कल्प्यम्। तच्च शक्तिवशादेव प्रतीते त्यागकारणाभावादेव सिद्धम्। जात्यादिकं यद्यपि प्रसिद्धम्। तथाऽपि तस्य सुप्रसिद्धत्वेन “तद् विजिज्ञासस्व” इति जिज्ञास्यत्वानुपपत्तेः परित्यागः। कमलासनस्यापि प्रसिद्धत्वेऽपि न तस्य जिज्ञास्यत्वम्, प्रयोजनाभावात्। भावेऽपि तस्योपासनायत्तत्वात्। उपासनायाश्चाऽरोपितरूपेणापि सम्भवात्। जीवस्य स्वरूपतः प्रसिद्धत्वेऽपि देहादितोऽतिविविक्ततया न प्रसिद्धिः। अप्रसिद्धार्थत्वे तु तस्यार्थस्य तद्वाचितायाः, तत्र तात्पर्यस्य च कल्प्यत्वाद् गौरवम्। अतो जीवपर एवायं ब्रह्मशब्द इत्येवं प्राप्ते “जन्माद्यस्य यतः” इति प्रतिविहितं सूत्रकारेण। अनेन कथमुक्तशङ्कापरिहारो जात इत्यायाऽह सृष्टिरिति। आसु श्रुतिषु जिज्ञासाविधात्रीषु “तद् विजिज्ञासस्व। तद् ब्रह्म”, “आत्मा सोऽन्वेष्टव्यः” इत्याद्यासु जिज्ञास्याद् ब्रह्मात्मादिशब्दवाच्याद् विश्वस्य सृष्ट्यादिकं भवतीत्युच्यते। “यतो वा इमानि भूतानि जान्यन्ते” इत्यादिपूर्वोत्तरवाक्यैःसृष्ट्यादयश्च विश्वस्याऽसु श्रुतिषु भाष्योदाहृतासु हरेरेवोक्ताः। नच ते जीवे सम्भवन्ति। अतः प्रसिद्धार्थे बाधकसद्भावात् “तद् ब्रह्म” इत्यादिब्रह्मशब्दोऽलौकिकस्य हरेरेव प्रतिपादको न जीवस्येति युक्तं तस्य तेन गुणपूर्णत्वाभिधानमित्यभिप्रायः सूत्रकारस्येति भावः।
॥ जन्मादिहेतुत्वस्य चतुर्मुखादिष्वतिव्याप्तिमाशय तत्परिहारः॥
ननु कथं जगत्सृष्ट्यादिकारणत्वं हरेरेव स्यात्? यावता “हिरण्यगर्भः समवर्तताग्रे”, “एको रुद्रो न द्वितीयाय तस्थे”, “इमान् लोकानीशत ईशनीभिः”, “ज्ञात्वा शिवं शान्तिमत्यन्तमेति” इत्यादिश्रुतिषु हिरण्यगर्भादीनां तत् प्रतीयत इत्यत आह सृष्टिरिति। आसु श्रुतिषु परेणोदाहृतासु हिरण्यगर्भ इत्याद्यास्वपि विश्वस्य सृष्ट्यादयो हरेरेवोक्ताः, नतु ब्रह्मरुद्रादिभ्य इति न लक्षणस्यातिव्याप्तिरिति। तत् कथमित्यत आह यं नामानीति।
यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि।
श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः॥८२॥
अनेन “नामानि सर्वाणि यमाविशन्ति” इति श्रुतिमुपादत्ते। अद्धेत्याङोऽर्थकथनम्। “यो देवानां नामधा एक एव” इत्यपि प्रसिद्धश्रुतेर्नामानि सर्वाणि हिरण्यगर्भ इत्यादीनि विष्णोरेव यतस्ततो हिरण्यगर्भ इत्यादिषु श्रुतिषु विश्वस्य सृष्ट्यादयो हरेरेवोक्ता इति पूर्वेण सम्बन्धः।
॥ विष्ण्वन्यस्य परममुख्यया वृत्त्या शब्दप्रतिपाद्यत्वाभावः॥
ननु यथा हिरण्यगर्भादिशब्दान् विष्णुविषयान् व्याख्याय “हिरण्यगर्भः” इत्यादिश्रुतयो विष्णौ योज्यन्ते, तथा विष्ण्वादिशब्दान् हिरण्यगर्भादौ व्याख्याय भाष्योदाहृताः श्रुतयोऽन्यविषयतया कुतो न योज्यन्त इत्यत आह अत इति।
अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित्।
अतो “नामानि विश्र्वाभि न सन्ति लोके”, “यो देवानां नामधा एक एव” इति प्रतिषेधात् परमेश्वरादन्यस्य नामैव नास्ति। दूरे विष्ण्वादिनामेत्यर्थः। नामाभावे व्यवहारविलोपादि प्रसज्यत इत्यत उक्तम् मुख्यत इति।
॥ परब्रह्मणि लक्षणस्य असम्भवमाशय तत्परिहारः॥
ननु तथाऽपि विष्णावसम्भवीदं लक्षणम्। “जनितोत विष्णोः” इत्यादौ तस्य जन्मादिदोषश्रवणात्। नहि जन्मादिदोषवतोऽस्मदादेरिव जगज्जन्मादिकारणत्वं सम्भवतीत्यत आह गुणा इति।
गुणाः श्रुता इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत्।
“गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का।
चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः”
इत्यस्माद् वाक्याद् विष्णोर्जन्मादिदोषो “जनितोत विष्णोः” इत्यादिश्रुतेरर्थो न भवेत्, हि यस्मात् तस्मान्नासम्भवीदं लक्षणम्।
इदमुक्तं भवति वाक्यार्थावगमे हि व्याख्यानं मुख्यं कारणम्। यथाऽऽहुः “व्याख्यानतो विशेषप्रतिपत्तिः” इति। तत्रापि यदीयं व्याख्येयं तदीयमेव चेद् व्याख्यानं तदा सुतरां ततोऽर्थावगतिः। तत्र “गुणाः श्रुताः” इति श्रुतिरेव सर्वाः श्रुतीर्व्याख्याति। सर्वाः श्रुतयो विष्णोरनन्तानलौकिकान् गुणानेव वदन्ति। न कुत्रापि दोषान्। दोषवादप्रतीतिस्तु शब्दशक्तितात्पर्यापरिज्ञाननिमित्तैवेति। एवं श्रुत्यैव सर्वासु श्रुतिषु व्याख्यातासु कथं तद्विरुद्धदोषपरतया व्याख्यानं युज्यते? तस्माद् विष्णुरिति यजमानस्य यज्ञस्य वा नाम। तौ सोमाद् भवत इति “सोमो जनितोत विष्णोः” इत्युच्यत इत्यादि व्याख्येयमिति।
॥ वेदानां परमेश्वरदूषणे तात्पर्याभावः॥
युक्त्यन्तरमाह प्रीत्येति।
प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे॥८४॥
वेदो हि जीवानां मोक्षमुद्दिश्य प्रवृत्तः, “तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते” इति श्रुतेः। स च भगवत्प्रीत्यैकसाध्यः, “यस्य प्रसादात् परमार्तिरूपादस्मात् संसारान्मुच्यते नापरेण” इति श्रुतेः। अतो भगवत्प्रीत्युत्पादनद्वारा मोक्षं साधयता वेदेन तदेव जीवान् प्रति बोधनीयम्, यद्बोधेन जीवेषु भगवत्प्रीतिर्भवति। तथाच कथं परमेश्वरदूषणे तात्पर्यं स्यात्? दूषणज्ञानस्य प्रीतिसाधनत्वाभावात्। नहि लोके स्वदोषज्ञातरि प्रीतिर्दृष्टेति।
॥ परमेश्वरगुणाभिधान एव वेदानां महातात्पर्यम्॥
भगवत्प्रीतिद्वारा मोक्षं साधयतो वेदस्य तद्दूषणे तात्पर्यं न युक्तं चेत्, क्व तद् युक्तमित्यत आह सर्वेषामिति।
सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि।
प्रकृतदोषविरुद्धत्वेन, “गुणाः श्रुताः” इति वाक्येन वा बुद्धिसन्निधापिता गुणा अत्रेति परामृश्यन्ते। हिशब्देन तज्ज्ञानस्येश्वरप्रीतिहेतुत्वं सूचयति।
॥ वेदानां परमेश्वरदोषप्रतिपादकत्वे प्रामाण्याभावप्रसङ्गः॥
ननु प्रयोजनमनुसृत्य वेदस्य प्रतीतविषयपरित्यागेनाप्रतीतविषयान्तराङ्गीकारोऽयमयुक्तः। तथात्वे पुरुषार्थविरोधिनो दुर्गन्धादिग्राहकस्य घ्राणादेस्तदविषयत्वप्रसङ्गात्। सुगन्धादिविषयत्वप्रसङ्गाच्चेत्यत आह तद्विरोध इति।
तद्धिरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः॥८४॥
विषमोऽयमुपन्यासः। प्रत्यक्षानुमाने हि प्रयोजनोद्देशेन न प्रवृत्ते। किन्तु स्वहेतूपनिपातमात्रादेवार्थं बोधयतः। वाक्यं तु श्रोतृपुरुषार्थोद्देशेनैव प्रवृत्तं तदनुगुणमेव विषयं प्रतिपादयेत्। उद्दिष्टपुरुषार्थविरोधिनि तु विषये प्रवर्तमानं कथं प्रमाणं स्यात्? यथा स्वर्गोद्देशेनाग्न्हिोत्रं विधाय “को हि तद् वेद यद्यमुष्मिँल्लोकेऽस्ति वा नवा” इति स्वर्गे संशयं कुर्वद् वाक्यम्। प्रकृते च वाक्यतः सर्वेभ्यो वेदवाक्येभ्यः साध्यं फलं जीवस्य संसारान्मुक्तिरेव श्रुत्यादिप्रसिद्धा। परमेश्वरदोषप्रतिपादनस्य मोक्षविरोधे न वेदवाक्यानां तत्र प्रामाण्यं युज्यत इति।
ननु याथार्थ्यं प्रामाण्यम्, न फलवत्त्वम्। सत्यम्। तस्यैव याथार्थ्यस्य विषयविशेषावधारणोपायत्वेन फलस्यानुसरणात्। फलाविरोधिनि विषये वाक्यानां याथार्थ्यस्य निश्चितत्वात्। वक्ष्यते चैतत् प्रयोजनाधिकरणे। (६०४)
नन्वस्तु पौरुषेयाणां वाक्यानामियं व्यवस्था। पुरुषो हि परप्रयोजनेन प्रयुक्तो वाक्यमुच्चारयन् तदीयहिताहितप्राप्तिपरिहारानुगुणार्थमेव वदेत्। तद्विरुद्धं तु वदन्ननवधेयवचनः स्यात्। अपौरुषेयं तु स्वभावादेवार्थं प्रतिपादयति। प्रत्यक्षादिवदेव। तत्र बाधकप्रत्ययादेव विषयप्रच्यावनं युक्तम्। न प्रयोजनवैगुण्येनेति। मैवम्। प्रयोजनानुद्देशिनोऽनुपादेयत्वप्रसङ्गात्। यथा पुरुषाभावेऽप्यर्थं प्रतिपादयति, तथा प्रयोजनोद्देशोऽपि कथं न स्यात्?
किञ्च न मोक्षोद्देशेन वेदप्रवृत्तिरानुमानिकी। किन्तु स्वयमेव वेदेनोच्यते। तथाच “अग्न्निा सिञ्चेत्” इतिवद् योग्यताविरहादप्रामाण्यमपरिहार्यम्। सिद्धान्तविशेषं तूत्तरत्र वक्ष्यामः। (६०५, १२३९)
॥ वेदविरुद्धार्थप्रतिपादकानां पुराणानामप्रामाण्योपपादनम्॥
ननु मा भूत् श्रुतिबलेनातिव्याप्तिरसम्भवश्च लक्षणस्य। शैवादिपुराणैस्तु भविष्यति। तेष्वन्येषां जगत्कारणत्वस्य विष्णोरुपसर्जनत्वस्य चाभिधानात्। नच तेषामपि श्रुतिवदन्यार्थत्वम्, तात्पर्यलिङ्गविरोधादिति चेत्, न। तेषां श्रुतिविरुद्धार्थे प्रामाण्यानुपपत्तेः। यथाऽह जैमिनिः “विरोधे त्वनपेक्षं स्यात्” इति। पौरुषेयतया शङ्कितदोषस्यापौरुषेयवाक्यविरोधेऽप्रामाण्यस्य न्याय्यत्वात्। रुद्रादीनां जगज्जन्मादिकारणत्वं विष्णोरुपसर्जनत्वं चानेकश्रुतिविरुद्धम्। ताश्च तत्रतत्रोदाहरिष्याम इत्याशयवानाह न पुराणेति।
न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत्।
दर्शनान्तरमूलत्वान्मोहार्थं चाऽज्ञया हरेः।
ननु शैवपुराणादीन्यपि श्रुतिमूलानि। तत् कथं श्रुतिविरोधेनाप्रमाणानीत्यत आह दर्शनान्तरेति। पुराणादीनां न श्रुतिमूलत्वमिति शेषः। तथाचोक्तं मोक्षधर्मे “शैवान् पाशुपताच्चक्रे” इति। तथाऽपि पाशुपतादीनां श्रुतिमूलत्वे पुराणादीनामपि तत् स्यादित्यत आह मोहार्थमिति। दर्शनान्तराणि कृतानीति शेषः। तथाच विप्रलम्भमूलत्वमुक्तं भवति। निर्निमित्तं प्राणिनां मोहमुत्पादयन्तः प्रत्यवायिनः प्रसज्येरन्। नच परव्यामोहनेन किमपि महत् प्रयोजनमस्ति। यदाशया प्रत्यवायमपि न गणयेयुः। अतो नेदमुचितमित्यत उक्तम् हरेराज्ञयेति। हर्याज्ञानुष्ठानान्न प्रत्यवायोऽस्ति किन्तु महाप्रयोजनावाप्तिश्चेति सुप्रसिद्धम्। नच हरेः प्रत्यवायः प्रयोजनापेक्षा वा, ईश्वरत्वादिति भावः। तदुक्तम्
“कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः।
चकार शास्त्राणि विभुर्ऋषयस्तत्प्रचोदिताः।
दधीच्याद्या पुराणानि तच्छास्त्रसमयेन तु” इति।
॥ रुद्रादीनां जन्मादिकारणत्वे बाधकसद्भावात् विष्णोरेव तल्लक्षणमित्युपपादनम्॥
किञ्च रुद्रादीनां जगत्कारणत्वे विष्ण्वाद्यशेषनामवत्त्वं स्यात्। अन्यथा विष्ण्वादीनां जगत्कारणत्वाद्यभिदधतां वाक्यानां विरोधपरिहारोपायाभावेन निर्णयानुपपत्तेः। नच तेषां सर्वनामताऽस्ति, तत्र प्रमाणाभावात्। अतो न जगत्कारणत्वमपि तेषामित्याह न सर्वनामतेति।
न सर्वनामताऽन्येषां श्रुतावुक्ता हि कुत्रचित्॥८५॥
ननु पद्मपुराणादौ विष्णुनामानि शिवे प्रतीयन्त इति। मैवम्। “यो देवानाम्” इति श्रुतिविरुद्धस्य पुराणादेरनादरणादित्यभिप्रायेण श्रुतावित्युक्तम्।
अपिच जगत्कारणेनाज्ञानादिदोषरहितेन भवितव्यम्। दोषिणोऽस्मदादिवज्जगत्कारणत्वानुपपत्तेः। निर्दोषत्वं च भगवतो हरेरेव नान्येषाम्। अतः स एव जगज्जन्मादिकर्ता न रुद्रादिरित्याह अदोषेति।
अदोषवचनाच्चैव नियमेन हरेः श्रुतौ।
अज्ञानं पारतन्त्र्यं च प्रलयेऽभाव एव च॥८६॥
अशक्तिश्र्चोदिताऽन्येषां सर्वेषामपि च श्रुतौ।
जन्माद्यस्येति तेनैतद् विष्णोरेव स्वलक्षणम्॥८७॥
दोषवचनाभावात्, अदोषत्ववचनाच्चेत्यर्थः। एवशब्दो हरेरेवेति सम्बद्ध्यते। तदुपपादयति अज्ञानमिति। अभाव एव। नत्वनभिव्यक्तिमात्रमिति भावः। अपिरभिव्याप्तौ। चशब्दो हेतौ। तस्माद् हरेरेवेति युक्तमिति। श्रुतीश्च पाशुपताधिकरणादावुदाहरिष्यति। एवं सौत्रस्य विष्णुलक्षणस्य अव्याप्तिप्रसक्त्यभावादतिव्याप्तिमसम्भवं च परिहृत्योपसंहरति जन्मादीति। तेनोक्तप्रकारेण जन्माद्यस्येत्युक्तं जगज्जन्मादिकारणत्वं विष्णोः सम्भवति नान्येषाम्। अतोऽसम्भवाद्यभावाद् विष्णोर्लक्षणं युक्तमिति योज्यम्।
॥ जन्मादिकारणत्वस्य मायावाद्युक्ततटस्थलक्षणत्वं न सूत्रकृदभिमतमित्युपपादनम्॥
एवं स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये मायावादिनां मते लक्षणसूत्रारम्भ एवानुपपन्न इति वक्तुं यत् परैरभिहितम् “जगज्जन्मादिकारणत्वं न लक्ष्यब्रह्मणः स्वरूपान्तर्गतं लक्षणम्, किन्तु तटस्थमेव। त्रैविध्यमत्र सम्भवति। मायाविशिष्टं ब्रह्म कारणमिति वा, मायाशक्तिमत् कारणमिति वा, जगत्कारणं तु मायैव तदाश्रयतया ब्रह्म कारणमिति वेति। सर्वथाऽपि जगत्कारणत्वं बाह्यमेव। न साक्षात् स्वरूपान्तर्गतम्” इति। तदेतदनुपपन्नमिति भावेनोक्तम् स्वलक्षणमिति। स्वरूपान्तर्गतमेवेदं ब्रह्मणो जगज्जन्मादिकारणत्वम्, न मायावाद्युक्तरीत्या तटस्थमित्यर्थः। तत् कुत इत्यत आह अस्येति।
अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम्।
कृष्णध्यानच्छलेनैव स्वयं भागवतेऽब्रवीत्॥८८॥
अस्य सर्वस्यापि विश्वस्योद्भवादिहेतुत्वं ब्रह्मणः स्वलक्षणमेवेति सूत्रकारो भागवते साक्षादेव स्पष्टमब्रवीत्
“एकं परं ज्योतिरनन्यमद्वयं स्वसंस्थया नित्यनिरस्तकल्मषम्।
ब्रह्माख्यमस्योद्भवनादिहेतुभिः स्वलक्षणैर्लक्षितभावनिर्वृतिम्” इति
तथाच सूत्रकाराभिप्रायानवबोधनिबन्धमेव परेषां तटस्थलक्षणव्याख्यानमिति।
ननु नैवं सूत्रकारोऽब्रवीत्। किन्तु परप्रतीत्यनुवादोऽयम्
“ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः।
दध्यौ प्रसन्नकरण आत्मानं तमसः परम्”
इति पूर्ववाक्ये कृष्णानुष्ठितध्यानस्य प्रकृतत्वादित्यत उक्तम् कृष्णेति। कृष्णध्यानानुवादमिषेण स्वयमेवाब्रवीदिति।
अयमाशयः परकृतानुवादो हि पुराणकर्तुर्द्वेधा सम्भवति। निराकरणार्थं वा, यथा “यावत् स्याद् गुणवैषम्यम्” इत्यादि। एवं शिष्टैरनुष्ठितत्वादन्यैरप्यनुष्ठेयमिति विधानार्थं वा, यथा “त्रित्वे हुत्वाऽथ पञ्चत्वम्” इत्यादि। तत्राऽद्यः पक्षः प्रकृते न सम्भवति, अनिराकरणात्। साक्षाद् भगवदवतारकृष्णस्य चेत्, प्रतिपत्तिर्निराकरणमर्हति, कुतस्तर्हि व्यासप्रतिपत्तौ समाश्र्वासः? ध्यानमेवेदं न ज्ञानमिति चेत्, तत् किं ज्ञानविपरीतं ध्यानमिति नियमः? तथासति ध्यानार्थिनः श्रवणमननापेक्षा न स्यात्। नच तटस्थं लक्षणं स्वरूपतया ध्यातव्यमिति क्वचिद् विधिर्वा प्रयोजनं वा श्रूयते। तस्माद् द्वितीयः पक्षः परिशिष्यते। तथाच कथं न सूत्रकारस्येदं मतम्? अन्यथा श्वेतकेतूद्दालकाख्यायिकया प्रतिपादितत्वादद्वैतमपि न श्रुत्यभिप्रायः स्यात्। “तद्धैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहं ब्रह्मास्मि” इत्यपि परोपासनानुवादो न स्वार्थे तात्पर्यवान् स्यात्, “अथ योऽन्यां देवतामुपास्ते” इत्युपासनाप्रकरणत्वात्। तथाच बहुविप्लवः स्यात्। तस्मात् सूत्रकारस्यैवायमभिप्रायो यज्जगज्जन्मादिकारणत्वं ब्रह्मणः स्वरूपान्तर्गतमेव लक्षणमिति। तथाच विस्पष्टतदीयवाक्यान्तरबलादस्यापि सूत्रस्य स्वरूपलक्षणपरत्वमेवेति।
॥ लक्षणसूत्रस्य जीवैक्यनिराकरणपरत्वात् मायामते तदारम्भ एवानुपपन्न इत्युपपादनम्॥
यत एवं जगज्जन्मादिकारणत्वं स्वलक्षणमत्र सूत्रे ब्रह्मणोऽभिधीयते, ततो न परमतेऽस्य सूत्रस्य आरम्भ एवोपपद्यत इत्याह अत इति।
अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः।
लक्षणं हि सजातीयविजातीयव्यवच्छेदार्थं भवति। यथाऽऽह “समानासमानजातीयव्यवच्छेदो वा लक्षणार्थः” इति। तथाचानेन लक्षणेन सजातीयाज्जीवाद् विजातीयाज्जडाच्च ब्रह्म व्यावर्तितं सूत्रकारेण। जीवैक्यनिराकरणसूत्रस्याऽरम्भः कथं जीवैक्यवादिनां स्यात्? स्याद् यदीदं कथञ्चित् तटस्थलक्षणं स्यात्। स्वरूपलक्षणमिति चोपपादितम्।
॥ जीवस्य लक्षणव्यावर्त्यत्वप्रतिपादनम्॥
स्यादयमद्वैतिनामनुपपन्नो लक्षणारम्भो यदीदं जीवव्यावृत्त्यर्थं लक्षणमुक्तं स्यात्। जडमात्रव्यावृत्त्यर्थं तु लक्षणे व्याख्यायमाने कथं जीवैक्यवादिनां लक्षणसूत्रारम्भोऽनुपपन्न इत्यत आह नहीति।
नहि जन्मादिहेतुत्वं जीवस्य जगतो भवेत्॥८९॥
यत्र हि लक्षणं नास्ति तत् सर्वं तद्व्यावर्त्यमङ्गीकरणीयम्। अन्यथा लक्षणस्याव्यप्तत्वप्रसङ्गात्। नचेदं लक्षणं जीवस्यास्ति। तत् कथमसावनेन न व्यावर्त्यत इति।
किञ्चानेन लक्षणेन यदि जीवो न व्यावर्त्यते, किन्तु सोऽपि लक्ष्यान्तर्गतः, तथासति लक्षणस्य जीवेऽतिव्याप्तिमाशय “इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः” इति सूत्रकारीयं तन्निराकरणमसङ्गतं स्यात्। नहि लक्ष्य एवातिव्याप्तिर्लक्षणस्य केनापि शयते। कथञ्चिच्छङ्कायां वा तस्यापि लक्ष्यत्वाङ्गीकारं परित्यज्य तत्र न लक्षणनिराकरणं क्रियत इत्याशयवानाह हिताक्रियेति।
हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः।
यद्यपि परेणापि जीवस्य लक्षणव्यावर्त्यत्वमङ्गीकृतमेव। यथाऽह “सर्वज्ञं सर्वशक्तिं विहाय अन्यतः परपरिकल्पितात् प्रधानादेरचेतनात्, चेतनादपि परिच्छिन्नज्ञानक्रियाशक्तेः संसारिणो हिरण्यगर्भादुत्पत्त्यादि न सम्भावयितुमपि शक्यते” इति। तथाऽपि न्यायेनोपपादयितुमिदमुक्तमिति।
॥ लक्षणसूत्रेण ब्रह्मणो नैर्गुण्यस्य निराकृतत्वादपि नैर्गुण्यवादिनां तदारम्भ अनुपपन्नः॥
इतोऽपि मायावादिनां न ब्रह्मलक्षणसूत्रारम्भः सम्भवतीत्याह निर्गुणत्वं चेति।
निगुर्णत्वं च तेनैव निषिद्धं प्रभुणा स्वयम्॥९०॥
लक्षणवाक्यं हि साक्षाल्लक्ष्यस्यासाधारणधर्मसंसर्गं प्रतिपादयदर्थादितरव्यावृत्तिं प्रतिपादयति। ततोऽनेनापि लक्षणवाक्येन ब्रह्मणो जगज्जन्मादिकारणत्वेन तदविनाभूतैः सर्वज्ञत्वादिभिश्च संसर्गः प्रतिपादनीयः। तथाच निर्विशेषत्वं ब्रह्मणोऽनेन सूत्रेण निषिद्धम्। निर्विशेषत्ववादिनां च निर्विशेषत्वं निषेधतः सूत्रस्याऽरम्भः कथमुपपद्यत इति।
॥ मायावादिना जन्मादिहेतुत्वस्य तटस्थलक्षणत्वप्रतिपादनम्, लक्षणावृत्त्या सूत्रार्थकथनं च॥
स्यादियं जीवब्रह्मणोरेकत्वं ब्रह्मणश्च निर्गुणत्वमङ्गीकुर्वतां लक्षणसूत्रारम्भानुपपत्तिः, यद्यनेन सूत्रेण जगज्जन्मादिकारणत्वं ब्रह्मणः स्वलक्षणमुच्यते। नचैवं किन्तु तटस्थमेव। नहि तथाविधं जगज्जन्मादिकारणत्वं जीवब्रह्मणोरेकत्वं वा ब्रह्मणो निर्गुणत्वं वा विरुणद्धि।
ननु स्वलक्षणत्वे प्रमाणमुक्तम्। मैवम्। स्वस्य लक्षणानि स्वलक्षणानीति वा, सु सम्यक् स्वरूपान्तर्गत्या न लक्षणानीति वा तदर्थोपपत्तेः। तर्हि यतोऽस्य जन्मादि सा माया तदाश्रयो ब्रह्मेति निर्देशः स्यात्। नतु जन्माद्यस्य यतस्तद् ब्रह्मेति। मैवम्। यत्र घोषः सा गङ्गेतिवल्लक्षणया प्रयोगोपपत्तेः।
॥ प्रपञ्चस्य ब्रह्मविवर्तत्वाङ्गीकारात् न नैर्गुण्यैक्ययोरनुपपत्तिः॥
ननु तटस्थेनापि जगत्कारणत्वेन ब्रह्मणो जीवैक्यं निर्गुणत्वं च विरुद्ध्यते। काकनिलयनत्वं हि परेण तटस्थलक्षणमुदाहृतम्। तस्य लक्ष्यान्तर्भावे काकाधिकरणत्वमपि गृहशब्दार्थः स्यात्। ततश्च काकविगमे गृहैकदेशभङ्गबुद्धिः स्यादिति। तत्र काकाधिकरणत्वं तदनधिकरणेभ्यो गृहं व्यावर्तयति नवा? नेति पक्षेऽनुभवविरोधः, तदभिधानवैयर्थ्यं च। आद्ये ब्रह्मलक्षणमपि कथं न जीवव्यावृत्तिं करोति? कथञ्च तत्सम्बन्धेन सगुणं न भवतीति।
मैवम्। यो हि कार्यकारणसङ्घातादविविक्तं कर्तृत्वभोक्तृत्वदोषसंसर्गिणमात्मानं मत्वा मृषैव क्लिश्यति स जीवो व्याव्यर्त्यत एवानेन लक्षणेन। तत्र यश्चैतन्यधातुः स ब्रह्मणो न भिद्यत इत्यभ्युपगमे विरोधाभावात्। नच सत्यस्य प्रपञ्चस्य कारणभूतायाः सत्याया मायाया आश्रयो ब्रह्मेति सूत्रार्थो येन ब्रह्मणः सविशेषत्वं स्यात्। किन्तु यदवष्टम्भो विश्र्वो विवर्तः प्रपञ्चस्तद् ब्रह्मेति सूत्रार्थः। सतिचैवं सूत्रार्थे कथं जीवब्रह्मणोरेकत्वं ब्रह्मणो निर्गुणत्वं च विरुद्ध्यत इति।
॥ लक्षणस्य स्वरूपान्तर्गतत्वे बाधकाभावात्, जघन्यवृत्त्या सूत्रार्थकथनमयुक्तमित्युपपादनम्॥
अत्रोच्यते आस्तां तावदेषा प्रपञ्चविवर्ततादिवार्ता। प्रमाणाभावात्। प्रकृत्यधिकरणे निराकरिष्यमाणत्वाच्च। (४०६) तटस्थेन जगज्जन्मादिकारणत्वेनात्र सूत्रे लक्षणया ब्रह्म प्रतिपाद्यत इति कुतोऽङ्गीकरणीयम्? मुख्यार्थासम्भवे हि लक्षणाश्रयणं दृष्टम्। न तावद् ब्रह्मणो जगज्जन्मादिकारणत्वस्य बाधकं प्रत्यक्षम्, तदगोचरत्वात्। नाप्यनुमानम्, श्रुतिबाधितत्वात्। नाप्यागमः, तस्याक्लिष्टकारित्वाद्यर्थतया सावकाशत्वात्।
॥ जीवब्रह्मैक्यस्याप्रमाणिकत्वात् न तदुपपत्तये तटस्थलक्षणव्याख्यानं युक्तम्॥
नन्वर्थापत्त्येदमवसीयते। जीवब्रह्मणोरेकत्वं तावदावश्यकम्। नच जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे तत् सम्भवति। अतोऽन्यथानुपपत्त्या मायागतमेवेदं लक्षणम्। जन्माद्यस्य यतस्तद् ब्रह्मेति लक्षणयोच्यत इति कल्प्यत इति। तत्राऽह भेदेनैवेति।
भेदेनैव हि मुख्यार्थसम्भवे लक्षणा कुतः।
यदि जीवब्रह्मणोरेकत्वपरिरक्षणाय यथाश्रुतं सूत्रार्थं परित्यज्य लक्षणाऽऽश्रीयते, तर्हि जीवब्रह्मणोर्भेदेनैवाङ्गीकृतेन सूत्रस्य मुख्यार्थसम्भवे लक्षणा कस्मादाश्रयणीया?
नन्वभेदमुपादाय सूत्रे लक्षणा वाऽऽश्रयणीया, भेदमुपादाय मुख्यवृत्तिर्वेति सन्दिह्यते। वयं तु ब्रूमः द्वितीय एव पक्षः श्रेयानिति। अप्रामाणिकत्वाज्जीवब्रह्मणोरेकत्वस्य। नह्यप्रामाणिकपरिरक्षणाय वाक्यानां जघन्यवृत्तिराश्रीयमाणा क्वचिदुपलब्धेति। तदिदमुक्तम् भेदेनैवेति।
॥ तत्त्वमसिवाक्यस्य जीवब्रह्मैक्यप्रतिपादकत्वप्रत्याख्यानम्॥
ननु कथं जीवब्रह्मैक्यमप्रामाणिकम्? “तत् त्वमसि” इत्यादिश्रुतिसिद्धत्वादिति चेत्, उपपत्तिपराहतत्वात्। तथाहि तच्छब्दस्य मुख्यार्थो यः “सदेव सौम्य” इत्यादिना प्रकृतः प्रेक्षापूर्वं तेजोबन्नानां स्रष्टा सर्वासां प्रजानां मूलमायतनं प्रतिष्ठा च सकालावद्यगन्धविधुरोऽपरिच्छिन्नगुणाकरः परमात्मा, यश्च त्वम्पदमुख्यार्थः प्रत्यक्षादिसिद्धोऽल्पशक्तिः पराधीनो दोषकलुषितोऽवच्छिन्नज्ञानादिगुणः, तावुपादायानेन वाक्येनैक्यमुच्यते, उत विरुद्धभागत्यागेन लक्षणया? नाऽद्यः, परस्परविरोधेन योग्यताविरहे जरद्गवादिवाक्यवदाभासत्वप्रसङ्गात्। द्वितीये दोषमाह भेदेनैवेति। सिंहो देवदत्त इत्यादिवत् सामानाधिकरण्यमात्रं गौणमुपादाय जीवब्रह्मणोर्भेदेनैव अङ्गीकृतेन पदद्वयस्य मुख्यार्थसम्भवे जहदजहल्लक्षणा कुत आश्रयणीयेति।
ननु किं सामानाधिकरण्यं मुख्यमुपादाय तत्त्वम्पदयोर्लाक्षणिकत्वं व्याख्येयम्। किंवा सामानाधिकरण्यं गौणं गृहीत्वा तत्त्वम्पदयोर्मुख्यार्थता व्याख्यातव्येति सन्देहे न विनिगमनायां हेतुरस्ति। न नास्ति। “त्यजेदेकं कुलस्यर्थे” इति न्यायस्य विद्यमानत्वात्। तात्पर्यलिङ्गानां तत्रतत्र भेद एवाऽनुगुण्यस्य व्युत्पादितत्वात्। तदिदमुक्तम् भेदेनैवेति।
॥ जीवब्रह्मणोर्गुणानां नित्यत्वेन तत्परित्यागायोगादैक्यासम्भवः॥
किञ्च विरोध्याकारपरित्यागेन स्वरूपमात्रलक्षणया तत्त्वमसिवाक्यं जीवब्रह्मणोरेकत्वं प्रतिपादयतीत्यत्र विरोध्याकारपरित्यागो नाम न तावदविवक्षामात्रमित्युक्तं प्राक्। (११६) अथ सोऽयं देवदत्त इतिवद् विरोध्याकारस्यानित्यत्वम्। तत्राऽह कथमिति।
कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः॥९१॥
नित्यगुणत्वं चेश्वरस्य लिङ्गपादे साधयिष्यते। (३१०) अस्येश्वरस्येत्युपलक्षणम्। जीवेऽपि पारतन्त्र्